श्रीसुब्रह्मण्याष्टकम्
नन्दनं तुहिनशैलजापतेर्नन्दनीयचरितं षडाननम् ।
सुन्दराङ्गमखिलार्तिभञ्जनं भावयाम्यखिलरोगशान्तये ॥ १॥
शूरपद्ममुखदैत्यमर्दनं क्रूरभोगिविषनाशनं गुहम् ।
वीरबाहुमुखवीरसेवितं भावयाम्यखिलरोगशान्तये ॥ २॥
आश्रिताखिलजनावनोद्यतं सुश्रिताधननिवृत्तितत्प्रियम् ।
आश्रितस्वजनहृन्निकेतनं भावयाम्यखिलरोगशान्तये ॥ ३॥
चारुषण्मकुटमण्डिताननं दारुणाखिलजगद्विकृन्तनम् ।
वारणाननसुहृत्सहोदरं भावयाभ्यखिलरोगशान्तये ॥ ४॥
इन्द्रजापतिमुमातनूद्भवं चन्द्रकोटिसदृशद्युतिं शुभम् ।
इन्द्र पूर्वसुरवृन्दवन्दितं भावयाम्यखिलरोगशान्तये ॥ ५॥
अम्बिकावदनपद्मभास्करं बिम्बपक्तफलसुन्दरावरम् ।
तं बिलेशयरूपधारिणं भावयाम्यखिलरोगशान्तये ॥ ६॥
भक्तपालपरिपालनोद्यतं त्यक्तदुष्टजनमिष्टसिद्धिदम् ।
युक्तमार्गनिरतप्रियं सदा भावयाम्यखिलरोगशान्तये ॥ ७॥
सत्यचिद्धनमुदारविक्रमं नित्यमग्र्यमखिलेश्वरं प्रभुम् ।
भृत्यहृत्तिमिरसन्धभञ्जनं भावयाम्यखिलरोगशान्तये ॥ ८॥
नित्यमेव हृदि षण्मुखं स्मरन् यः पठेदिदमनन्यमानसः ।
रोगनाशनकरं स मानुषः सर्वरोगरहितः सुखी भवेत् ॥ ९॥
इति श्रीसुब्रह्मण्याष्टकं सम्पूर्णम् ।
Proforead by Sivakumar Thyagarajan Iyer