तिरुचेन्दूर श्री सेन्दिलाधिपन् सुप्रभातम्
ॐ श्रीगणेशाय नमः ।
वन्दे वन्दारुमन्दारमिन्दुभूषणनन्दनं
अमन्दानन्दसन्दोहबन्धुरं सिन्धुराननम् ।
षड्वक्त्र कृत्तिकापुत्र षट्चक्रस्थ कृपानिधे
उत्तिष्ठाभीष्टवरद कर्त्तव्यं लोकरक्षणम् ॥ १॥
उत्तिष्ठोत्तिष्ठ गाङ्गेय उत्तिष्ठ श्रुतिसंस्तुत ।
उत्तिष्ठ सर्वदेवेश त्रैलोक्यं मङ्गळं कुरु ॥ २॥
सुप्रातमस्तु शशिचूडतनूद्भवाय
सुप्रातमस्तु शरणागतवत्सलाय ।
सुप्रातमस्तु शरदिन्दुसमाननाय
सुप्रातमस्तु शबरेन्द्रसुताप्रियाय ॥ ३॥
सुप्रातमस्त्वसुरशूरकुलान्तकाय
सुप्रातमस्तु शमलापहदिव्यनाम्ने ।
सुप्रातमस्तु शरशक्तिधनुर्धराय
सुप्रातमस्तु शरसम्भव सुप्रभातम् ॥ ४॥
श्रीवेदसूक्तसकलागममन्त्ररूप
श्रीकार्तिकेय कमलानन तारकारे ।
श्रीसिन्धुतीरविलसत्सुगुहानिवास
श्रीगन्धमादनपते तव सुप्रभातम् ॥ ५॥
षट्कोणमध्यविलसत्प्रणवस्वरूप
षड्भावनाशक षडानन षट्किरीट ।
षष्ठीव्रतप्रिय सुमङ्गळदिव्यमूर्ते
श्रीगन्धमादनपते तव सुप्रभातम् ॥ ६॥
श्रीस्कन्दपुष्करिणिकाशुभतोयपूताः
श्रीभस्मरुद्रमणिभूषितदिव्यगात्राः ।
त्वत्सन्निधौ प्रतिदिनं प्रविशन्ति भक्ताः
श्रीगन्धमादनपते तव सुप्रभातम् ॥ ७॥
श्रीकुम्भसम्भवशुकप्रमुखा मुनीन्द्राः
श्रीपारिजातकुसुमानि करे गृहीत्वा ।
श्रीपादपद्ममुभयं च सदार्चयन्ति
श्रीगन्धमादनपते तव सुप्रभातम् ॥ ८॥
श्रीब्रह्मविष्णुसुरनायकदेवमुख्याः
त्वत्पादपद्ममधुरामृतपानहेतोः ।
द्वारे स्थिताः प्रतिदिनं निगमागमज्ञाः
श्रीगन्धमादनपते तव सुप्रभातम् ॥ ९॥
सर्वार्थसाधक जयन्तिपुरीनिवासाः
विप्रेन्द्रवर्यगणभक्तगणा महान्तः ।
त्वत्सन्निधौ प्रतिदिनं निवसन्ति सर्वे
श्रीगन्धमादनपते तव सुप्रभातम् ॥ १०॥
शरसम्भव ते करुणा प्रथिता
विधिशङ्करविष्णुमुखैर्विदिता ।
करुणालवभाग्यदि कश्चिदहो
मनुजैस्सकलैर्नियतं विनुतः ॥ ११॥
शिवतातगिरा श्रुतितत्परता
भवतस्सकलैर्विदिता हि भवान् ।
सुपलाशपलाशसवे प्रथमं
हुतभोजिमुखान्तमहो (?)कृतवान् ॥ १२॥
कलितः कलितं कलुषं सकलं
शरसम्भव हन्तुमहो भगवन् ।
वरजन्म भवान् गतवान् मतिमन्
शरदिन्दुसमानमुखाम्बुरुह ॥ १३॥
शिवनिन्दनसुस्रुवतो विबुधा
दितिजैरघरूपधरैर्विधुताः ।
त्वदुपाश्रयतः पुनरप्यमरा
भवता सुहिता विहिता नियतम् ॥ १४॥
विधिना भवतश्शिशुता विदिता
परता न मता ममता जनिता ।
प्रणवार्थकृते भवता तु पुनर्-
निजवीरवरैस्स विधिर्यमितः ॥ १५॥
मुनिभिः परिवारित भो भगवन्
शबरात्मजया सुरराट्सुतया ।
सहसाननया सह भाति भवान्
शिखिवाहन षण्मुख सर्वगुरो ॥ १६॥
शरणागतमातुरमाधिजितं
करुणाकर कामद कामहतम् ।
शरकाननसम्भव चारुरुचे
परिपालय तारकमारक माम् ॥ १७॥
शरदिन्दुसमानषडाननया
सरसीरुहचारुविलोचनया ।
निरुपाधिकया निजबालतया
परिपालय तारकमारक माम् ॥ १८॥
हरसारसमुद्भव हैमवती-
करपल्लवलाळितकम्रतनो ।
मुरवैरिविरिञ्च-मुदम्बुनिधे
परिपालय तारकमारक माम् ॥ १९॥
गिरिजासुत सायकभिन्नगिरे
सुरसिन्धुतनूज सुवर्णरुचे ।
शिखिवाह शिखावलदेव नमो
परिपालय तारकमारक माम् ॥ २०॥
परितो भव मे पुरतो भव मे
पथि मे सततं गुह रक्ष च माम् ।
वितराजिषु मे विजयं परितः
परिपालय तारकमारक माम् ॥ २१॥
जय विप्रजनप्रिय वीर नमो
जय भक्तपरायण भद्र नमो ।
जय शाख विशाख कुमार नमो
परिपालय तारकमारक माम् ॥ २२॥
एकं पक्षद्वयं साक्षात् त्रिमूर्तिञ्च चतुष्फलम् ।
पञ्चस्कन्धं च षट्शाखं सप्तत्वक्-परिपूरितम् ॥ २३॥
अष्टपुष्पं नवाक्षं च दशव्याप्तं महाद्भुतम् ।
एवमादिमहावृक्षं पालयन्तं गुहं भजे ॥ २४॥
इत्थं श्रीसुप्रभातं च ये पठन्तीह मानवाः ।
ते सर्वे सर्वकामार्थाः प्रयान्ति गुहसन्निधौ ॥ २५॥
इति शुभम् ।
इति तिरुचेन्दूर श्री सेन्दिलाधिपन् सुप्रभातं सम्पूर्णम् ।
Encoded by Sivakumar Thyagarajan Iyer
Proofread by Sivakumar Thyagarajan Iyer, Aruna Narayanan, PSA Easwaran, Rajani Arjun Shankar