श्रीस्कन्दपञ्चाशतनामावलिः
ॐ श्रीगणेशाय नमः ।
ॐ आग्नेयाय नमः । स्कन्दाय । दीप्तकीर्तये । मयूरकेतवे ।
धर्मात्मने । भूतेशाय । महिषार्दनाय । कामजिताय । कामदाय ।
कान्ताय । सत्यवाचे । भुवनेश्वराय । शिशवे । शीघ्राय । शुचये ।
चण्डाय । दीप्तवर्णाय । शुभाननाय । अमोघाय । अनघाय नमः । २०
ॐ रौद्राय नमः । प्रियाय । चन्द्राननाय । दीप्तशक्तये ।
प्रशान्तात्मने । भद्रकुक्कुटमोहनाय । षष्ठीप्रियाय । धर्मात्मने ।
पवित्राय । मातृवत्सलाय । कन्याभर्त्रे । विभक्ताय । स्वाहेयाय ।
रेवतीसुताय । प्रभवे । नेत्रे । विशाखाय । नैगमेयाय । सुदुश्चराय ।
सुव्रताय नमः ॥ ४०
ॐ ललिताप्रियाय नमः । बालक्रीडनकप्रियाय । खचारिणे । ब्रह्मचारिणे
। सुराय । शरवणोद्भवाय । विश्वामित्रप्रियाय । देवसेनाप्रियाय ।
वासुदेवप्रियाय । प्रियाय । प्रियकृते नमः ॥ ५१
इति महाभारतान्तर्गतं श्रीस्कन्दपञ्चाशतनामावलिः समाप्ता ।
Encoded by Sivakumar Thyagarajan Iyer
Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran