श्रीसुब्रह्मण्यमन्त्रसम्मेलनत्रिशती
अथवा श्री शत्रुसंहार शिवसुब्रह्मण्यत्रिशती
सृष्टि-स्थिति-संहार-तिरोधान-अनुग्रह-पञ्चकृत्य-
पञ्चब्रह्म-हृदयाद्यङ्ग-शिवपञ्चाक्षर-
अकारादिक्षकारान्तमातृका-वर्णं-सबीजमूलमन्त्रसम्मेलनात्मक-
श्रीसुब्रह्मण्यसर्वशत्रुसंहार-त्रिशत्यर्चना ॥
वन्दे गुरुं गणपतिं स्कन्दमादित्यमम्बिकाम् ।
दुर्गां सरस्वतीं लक्ष्मीं सर्वकार्यार्थसिद्धये ॥
महासेनाय विद्महे षडाननाय धीमहि ।
तन्नः स्कन्दः प्रचोदयात् ॥
नकारादिनामानि ५०
ॐ नं सौं ईं नं ळं श्रीं शरवणभव हं सद्योजात
हां हृदय-ब्रह्म-सृष्टिकारण-सुब्रह्मण्य
इति मूलं प्रतिनाम योजयेत्
शिव-नाथाय नमः । निर्लेपाय । निर्ममाय । निष्कलाय । निर्मोहाय ।
निर्मलाय । निर्विकराय । निराभासाय । निर्विकल्पाय । नित्यतृप्ताय ।
निवृत्तकाय । निरुपद्रवाय । निधीशाय । निर्ममप्रियाय । नित्ययोगिने ।
नित्यशुद्धाय । निधीनाम्पतये । नित्यनियमाय । निष्कारणाय ।
निस्सङ्गाय । निधिप्रियाय । नित्यभृतये । नित्यवस्तुने ।
नित्यानन्दगुरवे । नित्यकल्याणाय नमः । २५
निधात्रे नमः । निरामयाय । नित्ययोगिसाक्षिप्रियवादाय ।
नागेन्द्रसेविताय । नारदोपदेशकाय । नग्नरूपाय । नानापापध्वंसिने ।
नागपीठस्थाय । नादान्तगुरवे । नागसुतगुरवे । नादसाक्षिणे ।
नागपाशहराय । नागास्त्रधराय । नटनप्रियाय । नन्दिध्वजिने ।
नवरत्नपादुकापादाब्जाय । नटेशप्रियाय । नववैडूर्यहारकेयूरकुण्डलाय ।
निमिषात्मने । नित्यबुद्धाय । नमस्कारप्रियाय । नादबिन्दुकलामूर्तये ।
नित्यकौमारवीरबाहवे । नित्यानन्ददेशिकाय । नकाराद्यन्तसम्पूर्णाय
नमः । ५०
मकारादिनामानि ५०
ॐ मं सौं ईं नं ळं ह्रीं रवणभवश हिं वामदेव हीं
शिरो- विष्णु-स्थितिकारण-सुब्रह्मण्य
इति मूलं प्रतिनाम योजयेत् ।
महाबलाय नमः । महोत्साहाय । महाबुद्धये । महाबाहवे । महामायाय ।
महाद्युतये । महाधनुषे । महाबाणाय । महाखेटाय । महाशूलाय ।
महाधनुर्धराय । महामयूरारूढाय । महादेवप्रियात्मजाय । महासत्त्वाय ।
महासौम्याय । महाशक्तये । महामायास्वरूपाय । महानुभावाय ।
महाप्रभवे । महागुरवे । महारसाय । महारथारूढाय । महाभागाय ।
महामकुटाय । महागुणाय नमः । ७५
मन्दारशेखराय नमः । महाहाराय । महामातङ्गगमनाय । महासङ्गीत-
रसिकाय । मधुपानप्रियाय । मधुसूदनप्रियाय । महाप्रशस्ताय ।
महाव्यक्तये । महावक्त्राय । महायशसे । महामात्रे ।
