श्रीमद्विद्यारण्यस्वामिविरचितः अनुभूतिप्रकाशः
श्रीगणेशाय नमः ।
अनुक्रमणिका
अध्यायः. नाम (श्लोकसङ्ख्या)
१. ऐतरेयोपनिषद्विवरणो नाम प्रथमोऽध्यायः । (१०८)
२. तैत्तिरीयकविद्याप्रकाशो नाम द्वितीयोऽध्यायः । (१५०)
३. छान्दोग्योपनिषदि श्वेतकेतुविद्याप्रकाशो नाम तृतीयोऽध्यायः । (१४०)
४. छान्दोग्ये सनत्कुमारविद्याप्रकाशो नाम चतुर्थोऽध्यायः । (९०)
५. छान्दोग्ये प्रजापतिविद्याप्रकाशोऽनाम पञ्चमोऽध्यायः । (१००)
६. मुण्डकोपनिषद्विवरणो नाम षष्ठोऽध्यायः । (१००)
७. प्रश्नोपनिषद्विवरणं नाम सप्तमोऽध्यायः । (१००)
८. कौषीतकीशाखा विवरणे इन्द्रप्रतर्दनसंवादो नाम अष्टमोऽध्यायः । (१००)
९. कौषीतकीशाखोपनिषद्विवरणो नाम नवमोऽध्यायः । (७५)
१०. मैत्रायणीयशाखाविवरणो नाम दशमोऽध्यायः । (१५०)
११. कठवल्लीविवरणो नाम एकादशोऽध्यायः । (१२०)
१२. श्वेताश्वतरविवरणो नाम द्वादशोऽध्यायः । (१२०)
१३. बृहदारण्यके काण्वविद्याप्रकाशो नाम त्रयोदशोऽध्यायः । (३०२)
१४. अजातशत्रुविद्याप्रकाशो नाम चतुर्दशोऽध्यायः । (१२०)
१५. बृहदारण्योपनिषदि मैत्रेयीविद्याप्रकाशो नाम पञ्चदशोऽध्यायः । (१०३)
१६. बृहदारण्यके मधुविद्याप्रकाशो नाम षोडशोऽध्यायः । (५०)
१७. आश्वलायनादिमुनिबोधाख्यो नाम सप्तदशोऽध्यायः । (३१०)
१८. जनकविद्याप्रकाशो नामाष्टादशोऽध्यायः । (३२४)
१९. तलवकारविद्याप्रकाशो नामैकोनविंशोऽध्यायः । (१००)
२०. देवविद्याख्यो नृसिंहतापिनीविवरणो नाम विंशोऽध्यायः । (१५६)
(कुलसङ्ख्या २८१८)
॥ अथ श्रीविद्यारण्यविरचित उपनिषत्तात्पर्यरूपोऽनुभूतिप्रकाशः प्रारभ्यते ॥
॥ हरिः ॐ ॥
१. ऐतरेयोपनिषद्विवरणो नाम प्रथमोऽध्यायः ।
ऐतरेयेण सम्प्रोक्ता द्वितीयारण्यकान्तगा ।
ब्रह्मविद्या सुविस्पष्टं बालबोधाय तन्यते ॥ १.१॥
आत्मैव सृष्टेः प्रागासीन्नामरूपविवर्जितः ।
सोऽप्येक एव नान्योऽस्ति जडं चान्यन्न विद्यते ॥ १.२॥
मायां तु प्रकृतिं विद्यान्मायिनं महेश्वरम् ।
इति श्रुत्यन्तरे प्रोक्ता माया नास्त्यत्र तत्त्वतः ॥ १.३॥
निस्तत्त्वं व्यवहारार्हमनृतं बालयक्षवत् ।
बालो यक्षं प्रकल्प्यास्माद्बिभेति व्याघ्रतो यथा ॥ १.४॥
वस्तुतत्त्वं जडं किञ्चिन्नान्यदस्त्यात्मवस्तुनः ।
अद्वयानन्दरूपात्मा तदा सुप्ताविव स्थितः ॥ १.५॥
निस्तत्वापि जगद्भान्तिं माया निद्रेव कल्पयेत् ।
निर्विकारोऽप्यसावात्मा मायावृत्त्या व्यचारयत् ॥ १.६॥
स विचार्याखिलान् लोकान् सृष्ट्वा पालकसृष्टये ।
कृत्वा विराट्तनुं छिद्रेष्वथ तद्देवता व्यधात् ॥ १.७॥
समुद्रतुल्ये देहेऽस्मिन्देवताः पतितास्तथा ।
तं देहं क्षुत्पिपासाभ्यां योजयामास स प्रभुः ॥ १.८॥
अन्नभोगायात्मदेहान्गवाश्वपुरुषादिकान् ।
सृष्ट्वा प्रावेशयत्तत्र देवतास्ता यथायथम् ॥ १.९॥
ईशोऽसाधारणं स्थानमपश्यन् क्षुत्पिपासयोः ।
प्रावेशयद्देवतासु तद्भोगात्ते च तृप्यतः ॥ १.१०॥
अन्ने सृष्टे भोक्तृवर्गो ह्यजिघृक्षत्तदिन्द्रियैः ।
तत्र वागादयोऽशक्तास्तदपानो गृहीतवान् ॥ १.११॥
जीवाभावे वृथा सर्वमित्यालोच्य परेश्वरः ।
शिरोमध्यं विदार्यात्र प्राविशज्जीवरूपतः ॥ १.१२॥
प्राणानां धारकः कर्ता चेतनो जीव उच्यते ।
आनखाग्रमहङ्कारश्चिद्व्याप्तश्चेतनोऽभवत् ॥ १.१३॥
अन्तःकरणभागौ द्वावहङ्कारो मनस्तथा ।
वृक्षस्य मूलमग्रं च यथाभागौ तथेक्ष्यताम् ॥ १.१४॥
चिद्बिम्बप्रतिबिम्बाभ्यां युक्तोऽहङ्कार एव तु ।
चेतनाप्राणभृत्तस्य हृन्निष्ठं करणं मनः ॥ १.१५॥
तस्य हृत्कण्ठनेत्रेषु प्रचारवशतोऽभवत् ।
सुप्तिः स्वप्नो जागरश्च सोऽयं संसार ईरितः ॥ १.१६॥
स्वप्नः स्वकाल एवास्ति नान्यदा सुप्तिजागरौ ।
तथैवेति स्वप्नसाम्यात्त्रयः स्वप्ना उदीरिताः ॥ १.१७॥
अध्यारोपो मायिकोऽयमुक्तोऽथासावपोह्यते ।
अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते ॥ १.१८॥
स संसारीश्वरो जात ईश्वरानुग्रहात्पुनः ।
पृथिव्यादीनि भूतानि यथाशास्त्रं व्यचारयत् ॥ १.१९॥
परमात्मन उत्पन्नं जगदात्मैव नेतरत् ।
मृदो जातो घटो यद्वन्मृद्वस्त्वेव तथेक्ष्यताम् ॥ १.२०॥
घटः शराव इत्यादि विकाराणां मृदः पृथक् ।
तत्त्वं नास्ति प्रतीते तु नामरूपे प्रकल्पिते ॥ १.२१॥
प्रतिबिम्बभ्रमो नीराद्युपाधिवशतो यथा ।
सन्निवेशोपाधितोऽयं तथा कुम्भादिविभ्रमः ॥ १.२२॥
भ्रान्तिः सोपाधिकोपाधिनिवृत्त्यैव निवर्तते ।
न बोधात्तेन भासन्ते जानतोऽपि घटादयः ॥ १.२३॥
पृथग्द्रव्यस्वरूपः सन् समवेतो घटो मृदि ।
इत्याहुस्तार्किकास्तत्तु न द्वैगुण्यप्रसङ्गतः ॥ १.२४॥
मृद्भाभाराद्घटभाराच्च गुरुत्वं द्विगुणं भवेत् ।
तथालङ्कारकर्ता स्यात्कृती हेमादिवृद्धितः ॥ १.२५॥
न सन्निवेशमात्रेण पृथग्द्रव्यत्वसम्भवः ।
शयनोत्थानगमनैः न पुत्रे बहुपुत्रता ॥ १.२६॥
तस्मात्कार्यं न वस्तु स्यात्कारणव्यतिरेकतः ।
किन्तु कारण एवैतदनृतं भासते मृषा ॥ १.२७॥
अर्थक्रियानृतेऽप्यस्ति स्थाणौ चोरभयेक्षणात् ।
ततोऽनृता घटाद्याः स्युर्भान्तु कुर्वन्तु वा क्रियाम् ॥ १.२८॥
सन्निवेशोपाधिहाने गच्छत्येव घटादिधीः ।
विवेकिनां तु वस्तुत्वं घटादीनां निवर्तते ॥ १.२९॥
घटः शराव इत्येवं वाचैवारभ्यते वृथा ।
मृत्तिकेत्येव सत्यं स्यान्न तु सत्यं घटादिकम् ॥ १.३०॥
एवमात्मन उत्पन्नं पृथिव्याद्यपि नात्मनः ।
पृथग्वस्त्वस्ति किन्त्वात्मन्यारोपात्प्रतिभासते ॥ १.३१॥
सद्वस्तु ह्यात्मनस्तत्त्वं तस्मिन्भूम्यादिकल्पनात् ।
पृथिव्यादीनि सन्तीति भासन्ते तत्तदिन्द्रियैः ॥ १.३२॥
इन्द्रियोपाधिका भ्रान्तिरक्षरोधान्न भासते ।
इत्येतद्विशदीकर्तुं योगो वेदेषु वर्ण्यते ॥ १.३३॥
सदात्मनः पृथग्भूतमसद्भूम्यादि तेन तत् ।
भात्वक्षैः कार्यकृद्वाऽस्तु मिथ्यैव स्याद्धटादिवत् ॥ १.३४॥
ईदृग्विवेकदृष्ट्येदं जगदात्मैव नेतरत् ।
एवं सत्यात्मनोऽन्यत्किं वस्तुतोऽस्तीति शङ्क्यते ॥ १.३५॥
अद्वयानन्दरूपात्मा सृष्टेः पूर्वमभूद्यथा ।
तथैवाद्यापि सम्पन्नो बुद्ध्या सम्यग्विवेचितः ॥ १.३६॥
इत्थं सर्वात्मकं ब्रह्म विविच्य पुनरप्यसौ ।
एतमेव स्वमात्मानं ब्रह्मत्वेन व्यलोकयत् ॥ १.३७॥
अहङ्कारश्च चिच्छाया मिथ्या भूम्यादिवत्ततः ।
चिदात्मकोऽवशिष्टोऽयं जीवो ब्रह्मैव नेतरः ॥ १.३८॥
यथाशास्त्रं विविच्येत्थं प्रत्यग्दृष्ट्या चिदात्मनः ।
साक्षाच्चकार ब्रह्मत्वं जीवः शान्त्यादिसंयुतः ॥ १.३९॥
इदमित्यपरोक्षेण ददर्शेति विवक्षया ।
इदन्द्रनामाभूज्ज्ञानी वैयाकरणदृष्टितः ॥ १.४०॥
तमिन्द्र इत्याहुरन्ये नाम्नः पारोक्ष्यसिद्धये ।
पूज्यस्य देवपित्रादेः परोक्षं नाम हि प्रियम् ॥ १.४१॥
परमेश्वररूपत्वादपीन्द्रत्वमिहोचितम् ।
समाप्ता ब्रह्मविद्येयमुत्तमस्याधिकारिणः ॥ १.४२॥
विरक्तस्योक्तबोधः स्याद्वैराग्यं दोषदर्शनात् ।
जन्मैव प्रथमो दोषस्तद्बीभत्सा निरूप्यते ॥ १.४३॥
स्वर्गाद्वा नरकाद्वायं वृष्टिद्वारान्नसंस्थितः ।
प्रविश्य पितरं तत्र गर्भो भवति रेतसि ॥ १.४४॥
तद्रेतः पितृदेहस्थं सर्वाङ्गेभ्यः समुत्थितम् ।
पितुः स्वदेहो गर्भाख्यदेहश्चेति वपुर्द्वयम् ॥ १.४५॥
स्त्रियां सिञ्चति तद्रेतस्तत्पुत्रोत्पादनं पितुः ।
पुत्ररूपेण तज्जन्म पितुराद्यं स्वयं कृतम् ॥ १.४६॥
योषिद्योनिं प्रविश्यायं योषिद्गर्भे स्फुटीभवेत् ।
योषिद्वीर्येण पुष्टोऽसौ तद्देहेनैकतां व्रजेत् ॥ १.४७॥
अन्यथैनां स्त्रियं हन्याद्गुल्मव्याधिवदान्तरः ।
स्वाङ्गवन्न हिनस्त्येनां गर्भं रक्षति सा ततः ॥ १.४८॥
गर्भरूपं भर्तृदेहं यतः सा पालयत्यतः ।
सापि भर्त्रा पालनीया तदिष्टान्नादिवस्तुभिः ॥ १.४९॥
गर्भो विण्मूत्रयोः स्थित्वा दशमे मासि जायते ।
पिता स्वात्मधिया पुत्रं संस्करोति यथाविधि ॥ १.५०॥
पितुर्द्वितीयं तज्जन्म पुत्ररूपेण संस्थितम् ।
स्वोदराद्दारजठरादपि जन्मद्वयं क्रमात् ॥ १.५१॥
पतिर्जायां विशत्यादौ गर्भो भूत्वा स्वमातरम् ।
जायैव माता सम्पन्नेत्यहो संसारकष्टता ॥ १.५२॥
लौकिकं वैदिकं सर्वं पुत्रेऽवस्थाप्य तत्पिता ।
मृतो देहान्तरे पित्रोरन्ययोर्विशति स्वयम् ॥ १.५३॥
पुत्ररूपेण यजन्मद्वयं पूर्वमुदीरितम् ।
तदपेक्षं तृतीयं तज्जन्म स्याद्देधारिणः ॥ १.५४॥
स्वोदरं दारजठरं तथा पित्रन्तरोदरम् ।
त्रय आवसथा इत्थं जन्तोः सर्वस्य जन्मने ॥ १.५५॥
जन्मानि योनिलक्षाणां जन्तुश्चतुरशीतिषु ।
उत्तमाधमरूपाणि प्राप्नोत्येवं पुनः पुनः ॥ १.५६॥
दुष्टत्वं जन्मनः प्रोक्तं स्पष्टं रोगादि दुष्टता ।
विरक्तो बुद्धतत्त्वस्तु मुच्यते वामदेववत् ॥ १.५७॥
पूर्वजन्मनि बोधेन स्वमुक्तिं चाब्रवीदृचा ।
गर्भस्थो वामदेवोऽयं प्रतिबन्धविवर्जितः ॥ १.५८॥
जन्मन्यतीते वेदान्तं श्रुत्वाप्येष न बुद्धवान् ।
बलिना प्रतिबद्धत्वात्कर्मणा जन्महेतुना ॥ १.५९॥
गर्भे प्रविश्य तत्कर्म विनष्टं प्रतिबन्धकम् ।
नवमे मासि संस्मृत्य श्रवणं प्रतिबुद्धवान् ॥ १.६०॥
विद्वान् भूत्वा समुत्पन्नो जीवन्मुक्तोऽभवत्तदा ।
शरीरमात्मनो भिन्नं मिथ्यैवेत्यवगच्छति ॥ १.६१॥
इयन्तं कालमेतस्मिन् भ्रान्त्या देहे निमग्नवान् ।
बोधेन देहादुत्क्रम्योत्कृष्टोऽभूज्जीवतां त्यजन् ॥ १.६२॥
जीवत्वेऽपगते तस्य शिष्यते परमात्मता ।
स एव स्वर्गतुल्योऽभूदिन्द्रियाविषयत्वतः ॥ १.६३॥
परोक्षोऽपि विमूढानां विद्वद्भिरवलोक्यते ।
सर्वेऽपि विषयानन्दाः प्राप्ता दृष्टे निजात्मनि ॥ १.६४॥
आत्मानन्दसमुद्रस्य विप्लुषो विषयोत्थिताः ।
आत्मन्यन्तर्भवन्त्यन्ते समुद्रे बिन्दवो यथा ॥ १.६५॥
आत्मन्यानन्दमज्ञात्वा विषये सुखविभ्रमात् ।
भोक्तुमिच्छति तल्लाभाद्धीरात्मन्युपशाम्यति ॥ १.६६॥
आत्मानन्दं क्षणं भुक्त्वा पुनर्भ्रान्त्या बहिर्व्रजेत् ।
विवेकिधीर्निजानन्दं भुङ्क्ते तत्स्थैव सर्वदा ॥ १.६७॥
विषये दुःखजातं यत्तद्वीक्ष्यापक्षपाततः ।
शक्यो बोद्धुं निजानन्दो बुध्यन्ते हि विवेकिनः ॥ १.६८॥
वामदेवोऽखिलानन्दानाप्यात्मन्यमृतोऽभवत् ।
देहप्राणवियोगाख्या मृतिश्चिद्वस्तुनो न हि ॥ १.६९॥
इत्थं संसारदुष्टत्वं पुरुषार्थं च बोधतः ।
श्रुत्वा विरक्ता बोधार्थं मीमांसन्ते मुमुक्षवः ॥ १.७०॥
अहं पश्याम्यहं वच्मीत्यात्मानं सर्वदा वयम् ।
उपास्महे योगिवन्द्यं कोऽसौ मूर्ध्नि प्रविष्टवान् ॥ १.७१॥
मायावी शुद्धचिद्वात्मा कतरः सृष्टितः पुरा ।
बुभुत्सन्ते द्वयोस्तत्त्वं जीवात्मपरमात्मनोः ॥ १.७२॥
जीवस्य चेतनत्वेन चैतन्यं चिन्त्यतामिदम् ।
चक्षुरादिविशिष्टं तच्छुद्धं वा तत्त्वमस्य किम् ॥ १.७३॥
चक्षुःश्रोत्रे घ्राणजिह्वे त्वक्च धीन्द्रियपञ्चकम् ।
रूपशब्दौ गन्धरसौ स्पर्शश्चविषयाः क्रमात् ॥ १.७४॥
वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियपञ्चकम् ।
भाषणादानगमनविसर्गानन्दकाः क्रियाः ॥ १.७५॥
