श्रीस्कन्दलक्ष्मीदुर्गा सुप्रभातस्तुतिः

श्रीस्कन्दलक्ष्मीदुर्गा सुप्रभातस्तुतिः

श्रीस्कन्दगुरु भुजङ्गस्तोत्रं च shrIskandaguru bhuja~NgastotraM श्रीमत्स्कन्दनगावास श्रीविधायक षण्मुख । उत्तिष्ठ करुणामूर्ते शान्तानन्दविधायक ॥ १॥ श्रीमत्स्कन्दनगावासे सर्वसत्त्वमयीश्वरि । उत्तिष्ठाष्टादशभुजे लक्ष्मीदुर्गे नमोऽस्तु ते ॥ २॥ ज्योतिषा महता सर्वलोकाज्ञानविनाशक । उत्तिष्ठ स्कन्द लोकेश प्रणवार्थोपदेशक ॥ ३॥ सर्वलोकैकमातस्त्वं शुम्भासुरनिबर्हिणि । उत्तिष्ठ लोकक्षेमाय लक्ष्मीदुर्गे महाद्युते ॥ ४॥ तारं ध्वजाग्रलसितो वरताम्रचूडः ऊर्ध्वं विधाय निजमस्तकमात्तमोदः । त्वन्नाम कीर्तनमयं कुरुते पवित्रं स्कन्दाचलेश गिरिजासुत सुप्रभातम् ॥ ५॥ कल्याणकारिणि कराम्बुजशोभि पाशे कारुण्यपूर्णहृदये कमनीयकान्ते । कामादि वैरिहरणे कुशलेऽस्तु लक्ष्मी- दुर्गेऽतिदीनजनपालिनि सुप्रभातम् ॥ ६॥ श्रीकन्निमारभिध सुन्दर पूतकुल्या- तीरस्थ शाखिनिलया विविधा विहङ्गाः । कूजन्ति कर्णमधुरं विविधैः स्वरैस्तत् स्कन्दाचलेश गिरिजासुत सुप्रभातम् ॥ ७॥ वामाग्रभागविलसन्महिषोत्तमाङ्गे देव्यग्रभागपरिशोभित धर्मसिंहे । कारुण्यवर्षिकमनीयमुखेऽद्य लक्ष्मी- दुर्गे नमोऽस्तु नतपालिनि सुप्रभातम् ॥ ८॥ एते त्रिशुद्धिक्ष् सहिता महिता द्विजेन्द्राः वेदागमादिक्ष् निपुणा विदिताखिलार्थाः । भक्त्योच्चरन्ति मधुरं निगमस्य मन्त्रं श्रीदण्डशोभिकर सुन्दर सुप्रभातम् ॥ ९॥ मांसं सुरामपि बलिं परिवर्जयेति या व्याहरत् सकलजीवदयापरीता । सा त्वं समस्तजगतां कुरुषेऽति भद्रं दुर्गेऽम्बिकेऽस्तु भुवनेश्वरि सुप्रभातम् ॥ १०॥ अग्रे तवाद्य मधुरस्वरकृष्टचित्ताः तालाभिरञ्जितकरा वरगायकाश्च । गायन्ति ते गुणगणानितरानवाप्यान् मध्यार्पितैककर सुन्दर सुप्रभातम् ॥ ११॥ मातस्त्वदीय पदपङ्कजभक्तिभाजां कुर्वन्ति वज्रधरवायुमुखास्सुसेवाम् । वक्तुं प्रभावमखिलं तव कोनु शक्तः दुर्गे नमोऽस्तु तव संप्रति सुप्रभातम् ॥ १२॥ तिष्ठत्यसौ च जनताश्रुपरीतनेत्राः धृत्वा सुगन्धयुतबन्धुरपुष्पमालाः । ज्योतिर्निरीक्षितुमुदारपदारविन्द स्कन्दाचलेश करुणाकर सुप्रभातम् ॥ १३॥ पुत्रं पुरा किल वियुक्तमतिप्रकोपात् स्कन्दं निरीक्षितुमतीव समुत्सुका त्वम् । स्कन्दाद्रिमागतवती सहसैव लक्ष्मी- दुर्गे नमोऽस्तु नतपालिनि सुप्रभातम् ॥ १४॥ श्रीस्कन्दाचलशोभिनं सुरनतां रम्याननं सुन्दरीं भक्तानामभयप्रदं कलिमलध्वंसैकबद्धादराम् । कारुण्याम्बुनिधिं सुशक्तिसहितां सर्वार्थदानक्षमं दुर्गालक्ष्म्यभिधां नमेम जननीं श्रीदण्डपाणिञ्च तम् ॥ १५॥ आरक्तसुन्दरनखेन्दुरुचानुलिप्तौ मञ्जीरमञ्जुलनिनादमनोभिरामौ । योगीन्द्रमूर्धविनतौ सकलेष्टदौ ते स्कन्दाचलेशचरणौ शरणं प्रपद्ये ॥ १६॥ सूर्यस्त्वदाप्तवरदीधितिरम्ब सर्वान् लोकान् प्रबोधयितुमेष उदेति रम्यः । त्वञ्चापि पश्य करुणान्वितलोचनाभ्यां दुर्गे तवाद्य चरणौ शरणं प्रपद्ये ॥ १७॥ यस्सङ्कटं गुरुमवाप्य सकृद्गुहेति भक्त्या वदत्यनुपमं तव नाम तं हि । यौ रक्षतस्सपदितावरविन्दतुल्यौ स्कन्दाचलेशचरणौ शरणं प्रपद्ये ॥ १८॥ शुम्भं निशुम्भमपि लोकहितैषिणि त्वं हत्वा शुभं व्यरचयः करुणाम्बुराशे । मातस्वदीयकरुणा वचसामतीता स्कन्दाद्रिगेऽद्य चरणौ शरणं प्रपद्ये ॥ १९॥ सृष्टिस्थितिप्रलयकारक दीनबन्धो क्रौञ्चाद्रिभेदक विरिञ्चिमुखामरेड्य । भक्तेष्टदायक दशद्विभुजाक्षिशोभिन् स्कन्दाचलेश चरणौ शरणं प्रपद्ये ॥ २०॥ मोहं व्यपोहय मतिं कुरु पावनां मे सन्मार्गसञ्चरणलोलुपतां प्रयच्छ । चित्तं कुरुष्व पदपङ्कजयुग्मलग्नं मातस्त्वाद्यचरणौ शरणं प्रपद्ये ॥ २१॥ भक्तैकवश्य परिचिन्त्य बिभेमि नाहं भोग्या भवेद्यमपुरेऽधिकयातनेति । भक्त्या मुहुर्मुहुरिमौ भयहारिणौ ते स्कन्दाचलेश चरणौ शरणं प्रपद्ये ॥ २२॥ वाचालमम्ब कुरुषे सदयेऽतिमूकं दीनं करोषि सहसैव धनाधिनाथम् । अज्ञानिनं प्रतिभया सहितं करोषि मातुस्तवाद्य चरणौ शरणं प्रपद्ये ॥ २३॥ स्कन्देति कुक्कुटयुतेति गुहेति यस्त्वां वाचाह्वयत्यधिकभक्तियुता सकृद्वा । तस्मै प्रयच्छसि समीहितमर्थमाशु स्कन्दाचलेश चरणौ शरणं प्रपद्ये ॥ २४॥ शान्तान्तरङ्गयतिवन्दितपादपद्मे त्वामर्चयन्ति वनिता यदि भक्तिपूर्णाः । सौभाग्यमाप्य सकलञ्च मुदं लभन्ते दुर्गेऽम्बिकेऽद्य चरणौ शरणं प्रपद्ये ॥ २५॥ सुरसैन्यपतेऽसुरसैन्यरिपो करशोभितदण्डमहाण्डकर । खरतारकमारक तारक मे मरणादि भयं हर वीरवर ॥ २६॥ जगतां जननीं रजनीशमुखीं नमनीयपदां कमनीयरुचिम् । महिषासुरमर्दनलोलपदां भजतां भजतां भवभीतिहराम् ॥ २७॥ अनघं जगतां जनकं धनदं वरदं शरदिन्दुसमानमुखम् । वरनीरजलोचनमार्तिहरं करदण्डधरं प्रणमामि गुहम् ॥ २८॥ अरुणां करुणालसदक्षियुगां गुरुनाथसुतां तरुणार्कविभाम् । सुरराजनुतां दरहासयुतां नमतां नमतां सकलार्थकरीम् ॥ २९॥ गिरिवासरतं गिरिजात्मभवं हरिजारमणं हरिणाङ्कमुखम् । करिवक्त्रसहोदरमादरतो दुरितक्षतये धुरि भातु महः ॥ ३०॥ पुरतः स्फुरदात्मज रम्यमुखा- म्बुजलोचन लोलनिजाक्षियुगाम् । सुलभां सुखदां वरदां करदां भज लक्ष्म्यभिधां जननीं जगताम् ॥ ३१॥ शरच्चन्द्रतुल्यं मुखं शारदाम्भो- रुहस्पर्धिपादद्वयञ्चाक्षियुग्मम् । द्षित्कालदण्डोज्जवलं पाणिपद्मं सदा मानसे भातु मे तारकारे ॥ ३२॥ कृपास्राव्यपाङ्गादृतानन्तभक्ता दशाष्टाभिराशोभिता बाहुभिर्या । वरस्कन्दगिर्याश्रया सा महाभा सदा भातु देवी मदीयान्तरङ्गे ॥ ३३॥ न रूपं मनो मोहकं नापि वाणी मनो हारिणी स्कन्दशैलाधिवास । न विद्वत्वमप्यस्ति गाङ्गेय भक्तिं मदीयामवेक्ष्य प्रसीद प्रसीद ॥ ३४॥ सदाचारलोलं मनस्सत्यवाचं सदान्योपकारे रतत्वं महत्वम् । पुनर्जन्महीनत्वमाप्तुं प्रमोदं महालक्ष्म्यभीष्टप्रदाङ्घ्री भजेऽहम् ॥ ३५॥ त्वया तुल्य एको न चास्ते न चास्ते क्षमौदार्यशीलो महेशस्य सूनो । नरो मत्समो नास्ति पापैकलोभी क्षमस्व क्षमस्व प्रभो मेऽपराधान् ॥ ३६॥ त्वमेवाम्ब माता मदीया भवान्यां पुनर्मातरं मा कुरु स्कन्दमातः । क्षमस्वापराधान् महेन्द्रादिवन्द्ये प्रसीद प्रसीदानुकम्पा गुणाढ्ये ॥ ३७॥ शान्तानन्द महायोगिन् हृदयानन्ददायक । स्कन्दाचलशिरश्शोभिन् कुरु सर्वस्य मङ्गलम् ॥ ३८॥ स्कन्दाद्रिशिखरावासा कामितार्थप्रदायिनी । लक्ष्मीदुर्गास्वरूपा सा करोतु मम मङ्गलम् ॥ ३९॥ मयूरप्रियवाहाय कुक्कुटध्वजशोभिने । पाणिना धृतदण्डाय बालस्कन्दाय मङ्गलम् ॥ ४०॥ अष्टादशभुजैर्युक्ता शिष्टावनधुरन्धरा । इष्टानिष्टविहीना सा करोतु भुवि मङ्गलम् ॥ ४१॥ अरुणाम्बुजपादाय करुणारसवार्धये । तरुणाय सदा तुभ्यं गुरुनाथाय मङ्गलम् ॥ ४२॥ वन्द्यमानजनाज्ञानध्वंसकारिपदाम्बुजे । लक्ष्मीदुर्गे कृपापाङ्गैः कुरु सर्वत्र मङ्गलम् ॥ ४३॥ इति श्रीस्कन्दलक्ष्मीदुर्गा सुप्रभातस्तुतिः श्रीस्कन्दगुरु भुजङ्गस्तोत्रं सम्पूर्णम् । Encoded by Aruna Narayanan narayanan.aruna at gmail.com Proofread by Aruna Narayanan, PSA Easwaran psaeaswaran at gmail.com
% Text title            : skandalakShmIdurgAsuprabhAtastutiH
% File name             : skandalakShmIdurgAsuprabhAtastutiH.itx
% itxtitle              : skandalakShmIdurgAsuprabhAtastutiH
% engtitle              : skandalakShmIdurgAsuprabhAtastutiH
% Category              : subrahmanya, suprabhAta, devii, durgA, lakShmI, devI
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% SubDeity              : lakShmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aruna Narayanan narayanan.aruna at gmail.com
% Proofread by          : Aruna Narayanan, PSA Easwaran psaeaswaran at gmail.com
% Indexextra            : (Tamil)
% Latest update         : June 30, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org