महामणिगजारूढाय । महात्मने । महाहविषे । महिमाकाराय । महामार्गाय ।
मदोन्मत्तभैरवपूजिताय । महावल्लीप्रियाय । मदनाकारवल्लभाय ।
मन्दारकुसुमप्रियाय । मांसाकर्षणाय । मण्डलत्रयवासिने । महाभोगाय ।
महासेनान्ये । मकाराद्यन्तसम्पूर्णाय नमः ॥ १००
शकारादिनामानि ५०
ॐ शिं सौं ईं नं ळं क्लीं वणभवशर हुं अघोर हूं शिखा-रुद्र-
संहारकारण-सुब्रह्मण्य
इति मूलं प्रतिनाम योजयेत् ।
शिवानन्दगुरवे नमः । शिवसच्चिदानन्दस्वरूपाय ।
शिखण्डिमण्डलावासाय । शिवप्रियाय । शरवणोद्भूताय ।
शिवशक्तिवदनाय । शङ्करप्रियसुताय । शूरपद्मासुरद्वेषिणे ।
शूरपद्मासुरहन्त्रे । शूराङ्गध्वंसिने । शुक्लरूपाय ।
शुद्धायुधधराय । शुद्धवीरप्रियाय । शुद्धवीरयुद्धप्रियाय ।
शुद्धमानसनिलयाय । शून्यषट्कवर्जिताय । शुद्धतत्त्वसम्पूर्णाय ।
शङ्खचक्रकुलिशध्वजरेखाङ्घ्रिपङ्कजाय । शुद्धयोगिनीगणदात्रे ।
शोकपर्वतदंष्ट्राय । शुद्धरणप्रियपण्डिताय ।
शरभवेगायुधधराय । शरपतये । शाकिनी डाकिनी सेवितपादाब्जाय ।
शङ्खपद्मनिधि सेविताय नमः । १२५
शतसहस्रायुधधरमूर्तये नमः । शिवपूजकमानसनिलयाय ।
शिवदीक्षागुरवे । शूरवाहनाधिरूढाय । शोकरोगनिवारणाय ।
शुचये । शुद्धाय । शुद्धकीर्तये । शुचिश्रवसे । शक्तये ।
शत्रुक्रोधविमर्दनाय । श्वेतप्रभाय । श्वेतमूर्तये । श्वेतात्मकाय ।
शारणकुलान्तकाय । शतमूर्तये । शतायुधाय । शरीरत्रयनायकाय ।
शुभलक्षणाय । शुभाशुभवीक्षणाय । शुक्रशोणितमध्यस्थाय ।
शुण्डादण्डफूत्कारसोदराय । शून्यमार्गतत्परसेविताय । शाश्वताय ।
शिकाराद्यन्तसम्पूर्णाय नमः ॥ १५०
वकारादिनामानि ५०
ॐ वं सौं ईं नं ळं ऐं णभवशरव हें तत्पुरुष हैं महेश्वर-
तिरोभावकारण-सुब्रह्मण्य
इति मूलं प्रतिनाम योजयेत्
वल्लीमानसहंसिकाय नमः । विष्णवे । विदुषे । विद्वज्जनप्रियाय ।
वेलायुधधराय । वेगवाहनाय । वामदेवमुखोत्पन्नाय ।
विजयकर्त्रे । विश्वरूपाय । विन्ध्यस्कन्दाद्रिनटनप्रियाय ।
विश्वभेषजाय । वीरशक्तिमानसनिलयाय । विमलासनोत्कृष्टाय ।
(विलासनोत्कृष्टदेहाय) वाग्देवीनायकाय । वौषडन्तसम्पूर्णाय ।
वाचामगोचराय । वासनागन्धद्रव्यप्रियाय । वादबोधकाय ।
वादविद्यागुरवे । वायुसारथ्यमहारथारूढाय । वासुकिसेविताय ।
वातुलागमपूजिताय । विधिबन्धनाय । विश्वामित्रमखरक्षिताय ।
वेदान्तवेद्याय नमः । १७५
वीतरागसेविताय नमः । वेदचतुष्टयस्तुत्याय (स्तुताय) ।
वीरप्रमुखसेविताय । विश्वभोक्त्रे । विशां पतये ।
