श्रीस्वामिनाथ षट्पदीस्तोत्रम्
श्रीसुब्रह्मण्याय नमः ।
श्रीस्वामिनाथं सुरवृन्दवन्द्यं भूलोकभक्तान् परिपालयन्तम् ।
श्रीसह्यजातीरनिवासिनं तं वन्दे गुहं तं गुरुरूपिणं नः ॥ १॥
श्रीस्वामिनाथं भिषजां वरेण्यं सौन्दर्यगाम्भीर्यविभूषितं तम् ।
भक्तार्तिविद्रावणदीक्षितं तं वन्दे गुहं तं गुरुरूपिणं नः ॥ २॥
श्रीस्वामिनाथं सुमनोज्ञबालं श्रीपार्वतीजानिगुरुस्वरूपम् ।
श्रीवीरभद्रादि गणैस्समेतं वन्दे गुहं तं गुरुरूपिणं नः ॥ ३॥
श्रीस्वामिनाथं सुरसैन्यपालं शूरादि सर्वासुरसूदकं तम् ।
विरिञ्चि विष्ण्वादि सुसेव्यमानं वन्दे गुहं तं गुरुरूपिणं नः ॥ ४॥
श्रीस्वामिनाथं शुभदं शरण्यं वन्दारुलोकस्य सुकल्पवृक्षम् ।
मन्दारकुन्दोत्पलपुष्पहारं वन्दे गुहं तं गुरुरूपिणं नः ॥ ५॥
श्रीस्वामिनाथं विबुधाग्र्यवन्द्यं विद्याधराराधितपादपद्मम् ।
अहोपयोवीवधनित्यतृप्तं वन्दे गुहं तं गुरुरूपिणं नः ॥ ६॥
श्रीरामकृष्णाख्ययतीन्द्रशिष्य श्रीरामचन्द्रेण कृतात्मशुद्ध्यै ।
श्रीस्वामिनाथस्य हि षट्पदीयं जीयात्तदीयप्रियदायिनी श्रीः ॥ ७॥
इति श्रीस्वामिनाथषट्पदीस्तोत्रं सम्पूर्णम् ॥
Encoded by Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com
Proofread by Sivakumar Thyagarajan, Psa Easwaran psaeaswaran at gmail.com