गोलकानि दशैतेषामक्ष्यादीनि स्फुटानि हि ।
ज्ञानक्रियाशक्तिरूपमिन्द्रियं गोलकस्थितम् ॥ १.७६॥
प्राणोऽपानस्समानश्चोदानव्यानौ च वायवः ।
हृद्गुदे नाभिकण्ठौ च देहश्चैषु वसन्ति ते ॥ १.७७॥
श्वासाधोगतिवृत्ती द्वे वपुष्यन्नसमीकृतिः ।
उद्गारादिर्देहबलं पञ्च वायुक्रिया इमाः ॥ १.७८॥
अहङ्कर्ता वपुर्व्याप्य जडं चेतनतां नयेत् ।
मनोऽन्तर्हृद्यवस्थाय वृत्तीः कामादिकाः सृजेत् ॥ १.७९॥
ज्ञानेन्द्रियाणि पञ्चात्र तथा कर्मेन्द्रियाण्यपि ।
वायवः पञ्च कर्ता च मनः सप्तदशं स्मृतम् ॥ १.८०॥
सोऽयं सप्तदशस्तोमो लिङ्गदेहः स्वयोनिषु ।
सर्वासु संसरत्यस्य विनाशो मोक्ष उच्यते ॥ १.८१॥
अज्ञानकल्पितो देहस्तत्त्वज्ञानेन नश्यति ।
ज्ञानोत्पत्तिर्विचारेण तस्मादात्मा विचार्यते ॥ १.८२॥
येन पश्यत्यसावात्मा यः पश्यति स वा भवेत् ।
द्रष्टा पश्यति बोधेन चाक्षुषेण तयोस्तु कः ॥ १.८३॥
शृणोति येन यः श्रोता तयोरित्यादि योज्यताम् ।
चैतन्यमस्ति करणे कर्तरीत्यत्र चिन्त्यते ॥ १.८४॥
बहूनि करणान्येषु बोधा दृष्ट्यादिनामकाः ।
बहवः कर्तृबाहुल्यमपि द्रष्ट्रादिभेदतः ॥ १.८५॥
करणानां च कर्तॄणां भेदः स्याच्चक्षुरादिके ।
बाह्ये यथा तथैवान्तः शरीरेऽप्यवगम्यताम् ॥ १.८६॥
कर्त्रुपाधिरहङ्कारो वाच्यो हृदयशब्दतः ।
करणं स्यान्मनस्तस्य संज्ञानाद्यास्तु वृत्तयः ॥ १.८७॥
तत्र सर्वत्र चैतन्यं लक्ष्यते हि पृथक् पृथक् ।
एवं सति बहुष्वेषु कः स्यादात्मेति संशयः ॥ १.८८॥
प्रज्ञानमेकं सर्वेषु यत्स आत्मेति निर्णयः ।
प्रकृष्टं निरुपाधित्वात्चैतन्यं यत्तदीक्ष्यताम् ॥ १.८९॥
अहङ्कारो मनोबाह्यं करणं चाप्युपाधयः ।
तेषु सर्वेषु चिच्छाया सङ्क्रान्ता चेतनास्ततः ॥ १.९०॥
न मुख्यं तेषु चैतन्यमात्मत्वस्याप्यमुख्यता ।
सुषुप्तौ तानि लुप्यन्ते न त्वात्मा तत्र लुप्यते ॥ १.९१॥
प्रज्ञानं निरुपाधित्वात्नित्यं तल्लोपभासकम् ।
प्रज्ञानस्यात्मता तस्मान्मुख्या नान्यस्य कस्यचित् ॥ १.९२॥
द्रष्ट्राद्या अपि दृष्ट्याद्याः शब्दा मुख्यात्मवस्तुनः ।
नामान्युपाधिमालम्ब्य तस्मादात्मोपलक्षकाः ॥ १.९३॥
यथैकस्यैव सम्बन्धविशेषोपाधिनाखिलाः ।
पुत्रभ्रात्रादयः शब्दा नामत्वेनोपलक्षकाः ॥ १.९४॥
उपलक्ष्यं तु हस्तादि युक्तमेकं वपुस्तथा ।
चेतनैः कर्तृकरणैः प्रज्ञानमुपलक्ष्यते ॥ १.९५॥
प्रज्ञानं कर्तृदेहादिसाक्षिभूतं यदस्ति तत् ।
जीवस्य वास्तवं रूपमित्येवं निर्णयो भवेत् ॥ १.९६॥
प्रज्ञानं स्वशरीरेऽस्ति तथा देहान्तरेष्वपि ।
ब्रह्मादिस्थावरान्तेषु तस्य स्यात्परमात्मता ॥ १.९७॥
प्रज्ञानस्यास्य जीवत्वं प्राणधारणतो यथा ।
जगत्सृष्ट्यादिहेतुत्वाद्ब्रह्मत्वं च तथेष्यताम् ॥ १.९८॥
स्थावरं जङ्गमं सर्वं जगदित्यभिधीयते ।
तस्य प्रज्ञैव नेत्रं स्यात्सृष्ट्यादिनयनादसौ ॥ १.९९॥
प्रज्ञानं शुद्धचिद्रूपमासीद्यत्सृष्टितः पुरा ।
तस्मिन् प्रतिष्ठितं सर्वं माययोत्पादितत्त्वतः ॥ १.१००॥
उत्पत्तिस्थितिकालेऽसौ लोकः प्रज्ञाननेत्रकः ।
नेत्रत्वं व्यवहारस्य सुखादेर्नयनाद्भवेत् ॥ १.१०१॥
लये प्रज्ञा प्रतिष्ठा स्यात्तत्र सर्वस्य संहृतेः ।
सृष्टिस्थितिलया इत्थं श्रुताः प्रज्ञानहेतुकाः ॥ १.१०२॥
स्वप्नसृष्टिस्थितिलया जीवचैतन्यसाक्षिकाः ।
निर्जीवस्तम्भकुड्यादौ स्वप्नसृष्ट्यादयो न हि ॥ १.१०३॥
जगत्सृष्टिस्थितिलया ब्रह्मचैतन्यसाक्षिकाः ।
ब्रह्मचैतन्यरहिते वन्ध्यापुत्रे न सन्ति ते ॥ १.१०४॥
जगत्सृष्ट्याद्यधिष्ठानं शुद्धचैतन्यमद्वयम् ।
परमात्मस्वरूपं स्यादिति तस्यात्र निर्णयः ॥ १.१०५॥
यत्प्रज्ञानं स्वात्मरूपं तद्ब्रह्मेति विबुध्यताम् ।
प्रज्ञानं ब्रह्म विज्ञाय तिष्ठेत्प्रज्ञात्मना सदा ॥ १.१०६॥
जीवन्नेव स्थितप्रज्ञो मुक्तः स्याद्वामदेववत् ।
म्रियतां यत्र तत्रास्य वपुः सोऽयं न जायते ॥ १.१०७॥
ऐतरेयब्रह्मविद्यां व्याख्यातां सङ्ग्रहादिमाम् ।
सुस्थिरामनुगृह्णातु विद्यातीर्थमहेश्वरः ॥ १.१०८॥
इति श्रीमद्विद्यारण्यमुनिकृते अनुभूतिप्रकाशे
ऐतरेयोपनिषद्विवरणं नाम प्रथमोऽध्यायः ॥ १॥
२. तैत्तिरीयकविद्याप्रकाशो नाम द्वितीयोऽध्यायः ।
ब्रह्मवल्ल्यां ब्रह्मविद्यां तित्तिरिः प्राह यामिमाम् ।
वक्ष्ये सुखावबोधाय क्रीडन्त्वत्र मुमुक्षवः ॥ २.१॥
दर्शादिपितृमेधान्तैः कर्मभिर्बहुजन्मसु ।
अनुष्ठितैर्विविदिषा जायतेंऽतिमजन्मनि ॥ २.२॥
ततो योगं समभ्यस्य संहितोपासनादिभिः ।
एकाग्रे साधितेऽथास्य विद्यां सूत्रयति श्रुतिः ॥ २.३॥
सूत्रात्पूर्वं शान्तिमन्त्रो जपायात्रोपवर्णितः ।
जपेन विघ्ना द्वेषाद्याः शम्यन्ति मनसि स्थिताः ॥ २.४॥
ब्रह्मवित्परमेतीति सूत्रं सर्वार्थसूचनात् ।
ज्ञेयं ज्ञानं फलं चेति सर्वेऽर्थाः सूचिता इह ॥ २.५॥
ज्ञेयं ब्रह्म तदीया धीर्ज्ञानं स्याद्ब्रह्मता फलम् ।
सूत्रव्याख्यानरूपायामृच्येतद्विशदीकृतम् ॥ २.६॥
ज्ञातव्यं ब्रह्म यत्तत्किमिति चेत्तस्य लक्षणम् ।
सत्यं ज्ञानमनन्तं यत्तद्ब्रह्मेत्यवगम्यताम् ॥ २.७॥
आकाशादि जगत्सर्वमनृतं मायिकत्वतः ।
नानृतं ब्रह्म तेनैतत्सत्यमित्यभिधीयते ॥ २.८॥
जगज्जडं स्वतः स्फूर्तिराहित्याद्ब्रह्म तु स्वयम् ।
पुरतीत्यजडं तेन ज्ञानमित्यभिधीयते ॥ २.९॥
जडं घटाद्यन्तवत्स्याद्देशकालादिवस्तुभिः ।
न देशादिकृतोऽन्तोऽस्य ब्रह्मानन्तं ततः स्मृतम् ॥ २.१०॥
देशकालाद्यन्यवस्तुत्रयं मायाविजृम्भितम् ।
ब्रह्म सत्यं मायिकैस्तैः परिच्छिन्नं कथं भवेत् ॥ २.११॥
जडानृतपरिच्छिन्नव्यावृत्त्यैव पदत्रयम् ।
लक्षकं स्यादखण्डस्य यत्तद्ब्रह्मेति बुध्यताम् ॥ २.१२॥
तादृग्ब्रह्म कथं विद्यादिति चेदभिधीयते ।
गुहायां परमे व्योम्नि स्थितं ब्रह्म तु वेद यः ॥ २.१३॥
देहादभ्यन्तरः प्राणः प्राणादभ्यन्तरं मनः ।
ततः कर्ता ततो भोक्ता गुहा सेयं परम्परा ॥ २.१४॥
पञ्चकोशगुहायां यदज्ञानं कारणं स्थितम् ।
तद्व्योम परमं तस्मिन्निगूढं ब्रह्म तिष्ठति ॥ २.१५॥
जीवचैतन्यमेवात्र निगूढमिति चेत्तदा ।
तस्यैव ब्रह्मतां विद्याज्जीवत्वभ्रान्तिहानये ॥ २.१६॥
स्वतो ब्रह्मैव चैतन्यं जीवत्वं प्राणधारणात् ।
कोशतादात्म्यविभ्रान्त्या भात्यस्य प्राणधारणम् ॥ २.१७॥
वक्ष्यमाणविवेकेन तत्तादात्म्यमपोह्यते ।
ब्रह्मसाक्षास्कृतिस्त्वीदृग्बोधेनैव न चान्यथा ॥ २.१८॥
बाह्यं जगत्पञ्चकोशाँश्चापोह्यान्तर्मुखास्य धीः ।
ब्रह्म साक्षात्कारोत्येव सर्वोपाधिविवर्जितम् ॥ २.१९॥
सोपाध्येव बहिर्दृष्ट्या भाति ब्रह्म न तावता ।
अपैति जीवता तस्मादन्तर्दृष्ट्यैव बुध्यताम् ॥ २.२०॥
बहिर्दृष्टिर्जगद्भानं तस्य सत्यत्वधीरपि ।
विवेकात्सत्यताऽपैति जगद्भानं तु योगतः ॥ २.२१॥
बहिर्दृष्टावपेतायामन्तर्दृष्ट्या यदीक्ष्यते ।
निगूढं जीवचैतन्यं तद्ब्रह्मेति प्रपश्यति ॥ २.२२॥
दृष्टे तस्मिन् परप्राप्त्या विदुषोऽतिशयोऽत्र कः ।
इति चेद्युगपत्सर्वकामाप्तिरधिका भवेत् ॥ २.२३॥
काम्यन्ते विषयानन्दा निखिलैः प्राणिभिः सदा ।
ब्रह्मानन्दस्य ते सर्वे लेशा इत्यपरा श्रुतिः ॥ २.२४॥
आनन्दहेतवो बाह्या विषया इति विभ्रमात् ।
कामयन्ते बहिर्दृष्ट्या विषयान् प्राणिनोऽखिलाः ॥ २.२५॥
अभीष्टविषये लब्धे धीः प्रत्यावृत्त्य हृद्गतम् ।
ब्रह्मानन्दं क्षणं भुक्त्वा बाह्यं कामयते पुनः ॥ २.२६॥
क्षणिकत्वाल्लेशतास्य पूर्णस्याप्युपचर्यते ।
विषयानन्दता भ्रान्त्या ब्रह्मानन्दो हि वस्तुतः ॥ २.२७॥
अन्तर्दृष्ट्या विवेकी तु ब्रह्मानन्दं सदेक्षते ।
अन्तर्भवन्ति क्षणिकाः सर्वे तस्मिन्निरन्तरे ॥ २.२८॥
तत्त्वविद्ब्रह्मरूपेण सर्वान् कामान् सहाश्नुते ।
इत्येषोऽतिशयो ब्रह्मप्राप्तिरूपं फलं श्रुतम् ॥ २.२९॥
सूत्रव्याख्यानरूपायामृच्यनन्तमितीरितम् ।
तदानन्त्यप्रसिद्ध्यर्थं जगत्कारणतोच्यते ॥ २.३०॥
यत्सत्यं ब्रह्म कोशाख्यगुहायां व्योमनामके ।
अज्ञाने कारणे गूढं तस्मादाकाश उद्गतः ॥ २.३१॥
खं वाय्वग्निजलोर्व्योषध्यन्नदेहेषु कारणम् ।
पूर्वं पूर्वं भवेत्कार्यं परं परमितीक्ष्यताम् ॥ २.३२॥
इन्द्रो मायाभिरभवद्बहुरूप इति श्रुतेः ।
आसन्मायिकरूपाणि खादीनि ब्रह्मगानि हि ॥ २.३३॥
परास्य शक्तिर्विविधेत्येवं श्रुत्यन्तरेरणात् ।
विविधा ब्रह्मणः शक्तिः सा च मायानृतत्वतः ॥ २.३४॥
सत्यस्य ब्रह्मरूपत्वाच्छक्तेरनृततोचिता ।
निस्तत्वा भासते याऽसौ माया स्यादिन्द्रजालवत् ॥ २.३५॥
मायाया विविधत्वेन तस्याः कार्येषु खादिषु ।
नामरूपेष्वनेकत्वं भात्यन्योऽन्यविलक्षणम् ॥ २.३६॥
भाति सर्वेषु सत्यत्वमेकं यद्ब्रह्मगं हि तत् ।
सर्वाधिष्ठानधर्मत्वात्तत्सर्वत्रानुगच्छति ॥ २.३७॥
सर्पधारादण्डमाला रज्ज्वां याः परिकल्पिताः ।
एतासु रज्जुगं दैर्घ्यं सर्वास्वनुगतं यथा ॥ २.३८॥
व्योमाद्या देहपर्यन्ताः सत्ये ब्रह्मणि कल्पिताः ।
सर्वेष्वनुगतं ब्रह्म सत्यत्वं तस्य सुस्थितम् ॥ २.३९॥
अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते ।
इति न्यायेन देहान्त आरोपः खादिरीरितः ॥ २.४०॥
अथापवादो जगतः कथ्यते ब्रह्मबुद्धये ।
तत्रादौ पुत्रमित्रादिनुत्त्यै देहात्मतोच्यते ॥ २.४१॥
आत्मा वै पुत्रनामासीत्येवमात्मत्वविभ्रमः ।
लौकिकोऽनूद्यते पुत्रे श्रुत्या युक्तिश्च विद्यते ॥ २.४२॥
साकल्यं पुत्रभार्यादेर्वैकल्यं चात्मनीक्ष्यते ।
इत्याह भाष्यकृत्तेन पुत्रेऽस्ति स्वात्मताभ्रमः ॥ २.४३॥
सोऽस्यायमात्मा पुण्येभ्यः प्रतिधीयत इत्यदः ।
वचो वक्त्यैतरेयोऽतः स्वात्मताभ्रम एव हि ॥ २.४४॥
एवं व्युदसितुं देहस्यैवात्मत्वमिहोच्यते ।
यो देहोऽन्नमयः सोऽयमेवात्मान्यो न कश्चन ॥ २.४५॥
मदीयः पुत्रभार्यादिरिति भेदावभासनात् ।
गौणी स्यादात्मता पुत्रे भृत्यादौ सिंहता यथा ॥ २.४६॥
पूर्ववासनया पुत्रे स्वात्मता भाति चेत्पुनः ।
तद्वासनापनुत्त्यर्थं देहात्मत्वमुपास्यताम् ॥ २.४७॥
शिरः पक्षौ मध्यपुच्छे इति देहस्य पक्षिताम् ।
ध्यात्वा तन्निष्ठतां प्राप्य त्यजेत्पुत्रात्मताश्रुतिम् ॥ २.४८॥
धीर्मनुष्योऽहमित्यस्ति पुत्रोऽहमिति नास्ति धीः ।
विकारोऽस्ति परिव्राजो न पुत्रसुखदुःखयोः ॥ २.४९॥
अन्नजो देह एवात्मा तदन्नं ब्रह्मबुद्धितः ।
उपास्य सर्वमप्यत्रं स्वाभीष्टं लभते पुमान् ॥ २.५०॥
विवेकाद्वा ध्यानतो वा पुत्राद्यात्मत्वनिह्नुतौ ।
तथा देहात्मतां त्यक्तुं प्राणात्मत्वं विचित्यताम् ॥ २.५१॥
न देहस्यात्मता युक्ता पूर्वजन्मन्यभावतः ।
पुरात्मा देहदं कर्म कृत्वा प्राप्नोत्यदो वपुः ॥ २.५२॥
आयुर्मरणयोर्हेतौ प्राणे जीवात्मतोचिता ।
स्थिते प्राणे भवत्यायुः प्राणापाये तु हीयते ॥ २.५३॥
देहात्मवासनानुत्त्यै प्राणात्मत्वमुपास्यताम् ।
प्राणो ब्रह्मेत्युपासीनः सर्वमायुः समश्नुते ॥ २.५४॥
प्राणोऽपानः समानश्चोदानव्यानौ च वृत्तयः ।
