श्रीस्कन्दपञ्चाशतनामस्तोत्रम्
ॐ श्रीगणेशाय नमः ।
मार्कण्डेय उवाच
आग्नेयश्चैव स्कन्दश्च दीप्तकीर्तिरनामयः ।
मयूरकेतुर्धर्मात्मा भूतेशो महिषार्दनः ॥ १॥
कामजित्कामदः कान्तः सत्यवाग्भुवनेश्वरः ।
शिशुः शीघ्रः शुचिश्चण्डो दीप्तवर्णः शुभाननः ॥ २॥
अमोघस्त्वनघो रौद्रः प्रियश्चन्द्राननस्तथा ।
दीप्तशक्तिः प्रशान्तात्मा भद्रकुकुटमोहनः ॥ ३॥
षष्टीप्रियश्च धर्मात्मा पवित्रो मातृवत्सलः ।
कन्याभर्त्ता विभक्तश्च स्वाहेयो रेवतीसुतः ॥ ४॥
प्रभुर्नेता विशाखश्च नैगमेयः सुदुश्चरः ।
सुव्रतो ललितश्चैव बालक्रीडनकप्रियः ॥ ५॥
खचारी ब्रह्मचारी च सुरः शरवणोद्भवः ।
विश्वामित्रप्रियश्चैव देवसेनाप्रियस्तथा ॥ ६॥
वासुदेवप्रियश्चैव प्रियः प्रियकृदेव तु ।
नामान्येतानि दिव्यानि कार्तिकेयस्य यःपठेत् ।
स्वर्गं कीर्तिं धनं चैव स लभेन्नात्रसंशयः ॥ ७॥
व्याप्तं जगत्सर्वसुरप्रवीर
शक्त्या मया संस्तुतलोकनाथ ।
नमोऽस्तु ते द्वादशनेत्रबाहो
अतःपरं वेद्मि गतिं न देहम् ॥
इति महाभारतान्तर्गतं श्रीस्कन्दपञ्चाशतनामस्तोत्रं सम्पूर्णम् ।
Encoded by Sivakumar Thyagarajan Iyer
Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran