श्रीसुब्रह्मण्याष्टकम् अथवा श्रीसुब्रह्मण्य करावलम्बस्तोत्रम्
हे स्वामिनाथ! करुणाकर दीनबन्धो
श्रीपार्वतीशमुखपङ्कजपद्मबन्धो ।
श्रीशादिदेवगणपूजितपादपद्म
वल्लीशनाथ मम देहि करावलम्बम् ॥ १॥
देवाधिदेवसुत देवगणाधिनाथ
देवेन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद ।
देवर्षिनारदमुनीन्द्रसुगीतकीर्ते
वल्लीशनाथ मम देहि करावलम्बम् ॥ २॥
नित्यान्नदाननिरताखिलरोगहारिन्
भाग्यप्रदानपरिपूरितभक्तकाम ।
शृत्यागमप्रणववाच्यनिजस्वरूप
वल्लीशनाथ मम देहि करावलम्बम् ॥ ३॥
क्रौञ्चासुरेन्द्रपरिखण्डन शक्तिशूल-
चापादिशस्त्रपरिमण्डितदिव्यपाणे । var पाशादिशस्त्र
श्रीकुण्डलीशधरतुण्डशिखीन्द्रवाह var धृततुण्ड
वल्लीशनाथ मम देहि करावलम्बम् ॥ ४॥
देवाधिदेवरथमण्डलमध्यवेऽद्य
देवेन्द्रपीठनकरं दृढचापहस्तम् ।
शूरं निहत्य सुरकोटिभिरीड्यमान
वल्लीशनाथ मम देहि करावलम्बम् ॥ ५॥
हारादिरत्नमणियुक्तकिरीटहार
केयूरकुण्डललसत्कवचाभिरामम् ।
हे वीर तारकजयामरवृन्दवन्द्य
वल्लीशनाथ मम देहि करावलम्बम् ॥ ६॥
पञ्चाक्षरादिमनुमन्त्रितगाङ्गतोयैः
पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः ।
पट्टाभिषिक्तहरियुक्त परासनाथ
वल्लीशनाथ मम देहि करावलम्बम् ॥ ७॥
श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या
कामादिरोगकलुषीकृतदुष्टचित्तम् ।
सिक्त्वा तु मामव कलाधरकान्तिकान्त्या
वल्लीशनाथ मम देहि करावलम्बम् ॥ ८॥
सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजोत्तमाः ।
ते सर्वे मुक्तिमायान्ति सुब्रह्मण्यप्रसादतः ॥
सुब्रह्मण्याष्टकमिदं प्रातरुत्थाय यः पठेत् ।
कोटिजन्मकृतं पापं तत्क्षणादेव नश्यति ॥
॥ इति श्रीसुब्रह्मण्याष्टकं अथवा
श्रीसुब्रह्मण्य करावलम्बस्तोत्रं सम्पूर्णम् ॥
vallIsha is same as vallIsa as found in some prints.
granthanidhi
Proofread by PSA Easwaran, Rajnarayanan C K