एतासु पूर्ववत्पक्षमूर्धादीन् परिकल्पयेत् ॥ २.५५॥
श्वासोऽधोगमनं कृत्स्ने देहेऽन्नस्य समीकृतिः ।
उद्गारादिर्बलं देहे क्रियास्तासां क्रमादिमाः ॥ २.५६॥
वृत्तिसङ्घ प्राणमयं ध्यात्वा देहात्मवासनाम् ।
सन्त्यज्याथ प्राणमये त्यजेद्देहवदात्मताम् ॥ २.५७॥
प्राणो नात्मा जडत्वेन चेतनस्यात्मतोचिता ।
मनस्तु चेतनत्वेन सर्वस्य प्रतिभासनात् ॥ २.५८॥
चक्षुराद्यक्षसापेक्षं मनो बाह्यार्थभासकम् ।
निरपेक्षेण मनसा सुखाद्यान्तरभासनम् ॥ २.५९॥
आत्मत्वं मनसो बुध्वा त्यक्तुं प्राणात्मवासनाम् ।
उपासीत मनस्तच्च वृत्याख्यावयवैर्युतम् ॥ २.६०॥
यजुराद्याश्चतुर्वेदा आदेशस्तद्गतो विधिः ।
तद्भासके मनोवृत्तिपञ्चके पक्षिकल्पना ॥ २.६१॥
अवाङ्मनसगम्यस्य ब्रह्मणोऽप्यवबोधने ।
शक्तं भवेन्मनस्तच्च मनो ब्रह्मेति कल्पना ॥ २.६२॥
न ब्रह्मणि मनोजन्यस्फूर्तिस्तस्मादगम्यता ।
मनस्यन्तर्मुखे नश्येदविद्या तेन शक्तता ॥ २.६३॥
प्राणात्मवासनानाशे मनसोऽप्यात्मतां त्यजेत् ।
कर्तुरात्मत्वमुचितं मनोंऽतःकरणं खलु ॥ २.६४॥
अहङ्कर्तेत्यदोऽज्ञानं विशिष्टं यस्य भासकम् ।
तत्कर्तृरूपं विज्ञानमात्मत्वेनावगम्यताम् ॥ २.६५॥
अहङ्क्रियत इत्येषोऽहङ्काराख्यः स विग्रहे ।
आनखाग्रमभिव्याप्य स्थितो जागरणे स्फुटः ॥ २.६६॥
तेन चेतनवद्देहो भाति सुप्तौ तु तल्लयात् ।
भवेत्काष्ठसमो देहस्तेनाहङ्कार आत्मता ॥ २.६७॥
मदीयं मन इत्युक्तेरात्मनः करणं मनः ।
इत्यात्मानं विविच्याथ तमुपासीत पक्षिवत् ॥ २.६८॥
श्रद्धाद्याः पञ्च तत्रस्थाः कल्प्या मूर्द्धादिरूपतः ।
श्रद्धास्तिक्यमृतं बुद्धौ यथा वस्त्वनुचिन्तनम् ॥ २.६९॥
यथार्थभाषणं सत्यं योग एकाग्रता धियः ।
महस्तु योगजं ज्ञानं चिन्त्याः श्रद्धादयोऽखिलाः ॥ २.७०॥
लौकिके वैदिके कर्तृविज्ञानं ब्रह्म वेत्ति चेत् ।
त्यजेदामरणं नो चेद्ब्रह्मलोके सुखं व्रजेत् ॥ २.७१॥
विज्ञानध्यानतो नश्येन्मनस्यात्मत्ववासना ।
विज्ञानात्मत्वमप्येष त्यजेच्छोकयुतत्वतः ॥ २.७२॥
शोकं तरत्यात्मबोधादिति श्रुत्यन्तरे जगौ ।
शोकसागरमग्नोऽयं कर्ता तस्यात्मता न हि ॥ २.७३॥
आनन्दस्यात्मता युक्ता सोऽत्रास्ति प्रीतिदर्शनात् ।
सदा भूयासमेवेति नित्यं प्रेमात्मनीक्ष्यते ॥ २.७४॥
आनन्दैकस्वभावोऽपि कर्तृविज्ञानसङ्गमात् ।
निजानन्दं तिरस्कृत्य कदाचिच्छोकमाप्नुयात् ॥ २.७५॥
समाधिसुप्तिमूर्छासु विज्ञानस्य लये सति ।
नित्यानन्दस्वरूपेऽस्मिञ्छोकोऽल्पोऽपि न वीक्ष्यते ॥ २.७६॥
मूर्छासुप्त्योर्यदज्ञानं भाति तत्कारणं (करणं) धियः ।
कारणे बुद्धिवृत्तौ च स्वानन्दः प्रतिबिम्बति ॥ २.७७॥
दुःखं राजसधीवृत्तौ सात्विक्यां तत्सुखं भवेत् ।
प्रियं मोदः प्रमोदश्चेत्युच्यते धीसुखं त्रिधा ॥ २.७८॥
इष्टस्य दर्शनाल्लाभाद्भोगाच्च स्युः प्रियादयः ।
ते त्रयः कारणानन्द आत्मानन्दश्च पञ्च ते ॥ २.७९॥
पक्षिणोऽवयवाः पञ्च मूर्द्धाद्यास्तेषु कल्पिताः ।
आनन्दमयकोशोऽयमुपास्यः पूर्वकोशवत् ॥ २.८०॥
अन्नप्राणमनोविज्ञानानन्दैर्जनिता इमे ।
कोशास्तेषु क्रमेण स्युरुत्तरोत्तरमान्तराः ॥ २.८१॥
विज्ञानकोशन्यायेन फलमुन्नीयतामिह ।
तदुपास्तिफलं चार्थात्तत्त्वबोधफलं भवेत् ॥ २.८२॥
आनन्दं ब्रह्म विज्ञाय त्यजेदामरणं न चेत् ।
शरीरे पाप्मनो हित्वा सर्वान् कामानवाप्नुयात् ॥ २.८३॥
आनन्दमयकोशेऽस्मिन् पञ्चमावयवः श्रुतः ।
ब्रह्मशब्देन तद्ब्रह्म स्वात्मानन्द इतीक्ष्यताम् ॥ २.८४॥
उपासनाच्चित्तशुद्धौ ब्रह्मतत्त्वमवेक्ष्यते ।
गुहाहितब्रह्मबोधात्सर्वकामाप्तिरीरिता ॥ २.८५॥
गुहाहितं ब्रह्म यत्तत्सत्यं ज्ञानमिति श्रुतम् ।
तस्य ज्ञानस्य दृश्यास्ते कोशाः सर्वं जगत्तथा ॥ २.८६॥
जगत्कोशाश्च दृश्यत्वात्सन्ति ब्रह्म न दृश्यते ।
अतो नास्तीत्याह मूढस्तत्सत्तां वक्ति बुद्धिमान् ॥ २.८७॥
ब्रह्म नास्तीति चेद्वेद स्वयमेव भवेदसत् ।
कोशात्मता दूषिता चेत् नान्य आत्मास्ति तन्मते ॥ २.८८॥
आनन्दमकोशेऽपि प्रियाद्याः नश्वरास्त्रयः ।
अज्ञानं च ज्ञाननाश्यं न ब्रह्माङ्गीकरोत्यसौ ॥ २.८९॥
अस्ति ब्रह्मेति चेद्वेद स्वयमेवात्र सम्भवेत् ।
अदृश्यस्यापि सत्ता स्यात्स्वप्रकाशत्वसम्भवात् ॥ २.९०॥
गौणात्मा पुत्रभार्यादिर्मिथ्यात्मान्नमयादिकः ।
ब्रह्मानन्दो मुख्य आत्मा क्रमेणैते विवेचिताः ॥ २.९१॥
उत्तरात्मविवेकेऽस्य पूर्वात्मा देहतां व्रजेत् ।
तेनोत्तरेण पूर्वस्य पूर्णत्वाद्देहिदेहता ॥ २.९२॥
सत्येवं निखिलं पूर्वं शरीरं ह्यन्तिमात्मनः ।
ब्रह्मानन्दस्तु शारीरः पूर्वस्यात्मेति निर्णयः ॥ २.९३॥
श्रवणं मननं चोभे तत्त्वज्ञानस्य साधने ।
उक्तनिर्णयपर्यन्तं विज्ञानं श्रवणाद्भवेत् ॥ २.९४॥
अथ स्वबुद्धिदोषेण यतः सन्देहसम्भवः ।
अतोऽसौ मननं कुर्यात्सन्देहाः स्युस्त्रयोऽस्य हि ॥ २.९५॥
ब्रह्मास्ति नो वेत्येकः स्यादज्ञानी मुच्यते न वा ।
तत्त्वविन्मुच्यते नो वेत्यपरौ संशयावुभौ ॥ २.९६॥
यदस्ति नामरूपाभ्यां व्याप्तं तद्वियदादिकम् ।
ब्रह्म निर्नामरूपत्वान्नास्तीत्याह विमूढधीः ॥ २.९७॥
विवेकी ब्रह्मणः सत्तां सृष्टिकामादिहेतुभिः ।
साधयन्बहुधा मूढं बोधयेन्मोहनुत्तये ॥ २.९८॥
अकामयत सृष्ट्यादौ परमात्मा स्वमायया ।
बहु स्यामहमेवातः प्रजायेयेति कामना ॥ २.९९॥
स्वस्यैव बहुधा चोक्तेरुपादानं मृदादिवत् ।
तथा कामयितृत्वे न निमित्तत्त्वं कुलालवत् ॥ २.१००॥
निर्धर्मकेऽप्यात्मतत्त्वे निमित्तत्वं स्वमायया ।
उपादानत्वसहितं माया दुर्घटकारिणी ॥ २.१०१॥
असम्भाव्यं न मायायामुपालम्भं न साऽर्हति ।
ततो वेदो यथा ब्रूते सृष्टिरेषा तथेष्यताम् ॥ २.१०२॥
सृज्यमालोचयन् सर्वमसृजत्परमेश्वरः ।
सृष्ट्वाऽथ जीवरूपेण प्रविवेश वपुष्ययम् ॥ २.१०३॥
यो विज्ञानमयस्तस्मिन् चैतन्यं प्रतिबिम्बितम् ।
तच्च धारयति प्राणान् जीवाख्यां लभते ततः ॥ २.१०४॥
भोक्ता भूत्वेश्वरस्तद्वद्भोग्यरूपोऽपि सोऽभवत् ।
भोग्यं च बहुधा सच्च त्यच्चेत्यादिविभेदतः ॥ २.१०५॥
सत्प्रत्यक्षं परोक्षं त्यत्तदर्भावावुभौ तथा ।
वक्तुं शक्यमशक्यं चेत्यादि द्वन्द्वेऽस्ति भोग्यता ॥ २.१०६॥
कामित्वमालोचकत्वं स्रष्टृत्वं च प्रवेष्टृता ।
भोग्याकारश्च पञ्चैते ब्रह्मसद्भावहेतवः ॥ २.१०७॥
सद्रूपः परमात्मा स्यात्कामित्वात्स्वर्गकामिवत् ।
आलोचनान्मन्त्रिवत्सन् स्रष्टृत्वाश्च कुलालवत् ॥ २.१०८॥
प्रवेष्टृत्वात्सर्पवत्सन् भोग्यत्वाच्चौदनादिवत् ।
नानुमानैरेव किन्तु विद्वत्प्रत्यक्षतोऽपि सन् ॥ २.१०९॥
यत्सत्यं ब्रह्म पूर्वोक्तं तदेव जगदात्मना ।
भाति भ्रान्त्या ततः सर्वं ब्रह्मेत्याचक्षते बुधाः ॥ २.११०॥
सर्पधारादिका भ्रान्त्या कल्पितास्तत्त्वदर्शने ।
रज्जुरेव यथा तद्वद्ब्रह्मैव सकलं जगत् ॥ २.१११॥
नामरूपयुतत्वेन जगत्सद्ब्रह्म नेति यत् ।
पूर्वपक्षिमतं तन्न ब्रह्मसत्त्वं तदीक्ष्यताम् ॥ २.११२॥
रज्जुदैर्घ्य यथा सर्पधारादिष्वनुगच्छति ।
ब्रह्मसत्त्वं तथा व्योमवाय्वादिष्वनुगच्छति ॥ २.११३॥
असदेवेदमग्रेऽभून्नामरूपात्मकं जगत् ।
पश्चात्तु ब्रह्मणा सृष्टं सदभूद्ब्रह्मसत्त्वतः ॥ २.११४॥
तद्ब्रह्मात्मानमेवेमं सच्चिदानन्दलक्षणम् ।
अकार्षीज्जगदाकारं स्वयमेव स्वमायया ॥ २.११५॥
अस्ति भाति प्रियञ्चेति प्रतिवस्त्ववभासते ।
त एते सच्चिदानन्दा ब्रह्मगा भान्ति वस्तुषु ॥ २.११६॥
नामरूपे घटादीनां प्रागभावयुते ततः ।
अभावत्वं च भावत्वं पर्यायेणेक्ष्यते तयोः ॥ २.११७॥
आगमापायिधर्मौ यौ न तयोर्धर्मिरूपता ।
शयनोत्थानयोर्नास्ति देहवस्तुस्वरूपता ॥ २.११८॥
सत्त्वासत्त्वे अन्यदीये भासेते नामरूपयोः ।
मायारूपमसत्त्वं स्यात्सत्ताया ब्रह्मरूपता ॥ २.११९॥
जाड्यदुःखे मायिकेस्तो भानानन्दौ परात्मगौ ।
लौकिकाः सच्चिदानन्दाः ब्रह्मगाश्चेदसत्कथम् ॥ २.१२०॥
भवेत्तु ब्रह्म सत्ताऽस्मिन्नानन्दोऽस्ति कथं शृणु ।
आनन्दोऽत्राभ्युपेतव्यो रसवान् (रसत्वात्) मधुरादिवत् ॥ २.१२१॥
मूढस्य मधुरादिः स्याद्रसो ब्रह्म विवेकिनः ।
मधुरादिभुगानन्दी ब्रह्मविच्च तथा सुखी ॥ २.१२२॥
ब्रह्मानन्दो न चेदत्र देहं को नाम चेष्टयेत् ।
प्राणाक्षाणां चेष्टकत्वं न तत्र करणत्वतः ॥ २.१२३॥
न केवलं चेष्टकत्वं विषयानन्दहेतुता ।
अप्यल्पविषयान् लब्ध्वा स्वानन्दे मज्जति क्षणम् ॥ २.१२४॥
विषयानन्दपर्यन्तैः कामसृष्ट्यादिहेतुभिः ।
ब्रह्मसत्त्वे स्थिते मुक्तिश्चिन्त्यते विद्वदज्ञयोः ॥ २.१२५॥
विद्वान् ब्रह्मेति मुक्तश्चेत्मुच्येताज्ञोऽप्यभिज्ञवत् ।
ब्रह्मरूपोऽपि बद्धश्चेदज्ञोऽभिज्ञोऽपि बध्यते ॥ २.१२६॥
मैवं ब्रह्मात्मैक्यबोध एवैको मोक्षकारणम् ।
ऐक्यदर्शी मुच्यतेऽतो भेददर्शी न मुच्यते ॥ २.१२७॥
ऊर्ध्वाकारे समेऽप्यस्मिश्चोरदर्शी बिभेति हि ।
स्थाणुदर्शी निर्भयोऽतस्तत्त्वबोधः प्रयोजकः ॥ २.१२८॥
ज्ञातेऽपि कर्मकाण्डार्थे वेदान्तार्थमजानतः ।
जम्मादिभीर्भवत्येव वाय्वादीनां यथा तथा ॥ २.१२९॥
वायुः सूर्यो वह्निरिन्द्रो मृत्युश्चातीतजन्मनि ।
धर्मज्ञा अप्यतत्त्वज्ञा इदानीं विभ्यतीश्वरात् ॥ २.१३०॥
ज्ञानी कामानेति सर्वान् रसो वै स इति श्रुतम् ।
ब्रह्मानन्दं स्फुटीकर्तुं मीमांसाऽऽनन्दगोच्यते ॥ २.१३१॥
सम्पूर्णो मानुषानन्दः सार्वभौमे गुणैर्युते ।
हिरण्यगर्भे सम्पूर्णो देवानन्दोऽवधी हि तौ ॥ २.१३२॥
मध्यस्थे पूर्वपुण्यानामुत्कर्षाद्वर्धते सुखम् ।
सर्वेषां यत्सुखं तत्तु निष्कामे ज्ञानिनीष्यते ॥ २.१३३॥
सर्वकामाप्तिरेषाथ रसाख्यानन्द उच्यते ।
अध्यात्ममधिभूतं चाधिदैवं चैक एव सः ॥ २.१३४॥
सर्वे स्वस्वपदे तृप्ताः कामयन्ते न तत्पदम् ।
ज्ञानी तु दोषदृष्ट्यात्र निष्कामस्तैः समस्ततः ॥ २.१३५॥
बुभुत्सौ पुरुषेऽन्येषु मनुष्येषु च योऽस्ति यः ।
आदित्ये चान्यदेवेषु स आनन्दो न भिद्यते ॥ २.१३६॥
परप्रेमास्पदत्वस्य लक्षणस्यैकरूपतः ।
लक्ष्यानन्दो न भिन्नः स्यादखण्डैकरसो ह्यतः ॥ २.१३७॥
एवं विद्वान् स्वपुत्रादेः कोशषट्कात्प्रकल्पितात् ।
व्युत्थायाखण्डैकरसे स्वानन्दे प्रतितिष्ठति ॥ २.१३८॥
सार्वभौमादिकानन्दाः पूर्वेभ्यः शतसङ्ख्यया ।
परेऽधिकास्ते तु लेशा ब्रह्मानन्दस्य बिन्दुवत् ॥ २.१३९॥
तस्मादियत्ता नैवास्य वक्तुं ध्यातुं च शक्यते ।
न बिभेत्येव तं विद्वान् जन्महेतोः कुतश्चन ॥ २.१४०॥
पुण्यं नाकरवं कस्मात्पापं तु कृतवान् कुतः ।
इति चिन्ता तपत्यज्ञं ज्ञानिनं न तपत्यसौ ॥ २.१४१॥
तापकत्वं तयोर्विद्वानुपेक्षानुष्ठितिं तयोः ।
आत्मानं प्रीणयन् बोधात्सुदृढीकुरुते धियम् ॥ २.१४२॥
देहेन्द्रियकृते पुण्यपापे चात्मतया सदा ।
पश्यन् सर्वात्मतां स्वस्य गायन् साम्नाऽवतिष्ठते ॥ २.१४३॥
अहमन्नं तथान्नादः श्लोककृच्चेतरोऽप्यहम् ।
इति सर्वात्मतां गायन् जीवन्मुक्त इतीर्यते ॥ २.१४४॥
