श्रीसुब्रह्मण्यषोडशनामस्तोत्रम्
सेनानीरग्निभूः स्कन्दस्तारकारिर्गुणप्रियः ।
षाण्मातुरो बाहुलेयः कृत्तिकाप्रियपुत्रकः ॥ १॥
मयूरवाहनः श्रीमान् कुमारः क्रौञ्चदारणः ।
विशाखः पार्वतीपुत्रः सुब्रह्मण्यो गुहस्तथा ॥ २॥
षोडशैतानि नामानि शृणुयात् श्रावयेत्सदा ।
तस्य भक्तिश्च मुक्तिश्च करस्थे नैव संशयः ॥ ३॥
इति श्रीसुब्रह्मण्यषोडशनामस्तोत्रं सम्पूर्णम् ।