श्रीसुब्रह्मण्यषडक्षरमन्त्रः

श्रीसुब्रह्मण्यषडक्षरमन्त्रः

आचमनं कुर्यात् । मातापितृभ्यां नमः । श्रीगुरुभ्यो नमः । विघ्नेश्वरध्यानम् - शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ प्राणायामं कुर्यात् । सङ्कल्पम् - ममोपात्त समस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं श्रीसुब्रह्मण्यप्रसादसिध्यर्थं श्रीसुब्रह्मण्यमहामन्त्रजपं करिष्ये । अस्य श्रीसुब्रह्मण्यमहामन्त्रस्य दक्षिणामूर्ति ऋषिः । गायत्री छन्दः । श्रीसुब्रह्मण्यो देवता । श्रीसुब्रह्मण्यप्रसादसिध्यर्थे जपे विनियोगः । रं बीजं (दक्षिण वक्षस्थलम्) । णं शक्तिः (वाम वक्षस्थलम्) । वं कीलकं (नाभिः) । करन्यासः - शरवणभव अङ्गुष्ठाभ्यां नमः । रवणभवश तर्जनीभ्यां नमः । वणभवशर मध्यमाभ्यां नमः । णभवशरव अनामिकाभ्यां नमः । भवशरवण कनिष्ठिकाभ्यां नमः । वशरवणभ करतलकरपृष्ठाभ्यां नमः ॥ अङ्गन्यासः - शरवणभव हृदयाय नमः । रवणभवश शिरसे स्वाहा । वणभवशर शिखायै वषट् । णभवशरव कवचाय हुम् । भवशरवण नेत्रतयाय वौषट् । वशरवणभ अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ दिग्विमोकः) ध्यानम् - सिन्दूरारुणमिन्दुपद्मजयिभिष्षड्भिर्मुखैर्भासितं कारुण्यामृतपूरसुन्दरतरैर्भातं द्विषल्लोचनैः। बिभ्राणं वरमब्जयुग्ममभयं शक्तिद्वयं कार्मुकं खड्गं चर्मं पृषत्कमङ्कुशगदे वल्लीशमीक्षे हृदि ॥ पञ्चपूजा । लं पृथिव्यात्मने गन्धं कल्पयामि । हं आकाशात्मने पुष्पाणि कल्पयामि । यं वाय्वात्मने धूपं कल्पयामि । रं अग्न्यात्मने दीपं कल्पयामि । वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि । सं सर्वात्मने ताम्बूलादि सर्वोपचारपूजान् कल्पयामि ॥ मूलमन्त्रः - ॥ ॐ शरवणभव ॥ (अष्टाष्टोत्तरशतवारं - 108 times) पुनरङ्गन्यासः - शरवणभव हृदयाय नमः । रवणभवश शिरसे स्वाहा । वणभवशर शिखायै वषट् । णभवशरव कवचाय हुम् । भवशरवण नेत्रतयाय वौषट् । वशरवणभ अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ (दिग्विमोकः) ध्यानम् - सिन्दूरारुणमिन्दुपद्मजयिभिष्षड्भिर्मुखैर्भासितं कारुण्यामृतपूरसुन्दरतरैर्भातं द्विषल्लोचनैः। बिभ्राणं वरमब्जयुग्ममभयं शक्तिद्वयं कार्मुकं खड्गं चर्मं पृषत्कमङ्कुशगदे वल्लीशमीक्षे हृदि ॥ पञ्चपूजा । लं पृथिव्यात्मने गन्धं कल्पयामि । हं आकाशात्मने पुष्पाणि कल्पयामि । यं वाय्वात्मने धूपं कल्पयामि । रं अग्न्यात्मने दीपं कल्पयामि । वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि । सं सर्वात्मने ताम्बूलादि सर्वोपचारपूजान् कल्पयामि ॥ गुह्यातिगुह्यगोप्त्रा त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देव त्वत्प्रसान्महेश्वर ॥ अनेन मयाकृत श्रीसुब्रह्मण्यमहामन्त्रजपेन भगवान् सर्वात्मकः सर्वदेवात्मकः श्रीसुब्रह्मण्यः प्रीयताम् । श्रीसुब्रह्मण्यः सुप्रीतो सुप्रसन्नो वरदो भवन्तु ॥ आचमनम् । लोकाः समस्ताः सुखिनो भवन्तु । श्रीसुब्रह्मण्यः पादारविन्दार्पणमस्तु । श्रीगुरुभ्यो नमः । हरिः ॐ तत्सत् । इति श्रीसुब्रह्मण्यषडाक्षरमन्त्रः सम्पूर्णः ।
% Text title            : Shri Subrahmanya Shadakshara Mantra 2
% File name             : subrahmaNyaShaDashAkSharamantraH2.itx
% itxtitle              : subrahmaNyaShaDashAkSharamantraH 2 (OM sharavaNabhava)
% engtitle              : subrahmaNyaShaDashAkSharamantraH 2
% Category              : subrahmanya, mantra, ShaT
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Latest update         : March 7, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org