जीवन्मुक्त्यवसानाया विद्याया मुख्यसाधनम् ।
विचारो ब्रह्मणस्तेन भृगुर्ब्रह्मावबुद्धवान् ॥ २.१४५॥
सत्यं तपो दमः शान्तिर्दानं धर्मः प्रजाग्नयः ।
अग्निहोत्रं यागयोगौ न्यासश्चैतैर्बुभुत्सताम् ॥ २.१४६॥
न्यासोऽधिकं तपो न्यासी युञ्जीतात्मानमोमिति ।
योगिनस्तस्य देहांशा यागाङ्गैरखिलैः समाः ॥ २.१४७॥
अहोरात्रादिकालास्तु समा दर्शादियागकैः ।
जीवनं सत्रतुल्यं स्यान्मुच्यते योगिसेवकः ॥ २.१४८॥
स चोत्तरायणे प्रेत आदित्यं प्राप्य मुच्यते ।
अयने दक्षिणे प्रेतश्चन्द्रं प्राप्य न मुच्यते ॥ २.१४९॥
तैत्तिरीयकविद्यायाः प्रकाशेनोपसेविनः ।
बुभुत्सूननुगृह्णातु विद्यातीर्थमहेश्वरः ॥ २.१५०॥
इति श्रीमद्विद्यारण्यमुनिविरचिते अनुभूतिप्रकाशे
तैत्तिरीयकविद्याप्रकाशो नाम द्वितीयोऽध्यायः ॥ २॥
३. छान्दोग्योपनिषदि श्वेतकेतुविद्याप्रकाशो नाम तृतीयोऽध्यायः ।
छान्दोग्ये श्वेतकेतुर्यामारुणेर्लब्धवानिमाम् ।
ब्रह्मविद्यां सङ्ग्रहेण वक्ष्येऽहं सुखबुद्धये ॥ ३.१॥
वेदानधीत्य गर्वेण श्वेतकेतुः पराङ्मुखः ।
आसीत्प्रत्यङ्मुखीकर्तुं गुरुराहातिविस्मयम् ॥ ३.२॥
एकतत्त्वे श्रुते सर्वमश्रुतं च श्रुतं भवेत् ।
अमतं च मतं तद्वदविज्ञातं च बुध्यते ॥ ३.३॥
नर्ग्वेदज्ञानमात्रेण यजुर्वेदादि बुध्यते ।
तस्मादेकधिया सर्वज्ञानं स्यादित्यलौकिकम् ॥ ३.४॥
मैवं मृद्धेमलोहेषु लौकिकेष्वस्य दर्शनात् ।
मृदादिज्ञानतः सर्वं मृन्मयं ज्ञायते स्फुटम् ॥ ३.५॥
मृदो घटशरावाद्याः विकारास्तत्तदाकृतिः ।
मृद्बोधाद्बुध्यते नेति यदुच्येत न बुध्यताम् ॥ ३.६॥
आकृत्याधारभागो यो घटस्यासौ तु बुध्यते ।
आधारो मृत्तिकाऽधेय आकारश्चोभयं घटः ॥ ३.७॥
आधारभागमात्रेऽपि ज्ञाते ज्ञातो घटो भवेत् ।
गोपुच्छमात्रसंस्पर्शाद्गोस्पर्शव्रतपूर्तिवत् ॥ ३.८॥
आकृतेर्यद्वदज्ञाने घटाज्ञानं त्वयोच्यते ।
तद्वदाधारबोधेन घटो बुद्धः कुतो न हि ॥ ३.९॥
आकृत्याधारयोस्तुल्यं भागत्वं न मृदं विना ।
केवलाकृतिमात्रः सन् घटः क्वाऽपि समीक्ष्यते ॥ ३.१०॥
मृद्रूपात्कारणद्रव्यात्कार्यद्रव्यं घटात्मकम् ।
अन्यत्तत्समवेतं हि मृदीति प्राह तार्किकः ॥ ३.११॥
स्वयुक्त्याऽसौ तथा ब्रूते नत्वेतल्लोकसम्मतम् ।
घटे मृदः पृथग्भूते कीदृक्तत्त्वमुदीर्यताम् ॥ ३.१२॥
वाचैवारभ्यते किंवा पृथगानीयते वद ।
वाचैवारभ्यते तत्त्वं किञ्चिन्न स्यात्खपुष्पवत् ॥ ३.१३॥
मृगतृष्णाम्भसि स्नातः खपुष्पकृतशेखरः ।
वन्ध्यापुत्र इति प्रोक्तो निस्तत्त्वमखिलं खलु ॥ ३.१४॥
पृथगानयनं कर्तुं धीमतापि न शक्यते ।
अतोऽनृतो घटो नैव सत्य इत्यभ्युपेयताम् ॥ ३.१५॥
समवायस्त्वया प्रोक्त आरोपं ब्रूमहे वयम् ।
स्थाणावारोपितश्चोरो यथा मृदि घटस्तथा ॥ ३.१६॥
आरोपात्पूर्वमूर्ध्वं च तदभावादसत्यता ।
आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा ॥ ३.१७॥
कालत्रयानुगः स्थाणुः सत्यो मृच्च तथेक्ष्यताम् ।
सत्यानृते च मिथुनीकृत्य कुम्भ इतीर्यते ॥ ३.१८॥
शब्दप्रत्ययकार्याणि सन्ति मृद्घटयोः पृथक् ।
स्थाणौ चौरे च दृष्टानि पृथक्तानि तथाऽत्र च ॥ ३.१९॥
द्विविधव्यवहारस्य सद्भावेऽपि विवेकिनः ।
सत्यायां मृदि तात्पर्यं नानृतेऽस्ति घटादिके ॥ ३.२०॥
इक्षौ रसोऽस्त्यृजीषं च रसं गृह्णाति बुद्धिमान् ।
नर्जीषमेवं कुम्भेऽपि मृद्भागे युक्त आदरः ॥ ३.२१॥
ये घटादिषु मृद्भागा ज्ञातव्या आदरेण ते ।
सर्वेऽपि राशिविज्ञानादेव ज्ञाता भवन्ति हि ॥ ३.२२॥
मृद ऐक्येऽपि सर्वत्वमाकारैस्तदुपाधिभिः ।
निरुपाधिकविज्ञानात्सर्वोपहितधीर्भवेत् ॥ ३.२३॥
कटकादौ सत्यभागा बुद्धा हेमधिया तथा ।
कुठारादौ सत्यभागा बुध्यन्ते लोहबुद्धितः ॥ ३.२४॥
यद्यत्कार्यं तस्य तस्य धीः स्वोपादानबुद्धितः ।
इति व्याप्तिं विवक्षित्वा दृष्टान्ता बहवः श्रुताः ॥ ३.२५॥
सर्वं जगदुपादाने श्रुते सति भवेच्छ्रुतम् ।
मते ज्ञाते मतं ज्ञातमित्यलौकिकता कुतः ॥ ३.२६॥
श्रवणं गुरुशास्त्राभ्यां मननं तु स्वयुक्तिभिः ।
विज्ञानं स्वानुभूत्येति श्रवणादेरसङ्करः ॥ ३.२७॥
श्वेतकेतुः सर्वबोधमेकबोधेन विश्वसन् ।
प्रत्यङ्मुखोऽभवत्तस्मै सर्वोपादानमीरितम् ॥ ३.२८॥
इदं जगन्नामरूपयुक्तमद्य सदीक्ष्यते ।
सृष्टेः पुरा सदेवासीन्नामरूपविवर्जितम् ॥ ३.२९॥
मृद्धेमलोहवस्तूनि विकारोत्पत्तितः पुरा ।
निर्विकाराण्युपादानमात्राण्यासन् यथा तथा ॥ ३.३०॥
स्वसजातिविजात्युत्थभेदत्रयविवर्जनात् ।
एकमेवाद्वितीयं तत्सद्वस्त्वित्यवगम्यताम् ॥ ३.३१॥
वृक्षस्य स्वगतो भेदः शाखाद्यवयवैस्तथा ।
वृक्षान्तरात्सजातीयो विजातीयः शिलादितः ॥ ३.३२॥
न सत्यवयवाः सन्ति तेनैकं स्यादखण्डकम् ।
जात्यभावात्सजातीयं विजातीयं च दुर्भणम् ॥ ३.३३॥
एकादिभिः पदैर्भेदत्रयमत्र निर्वायते ।
सर्वभेदविहीनं यदखण्डं तत्सदीक्ष्यताम् ॥ ३.३४॥
अस्तीति शब्दबुद्धी द्वे दृश्येते नामरूपयोः ।
तदभावात्पुरा सृष्टेः शून्यमाहुरवैदिकाः ॥ ३.३५॥
नामरूपात्मकं शून्यात्किलैतदुपपद्यते (उपजायते)।
तदयुक्तं न वन्ध्यायाः पुत्रात्पुत्रान्तरोद्भवः ॥ ३.३६॥
शून्यजत्वे नाम शून्यं रूपं शून्यमितीदृशः ।
शून्यानुवेधो भासेत सद्वेधस्त्ववभासते ॥ ३.३७॥
ततः सत्कारणं सत्तु सर्वसृष्ट्यर्थमैक्षेत ।
बहु स्यामहमेवातः प्रजायेयेति मायया ॥ ३.३८॥
वस्तुतो बहुभावश्चेदद्वैतं सद्विनश्यति ।
माभून्नाश इति श्रुत्या प्रकर्षेण जनिः श्रुता ॥ ३.३९॥
प्रकर्षो नाम पूर्वस्मादाधिक्यमधिका तु या ।
सा माया न सती नापि शून्या स्याद्दूषितत्वतः ॥ ३.४०॥
मायया बहुरूपत्वे सदद्वैतं न नश्यति ।
मायिकानां हि रूपाणां द्वितीयत्वमसम्भवि ॥ ३.४१॥
अचिन्त्यशक्तिर्मायातो दुर्घटं घटयत्यसौ ।
उपादाननिमित्तत्वे कल्प्येते सति मायया ॥ ३.४२॥
बहु स्यामित्युपादानभावः प्रोक्तो मृदादिवत् ।
ऐक्षतेति निमित्तत्वमिति प्रोक्तं कुलालवत् ॥ ३.४३॥
मायावृत्तिविशेषे या चिच्छायाऽसौ सदीक्षणम् ।
ईक्षित्वा ससृजे तेजस्तादृक् सङ्कल्पलीलया ॥ ३.४४॥
आकाशवायू प्राक् सृष्टाविति प्रोवाच तित्तिरिः ।
दिङ्मात्रमारुणिः सृष्टेर्वक्तुं तेज उदैरयत् ॥ ३.४५॥
ब्रह्मोपलक्षणायैव सृष्टिः सर्वत्र कथ्यते ।
जगतः कियताऽप्येतच्छक्यं लक्षयितुं खलु ॥ ३.४६॥
तेजसोऽचेतनत्वेऽपि तेजः कञ्चुकसंयुतम् ।
तद्ब्रह्म पूर्ववद्वीक्ष्य सङ्कल्पात्ससृजे ह्यपः ॥ ३.४७॥
अप्कञ्चुकं ब्रह्म पृथ्वीमन्नहेतुमकल्पयत् ।
तेजोऽबन्नेभ्य एतेभ्यो देहबीजानि जज्ञिरे ॥ ३.४८॥
जरायुजाण्डजोद्भिज्जानीति बीजत्रयं खलु ।
जीवरूपप्रवेशार्थमैक्षत ब्रह्म देवताः ॥ ३.४९॥
दृष्ट्वा भूय इहोत्पन्नास्तेजोऽबन्नाख्यदेवताः ।
एकैकां त्रिवृतं तासु कुर्वे देहादिसृष्टये ॥ ३.५०॥
तेजस्यबन्नयोरंशावल्पौ प्रक्षिप्य मिश्रणात् ।
तेजस्त्रिवृत्कृतं तद्वदन्ययोरपि योज्यताम् ॥ ३.५१॥
तेजोऽबन्नैस्त्रिवृद्भूतैरण्डजादिवपुंष्ययम् ।
निर्माय जीवरूपेण प्राविशत्तेषु सर्वतः ॥ ३.५२॥
अहङ्कारस्तु चैतन्यसंयुक्तः प्राणधारणात् ।
जीवः स्यात्सर्वदेहेषु व्याप्नोत्यापादमस्तकम् ॥ ३.५३॥
सद्वस्तुन्येवमारोप्य संसारो मायया कृतः ।
अविचारकृतारोपनिवृत्त्यर्थं विचार्यताम् ॥ ३.५४॥
त्रिवृत्करणमग्न्यादौ स्पष्टं तावद्विचारिणः ।
प्रसिद्धे तैजसेऽप्यग्नावबन्नांशाववस्थितौ ॥ ३.५५॥
ज्वालायां रोहितं रूपं बहुलं तत्तु तेजसः ।
किञ्चिच्छुक्लमपामेतत्किञ्चित्कृष्णं तु भूमिगम् ॥ ३.५६॥
रूपत्रये भूतगते विविक्ते भौतिकोऽनलः ।
कारणव्यतिरेकेण वाचैवारभ्यते वृथा ॥ ३.५७॥
जगतश्चाक्षुषस्येत्थं मिथ्यात्वं वक्तुमादितः ।
तेजोऽबन्नत्रयस्यात्र चाक्षुषस्योदिता जनिः ॥ ३.५८॥
आदित्यचन्द्रविद्युत्सु मिथ्यात्वं वह्निवन्नयेत् ।
गृहीत्वैतावता व्याप्तिं कार्यमिथ्यात्वमूह्यताम् ॥ ३.५९॥
तेजोऽबन्नाख्यकार्याणां मिथ्यात्वे स्यात्सदद्वयम् ।
कारणं सत्यमेषां तु पूर्वेषां ज्ञानिनां मतिः ॥ ३.६०॥
दृश्ये बाह्ये भौतिकत्वमस्तु देहे तु नो तथा ।
इति मूढमतेर्नुत्यै देहे भौतिकतोच्यते ॥ ३.६१॥
यदन्नं पार्थिवं भुक्तं तद्धीमांसपुरीषकैः ।
सूक्ष्ममध्यस्थूलभागैर्देहेऽस्मिन् परिणम्यते ॥ ३.६२॥
प्राण लोहितमूत्रांशैरपां परिणतिस्त्रिधा ।
वाङ्मज्जास्थिविभेदः स्याद्घृततैलादि तेजसः ॥ ३.६३॥
स्थूले च मध्यमे भागे कारणानुगतिः स्फुटा ।
धीप्राणवाक्षु सन्देहं दधिदृष्टान्ततोऽनुदत् ॥ ३.६४॥
घृते विलीने दध्यंशोऽनुगतो भाति न स्फुटः ।
तथापि दधिकार्यत्वं विद्यते सर्वसम्मतम् ॥ ३.६५॥
तथा मनःप्राणवाचां भवत्वन्नादिकार्यता ।
अतीन्द्रियत्वात्प्रत्यक्षा कारणानुगतिर्न हि ॥ ३.६६॥
नित्यद्रव्यं मनो नान्नकार्यमित्याह तार्किकः ।
स एषोंऽङ्गारदृष्टान्तद्वारेण प्रतिबोध्यते ॥ ३.६७॥
यथा खद्योतमात्रः स्यादङ्गारः काष्ठसङ्क्षये ।
काष्ठवृद्धौ ज्वलत्यग्निस्तथा विद्यान्मनोन्नयोः ॥ ३.६८॥
त्यक्तेऽन्ने पञ्चदशसु दिनेषु क्षीयते मनः ।
तेन स्मर्तुं न शक्तोऽभूच्छ्वेतकेतुर्न किञ्चन ॥ ३.६९॥
अन्नेन पुष्टे मनसि वेदान् सस्मार तत्क्षणात् ।
अन्वयव्यतिरेकाभ्यां मनोऽन्नमयमिष्यताम् ॥ ३.७०॥
भौतिकत्वेऽखिलस्यैवं स्थिते भूतातिरेकतः ।
तन्नास्ति तद्वद्भूतानि नैव सद्व्यतिरेकतः ॥ ३.७१॥
जगतः कारणं यत्सदद्वैतं तद्विजज्ञिवान् ।
श्वेतकेतुस्तावतास्य जीवत्वं न निवर्तते ॥ ३.७२॥
स्वस्य ब्रह्मत्वबोधेन जीवत्वमपगच्छति ।
इत्यभिप्रेत्य तं शिष्यं पुनः प्रोत्साहयत्यसौ ॥ ३.७३॥
स्वप्नावसानं जानीहि मम व्याकुर्वतो मुखात् ।
स्वस्य स्वरूपं सत्तत्वमिति सुप्तौ स्फुटं खलु ॥ ३.७४॥
यदा सुषुप्तिमाप्नोति पुमानेतं तदा जनाः ।
स्वपितीत्याहुरेतस्य तात्पर्यं प्रविचिन्त्यताम् ॥ ३.७५॥
तिङन्तं पदमज्ञानां सुबन्तं तु विवेकिनाम् ।
स्यान्निद्राणस्य नामैतद्वस्तुतत्त्वावभासकम् ॥ ३.७६॥
स्वप्नजागरयोर्जीवः सत्तत्त्वाद्भिन्नवद्भवेत् ।
सुषुप्तौ सम्यगेकत्वं याति सद्वस्तुना सह ॥ ३.७७॥
जीवत्वमात्मनः प्राणधारणान्न स्वभावतः ।
सद्रूपत्वं स्वतस्तत्तु स्फुटं स्वपितिनामतः ॥ ३.७८॥
स्वमपीतीति नाम्नोऽस्य निरुक्तिरवगम्यताम् ।
स्वरूपं वास्तवं सुप्तौ प्राप्यमित्युदितं भवेत् ॥ ३.७९॥
उपाधेर्मनसो जाग्रत्सुप्त्यवस्थे हि नात्मनः ।
इत्यभिप्रेत्य शकुनिदृष्टान्तः प्रोच्यते धियः ॥ ३.८०॥
शकुनिः सूत्रबद्धो यः स गच्छन्विविधा दिशः ।
अलब्ध्वाधारमाकाशे बन्धनस्थानमाव्रजेत् ॥ ३.८१॥
सत्तत्वे मायया बद्धं मनो जागरणं व्रजेत् ।
अलब्ध्वा तत्र विश्रान्तिं सत्तत्वे लीयते पुनः ॥ ३.८२॥
आत्मच्छायाऽपि मनसा सदाऽऽगच्छति गच्छति ।
गत्यागती तु संसारः स च स्वात्मनि कल्पितः ॥ ३.८३॥
मनोलयेऽनुपाधिः सन्नात्मा संसारवर्जितः ।
स्वेन वास्तवरूपेण सुषुप्ताववतिष्ठते ॥ ३.८४॥
