श्रीसुब्रह्मण्यषोडशाक्षरमन्त्रः
अस्य श्रीसुब्रह्मण्यषोडशाक्षरमहामन्त्रस्य,
अमृताकर्षणदक्षिणामूर्तिः ऋषिः । गायत्री छन्दः ।
प्रसन्नस्कन्दो देवता । सौं बीजं, ह्रीं शक्तिः, श्रीं कीलकम् ।
श्रीसुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः ।
करन्यासः -
शरवणभव परावराय ब्रह्ममयाय विद्यादेहाय अङ्गुष्ठाभ्यां नमः ।
रवणभवश ब्रह्मचर्याय तर्जनीभ्यां नमः ।
वणभवशर स्कन्दस्वामिने कुमाराय मध्यमाभ्यां नमः ।
णभवशरव ब्रह्मतेजोमयाय अनामिकाभ्यां नमः ।
भवशरवण द्वादशनेत्राय कनिष्ठिकाभ्यां नमः ।
वशरवणभ ब्रह्मरुद्रतेजोमयाय करतलकरपृष्ठाभ्यां नमः ।
ऋष्यादिन्यासः -
ह्रीं अमृताकर्षणदक्षिणामूर्तये नमः शिरसि । जगतीच्छान्दसे नमो मुखे ।
श्रीप्रसन्नज्ञानसुब्रह्मण्याय देवतायै नमो हृदये । ह्रीं बीजाय नमो गुह्ये ।
ह्सौं शक्तये नमः स्तनयोः । क्लीं कीलकाय नमो नाभौ ।
विनियोगाय नमः सर्वाङ्गे ॥
(मूलेन करौ संशोध्य)
अङ्गन्यासः -
ॐ हृदयाय नमः । ह्रीं शिरसे स्वाहा । ऐं शिखायै वषट् ।
क्लीं कवचाय हुम् । ॐ नेत्रत्रयाय वौषट् । ह्सौं अस्त्राय फट् ॥
ह्रीं भूर्भुवस्सुवरों इति दिग्बन्धः ।
ध्यानम्-
सिन्दूरारुणमिन्दुकान्तिवदनं केयूरहारादिभिः
दिव्यैराभरणैर्विभूषिततनुं स्वर्गादिसौख्यप्रदम् ।
अम्भोजाभयशक्तिकुक्कुटधरं सर्वाङ्गतेजोमयं
सुब्रह्मण्यमुपास्महे प्रणमतां सर्वार्थसिद्धिप्रदम् ॥
शक्तिहस्तं विरूपाक्षं शिखिवाहं षडाननम् ।
दारुणं रिपुरोगघ्नं भावये कुक्कुटध्वजम् ॥
लमित्यादिपञ्चोपचारपूजा -
लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं अग्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ।
मूलमन्त्रः - ॐ सौं श्रीं ह्रीं क्लीं ऐं नं ळं शरवणभवाय नमः ।
(जपान्ते हृदयादिन्यास दिग्विमोक -ध्यान -लमित्यादि पूजा -
At the end of japa repeat hRidayAdi nyAsaH)
जपसमर्पणानि ।
इति श्रीसुब्रह्मण्यषोडशाक्षरमन्त्रः सम्पूर्णः ।
Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran