श्रीसुब्रह्मण्यस्तोत्रम्
षड्वक्त्रं शिखिवाहनं त्रिनयनं चित्राम्बरालङ्कृतं
शक्तिं वज्रकृपाणशूलमभयं खेटं धनुश्चक्रकम् ।
पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदा-
ध्यायेदीप्सितसिद्धिदं शिवसुतं स्कन्दं सुरेन्द्रं सदा ॥ १॥
सिन्दूरारुणकान्तिमिन्दुवदनं केयूरहारादिभिः
दिव्यैराभरणैर्विभूषिततर्नु स्वर्गस्थसौख्यप्रदम् ।
अम्भोजाभयशक्तिकुक्कुटधरं रक्ताङ्गरागोज्ज्वलं
सुब्रह्मण्यमुपास्महे प्रणमतामिष्टार्थसिद्धिप्रदम् ॥ २॥
षडाननं चन्दनलेपिताङ्गं
महाद्युतिं दिव्यमयूरवाहनम् ।
महेशसूनुं सुरलोकनाथं
ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ३॥
रुद्रप्रियं दिव्यमनोहराङ्गं
कुष्ठादिरोगान् स्मरणाद्धरन्तम् ।
उच्छिष्टलेपात्तनुशुद्धिदं त्वां
ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ४॥
इष्टार्थदं भक्तजनस्य काम
मृष्टान्नदातारमुमेशसूनुम् ।
अघौघनाशं च (विध्वंसि) निजोत्तमाङ्गं (ङ्घ्रिं)
ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ५॥
आर्यात्मजं देवगणाधिसेव्यं
स्तोत्रेण देहेन कुलं करोति ।(?)
त्वं देवदेवं त्वमुपाश्रयन्तं (?)
ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ६॥
(त्वां देवदेवं समुपाश्रितानां
स्तोत्रेण चैतेन कुलं करोषि ।
आर्यात्मजं देवगणाधिसेव्यं
ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ६॥)
द्विषड्भुजं षण्मुखमम्बिकासुतं
कुमारमादित्यसमानतेजसम् ।
वन्दे मयूरासनमग्निसन्निभं
सेनापतिं स्कन्दमभीष्टसिद्धये ॥ ७॥
॥ इति श्रीसुब्रह्मण्यस्तोत्रं सम्पूर्णम् ॥
Proofread by Sreenivasa Rao Bhagavatula