चिच्छाया च वपुः स्थूलमिन्द्रियाण्यात्मबोधने ।
द्वाराणीत्याह मन्त्रोऽयं रूपंरूपमिति स्फुटम् ॥ ३.८५॥
देहे देहे प्रतिच्छायारूपोऽभूत्स्वात्मबुद्धये ।
मायाभिरिन्द्रो बहुधा देहोऽभूत्स्वात्मबुद्धये ॥ ३.८६॥
इन्द्रियाश्वास्तेन युक्तास्तच्च स्वात्मावबुद्धये ।
छायामाश्रित्य तत्रात्मा बोधितः सुप्तिवर्णनात् ॥ ३.८७॥
अशनायापिपासोक्त्या देहमाश्रित्य बोध्यते ।
अशनायापिपासाख्याद्वयं स्वपितिनामवत् ॥ ३.८८॥
अशनाया जनैः प्रोक्ता क्षुधावस्तुविवेकिभिः ।
नयत्यशितमित्येवमप्सु निर्वचनं भवेत् ॥ ३.८९॥
पीता आपोऽशनं भुक्तं द्रवीकृत्य नयन्त्यतः ।
अशनायेति शब्दोक्ता विण्मांसोत्पत्तिरन्नतः ॥ ३.९०॥
विण्मांसहेतुरन्नं यदेतस्योत्पादकं जलम् ।
जलस्योत्पादकं तेजस्तस्य चोत्पादकं च सत् ॥ ३.९१॥
अनुमायात्र कार्येण ज्ञेयं तत्कारणं परम् ।
सन्मूलकारणं ज्ञेयं स्याद्विश्वासोऽनुमानतः ॥ ३.९२॥
पुरीषाद्यन्नकार्यं स्यात्सत्येवान्नस्य सत्त्वतः ।
सत्यामेव यथा कुम्भो मृदि दृष्टो न चान्यथा ॥ ३.९३॥
व्रीह्माद्यन्नं सतीष्वेव दृष्टमप्सु न चान्यथा ।
आपश्च स्वेदरूपा स्युः सत्येवोष्णे हि तेजसि ॥ ३.१४॥
तेजश्च भावरूपत्वात्सम्भवेन्न सता विना ।
सतस्तूत्पत्तिराहित्यान्नान्वेष्यं कारणान्तरम् ॥ ३.९५॥
सम्मूलाः सकला देहा इदानीं च सति स्थिताः ।
अन्ते सत्येव लीयन्ते विद्यात्सत्तत्त्वमद्वयम् ॥ ३.९६॥
यथा भूतातिरेकेण भौतिकं नैव विद्यते ।
भूतानि च सतोऽन्यानि तथा नेत्युपपादितम् ॥ ३.९७॥
अशनायामुखेनेत्थं सत्तत्त्वे धीः प्रवेशिता ।
पिपासामुखतोऽप्यस्मिन्सति धीरवतार्यते ॥ ३.९८॥
उदन्येति पिपासाया पर्यायस्तं विवेकिनः ।
उदकं जयतीत्येवं तेजस्येवं प्रयुञ्जते ॥ ३.९९॥
पीतं जलं शरीरस्थं तेजसा जीर्यते ततः ।
मूत्रं रक्तं च निष्पन्नं द्रवत्वाज्जलजे उभे ॥ ३.१००॥
ताभ्यामापोऽनुमीयते ताभिस्तेजस्ततस्तु सत् ।
व्याप्तिं गृहीत्वा सर्वत्र योजनायोदितं पुनः ॥ ३.१०१॥
देहे येऽवयवाः सन्ति पदार्थाः सन्ति ते बहिः ।
तेषु सर्वेषु सन्मात्ररूपत्वमवधार्यताम् ॥ ३.१०२॥
भौतिकत्वं पुरा प्रोक्तं तदुक्तं देहबाह्ययोः ।
इन्द्रियद्वारतो वोद्धुं प्रोच्यते मरणक्रमः ॥ ३.१०३॥
म्रियमाणस्य वागादिवृत्तिर्मनसि लीयते ।
मनोवृत्तेर्लयः प्राणे प्राणवृत्तेस्तु तेजसि ॥ ३.१०४॥
श्वासस्योपरतावुष्णं स्पृष्ट्वा जीवननिश्चयम् ।
कुर्वत्युष्णं तु तत्तेजः सद्वस्तुनि विलीयते ॥ ३.१०५॥
छायादेहेन्द्रियद्वारैः पदार्थो योऽत्र बोधितः ।
स एष सर्वजगतोऽणिमा वस्त्वन्तरं न तु ॥ ३.१०६॥
स्थूलत्वाणुत्वरूपाभ्यां वस्त्वेकं भासते द्विधा ।
स्थूलमिन्द्रियगम्यत्वान्नामरूपात्मकं जगत् ॥ ३.१०७॥
सदद्वैतं भवेत्सूक्ष्ममिन्द्रियाविषयत्वतः ।
एतदात्मकतैवास्य स्थूलस्येतीह युज्यते ॥ ३.१०८॥
अणुत्वं वस्तुनः प्रोक्तं यत्तत्सत्यमबाधनात् ।
स्थूलत्वं मायया कॢप्तं ज्ञानेनैतस्य बाधनात् ॥ ३.१०९॥
अबाध्यो यः स एवात्मा सर्वस्य न तु कल्पितः ।
श्वेतकेतो यदद्वैतं तदसि त्वं न मानवः ॥ ३.११०॥
चिच्छायावानहङ्कारोऽधीते वेदचतुष्टयम् ।
त्वं तु साक्ष्येव तस्यातः सदसि त्वं न चेतरः ॥ ३.१११॥
भिन्नोऽभूद्धृदयग्रन्थिः श्वेतकेतोर्विवेकतः ।
धीदोषं संशयं मार्ष्टुं भूयो ब्रूहीत्यवोचत ॥ ३.११२॥
सता सम्पद्यते जीवः सुषुप्तावित्युदीरितम् ।
तथा चेत्सति सम्पन्नोऽहमित्यस्य कुतो न धीः ॥ ३.११३॥
नानावृक्ष रसैक्येन सम्पन्ने मधुनि स्थितः ।
न बुध्यते रसोऽस्येति तथा सर्वलयान्न धीः ॥ ३.११४॥
जीवोपाधिलयेऽप्यत्र तद्बीजस्यावशेषतः ।
तदुपाधिक एवास्मिन्देहेऽन्येद्युः प्रबुध्यते ॥ ३.११५॥
चित्तैकाग्र्याय तच्छङ्का परिहार्या तु वस्तुषु ।
पूर्वोक्तमेव तद्बोद्धुं तदेवाह पुनर्गुरुः ॥ ३.११६॥
प्राज्ञम्मन्यतया तत्त्वमविश्वस्य स्वशङ्कया ।
पुनः पुनरपृच्छत्तं प्रत्याहासौ पुनः पुनः ॥ ३.११७॥
सुषुप्तौ बुद्ध्यभावेऽपि पुनर्जागरणेऽस्ति धीः ।
आगच्छं सत इत्येत्वं तदा कस्मान्न वेत्यसौ ॥ ३.११८॥
सुप्तौ सद्रूपमज्ञात्वा सदैक्यं प्राप्तवांस्ततः ।
सतो नागमनं स्मार्यमपामस्मरणं यथा ॥ ३.११९॥
गङ्गाजलं प्रविश्याब्धौ मेघेनाकृष्य सिच्यते ।
नाज्ञातत्वात्स्मृतिस्तत्र तद्वदत्र स्मृतिर्न हि ॥ ३.१२०॥
व्याघ्रादिः सुप्त एवात्र बुध्यते वासनावशात् ।
न नष्टा वासनेत्येवं विवक्षित्वोच्यते पुनः ॥ ३.१२१॥
जीवस्य नश्वरस्यैक्यं न नित्येन सतेति चेत् ।
जीवो न नश्यति क्वापीत्येवं वृक्षवदीक्ष्यताम् ॥ ३.१२२॥
शाखां वृक्षे जीवपूर्ण जीवस्त्यजति यामसौ ।
शुष्येन्नान्या तथा जीवेऽपगते म्रियते वपुः ॥ ३.१२३॥
नामरूपयुतं स्थूलं तद्धीनात्सदणोः कथम् ।
उत्पन्नमिति चेद्बीजाद्वटवृक्षवदीक्ष्यताम् ॥ ३.१२४॥
न्यायागमाभ्यां सिद्धं च श्रद्धाहीनः पराङ्मुखः ।
न बुध्यते श्वेतकेतो श्रद्धस्वान्तर्मुखो भव ॥ ३.१२५॥
सत्सर्वत्र स्थितं कस्मान्न सर्वे विदुरीदृशम् ।
मुमुक्षुस्तु कथं वेत्तीत्यत्र दृष्टान्त उच्यते ॥ ३.१२६॥
लवणस्य घनं नीरे विलीनं वेत्ति न त्वचा ।
जिह्वया वेत्ति तद्वत्सदुपायेनैव बुध्यते ॥ ३.१२७॥
सति सर्वेन्द्रियागम्ये क उपायः स उच्यते ।
उपाय उपदेशोऽत्र भवेद्गन्धारमार्गवत् ॥ ३.१२८॥
गन्धाराद्यो वने नीतस्तस्करैर्बद्धनेत्रकः ।
तस्य बन्धं विमुच्यात्र कृपालुर्मार्गमादिशत् ॥ ३.१२९॥
तेनादिष्टमविस्मृत्य धीमान्गन्धारमाप्तवान् ।
अविद्ययावृतं तत्त्वं वेत्त्येवमुपदेशतः ॥ ३.१३०॥
अश्लेषनाशौ विदुषः सञ्चितागामिकर्मणोः ।
प्रारब्धे भोगसङ्क्षीणे मुच्यते न तु जायते ॥ ३.१३१॥
कीदृशी मृतिरस्येति चेद्वागादिलयाद्यथा ।
मूढस्य तद्वदेवास्य वैलक्षण्यं न किञ्चन ॥ ३.१३२॥
समानायां मृतावेको मुक्तो नान्यः कुतो वद ।
सत्यानृताभिसन्धत्वं वैषम्यं ज्ञानिमूढयोः ॥ ३.१३३॥
तस्करातस्करौ चौर्यशङ्कया तलरक्षकैः ।
गृहीतौ न कृतं चौर्यमित्याहतुरुभावपि ॥ ३.१३४॥
गृह्णीतः परशुं तप्तं तौ तयोस्तस्करोऽनृतम् ।
अभिसन्धाय दग्धः सन् हन्यते तलरक्षकैः ॥ ३.१३५॥
अतस्करः सत्यसन्धो न दग्धो मुच्यते च तैः ।
अज्ञान्यनृतसन्धोऽत्र सत्यसन्धस्तु तत्त्ववित् ॥ ३.१३६॥
मर्त्योऽहमिति सन्धाय म्रियते जायते च सः ।
ब्रह्माहमिति सन्धाय मुच्यते न च जायते ॥ ३.१३७॥
बुद्धिदोषं समाधातुं दृष्टान्तास्तैस्तवात्र किम् ।
त्वं सदेवेत्यभिप्रेत्य नवकृत्व उपादिशत् ॥ ३.१३८॥
भिन्नग्रन्थिः श्वेतकेतुर्मननाच्छिन्नसंशयः ।
सदद्वैतं स्वमात्मानं विशेषेणावबुद्धवान् ॥ ३.१३९॥
श्वेतकेतोर्ब्रह्मविद्या व्याख्याता स्फुटमेतया ।
तुष्टोऽस्माननुगृह्णातु विद्यातीर्थमहेश्वरः ॥ ३.१४०॥
इति श्रीमद्विद्यारण्यमुनिविरचिते अनुभूतिप्रकाशे
छान्दोग्योपनिषदि श्वेतकेतुविद्याप्रकाशो नाम तृतीयोऽध्यायः ॥ ३॥
४. छान्दोग्ये सनत्कुमारविद्याप्रकाशो नाम चतुर्थोऽध्यायः ।
सनत्कुमारश्छान्दोग्ये नारदायोपदिष्टवान् ।
विद्यामेतां प्रवक्ष्येऽत्र सर्वशोकनिवृत्तये ॥ ४.१॥
पुराणपञ्चमान्वेदान् शास्त्राणि विविधानि च ।
ज्ञात्वाप्यनात्मवित्त्वेन नारदः शोकमाप्तवान् ॥ ४.२॥
वेदाभ्यासात्पुरा तापत्रयमात्रेण शोकिता ।
पश्चात्त्वभ्यासविस्मारभङ्गगर्वैश्च शोकिता ॥ ४.३॥
शोकं तरत्यात्मवेदीत्यभिज्ञेभ्यः श्रुतं वचः ।
शोकपारं नयेत्युक्त्वा नारदो गुरुमाप्तवान् ॥ ४.४॥
बहुग्रन्थाभ्यासतस्ते महती शब्दवासना ।
नाम ब्रह्मेत्युपास्वात इति प्रोवाच तं गुरुः ॥ ४.५॥
स्वशब्दवासनां त्यक्त्वा प्राप्स्यसि ब्रह्मवासनाम् ।
पश्चाद्ब्रह्मण आत्मत्वं वक्ष्यामीति गुरोर्मतिः ॥ ४.६॥
ब्रह्म दृष्ट्या (दृष्ट्वा) नाममात्रध्यानान्नाऽपैति शोकिता ।
इत्यभिप्रेत्य नाम्नोऽस्मादधिकं पृष्टवानसौ ॥ ४.७॥
वाङ्गाम्नः कारणत्वेनाधिकेति ब्रह्मदर्शनम् ।
वाचि प्राह गुरुः शिष्यः पूर्ववत्पृष्टवान्पुनः ॥ ४.८॥
आप्राणमित आरभ्य पूर्वस्मादुत्तराधिके ।
प्रवर्तते शिष्यगुर्वोः प्रश्नोत्तरपरम्परा ॥ ४.९॥
इच्छात्मकं मनो वाचोऽधिकं तत्कारणत्वतः ।
सत्यामेव विवक्षायां वक्तुमारभते पुमान् ॥ ४.१०॥
सङ्कल्प्येदं सम्यगिति तदिच्छति पुमांस्ततः ।
सङ्कल्पो हेतुरिच्छायाश्चित्तं सङ्कल्पकारणम् ॥ ४.११॥
विक्षिप्तचित्तादैकाग्र्यं ध्यानमभ्यधिकं ततः ।
ध्येयविज्ञानमधिकं ज्ञानादभ्यधिकं बलम् ॥ ४.१२॥
ज्ञानहेतुर्देहबलं बलं स्यादन्नकारणम् ।
आपोऽन्नहेतवोऽपां तु तेजः कारणमीरितम् ॥ ४.१३॥
हेतुः सवायुराकाशस्तेजसो वियतः पुनः ।
स्रष्टव्यस्मृतिरीशस्य सृष्ट्याशा स्मृतिकारणम् ॥ ४.१४॥
नामाद्याशान्ततत्त्वेषु ब्रह्मदृष्टिं करोति यः ।
स पुमान् लभते सर्व तत्र तत्रोचितं फलम् ॥ ४.१५॥
प्रतीकोपासनैरेतैर्बह्नायासैः प्रशोचति ।
न शोकं तरतीत्युक्त्वा ह्यपृच्छत्सोऽधिकं पुनः ॥ ४.१६॥
पराक् पदार्थध्यानेषु फलेषु च विरक्तितः ।
दृढां प्रत्यग्विविदिषां दृष्ट्वा प्राणमुपादिशत् ॥ ४.१७॥
न मुख्यं प्रत्यगात्मत्वं यद्यपि प्राणवस्तुनः ।
तथाऽप्यात्मप्रतिनिधिः सम्भवेदात्मलक्षकः ॥ ४.१८॥
कस्मिन्नुत्क्रान्तौत्क्रान्तो भविष्यामि स्थिते स्थितः ।
इति वीक्ष्यासृजत्प्राणं परमात्मेति हि श्रुतिः ॥ ४.१९॥
चक्रस्यारा यथा नाभावाश्रिताश्चक्षुरादिकम् ।
आश्रितं निखिलं प्राणे ततस्तस्यात्मता भवेत् ॥ ४.२०॥
अश्वेन याति पुरुषो दत्ते विप्राय गां पुमान् ।
प्राण एवाश्वादिशब्दैरुक्तो न तु शवः कश्चित् ॥ ४.२१॥
पितृमात्रादिशब्दैश्च प्राणः प्रोक्तः शवो न तु ।
तस्मात्सर्वात्मकः प्राणः परमात्मेति निश्चयः ॥ ४.२२॥
यो बुभुत्सुरसौ प्राणमेवं पश्यन् गुरूक्तितः ।
युक्तया धिया च वैचिन्वन्नतिवादीति कथ्यते ॥ ४.२३॥
नामाद्याशान्ततत्त्वानि यः प्राणोऽतीत्य वर्तते ।
तमात्मानं वक्ति यस्मादतिवादी भवेत्ततः ॥ ४.२४॥
तर्काद्विप्लावकेभ्योऽयं निर्भीः सन् स्वातिवादिताम् ।
अङ्गीकुर्यादेव यस्मात्सन्देहो नात्र विद्यते ॥ ४.२५॥
नामादीनामनात्मत्वं स्पष्टमित्यत्र नारदः ।
असन्तुष्टोऽधिकं तत्त्वं पप्रच्छेव पुनःपुनः ॥ ४.२६॥
प्राणात्मत्वं तु सम्भाव्यं सम्यक्तस्योपपादनात् ।
शोकश्च सुप्तौ प्राणस्य न दृष्टोऽतस्तुतोष सः ॥ ४.२७॥
श्रद्धालुं योग्यशिष्यं तमुद्धरामीत्यसौ गुरुः ।
अपृष्टोऽप्यधिकं तत्त्वं स्वयमेवोपदिष्टवान् ॥ ४.२८॥
आत्मोपलक्षकः प्राणो न त्वात्मैषोऽनृतत्वतः ।
नामरूपात्मकः प्राणो माययोत्पादितो ह्यसौ ॥ ४.२९॥
अनृतोऽप्येष सत्यस्य लक्षकः प्रतिबिम्बवत् ।
मुख्यस्य प्रतिबिम्बेन मुखं स्वस्योपलक्ष्यते ॥ ४.३०॥
आत्मेदम्बुद्धिगम्यैस्तैराशान्तैर्नोपलक्ष्यते ।
प्राणोऽहम्बुद्धिगम्येषु स्थितत्वादात्मलक्षकः ॥ ४.३१॥
अतएवातिवादित्वमस्ति प्राणात्मवेदनात् ।
अमुख्यं तच्च मुख्यं तु भवेत्सत्यात्मवेदनात् ॥ ४.३२॥
कारुण्यातिशयं दृष्ट्वा सन्तुष्टो नारदोऽब्रवीत् ।
सत्येनैवातिवादी स्यामनृतस्यात्मतां त्यजन् ॥ ४.३३॥
विचारणीयं तत्सत्यं विज्ञानमननादिभिः ।
ध्यानवान्नोक्तिमात्रेण बुध्येतेत्यब्रवीद्गुरुः ॥ ४.३४॥
संशयं च विपर्यासं निराकृत्य विशेषतः ।
यदा जानाति विज्ञानात्सत्यवादी भवेत्तदा ॥ ४.३५॥
विज्ञानहेतुर्मननमन्वयव्यतिरेकभाक् ।
श्रद्धा मननहेतुः स्यादागमाचार्यवाक्ययोः ॥ ४.३६॥
श्रद्धायाः कारणं निष्ठा सदा शुश्रूषणं हि सा ।
चित्तैकाग्र्यगतिर्याऽसौ (कृतिर्याऽसौ) निष्ठायाः कारणं भवेत् ॥ ४.३७॥
सुखमस्तीति धीर्मुक्तौ कृतिस्तस्याः (कृतेस्तस्याः) प्रयोजिका ।
तद्विहीनोऽयमाद्यैर्नो चित्तैकाग्र्यं करोति हि ॥ ४.३८॥
सुखं किमिति चेद्भूमा सुखमल्पे तु तन्न हि ।
क्लिश्यत्यल्पधनोऽन्यस्मिन्धनबाहुल्यदर्शनात् ॥ ४.३९॥
भूम्नः सुखत्वे भूमा कः किमल्पमिति चेच्छृणु ।
ज्ञातृज्ञेयज्ञानहीनो भूमाऽविच्छेददर्शनात् ॥ ४.४०॥
ज्ञातृज्ञनाज्ञेयरूपं मायाकार्यमिदं जगत् ।
बहुविच्छेदयुक्तत्वादल्पमित्यभिधीयते ॥ ४.४१॥
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
भूमा तस्मादमर्त्योऽयमल्पं मर्त्यमतद्विधम् ॥ ४.४२॥
संसारकाल एवास्ति न मुक्तावल्पता ततः ।
मुक्तौ ज्ञाननिवर्त्यत्वान्मर्त्यं जगदितीर्यते ॥ ४.४३॥
संसारमोक्षयोर्भूमा विद्यते सोऽमृतत्वतः (सोऽमृतस्ततः)।
अखण्डैकरसानन्दः सोऽयमात्मा स्वयम्प्रभः ॥ ४.४४॥
मूर्च्छासुप्त्योस्तादृशोऽयमज्ञानेन तिरोहितः ।
समाधिसुप्तिमूर्च्छासु भासते साधनं विना ॥ ४.४५॥
मेघेनाच्छादितः सूर्यो यथा तद्वत्स्वयम्प्रभः ।
अज्ञानेनावृतो भूमा प्राणिभिर्न विभाव्यते ॥ ४.४६॥
स्वप्रकाशात्मचैतन्यमज्ञानस्य न बाधकम् ।
भासकं प्रत्युतैतस्य स्वानन्दस्य यथा तथा ॥ ४.४७॥
आनन्दाऽज्ञानयोः सुप्तौ चैतन्येनावभासनात् ।
उत्थितः सुखमस्वाप्सं न जानेऽन्यदिति स्मरेत् ॥ ४.४८॥
अरणिस्थो यथा वह्निर्न दहेदरणिं तथा ।
पश्चान्मथन जातोऽसौ साकल्येनारणिं दहेत् ॥ ४.४९॥
तथा वेदान्तवाक्योत्थधीवृत्तौ प्रतिबिम्बितम् ।
स्वप्रकाशात्मचैतन्यं कृत्स्नाज्ञानस्य बाधकम् ॥ ४.५०॥
तस्माद्विज्ञानसहितः समाधावनुभूय हि ।
भूमानन्दं यथाशास्त्रं स्मृत्वा व्युत्थाय वक्ति च ॥ ४.५१॥
ज्ञातृज्ञानज्ञेयरूपा त्रिपुटी स्वप्नजाग्रतोः ।
भूमानन्दं तिरोधत्ते विद्वांस्त्वभिभवत्यमुम् ॥ ४.५२॥
चिच्छायावानहङ्कारो ज्ञाता स्याच्चक्षुरादिजा ।
बुद्धिवृत्तिर्भवेज्ज्ञानं ज्ञेया रूपरसादयः ॥ ४.५३॥
त्रिपुटी मायिकी मिथ्येत्येवं विज्ञाय तत्त्ववित् ।
तामुपेक्ष्य करोत्येव भूमानन्दे भरं सदा ॥ ४.५४॥
अखण्डैकरसं भूमानन्दं श्रुत्वा स नारदः ।
भूम्न्यसम्भावनां मत्वा पप्रच्छाधारमस्य हि ॥ ४.५५॥
सत्याधारे परिच्छेदो निराधारो न बुध्यते ।
यद्यद्धटादिकं लोके तत्सर्वं क्वचिदाश्रितम् ॥ ४.५६॥
व्यवहारदशायां किमाधारः पृच्छ्यतेऽथवा ।
वस्तुतो व्यवहारे तु महिम्न्येवायमाश्रितः ॥ ४.५७॥
परास्य शक्तिर्विविधेत्येवं श्रुत्यन्तरेरिता ।
भूम्नः शक्तिर्भवेन्माया तदर्थो महिमाऽखिलः ॥ ४.५८॥
महिमाख्ये जगत्यस्मिन्य आनन्दोऽवभासते ।
स भूमास्य परिच्छेदो व्यवहारे न दुष्यति ॥ ४.५९॥
वस्तुतत्त्वविचारे तु न महिम्नि प्रतिष्ठितः ।
महिमा स्याद्गवाश्वादिर्भूम्नो नाधार एव हि ॥ ४.६०॥
अन्यस्मिन्हि महिम्न्यन्यो राजादिः प्रतितिष्ठति ।
भूम्नो नान्यद्वस्तु तस्मात्कुत्राऽसौ प्रतितिष्ठति ॥ ४.६१॥
यथा लोके निराधार आकाशोऽस्ति तथा कुतः ।
भूमा न स्यादतो युक्त्या निराधारोऽपि बुध्यताम् ॥ ४.६२॥
व्यावहारिक आनन्दे व्युत्पत्तेः शून्यता न हि ।
व्युत्पन्नो यौक्तिकश्चैष ऐकाग्र्ये भासतें स्वयम् ॥ ४.६३॥
बोधक्रमो बुभुत्सूनां विस्पष्टमभिधीयते ।
चतुर्दिक्ष्वध ऊर्ध्वं च भूमा बोद्धव्य आदितः ॥ ४.६४॥
सत्ताभानप्रीतयोऽत्र वीक्ष्यन्ते सर्ववस्तुषु ।
सच्चिदानन्दरूपोऽतो भूमा सर्वत्र तिष्ठति ॥ ४.६५॥
भूम्नो वियोगे वस्तूनि नैव सन्ति न भान्ति च ।
प्रियत्वं दूरतस्तेषां भूमा सर्वात्मकस्ततः ॥ ४.६६॥
जगद्भ्रान्तिं निवार्यास्य ताटस्थ्यविनिवृत्तये ।
अहङ्कारेण भूमानुसन्धेयः सर्वदिक्ष्वसौ ॥ ४.६७॥
सन्त्येव सच्चिदानन्दा देहादिष्वपि बाह्यवत् ।
भूमाहङ्कारयोग्योऽतोऽहं सर्वमिति वा श्रयेत् ॥ ४.६८॥
गृहैकदेशेऽवस्थाय सार्वभौमोऽहमित्यसौ ।
राजाभिमन्यते तद्वद्भूमाहमिति नो कुतः ॥ ४.६९॥
आभिमानिकमेवेदं भूमात्मत्वमिति भ्रमम् ।
निराकर्तुं सर्वदिक्षु भून्नो ज्ञेया चिदात्मता ॥ ४.७०॥
अहंशब्दश्चिदात्मानं साहङ्कारं ब्रवीतिहि ।
अहङ्कारे बोधलीने चिदात्मैवावशिष्यते ॥ ४.७१॥
क्रमेणानेन यस्तस्वं पश्यन् शास्त्रविचारतः ।
युक्त्या मत्वा घिया वेत्ति जीवन्मुक्तो भवेदसौ ॥ ४.७२॥
जीवन्मुक्तो रतिक्रीडामिथुनानन्दलक्षणान् ।
व्यवहारान् क्रमेणैति प्रारब्धस्यानुसारतः ॥ ४.७३॥
सुखदुःखप्रदारब्धकर्मवेगश्चतुर्विधः ।
तीव्रो मध्यो मन्दसुप्तौ चेति तस्य विधा मताः ॥ ४.७४॥
तीव्रवेगे स पश्वादितुल्यो नात्मानमीक्षते ।
आत्मनि प्रीतिरस्तीति भवेदात्मरतिस्तदा ॥ ४.७५॥
मध्यवेगे तु भोगानां प्राधान्यं स यदा तदा ।
कृत्वावकाशमात्मानं वदन् क्रीडति बालवत् ॥ ४.७६॥
मन्दवेगे तिरस्कृत्य भोगान् प्रायेण चिन्तयन् ।
घियात्मानं द्वन्द्वसुखं प्राप्नोति मिथुने यथा ॥ ४.७७॥
सुप्तवेगेऽतिनिर्विघ्नो निर्विकल्पसमाधिभाक् ।
आत्मानन्दावशेषः सन्नास्ते मुक्तवदद्वयः ॥ ४.७८॥
स्वराट् स्यात्पतिते देहे नान्याधीनो विमूढवत् ।
तस्य सर्वेषु लोकेषु कामचारो भवेत्खलु ॥ ४.७९॥
मायया कल्पिता लोकास्ते सर्वे भूमरूपताम् ।
मुक्तस्य प्राप्नुवन्त्येवं सर्वलोकात्मकस्ततः ॥ ४.८०॥
कामचारोऽतिविश्रम्भः (अतिविस्रम्भः) प्रतिबन्धविवर्जितः ।
सर्वस्य स्वस्वरूपेऽस्ति प्रतिबन्धो कोऽपि हि ॥ ४.८१॥
भूमात्मानं न जानाति मूढः किं त्वन्यथेक्षते ।
जीवोऽहमीश्वराधीनो धर्माधर्मयुतस्त्विति ॥ ४.८२॥
तस्येश्वरो भवेद्राजा लोकः कर्मजितः क्षयी ।
कामचारस्तु लोकेषु सर्वथास्य न सम्भवेत् ॥ ४.८३॥
जीवन्मुक्तस्तत्त्वविद्यः शास्त्रयुक्त्यनुभूतिभिः ।
तस्य प्राणादिनामान्तं जगत्स्वात्मन उद्गतम् ॥ ४.८४॥
तस्मात्प्राणादिवस्तूनां ध्यानेनास्य फलेन वा ।
जीवन्मुक्तस्य नार्थोऽस्ति कृतकृत्यः सुखी ह्यसौ ॥ ४.८५॥
न मृत्युं पश्यति ज्ञानी न रोगं नापि दुःखिताम् ।
सर्वस्वात्मतया बुद्ध्वा सर्वमाप्रोति सर्वथा ॥ ४.८६॥
विदेहमुक्तो ब्रह्मत्वात्सर्वं सृजति मायया ।
येन यद्वीक्ष्यते तस्मै तद्रूपं स्वं प्रदर्शयेत् ॥ ४.८७॥
विषयाहरणं शुद्धं रागद्वेषादिवर्जनात् ।
ततः शुद्धधियात्मानं भूमानं सर्वदा स्मरेत् ॥ ४.८८॥
शोकादिसर्वग्रन्थीनां भूम्नः स्मृत्या विमोक्षणात् ।
शुद्धधीर्नारदस्तस्मै तमःपारमदर्शयत् ॥ ४.८९॥
सनत्कुमारविद्यायास्तात्पर्यं स्पष्टमीरितम् ।
तेन कुर्यान्मयि कृपां विद्यातीर्थमहेश्वरः ॥ ४.९०॥
इति श्रीमद्विद्यारण्यमुनिविरचिते अनुभूतिप्रकाशे
छान्दोग्ये सनत्कुमारविद्याप्रकाशो नाम चतुर्थोऽध्यायः ॥ ४॥
५. छान्दोग्ये प्रजापतिविद्याप्रकाशोऽनाम पञ्चमोऽध्यायः ।
प्रजापतिः स्वात्मविद्यां छान्दोग्ये बहुधाऽब्रवीत् ।
विरोचनाय चन्द्राय तां वक्ष्ये सुखबुद्धये ॥ ५.१॥
असंसार्ययमात्माऽसावन्वेष्टव्यो मुमुक्षुणा ।
प्रजापतिरिति प्राह प्रसङ्गेन स्वसंसदि ॥ ५.२॥
यो निष्पापोऽजरो मृत्युशोकक्षुत्तृड्विवर्जितः ।
सत्योऽस्य कामः सङ्कल्पश्चासंसारी स ईश्वरः ॥ ५.३॥
पापं कर्तुरकर्तात्मा चिन्मात्रः पापवान् कथम् ।
जरामृत्यू देहधर्मौ विद्येते न चितस्ततः ॥ ५.४॥
शोकः स्वान्मनसो धर्मः क्षुत्तृष्णे प्राणगे उभे ।
चिद्रूपस्यात्मनो नैव सन्ति शोकादयस्त्रयः ॥ ५.५॥
चिन्मात्रस्याप्यस्ति माया कामसङ्कल्पकारिणी ।
स्रक्ष्यामि जगदित्यादिकामो मायाविनोऽस्ति हि ॥ ५.६॥
आकाशादिपदार्थास्तु यथापूर्वं भवन्त्विह ।
सङ्कल्पोऽस्ति ततो ज्ञेया व्यावहारिक सत्यता ॥ ५.७॥
अन्वेष्य परमात्माऽयं मायातत्कार्यलक्षितः ।
गुरुशास्त्रकृतो बोधस्तस्यान्वेषणमुच्यते ॥ ५.८॥
ततोऽनुभूत्या विज्ञातुमेष्टव्यो धीनिरोधतः ।
ध्यायन्युक्त्या च मन्वानः स्वात्मानुभवमाप्नुयात् ॥ ५.९॥
य एवं वेत्त्यसौ सर्वाँलोकान् कामांश्च (सर्वाँल्लोकान्) विन्दते ।
लोकाधिष्ठानरूपत्वात्सर्वलोकात्मता भवेत् ॥ ५.१०॥
कामास्तु विषयानन्दाः स्वात्मानन्दस्य तेऽखिलाः ।
लेशास्ततः सर्वकामप्राप्तिरात्मविदोऽस्ति हि ॥ ५.११॥
एतत्प्रजापतेर्वाक्यं श्रुत्वा देवासुरास्तदा ।
उभयेऽपि बुभुत्सन्तः परमात्मानमादरात् ॥ ५.१२॥
देवराजोऽसुरेशश्च तौ द्वाविन्द्रविरोचनौ ।
सत्यलोकं प्राप्य तस्मिन्नसेवेतां प्रजापतिम् ॥ ५.१३॥
द्वात्रिंशद्वर्षसेवातः प्रसन्नोऽसौ प्रजापतिः ।
अक्षिलक्षितमात्मानं ताभ्यां द्वाभ्यामवोचत ॥ ५.१४॥
पूर्णत्वात्पुरुषो योऽस्ति परमात्माऽयमक्षिणि ।
जाग्रत्साक्षितया स्थित्वा विद्वद्भिः सुविभाव्यते ॥ ५.१५॥
चिच्छायावानहङ्कारो मूढैरात्मेति भाव्यते ।
कर्ता भोक्ता स जीवः स्यात्परब्रह्मैव साक्ष्यसौ ॥ ५.१६॥
ब्रह्मणो मरणाभावादमृतत्वं तदीर्यते ।
अद्वितीयतया भीतिहेत्वभावाच्च निर्भयम् ॥ ५.१७॥
प्रजापत्युक्तितात्पर्यं नानुबुद्धमुभावपि (नानुबुद्ध्येतामुभावपि)।
राज्यवासनया चित्तं तदीयं राजसं खलु ॥ ५.१८॥
अन्यदेहस्य या छाया सा चक्षुष्युपलभ्यते ।
तामेवात्मतया प्राहेत्येषा बुद्धिरभूत्तयोः ॥ ५.१९॥
छायात्मानं दृढीकर्तुं पुनः पप्रच्छतुर्गुरुम् ।
अप्स्वादर्शे च यो दृष्टश्छायात्मा सोऽयमेव किम् ॥ ५.२०॥
तदीयमन्यथाज्ञानं बुद्ध्वापि न निराकरोत् ।
सभामध्ये मानभङ्गे बुद्धिभ्रंशो भवेदिति ॥ ५.२१॥
स्वेनाक्षिण्युपविष्टो यः स सर्वत्रापि तिष्ठति ।
इत्युक्तोपायतस्तौ द्वौ बोधयामीत्यमन्यत ॥ ५.२२॥
शरावे जलयुक्ते वा केवल वीक्ष्य तौ पुनः ।
सालङ्काराववेक्ष्याथ छायां नात्मेति बुध्यताम् ॥ ५.२३॥
छायाया अन्यथात्वं स्यात्साक्षी चैकविधः स्थितः ।
आत्मत्वं निर्विकारस्य शक्यते बोद्धुमञ्जसा ॥ ५.२४॥
तथापि पापबाहुल्यप्रतिबद्धधियावुभौ ।
छायात्मतां शरावोक्त्या दृष्टां कृत्वात्यतुष्यताम् ॥ ५.२५॥
कालेन प्रतिबन्धस्य क्षये सत्यथ तं पुनः ।
उपदेशं शरावाख्योपायं चालोच्य मोक्ष्यते ॥ ५.२६॥
इत्युपेक्ष्य गुरुस्तस्थौ तौ राज्यत्यागतश्चिरम् ।
प्रयासं प्राप्य सहसा जग्मतुः स्वस्वलोकयोः ॥ ५.२७॥
एतौ प्रजापतेः शिष्याविति भ्रान्त्या विपर्ययम् ।
तदीयं प्राप्य नश्येयुरिति सोऽघोषयद्गुरुः ॥ ५.२८॥
विरोचनस्तामसत्वाच्छीघ्रं तानसुरान्प्रति ।
गत्वा देहात्मतां तेभ्य उपादिक्षन्निजेच्छया ॥ ५.२९॥
अक्षिच्छाया देहजन्या तया देहोपलक्षणात् ।
देह आत्मा स्वस्वदेहं सदा पूजयतासुराः ॥ ५.३०॥
देहे दृढेऽत्र भोगोऽस्ति मुक्तिः स्याच्छवपूजया ।
इत्यासुरः सम्प्रदायः प्रायेणाद्यापि दृश्यते ॥ ५.३१॥
इन्द्रस्तु सात्त्विकत्वेन मननं कुरुतेऽध्वनि ।
आन्ध्यादयोऽपि छायायामलङ्कारादयो यथा ॥ ५.३२॥
एवं सत्यभयं ब्रह्म देहच्छाया कथं भवेत् ।
एवं मत्वा समागत्य गुरोरग्रे तथाऽवदत् ॥ ५.३३॥
पापक्षयाय द्वात्रिंशद्वर्षाणि (तपसे वस) ।
पूर्वोपदिष्टं भूयोऽपि ब्रवीमीत्याह तं गुरुः ॥ ५.३४॥
जाग्रति स्थूलदेहेन साङ्कर्यं शङ्क्यते ततः ।
स्वप्ने यश्चरतीवाऽसौ साक्ष्यात्मेत्यवगम्यताम् ॥ ५.३५॥
आन्ध्यरोगादयो दोषाश्छायायां देहबिम्बगाः ।
भान्ति स्वप्ने तु नैवेति तुष्टो वव्राज पूर्ववत् ॥ ५.३६॥
मन्वानः सन्नन्यदोषानपश्यत्स्वप्नमात्मनि ।
चोरव्याघ्रादयो घ्नन्तीत्यदीनागत्य चाब्रवीत् ॥ ५.३७॥
स्वप्नेऽपि वासनादेहः शङ्क्येतेति सुषुप्तिगम् ।
साक्षिणं प्रोक्तवांस्तस्मै द्वात्रिंशद्वर्षसेविने ॥ ५.३८॥
तुष्टोऽगच्छत्सुषुप्तिस्थे जाड्यं दोषमवैक्षत ।
विनष्टसदृशः सुप्तावात्मेत्यागत्य चाब्रवीत् ॥ ५.३९॥
अमूर्तं कारणं देहं बोद्धुम्पापक्षयादसौ ।
शक्तोऽभूदिति सन्तुष्टः पुनः प्रोवाच तं गुरुः ॥ ५.४०॥
पञ्चवर्षाणि सेवस्व पापशेषक्षयाय ते ।
इत्युक्त्वा सेवते तस्मै गुरुः स्पष्टमुपादिशत् ॥ ५.४१॥
मघवन्यत्त्वया बुद्धं शरीरं तत्त्रिधा स्थितम् ।
स्थूलं सूक्ष्मं कारणं च (तु) तत्तु सर्वं विनश्वरम् ॥ ५.४२॥
अनश्वरात्मतत्त्वस्य प्रवेष्टुर्जीवरूपतः ।
भोगाधिष्ठानमेवैतत्वपुर्नास्यात्मताऽस्ति हि ॥ ५.४३॥
जाप्रत्स्वप्नसुषुप्तेषु भासयेद्यो वपुस्त्रयम् ।
स साक्ष्यात्मा ब्रह्मताऽस्य सुखदुःखादिवर्जनात् ॥ ५.४४॥
आत्मनः प्रतिबिम्बो यः सोऽयं देहे प्रविष्टवान् ।
प्रतिरूपो बभूवेति श्रुत्यन्तरसमीरणात् ॥ ५.४५॥
स भोक्ता त्रिषु देहेषु तादात्म्यमभिमन्यते ।
सशरीरः स्वकर्मोत्थे भुङ्क्तेऽवश्यं प्रियाप्रिये ॥ ५.४६॥
अशरीरं साक्षिणं तु स्पृशेते न प्रियाप्रिये ।
संसारतदभावौ द्वौ सुस्थितौ कर्तृसाक्षिणोः ॥ ५.४७॥
एवं व्यवस्थितेऽप्यज्ञः कर्तृदेहेषु साक्षिणम् ।
अशरीरं प्रवेश्याशु सुखं दुःखं च मन्यते ॥ ५.४८॥
विवेके सति साक्ष्येष शरीरेभ्यः समुत्थितः ।
स्वाभाविकेन ब्रह्मात्मरूपेण व्यवतिष्ठते ॥ ५.४९॥
अस्मिन्नर्थे साक्षितुल्या दृष्टान्ता देहवर्जिताः ।
वाय्वभ्रविद्युतां नास्ति हस्तपादादिमद्वपुः ॥ ५.५०॥
अदेहाः वृष्टिसिद्ध्यर्थमाकारान् कांश्चिदाप्नुवन् ।
वृष्टिनिष्पादकस्तत्तदाकारो व्योम्नि दृश्यते ॥ ५.५१॥
आकारा वृष्टिकालात्प्राग्व्योनि गूढा न तु स्फुटाः ।
ततो व्योम्नः समुत्थाय निदाघे ज्योतिरानुवन् ॥ ५.५२॥
सन्तापाख्यं परं ज्योतिः प्राप्य तेन दृढीकृताः ।
वृष्टिकाले स्वस्वरूपं स्फोरयन्तीति दृश्यते ॥ ५.५३॥
तथाऽयमशरीरः सन् साक्ष्यज्ञानतिरोहितः ॥
देहेऽन्तर्भूयवपुषो विवेकेन समुत्थितः ॥ ५.५४॥
परं ज्योतिर्ब्रह्मरूपं प्राप्य वाक्योत्थबोधतः ।
स्वेन वास्तवरूपेण निर्द्वैतेनावभासते ॥ ५.५५॥
स्वतः साक्षी सम्प्रसादः कालुष्येण विवर्जनात् ।
अविद्यया स्यात्कालुष्यं देहतादात्म्यविभ्रमात् ॥ ५.५६॥
जागरे स्थूलसूक्ष्माभ्यां तादात्म्याद्व्याधयोऽखिलाः ।
आधयश्चास्य सन्तीदं महत्कालुष्यमिष्यते ॥ ५.५७॥
ईषत्कलुषता स्वप्ने सूक्ष्ममात्राभिमानतः ।
सुप्तौ तेनापि हीनत्वादयमात्मा प्रसीदति ॥ ५.५८॥
कालुष्यबीजमज्ञानमस्त्यत्रार्थ विवेचितः ।
बीजेनापि विहीनत्वात्सम्यगेव प्रसीदति ॥ ५.५९॥
स्वतः साक्षी सम्प्रसादस्तत्स्वरूपानुभूतये ।
समुत्थानं भवेदस्य देहादिभ्यो विवेचने ॥ ५.६०॥
समुत्थितस्य जीवत्वनिवृत्यै ब्रह्मरूपताम् ।
महावाक्यानि सर्वाणि बोधयन्त्यतियत्नतः ॥ ५.६१॥
परं ज्योतिर्ब्रह्मरूपं प्राप्य वाक्यार्थबोधतः ।
उत्तमः पुरुषः स स्याद्यः पुराऽक्षिणि वर्णितः ॥ ५.६२॥
देहादज्ञानतः कार्यात्कारणाच्चायमुत्तमः ।
जीवत्वहानाद्ब्रह्मत्वभावाच्चोत्तमतोचिता ॥ ५.६३॥
द्वाविमौ पुरुषौ लोके क्षरश्वाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ ५.६४॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
इत्याह भगवान् कार्यकारणाभ्यां तमुत्तमम् ॥ ५.६५॥
उत्तमोऽयं पुमान्मूढप्राणिनामपि विद्यते ।
तत्र तत्त्वविदः कोऽतिशयः स्यादिति चेच्छृणु ॥ ५.६६॥
स तूत्तमब्रह्मरूपं तत्त्ववित्स्वात्मवस्तुनि ।
पर्येति स्वात्मबुद्द्यैतं सर्वदेहस्थमीक्षते ॥ ५.६७॥
इन्द्रराजादिदेहेषु नानाखाद्यानि भक्षयन् ।
बालैः साकं हसन् स्त्रीभिः कदाचिद्रमते सह ॥ ५.६८॥
यानैः क्कापि ज्ञातिभिश्च सहितो मोदते खलु ।
न कदाचित्स्मरत्येतद्वपुर्जनसमीपगम् ॥ ५.६९॥
एतद्देहेन तादात्म्यभ्रान्त्या दुःखमभूत्पुरा ।
विवेकेन भ्रमेऽपेते तद्दुःखं नाद्य वीक्ष्यते ॥ ५.७०॥
इन्द्रराजादिदेहेषु न तादात्म्यं पुरापि च ।
अतो न तद्देहदुःखशङ्काऽप्यस्य न (तु) विद्यते ॥ ५.७१॥
सुखानि तद्देहगानि साक्षी सर्वाण्यवेक्ष्यते ।
साक्ष्यात्मत्वाभिमानी सन् ज्ञानी तान्यभिमन्यते ॥ ५.७२॥
दुःखान्यपीक्षते साक्षी तथाप्येतेषु तत्त्ववित् ।
नाभिमानमुपादत्ते दुःखानां मायिकत्वतः ॥ ५.७३॥
ब्रह्मानन्दस्य लेशाः स्युरानन्दा विषयोत्थिताः ।
अतस्तत्त्वविदः पक्षपातो ह्येतेषु विद्यते ॥ ५.७४॥
पुण्यमेवमुमाप्नोति न देवान्पापमाप्नुयात् ।
इति श्रुत्यन्तरं ब्रूते सुखं सर्वात्मदर्शिनः ॥ ५.७५॥
प्रजाः शोचन्ति यत्किञ्चित्तासामेव भवेदिदम् ।
न सर्वात्मदृशोऽस्तीति प्राहैतदपि सा श्रुतिः ॥ ५.७६॥
सर्वात्मत्वेऽपि देहादिदोषलेपो न मेऽस्ति हि ।
अदुष्टा सूर्यभा यद्वच्चण्डालादिस्पृगप्यसौ ॥ ५.७७॥
ब्रह्माद्याः स्थावरान्ता ये प्राणिनो मे वपुः स्मृताः ।
कामक्रोधादयो दोषा जायेरन्मे कुतोऽन्यतः ॥ ५.७८॥
इत्याचार्या ब्रह्मबोधकुशला अभवन्पुरा ।
सुखमात्रग्राहिणोऽत्र दृष्टान्ताः सन्त्यनेकशः ॥ ५.७९॥
वृक्षे मधुकरः पुष्परसं गृह्णाति नेतरत् ।
यतिर्भिक्षामुपादत्ते नाशौचं कस्यचिद्गृहे ॥ ५.८०॥
मूर्खस्यापि सुखे पक्षपातोऽस्तीत्युच्यते यदि ।
तर्हि तस्य प्रसिद्ध्यर्थं तत्त्वं सोऽप्यवगच्छतु ॥ ५.८१॥
तत्त्वे बुद्धे स्वदेहेन तादात्म्यं न स्मरत्यसौ ।
तेन दुःखे विनष्टेऽथ सुखमेव सदेक्षते ॥ ५.८२॥
तादात्म्यस्याऽस्मृतौ देहनिर्वाहो नेति चेच्छृणु ।
अश्वादिनेव प्राणेन प्रेरितं रक्ष्यते वपुः ॥ ५.८३॥
रथे प्रयोगयोग्योऽश्वः शिक्षितः सारथिं विना ।
स्वयमेव सदाभ्यासाद्गन्तव्यं प्रापयेत्खलु ॥ ५.८४॥
ईश्वरेणास्य देहस्य प्रेरणाय नियोजितः ।
प्राणस्तद्भोगदेशे देहं नयति कर्मणा ॥ ५.८५॥
गर्भस्थानां च बालानां निर्वाहो वपुषो यथा ।
जीवन्मुक्तस्य देहेऽपि निर्वाहः स्यात्तथा न किम् ॥ ५.८६॥
समाधावात्मरूपेण व्युत्थाने भोग्यरूपतः ।
सर्वानन्दान् सदा भुङ्क्ते मुक्तस्यातिशयो ह्ययम् ॥ ५.८७॥
मुक्तेन बुद्धः साक्ष्येष सर्वाक्षेषु विभाव्यताम् ।
तत्तदिन्द्रियसंयुक्तस्त्रिपुटीं भासयत्ययौ ॥ ५.८८॥
भासमाने साक्षितत्त्वे तद्भासा भास्यमिन्द्रियम् ।
चक्षुर्वियत्यभिव्याप्य रूपं सर्वे प्रकाशयेत् ॥ ५.८९॥
द्रष्टाहङ्कृत्यवच्छिन्नो दर्शनं चक्षुषः क्रिया ।
दृश्यं रूपमियं सर्वा त्रिपुटी भाति साक्षिणि ॥ ५.९०॥
साक्षिणो भासकत्वेऽपि रूपगन्धादिभित्तये ।
चक्षुर्घाणाद्यक्षजातं सर्वसाधारणं मनः ॥ ५.९१॥
जिघ्राणीममहं गन्धमित्यादि त्रिपुटीमिमाम् ।
सदा भासयते साक्षी स एवात्मोत्तमः पुमान् ॥ ५.९२॥
मनोऽस्य दैवं चक्षुः स्यात्कालत्रयविभासनात् ।
तेन भुङ्क्ते ब्रह्मलोकस्थितान् कामान्निजात्मनि ॥ ५.९३॥
देवाः सर्वे तमात्मानमुपास्य प्राप्नुवन्त्यमून् ।
कामांल्लोकांश्चात्मतत्त्वं बुध्वा सर्वात्मतां जगुः ॥ ५.९४॥
अन्योऽपि यस्तमात्मानमन्विष्य गुरुशास्त्रतः ।
स्वानुभूत्या विजानाति स तानाप्नोति देववत् ॥ ५.९५॥
प्रजापतिरुवाचैवमिन्द्रायेत्थं (मिन्द्रायेदं) पुनः पुनः ।
एकाधिकं वर्षशतं सेवित्वाऽसौ च लब्धवान् ॥ ५.९६॥
गुरुशुश्रूषया पापं विद्यायाः प्रतिबन्धकम् ।
अपैति विद्या लब्धा स्यादित्यत्रेन्द्रो निदर्शनम् ॥ ५.९७॥
सर्वज्ञेनोपदिष्टापि प्रतिबन्धक्षयं विना ।
न लभ्यतेऽत्र दृष्टान्तो विरोचन उदीरितः ॥ ५.९८॥
गुरुः कारुणिको भूत्वा सोढ्वायासं पुनः पुनः ।
प्रजापतिरिव प्राप्ताननुगृह्णीत सर्वथा ॥ ५.९९॥
प्रजापतेरियं विद्या कथितानुग्रहाद्गुरोः ।
सच्छिष्याननुगृह्णातु विद्यातीर्थमहेश्वरः ॥ ५.१००॥
इति श्रीमद्विद्यारण्यमुनिविरचिते अनुभूतिप्रकाशे
छान्दोग्ये प्रजापतिविद्याप्रकाशोऽनाम पञ्चमोऽध्यायः ॥ ५॥
६. मुण्डकोपनिषद्विवरणो नाम षष्ठोऽध्यायः ।
ब्रह्मविद्यां शौनकाय यामुवाचाङ्गिरा मुनिः ।
अथर्वणे मुण्डकेऽसौ विशदीकृत्य वक्ष्यते ॥ ६.१॥
चतुर्मुखादिके सम्प्रदाये यो मुनिरङ्गिराः ।
उपसद्य यथाशास्त्रमेतं पप्रच्छ शौनकः ॥ ६.२॥
एकस्मिविदिते सर्वं विज्ञातमिति वैदिकी ।
प्रसिद्धिरस्ति तद्वस्तु किं स्यान्निश्वित्य मे वद ॥ ६.३॥
शृणु विद्ये उभे तावद्वेदितव्ये परापरे ।
पृष्टं वस्तु तयोर्मध्ये गम्यते परविद्यया ॥ ६.४॥
षडङ्गसहिता वेदा विज्ञायन्ते यया धिया ।
सा धीरपरविद्या स्याद्ब्रह्मधीस्तु परा मता ॥ ६.५॥
उपनीतेन विज्ञेया वेदाः सर्वे न तावता ।
ब्रह्मधीः किन्तु वैराग्ये स्यादाचार्योपदेशतः ॥ ६.६॥
वैदिक्यप्यधिकारस्य भेदादुक्ता पृथक् परा ।
विप्राः परिव्राजकाश्च तिष्ठन्तीति यथा तथा ॥ ६.७॥
यस्यामपरविद्यायां कर्माण्युक्तानि साधकाः ।
कुर्वन्ति कर्मभिः शुद्धिं परविद्या करोति हि ॥ ६.८॥
परया चाक्षरं ज्ञेयमेतस्मिन्विदिते सति ।
सर्वं जगद्भवेद्बुद्धं तस्य सर्वात्मकत्वतः ॥ ६.९॥
न विनानुष्ठितं कर्म वेदनं पर्यवस्यति ।
ब्रह्म धीस्तावतैव स्यात्फलदेति परा मता ॥ ६.१०॥
तद्वेद्यमक्षरं कीदृगिति चेदभिधीयते ।
ज्ञानेन्द्रियैर्न विज्ञेयं ग्राह्यं कर्मेन्द्रियैर्न वा ॥ ६.११॥
न गोत्रं काश्यपाद्यस्ति वर्णः शुक्लादिकश्च न ।
न ज्ञानेन्द्रियमस्त्यस्य नापि कर्मेन्द्रियं तथा ॥ ६.१२॥
नित्योऽक्षरपदार्थोऽयं तद्विनाशानिरूपणात् ।
विभुर्विविधभावित्वात्तच्च सर्वात्मकत्वतः ॥ ६.१३॥
आकाशवत्सर्वगोऽतः परिच्छेदो न देशतः ।
न कालतोऽपि नित्यत्वाद्विभुत्वान्नापि वस्तुतः ॥ ६.१४॥
सर्वगस्यापि सूक्ष्मत्वादक्षाऽगोचरतोदिता ।
परिमाणाल्पता नात्र सौक्ष्म्यं दुर्लक्ष्यता तु तत् ॥ ६.१५॥
हस्तग्राह्यो घटः स्थूलो ध्वनिः सूक्ष्मस्तदग्रहात् ।
स्वरूपसौक्ष्म्यमेतत्स्यादचरेऽपि भवेदिदम् ॥ ६.१६॥
धनस्येव व्ययो नास्य विक्रियादेरसंभवात् ।
स्थिरजङ्गमभूतानां हेतुं तं मन्वते बुधाः ॥ ६.१७॥
यदुक्तं लक्षणं तत्तु कौटस्थ्यादक्षरं भवेत् ।
