श्रीसुब्रह्मण्यस्तोत्रमालामन्त्रः
ॐ अस्य श्रीसुब्रह्मण्यमालामहामन्त्रस्य, ब्रह्मा ऋषिः ।
गायत्री छन्दः । श्रीसुब्रह्मण्यः कुमारो देवता ।
श्रीं बीजं, ह्रीं शक्तिः, क्लिं कीलकं,
मम सर्वाभीष्ट सिद्ध्यर्थे जपे विनियोगः ।
करन्यासः - ॐ श्रीं क्लीं कुमाराय अङ्गुष्ठाभ्यां नमः ।
ॐ शरवणभवाय तर्जनीभ्यां नमः । ॐ कार्तिकेयाय मध्यमभ्यां नमः ।
ॐ मयूरवाहनाय अनामिकाभ्यां नमः । ॐ स्कन्दाय कनिष्ठिकाभ्यां
नमः । ॐ सुब्रह्मण्याय करतलकरपृष्ठाभ्यां नमः । एवं
हृदयाद्यङ्गन्यासः । भूर्भुवस्सुवरोमिति दिग्बन्धः । ध्यानम्-
बालार्कायुतसन्निभं शिखिरथाॠढं च षड्भिर्मुखैः ।
भास्वद्वाशलोचनं मणिमयैराकल्पकैरावृतम् ।
विद्यापुस्तकशक्ति कुक्कुट धनुर्बाणासिखेटान्वितं
भ्राजत्कार्मुकपङ्कजं हृदि महासेनान्यामाद्यं भजे ॥
अथ लमित्यादि पञ्चपूजा ।
लं पृथिव्यात्मने गन्धं कल्पयामि ।
हं आकाशात्मने पुष्पाणि कल्पयामि ।
यं वाय्वात्मने धूपं कल्पयामि ।
रं अग्न्यात्मने दीपं कल्पयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि ।
सं सर्वात्मने ताम्बूलादि सर्वोपचारपूजान् कल्पयामि ॥
ॐ श्रीं ह्रीं क्लीं नमो भगवते
ॐ ह्रीं सां रुद्रकुमाराय अष्टाङ्गयोगनायकाय
महामणिभिरलंकृताय क्रौञ्चगिरिविदारणाय
तारकसंहारकारणाय
शक्तिशूलगदाखड्गखेटपाशाङ्कुशमुसलप्रासाद्यनेक
चित्रायुधालंकृताय द्वादशभुजाय हारनूपुरकेयूरकनक
कुण्डलभूषिताय सकलदेवसेनासमूह परिवृताय गाङ्गेयाय
शरवणभवाय देवलोकशरण्याय सर्वरोगान् हन हन दुष्टान्
त्रासय त्रासय, गणपतिसहोदराय
भूतप्रेतपिशाचकर्षणाय, गङ्गासहायाय
ॐकारस्वरूपाय विष्णुशक्तिस्वरूपाय रुद्रबीजस्वरूपिणे
विश्वरूपाय महाशान्तायते नमः । टीं मोहिन्यै नमः । ह्रीं
आकर्षण्यै नमः । ह्रीं स्तम्भिन्यै नमः ।
शत्रूनाकर्षयाकर्षय बन्धय बन्धय
सन्ताडय सन्ताडय वातपित्तश्लेष्मज्वरामयादी नाशु
निवारय निवारय सकलविषं भीषय भीषय सर्वोपद्रव
मुत्सारयोत्सारय मां रक्ष रक्ष भगवन् कार्तिकेय प्रसीद
प्रसीद ।
ॐ नमो भगवते सुब्रह्मण्याय महाबलपराक्रमाय
क्रौञ्चगिरिमर्दनाय अनेकासुरप्राणापहाराय
इन्द्राणीमाङ्गल्यरक्षकाय त्रयस्त्रिंशत्कोटिदेवतानन्दकराय
दुष्टनिग्रहाय शिष्टपरिपालकाय वीरमहाबल
हनुमन्नारसिंह वराहादिसहिताय
इन्द्राग्नियमनैर्युतवरुणवायुकुबेरेशानदिगाकाशपाताळबन्धनाय
सर्वचण्डग्रहादि नवकोटिगुरुनाथाय नवकोटिदानवशाकिनी
डाकिनी कामिनी मोहिनी स्तम्भिनी गण्डभैरवी
दुष्टभैरवादिसहितभूतप्रेतपिशाचभेताळब्रह्मराक्षसदुष्टग्रहान्
बन्धय बन्धय षण्मुखाय वज्रधराय सर्वग्रहनिग्रहाय
सर्वग्रहं नाशय नाशय सर्वज्वरं नाशय नाशय
सर्वरोगं नाशय नाशय सर्वदुरितं नाशय नाशय ।
ॐ रं ह्रां ह्रीं मयूरवाहनाय हुं फट् स्वाहा । ॐ सैं ह्रीं क्लीं ऐं सैं
नं कं सैं शरवणभव ।
(जपान्ते अङ्गन्यास दिग्विमोकध्यान पञ्चपूजाः समर्पणं च ।)
(कुमारतन्त्रतः)
ॐ सुं सुब्रह्मण्याय स्वाहा । ॐ कार्तिकेय पार्वतीनन्दन स्कन्द वरद
वरद सर्वजनं मे वशमानय स्वाहा । ॐ सौं सूं सुब्रह्मण्याय
शक्तिहस्ताय ऋग्यजुः सामाथर्वणाय असुरकुलमर्दनाय योगाय
योगाधिपतये शान्ताय शान्तरूपिणे शिवाय शिवनन्दनाय
षष्ठीप्रियाय सर्वज्ञानहृदयाय षण्मुखाय श्रीं श्रीम्
ह्रीं क्षं गुह रविकङ्कालाय कालरूपिणे सुरराजाय सुब्रह्मण्याय
नमः । ॐ नमो भगवते महापुरुषाय मयूरवाहनाय गौरीपुत्राय
ईशात्मजाय स्कन्दस्वामिने कुमाराय तारकारये षण्मुखाय द्वादशनेत्राय
द्वादशभुजाय द्वादशात्मकाय शक्तिहस्ताय सुब्रह्मण्याय ॐ नमः
स्वाहा । ॐ ह्रीं सां शरवणभवाय ह्रीं फट् स्वाहा ॥
॥ इति श्रीसुब्रह्मण्यस्तोत्रमालामन्त्रः समाप्तः ॥
Encoded and proofread by antaratma at Safe-mail.net