सुब्रह्मण्यषडक्षरमन्त्रः
अस्य श्रीसुब्रह्मण्यषडक्षरमहामन्त्रस्य, अगस्त्यः ऋषिः ।
अनुष्टुप्छन्दः, सुब्रह्मण्यो देवता, वं बीजं, नमः शक्तिः,
वचद्भुवे कीलकम् । श्रीसुब्रह्मण्यप्रीत्यर्थे जपे विनियोगः ॥
करन्यासः -
वां अङ्गुष्ठाभ्यां नमः ।
वीं तर्जनीभ्यां नमः ।
वूं मध्यमाभ्यां नमः ।
वैं अनामिकाभ्यां नमः ।
वौं कनिष्ठिकाभ्यां नमः ।
वः करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः ॥
अङ्गन्यासः -
ॐ हृदयाय नमः । ह्रीं शिरसे स्वाहा । ऐं शिखायै वषट् ।
क्लीं कवचाय हुम् । ॐ नेत्रत्रयाय वौषट् । ह्सौं अस्त्राय फट् ॥
ह्रीं भूर्भुवस्सुवरों इति दिग्बन्धः ॥
अथ लमित्यादि पञ्चपूजा ।
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि सर्वोपचारपूजान् कल्पयामि ॥
ध्यानम् -
सिन्धूरारुणमिन्दुकान्तिवदनं केयूरहारदिभिः
दिव्यैराभरणैर्विभूषिततनुं स्वर्गस्थसौख्यप्रदम् ।
अम्भोजाभयशक्तिकुक्कुटधरं रक्ताङ्गरागांशुकं
सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥
ॐ वचद्भुवे नमः इति मन्त्रः । (१०८ वारं - 108 times)
सिद्धिक्रमः-
लक्षमेकं जपेन्मन्त्रं साज्यान्नहविषा ततः ।
दशांशं जुहुयादन्ते ब्राह्मणानपि पूजयेत् ॥
(1 lakh times the mantra to be recited with havis of cooked
rice mixed in ghee. 10% to be offered in fire and at the end
worship Brahmanas)
पूजाक्रमः-
This portion explains how the puja is to be conducted,
not meant for recitation, Puja to be performed with guidance of
guru or priest knowing Sanskrit meaning.)
धर्मादिकल्पिते पीठे वह्निमण्डलपश्चिमे ।
पूजयेद्विधिना देवमुपचारैर्यथोदितैः ॥
केसरेष्वङ्गपूजा स्यात् । पत्रमध्येषु जयन्तं आग्निवेश्यं
कृत्तिकापुत्रं भूतपतिं सेनान्यं गुहं हेमशूलं विशाखं
शक्तिवज्रधरं च,दिग्दलेषु पूर्वादिषु देवसेनापतिं विद्यां मेधां
वज्रं च, विदिग्दलेषु शक्तिकुक्कुटौ मयूरद्विपौ, पत्राद्येषु,
तद्बाह्ये लोकेश्वरान् तदस्त्राणि च पूजयेत् ॥
पुष्ठ्यां संप्रीणयद्देवं स्वादुभिर्भक्ष्यभोज्यकैः ।
पूजयेद्देवताबुद्ध्या कुमारान्ब्रह्मचारिणः ॥
पूजितस्तु स देवोऽपि सन्तानं विजयं यशः ।
राज्ञामायुः श्रियं वीर्यं प्रदद्यात् साधकस्य तु ।
सुब्रह्मण्यः सुरार्चितः ॥
(मन्त्ररत्नमञ्जूषातः taken from Mantaratnamanjushaa)
Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran