श्रीसुब्रह्मण्याष्टोत्तरशतनामावलिः
ॐ श्रीगणेशाय नमः ।
ॐ निष्कलस्वरूपाय नमः । निष्कलसकलस्वरूपाय । सकलस्वरूपाय ।
कैलासनाथाय । षण्मुखेशस्वरूपाय । भालनेत्रसम्भवाय ।
महाज्वालास्वरूपाय । शरवणभवाय । षाण्मातृकाय । कार्तिकेयाय ।
परगिरिवासाय । सुब्रह्मण्याय । शिवप्रियाय । शिवानुग्रहस्वरूपाय ।
षडाननाय । षण्मुखमकुटाय । षट्किरीटधारिणे । द्वादशनेत्राय ।
द्वादशकुण्डलाय । द्वादशभुजाय नमः । २०
ॐ द्वादशहस्ताय नमः । एकशरीराय । द्विपादपङ्कजाय ।
अनन्तसूर्यप्रकाशस्वरूपाय । पार्वतीनन्दनाय । गङ्गासुताय ।
परशिवपुत्राय । उमामहेशमध्यनिलयाय ऋषभारूढाय ।
सर्वास्त्रपाणये । शक्तिहस्ताय । गुहाय । विशाखाय । कुङ्कुमवर्णाय ।
बाहुलेयाय । गणेशसहोदराय । महावीरसेनाधिपतये ।
भूतसेनाधिपतये । देवसेनाधिपतये । सर्वदेवाधिपतये नमः । ४०
ॐ स्कन्दमहापर्वताधिपतये नमः । नारदमुनिवन्दितप्रियाय ।
अजारूढाय । ब्रह्मदेवमर्द्दनाय । स्वामिगिरिनाथाय ।
महाप्रणवशिवसम्वादाय । बालसुब्रह्मण्याय ।
कुमारस्वरूपाय । निजपदनादचैतन्यप्रणवस्वरूपाय ।
आदिसूक्ष्मचैतन्यप्रणवस्वरूपाय । सूक्ष्मचैतन्यप्रणवस्वरूपाय ।
नादघोषचैतन्यप्रणवस्वरूपाय । निरञ्जनस्वरूपप्रणवाय ।
अपवर्गप्रणवस्वरूपाय । कलाप्रणवस्वरूपाय । अनादिप्रणवस्वरूपाय ।
आदिप्रणवस्वरूपाय । त्र्यक्षरप्रणवस्वरूपाय ।
आदिओङ्कारप्रणवस्वरूपाय । तारकाकारप्रणवस्वरूपाय नमः । ६०
ॐ दण्डकाकारप्रणवस्वरूपाय नमः । कुण्डलाकारप्रणवस्वरूपाय ।
अर्धचन्द्राकारप्रणवस्वरूपाय । दर्पणाकारप्रणवस्वरूपाय ।
ज्योतिराकारप्रणवस्वरूपाय । गोप्यार्थमहाप्रणवस्वरूपाय ।
शिवगुरुनाथस्वामिने । सर्वदेवदेवाय । महापरमदयासिद्धवे ।
क्रौञ्चदारिणे । तारकासुरमर्दनाय । कावेरीतीरक्षेत्रवासाय ।
दक्षिणापतितीरक्षेत्रवासाय । श्रीसेन्दिलाधिपाय ।
सिम्हाननासुरध्वंसाय । मायानन्दरूपध्वंसाय ।
शिवज्ञानास्त्रानुग्रहप्रयोगाय । शूरपद्मसम्हाराय ।
मयूरवाहनाय नमः । ८०
ॐ कुक्कुटध्वजाय नमः । षष्ठीशाय । देवेन्द्रादिवन्दिप्रियाय ।
देवकुञ्जरिवल्लभाय । वल्लीमनोहराय । दण्डपाणये ।
शिवगिरिवासप्रियाय । इटुम्बादिभक्तप्रियाय । अष्टाभरणोद्भवाय ।
अष्टाभरणस्थलस्थापनाचार्याय । षड्लिङ्गाङ्गस्थापनाचार्याय ।
शिवादिषण्मूर्त्तस्वरूपाय । अधोमुखादिषण्मुखस्वरूपाय ।
शान्त्यातीतोत्तरादिसकलस्वरूपाय । चिच्छक्त्यादिषट्शक्तिस्वरूपाय ।
महाशाताख्यादि षट् शाताख्यायस्वरूपाय । षट् पाल हस्तादि षड् हस्तस्वरूपाय ।
समरसभक्त्यादिषड् भक्तिस्वरूपाय । चेन्नबसवेशस्वरूपषण्मुखाय ।
हेमकूटपर्वतप्रियवासाय । दक्षिणपिनाकिनीतीरशिवपुराधिपाय नमः । १००
ॐ बृहदम्बाकुमाराय नमः । दानवान्तकारीशतनयाय ।
षण्मुखनामार्यानुग्रहकाराय । शिवभक्तार्चनादिप्रियरक्षण्याय ।
शिवयोगीहृदयवासाय । पाटलीपुरमठालयवासाय ।
शिवषण्मुखनामार्यार्चनादिप्रियरक्षणकराय नमः । १०८
इति श्रीसुब्रह्मण्य अष्टोत्तरदिव्यनामार्चना सम्पूर्णम् ।
श्रीपरशिवार्पणमस्तु ।
Encoded by Sivakumar Thyagarajan
Proofread by PSA Easwaran