श्रीस्कन्दपञ्चकम्
मयूरारूढं सङ्कल्पदृढं प्रचण्डमग्निनन्दनं
पार्वतीसुतमत्यन्तदृतमखण्डं देववन्दनम् ।
शङ्करचारीं गगनधारीं वन्दे त्वं रुद्रचन्दनं
शिवसम्भव देववैभव स्कन्ददेव भजाम्यहम् ॥ १॥
शक्रजेतां प्रभुर्नेतां षडाननं देवनायकं
गङ्गासूतं पराभूतं महात्मनं शौर्यदायकम् ।
दीप्तशक्तिं शक्तभक्तिं वन्दे त्वं दिव्यसायकं
शिवसम्भव देववैभव स्कन्ददेव भजाम्यहम् ॥ २॥
ब्रह्मवतां दुःखहर्तां वाचस्पतिं शिरप्रवीरं
श्रद्धायुक्तं सदामुक्तं सेनापतिं चिरसुधीरम् ।
शक्तिधरं वीरवरं वन्दे त्वं मीरप्राचीरं
शिवसम्भव देववैभव स्कन्ददेव भजाम्यहम् ॥ ३॥
वल्लीकान्तं कृपानन्तं परमं कृतिकासुतं
सुकुमारं तत्त्वसारं चरमं शङ्करकृतम् ।
दीप्तिमानं सनातनं वन्दे त्वं देवतावृत्तं
शिवसम्भव देववैभव स्कन्ददेव भजाम्यहम् ॥ ४॥
तारकारीं भालधारीं प्रत्यूषं कुक्कूटध्वजं
षष्ठीप्रियं सर्वश्रेयं प्रियेशं दिव्ययानजम् ।
ऋषिकासुतं वचनामृतं वन्दे त्वं गणेशाग्रजं
शिवसम्भव देववैभव स्कन्ददेव भजाम्यहम् ॥ ५॥
न्यायप्रियं कृष्णप्रियं मातृप्रियं देवप्रियं च
ऋषिप्रियं शिवप्रियं वन्दे देवं पार्वतीप्रियम् ।
स्कन्दस्तोत्रमिदं प्रोक्तं सश्रद्धया यः सदा पठेत्
स्वर्गं कीर्तिं धनं शौर्यं सः लभेत् इदं न संशयः ॥ ६॥
॥ इति श्रीकृष्णदासविरचितं श्रीस्कन्दपञ्चकं सम्पूर्णम् ॥