विश्वयोनये । विशालाक्षाय । वीरसेविताय । विक्रमोपरिवेषाय ।
वरदाय । वरप्रदानां श्रेष्ठाय । वर्धमानाय । वारिसुताय ।
वानप्रस्थाय । वीरबाह्वादिसेविताय । विष्णुब्रह्मादिपूजिताय ।
वीरायुधसमावृताय । वीरशूरमर्दनाय । व्यासादिमुनिपूजिताय ।
व्याकरणादिशास्त्रनवोत्कृष्टाय । विश्वतोमुखाय । वासवादि-
पूजितपादाब्जाय । वसिष्ठहृदयाम्भोजनिलयाय । वाञ्छितार्थप्रदाय ।
वकाराद्यन्तसम्पूर्णाय नमः । २००
यकारादिनामानि ५०
ॐ यं सौं ईं नं ळं सौः भवशरवण हों ईशान हौं नेत्रत्रय-
सदाशिवानुग्रहकारण-सुब्रह्मण्य
इति मूलं प्रतिनाम योजयेत् ।
योगिहृत्पद्मवासिने नमः । याज्ञिकवर्धिने । यजनादि षट्कर्म-
तत्पराय । यजुर्वेदस्वरूपाय । यजुषे । यज्ञेशाय । यज्ञश्रिये ।
यज्ञराजे । यज्ञपतये । यज्ञमयाय । यज्ञभूषणाय ।
यज्ञफलदाय । यज्ञाङ्गभुवे । यज्ञभूताय । यज्ञसंरक्षिणे ।
यज्ञपण्डिताय । यज्ञविध्वंसिने । यज्ञमेषगर्वहराय ।
यजमानस्वरूपाय । यमाय । यमधर्मपूजिताय । यमाद्यष्टाङ्गसाधकाय ।
युद्धगम्भीराय । युद्धहरणाय । युद्धनाथाय नमः । २२५
युगान्तकृते नमः । युगावृत्ताय । युगनाथाय । युगधर्मप्रवर्तकाय ।
युगमालाधराय । योगिने । योगवरदाय । योगिनां वरप्रदाय ।
योगीशाय । योगानन्दाय । योगभोगाय । योगाष्टाङ्गसाक्षिणे ।
योगमार्गतत्परसेविताय । योगयुक्ताय । योगपुरुषाय । योगनिधये ।
योगविदे । योगसिद्धिदाय । युद्धशत्रुभयङ्कराय ।
युद्धशोकमर्दनाय । यशस्विने । यशस्कराय । यन्त्रिणे ।
यन्त्रनायकाय । यकाराद्यन्तसम्पूर्णाय नमः ॥ २५०
मातृकाक्षरादिनामानि ५०
ॐ नमः शिवाय सौं ईं नं ळं श्रीं ह्रीं क्लीं ऐं सौः वशरवणभ
हं अधोमुख हः अस्त्र-परब्रह्म-पञ्चकृत्यकारण सुब्रह्मण्य
इति मूलं प्रतिनाम मातृकाबीजमनु योजयेत् ।
अं मूलं अस्त्रशिवास्त्रपाशुपतवैष्णवब्रह्मास्त्रधृते नमः ।
आं ... । आनन्दसुन्दराकाराय । इं ... । इन्द्राणीमाङ्गल्यरक्षकाय ।
ईं ... ईषणात्रयवर्जिताय । उं ... उमासुताय । ऊं ... ऊर्ध्वरेतः सुताय ।
ऋं ... ऋणत्रयविमोचनाय । ॠं ... ऋतम्भरात्मज्योतिषे ।
ऌं ... लुप्ताचारमनोदूराय । ॡं ... लूतभावपाशभेदिने ।
एं ... एणाङ्कधरसत्पुत्राय । ऐं ... ऐशानपदसन्दायिने ।
ओं ... ओङ्कारार्थश्रीमद्गुरवे । औं ... औन्नत्यप्रदायकाय
अं ... अस्त्रकुक्कुटक्षुरिका वृषभशुद्धास्त्रधराय ।
अः ... अद्वैतपरमानन्दचिद्विलासमहानिधये ।
कं ... कार्यकारणनिर्मुक्ताय । खं ... खण्डेन्दुमौलितनयाय ।
गं ... गद्यपद्यप्रीतिज्ञाय । घं ... घनगम्भीरभूषणाढ्याय ।
ङं ... ङकाराकारकद्वन्द्वसर्वसन्ध्याऽऽत्मचिन्मयाय ।
चं ... चिदानन्दमहासिन्धुमध्यरत्नशिखामणये ।
छं ... छेदिताशेषदैत्यौघाय । जं ... जरामरणनिवर्तकाय ।
झं ... झल्लरीवाद्यसुप्रियाय । २७५
ञं ... ज्ञानोपदेशकर्त्रे । टं ... टङ्किताखिललोकाय ।
ठं ... ठकारमध्यनिलयाय । डं ... डक्कानिनादप्रीतिकराय ।
ढं ... ढालितासुरकुलान्तकाय ।
णं ... णबिन्दुत्रयवन्मध्यबिन्द्वाश्लिष्टसुवल्लिकाय ।
तं ... तुम्बुरुनारदार्चिताय । थं ... स्थूलसूक्ष्मप्रदर्शकाय ।
दं ... दान्ताय । धं ... धनुर्बाणनाराचास्त्रधराय ।
नं ... निष्कण्टकाय । पं ... पिण्डिपालमुसलदण्डखड्गखेटकधराय ।
फं ... फणिलोकविभूषणाय । बं ... बहुदैत्यविनाशकाय ।
भं ... भक्तसालोक्यसारूप्यसामीप्यसायुज्यदायिने ।
मं ... महाशक्तिशूलगदापरशुपाशाङ्कुशधृते ।
यं ... यन्त्रतन्त्रभेदिने । रं ... रजस्सत्त्वगुणान्विताय ।
लं ... लोकातीतगुणोपेताय । वं ... विकल्पपरिवर्जिताय ।
शं ... शङ्खचक्रकुलिशध्वजधराय । षं ... षट्चक्रस्थाय ।
सं ... सर्वमन्त्रार्थसर्वज्ञत्वमुख्यबीजस्वरूपाय ।
हं ... हृदयाम्बुजमध्यस्थविरजव्योमनायकाय ।
ळं ... लोकैकनाथाय नमः ॥ ३००॥
क्षं ... एकपञ्चदशा(ञ्चादशा)क्षरसंपूर्णाय नमः ।
अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः
कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं
तं थं दं धं नं पं फं बं भं मं
यं रं लं वं शं षं सं हं ळं क्षं
नमः शिवाय वभणवरश हं हिं हुं हें हों हं
सद्योजात-वामदेव-अघोर-तत्पुरुष-ईशान-अधोमुख-
हां हीं हूं हैं हौं हः हृदय-शिरः-शिखा-कवच-
नेत्रत्रय-अस्त्र-ब्रह्म-विष्णु-रुद्र-महेश्वर-
सदाशिव-परब्रह्म-सृष्टि-स्थिति-संहार-तिरोभाव-
अनुग्रह-पञ्चकृत्यकारणाय जगद्भुवे वचद्भुवे विश्वभुवे
रुद्रभुवे ब्रह्मभुवे अग्निभुवे लं वं रं यं हं सं सर्वात्मकाय
ॐ ह्रीं व्रीं सौः शरवणभव ॐ सर्वलोकं मम वशमानाय
मम शत्रुसङ्क्षोभणं कुरु कुरु मम शत्रून्नाशय नाशय, मम
शत्रून्मारय मारय षण्मुखाय मयूरवाहनाय सर्वराजभयनाशनाय
स्कन्देश्वराय वभणवरश क्षां क्षीं क्षूं क्षैः क्षौः क्षः
हुं फट् स्वाहा नमः ॥
इति श्रीसुब्रह्मण्यमन्त्रसम्मेलनत्रिशती समाप्ता ।
Send corrections to (sanskrit at cheeful dot c om)
Proofread by PSA Easwaran,
Ravi Venkatraman raviv at hamiltonianusa.com