श्रीसुब्रह्मण्यशैलवासिनः स्तोत्रम्
नीलकण्ठवाहनं द्विषड्भुजं किरीटिनं
लोलरत्नकुण्डलं प्रभाभिरामषण्मुखम् ।
शूलशक्तिदण्डकुक्कुटाक्षमालिकाधरं
बालमीश्वरं कुमारशैलवासिनं भजे ॥ १॥
वल्लीदेवनायीकासमुल्लसन्तमीश्वरं
मल्लिकादिदिव्यपुष्पमालीकाविराजितम् ।
झल्लरीनिनादशङ्खवादनप्रियं सदा
पल्लवारुणं कुमारशैलवासिनं भजे ॥ २॥
इति श्रीसुब्रह्मण्यशैलवासिनः स्तोत्रं सम्पूर्णम् ।