तद्यया वेद्यते सेयं परा विद्येति कीर्तिता ॥ ६.१८॥
न युक्तं भूतयोनित्वं साधनान्तरवर्जनात् ।
एकस्माच्चेतनाद्भूरिजडानामप्यसंभवात् ॥ ६.१९॥
ऊर्णनाभिर्यथा तन्तून् सृजते संहरत्यपि ।
अन्यानपेक्षस्तद्वत्स्यादक्षरस्यापि हेतुता ॥ ६.२०॥
बह्वौषध्यो यथैकस्या भूमेर्जाता यथा जडाः ।
केशाश्चेतनतो जातास्तथा त्वक्षरतो जगत् ॥ ६.२१॥
ब्रह्मणो जगदुत्पत्तेः क्रमोऽयमवगम्यताम् ।
वक्ष्यमाणेन तपसा ब्रह्मादावुपचीयते ॥ ६.२२॥
अङ्कुरोत्पादकं बीजमुच्छूनं स्याद्यथा जलात् ।
सृज्यस्य बुद्ध्या संयुक्तं स्याद्ब्रह्मोपचितं तथा ॥ ६.२३॥
भोग्यवर्गाङ्कुराख्यं यदन्नं तज्जायते ततः ।
अव्याकृतं व्याचिकीर्षावस्थमन्नमिहोच्यते ॥ ६.२४॥
तस्मादन्नात्क्रियाशक्तिः प्राणो ज्ञानस्य साधनम् ।
मनश्चाजायत स्थूलं सत्याख्यं भूतपञ्चकम् ॥ ६.२५॥
ततो भूम्यादयो लोका ज्योतिष्टोमादिकर्मसु ।
अमृताख्यं स्वर्गफलमित्थं सर्वमजायत ॥ ६.२६॥
ब्रह्मैव जगदाकारं स्याच्चेत्तद्विकृतं भवेत् ।
नो चेज्जगन्न जायेतेत्यत्र प्रतिविधीयते ॥ ६.२७॥
निरुपाधि ब्रह्मतत्त्वं जगदाकारभाङ् न हि ।
मायोपाधिक एवायं सर्वज्ञः सृजते जगत् ॥ ६.२८॥
सामान्यवृत्त्या सर्वशो विशेषेण च सर्ववित् ।
ज्ञानमेव तपोऽस्यास्माज्जगद्वेदाद्यजायत ॥ ६.२९॥
जगत्कारणमद्वैतं ज्ञातव्यं परविद्यया ।
ज्ञातेऽस्मिन्सर्वजगतस्तत्वं यत्तद्विबुद्ध्यते ॥ ६.३०॥
अपरा वेदविद्या तु कर्मानुष्ठानमार्गतः ।
साधनं परविद्यायाः सत्यं सत्कर्मणः फलम् ॥ ६.३१॥
काम्यकर्मफलं स्वर्गो नित्यकर्मफलं धियः ।
शुद्धिस्तच्चोभयं कर्म कृत्वावश्यमवाप्नुयात् ॥ ६.३२॥
हे सत्यकामाः कर्माणि मन्त्रब्राह्मणदर्शिनः ।
कुरुध्वमेष वः पन्था भोगमोक्षप्रसिद्धये ॥ ६.३३॥
अग्निहोत्रं जुहोत्यादौ कुर्याद्दर्शादिकानथ ।
यदभावे जन्मसु स्यात्सप्तस्वेतस्य दुर्गतिः ॥ ६.३४॥
काल्यादिवह्निजिह्वासु होतारं तं यथाविधि ।
आहुत्याख्या देवतास्ता इन्द्रलोके नयन्ति हि ॥ ६.३५॥
प्रियं वदन्त्य एहीति वत्यः सूर्यरश्मिभिः ।
पुण्यार्जितो लोक एष इत्युक्त्वा प्रापयन्ति तम् ॥ ६.३६॥
काम्यकर्मफलं प्रोक्तमीश्वरार्पितकर्मणः ।
फलं संसारहेयत्वबुद्धिः साथ विविच्यते ॥ ६.३७॥
क्षुद्रायास्तरणं नद्याः प्रसिद्ध्यत्यदृढैः प्लवैः ।
न समुद्रस्य यज्ञश्च तद्वच्छिथिसाधनम् ॥ ६.३८॥
तेनाप्नोति स्वर्गमात्रं न तु मोक्षं तथा सति ।
कर्मनिष्ठा जरामृत्यू प्राप्नुवन्ति पुनः पुनः ॥ ६.३९॥
ज्ञानवद्वैदिकत्वेन कर्मणो मुक्तिहेतुता ।
अस्तीति चेन्न संसारमूलहेत्वनिराकृतेः ॥ ६.४०॥
अविद्या संसृतेर्मूलमेतस्यामेव कर्मिणः ।
वर्तन्ते न तु जानन्ति ब्रह्मत्मानं सदद्वयम् ॥ ६.४१॥
पण्डितंमन्यतां प्राप्ताः कर्मकाण्डार्थवेदनात् ।
गुरुश्च तादृगेवातो ह्यन्धनीतान्धवत्स्थिताः ॥ ६.४२॥
अहं यज्वा वाजपेयराजसूयादिभिर्मखैः ।
कृतार्थ इति रागेण मत्वा भोगक्षये पतेत् ॥ ६.४३॥
वरिष्ठं कर्म मत्वास्माच्छ्रेयोऽन्यन्नैव वेत्त्यसौ ।
स्वर्गादागत्य विप्रत्वं प्राप्नोति श्वादिजन्म वा ॥ ६.४४॥
कर्मातरं चेद्रम्यं स्याद्विप्रत्वं श्वादितान्यथा ।
असारतामिमां वेत्ति शुद्धधीर्नित्यकर्मभिः ॥ ६.४५॥
उपासको ब्रह्मलोकं प्राप्नोत्यावृत्तिवर्जितम् ।
तथापि भूयानायासो मुक्तिश्चास्य विलम्बते ॥ ६.४६॥
परीक्ष्य कर्मजाल्लोकान् कर्मणा मुक्त्यसंभवात् ।
विरक्तो ब्रह्मबोधार्थं गुरुमेति यथाविधि ॥ ६.४७॥
वेदान्तानामनेकत्वात्संशयानां बहुत्वतः ।
वेद्यस्याप्यतिसूक्ष्मत्वान्न जानाति गुरुं विना ॥ ६.४८॥
श्रवणान्मननाद्ध्यानादप्युपायाद्गुरूदितात् ।
अज्ञानसंशयौ जह्याद्विपरीतां च भावनाम् ॥ ६.४९॥
गुरुश्च योग्य शिष्याय विद्यामक्षरबोधिनीम् ।
ब्रूयात्स्वकीयविद्यायाः सम्प्रदायप्रवृत्तये ॥ ६.५०॥
तदेतदक्षरं सत्यं मायाशक्तिसमन्वितम् ।
तस्मात्सर्वे समुत्पन्ना विस्फुलिङ्गा यथाग्नितः ॥ ६.५१॥
अक्षरात्मा स्वयञ्ज्योतिर्मायारूपाक्षरात्परः ।
अचिन्त्यशक्तिरनृता मायास्मिन् कल्पयेज्जगत् ॥ ६.५२॥
मायाविनोऽस्मात्प्राणादि वियदादि च जायते ।
ततो विराडभूत्तस्मिन्नवशिष्टमभूज्जगत् ॥ ६.५३॥
पुरुषो मायया सर्वजगद्रूपेण भासते ।
सर्वे पुरुष एवातो वस्तुतत्त्वावलोकने ॥ ६.५४॥
देहत्रयगुहायां यच्चैतन्यं साक्षि विद्यते ।
एतत्सर्वात्मकं ब्रह्मेत्येवं बुद्धा तमोनुदेत् ॥ ६.५५॥
अज्ञोऽहमिति तादात्म्यमज्ञानस्यात्मताऽस्ति यत् ।
अविद्याग्रन्थिरेष स्यात्स च बोधाद्विकीर्यते ॥ ६.५६॥
आविर्भूतं स्वयं भानात्स्वत्वात्सन्निहितं च यत् ।
ब्रह्मास्मिन् कल्पितं सर्वमिति धीर्बोध उच्यते ॥ ६.५७॥
सा धीश्चेन्न स्थिरा तर्हि प्रणवेन विचिन्तयेत् ।
बाणेन विद्ध्यते लक्ष्यं विध्येद्ब्रह्मतया धिया ॥ ६.५८॥
धीर्बाणो धनुरोङ्कारो ब्रह्म तल्लक्ष्यमुच्यते ।
अप्रमत्तेन बोद्धव्यं लग्ना ब्रह्मणि धीर्भवेत् ॥ ६.५९॥
दृढं लग्नं बालशल्यमाकृष्टमपि नाव्रजेत् ।
मुक्तशल्यः समागच्छेद्बाण एव वृथा यथा ॥ ६.६०॥
ब्रह्मसंलग्नधीरेवं स्वयं नायाति कुत्रचित् ।
किन्त्वकिञ्चित्करं चक्षुराद्येवायाति बाह्यतः ॥ ६.६१॥
दर्शनादिक्रियाः कुर्वन्यथापूर्वं य इन्द्रियैः ।
सिद्ध्यसिद्धी न जानाति जीवन्मुक्तः स उच्यते ॥ ६.६२॥
पञ्चीकृतोकमार्गेण प्रणवध्यानमाचरेत् ।
ततो जगदधिष्ठानमेकमेव सदेक्ष्यते ॥ ६.६३॥
लौकिकीवैदिकीश्चान्याः सर्वा वाचः परित्यजेत् ।
ध्यायेच्चेद्ब्रह्म तस्यात्र घीग्रन्थ्यादि विनश्यति ॥ ६.६४॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
श्रीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ६.६५॥
परमव्याकृतं यस्मादवरं स्याच्चिदात्मनः ।
दृष्टे तस्मिन्नहङ्कारचितोर्ग्रन्थिर्विभिद्यते ॥ ६.६६॥
अहङ्कारस्य कर्तृत्वं चित्यध्यस्य तथा चितः ।
स्फूर्ति चाहङ्कृतौ ग्रन्थिं कुर्यान्माया तयोर्दृढम् ॥ ६.६७॥
भिन्ने ग्रन्थौ विवेकेन संशया ब्रह्मतत्त्वगाः ।
छिद्यन्ते स्याद्भाविजन्महेतुकर्मक्षयस्तथा ॥ ६.६८॥
आनन्दरूपं हृत्कोशे यद्भाति प्राणिनां सदा ।
तच्छुभ्रं ज्योतिषां ज्योतिर्द्रष्टव्यं तन्मुमुक्षुभिः ॥ ६.६९॥
भासका अपि सूर्याद्यास्तद्भासयितुमक्षमाः ।
तस्मिन्नादौ भासमाने तद्भासा भासतेऽखिलम् ॥ ६.७०॥
सर्वासु दिक्षु तद्भाति तस्मिन्नन्तर्भवत्यदः ।
जगत्ततः पृथङ्नास्ति तरङ्गादिर्जलाद्यथा ॥ ६.७१॥
जलतत्त्वं तरङ्गादौ ब्रह्मतत्त्वं तथाऽखिले ।
ततो ब्रह्मणि विज्ञाते विज्ञातं सकलं भवेत् ॥ ६.७२॥
अखण्डैकरसं ब्रह्म समाधावेव भासते ।
व्युत्थाने भोक्तृभोक्तारौ भासेते पक्षिवत्पृथक् ॥ ६.१७३॥
वृक्षे पक्षी फलं भुङ्क्ते क्षुधितोऽन्यस्तु वीक्षते ।
चिच्छायावानहङ्कारो भुङ्क्ते चिद्वीक्षते तथा ॥ ६.७४॥
बोधात्पुरा तु चिद्भ्रान्त्या मग्ना भोक्तरि शोचति ।
सा भ्रान्तिर्भोक्तृनिष्ठैव तद्विवेकोऽपि भोक्तृगः ॥ ६.७५॥
भोगावान्तरभेदौ हि भ्रान्तितद्बाधकावुभौ ।
इतरारोपवेत्तौ च चित्यध्यस्तौ न वास्तवौ ॥ ६.७६॥
विविनक्ति यदा भोक्ता पुण्यपापे तदास्य नो ।
क्रीडत्यात्मन्यसौ ध्यानादुद्यूतादौ मूढवत्सदा ॥ ६.७७॥
आत्मन्येव रतिं कुर्यात्सर्वदा नित्यकर्मवत् ।
वरिष्ठो ब्रह्मवित्स्वेष व्यर्थक्षणविवर्जनात् ॥ ६.७८॥
सत्यं तपो ब्रह्मचर्यं विद्याधिकृतिकारणम् ।
मुख्याधिकारी विद्यायां वरिष्ठो ब्रह्मविद्भवेत् ॥ ६.७९॥
न चक्षुषा नापि वाचा नान्यैरक्षैश्च गृह्यते ।
न कर्मणा न तपसा विनान्तर्मुखतां क्वचित् ॥ ६.८०॥
ध्यानेनान्तर्मुखो वाक्याद्ब्रह्मात्मानमवेक्षते ।
विशुद्धबुद्धिरात्मज्ञो यथा वक्ति तथा भवेत् ॥ ६.८१॥
भूतिकामो विभूत्यर्थमात्मज्ञं सर्वदार्चयेत् ।
निष्कामस्तमुपासीनो वेत्ति ब्रह्मत्वमात्मनः ॥ ६.८२॥
कामश्रैष्ठ्यपरः कामैस्तत्र तत्र प्रजायते ।
जीवन्नेवात्मवित्सर्वकामानां लयमाप्नुयात् ॥ ६.८३॥
न वेदपाठबाहुल्यान्न बहुश्रुतितस्तथा ।
आत्मा लभ्योऽथ देवोऽयं वृणुते तेन लभ्यते ॥ ६.८४॥
ईश्वरानुग्रहादेव भवेदद्वैतवासना ।
तस्माद्ब्रह्मार्पितं कर्म कुर्यादीश्वरतुष्टये ॥ ६.८५॥
ईशानुग्रहयुक्तस्य सच्चिदानन्दलक्षणाम् ।
तनुं विवृणुते स्वीयां परमात्मा ह्यशेषतः ॥ ६.८६॥
श्रवणं मननं ध्यानं यस्य न प्रबलं भवेत् ।
प्रमादो वास्ति विषयासक्त्यात्मा न स बुध्यते ॥ ६.८७॥
तपो नास्याश्रमोपेतं यस्य शुद्धा न तस्य धीः ।
संपत्त्या श्रवणादीनामसौ ज्ञानेन तृप्यति ॥ ६.८८॥
वेदान्तधीनिश्चितार्थाः संन्यासाच्छुद्धबुद्धयः ।
ब्रह्मदृष्टौ स्थिरायान्ते मुच्यन्ते मूलकारणात् ॥ ६.८९॥
संसारिणां देहपातोऽपरान्तः पुनरुद्भवात् ।
परान्तो विदुषां देहपातः पुनरनुद्भवात् ॥ ६.९०॥
परान्तकाले मुक्ता ये ब्रह्मत्वात्ते परामृताः ।
कलाः पञ्चदशैतेषां लीयन्ते स्वस्वकारणे ॥ ६.९१॥
प्राणः श्रद्धा खादिभूतपञ्चकं चेन्द्रियं मनः ।
अन्नवीर्यतपोमन्त्राः कर्म लोकाश्च ताः कलाः ॥ ६.९२॥
वागादीननुगृह्णन्ति वह्नयादेः शक्तयः पुरा ।
ताश्च देवानेव यान्ति स्वानुग्राह्यविलोपनात् ॥ ६.९३॥
अनारब्धानि कर्माणि विज्ञानमयनामकः ।
कर्ता च विद्यया लीनः स्वस्मिन् काठिन्यवद्धृते ॥ ६.९४॥
अब्धावस्तं यान्ति नद्यो नामरूपे विहाय हि ।
तथा विद्वान्नामरूपान्मुक्तो याति परं पदम् ॥ ६.९५॥
यः कोऽपि ब्रह्म वेत्त्येष व्रह्मैव भवति स्वयम् ।
अब्रह्मवित्तस्य कुले न स्यादेतद्विबोधतः ॥ ६.९६॥
शोकं तरति पाप्मानमपि धीग्रन्थितोऽखिलात् ।
मुक्त ब्रह्मात्मबोधेन भवत्येवामृतोऽखिलः ॥ ६.९७॥
क्रियावन्तः श्रोत्रिया ये सगुणब्रह्मचिन्तकाः ।
तेषामेव ब्रह्मतत्त्वविद्यामेतां वदेद्बुधः ॥ ६.९८॥
अङ्गिराः शौनकायैतत्सत्यं ब्रह्मोपदिष्टवान् ।
नमस्कृत्य ब्रह्मविदो ब्रह्मविद्यामवाप्नुयात् ॥ ६.९९॥
शौनकस्य ब्रह्मविद्या विस्पष्टमुपवर्णिता ।
तुष्टोऽस्माननुगृह्णातु विद्यातीर्थमहेश्वरः ॥ ६.१००॥
इति श्रीमद्विद्यारण्यमुनिविरचिते अनुभूतिप्रकाशे
मुण्डकोपनिषद्विवरणोनाम षष्ठोऽध्यायः ॥ ६॥
७. प्रश्नोपनिषद्विवरणं नाम सप्तमोऽध्यायः ।
अथर्वणे पिप्पलादः षण्मुनिभ्यो यदब्रवीत् ।
तत्सर्वं प्रविविच्याऽत्र प्रवक्ष्यामि पृथक् पृथक् ॥ ७.१॥
मुनयो वेदतात्पर्यात्सगुणब्रह्मचिन्तकाः ।
परं ब्रह्माऽपेक्षमाणाः समिद्धस्ता गुरुं ययुः ॥ ७.२॥
गुरूपसत्तिसंपूर्त्यै वर्षं गुर्वेन्तिकेऽवसन् ।
सम्यक् फलति विद्यैषा वार्षिक्या गुरुसेवया ॥ ७.३॥
कात्यायनोऽपृच्छदादौ स्थूलदेहजनिकमम् ।
फलं त्वपरविद्यायास्तत्र स्पष्टीभविष्यति ॥ ७.४॥
कर्मोपास्तिश्चापरस्यां विद्यायां श्रूयते द्वयम् ।
तत्फलं जन्मकष्टं तदित्यभिप्रेत्य वर्ण्यते ॥ ७.५॥
प्रजापतिः प्रजाकामो विराट्सृष्टेरनन्तरम् ।
स्रष्टव्यालोचनाख्यं तत्तपः कृत्वाऽसृजत्प्रजाः ॥ ७.६॥
भोग्यभोक्त्रात्मकं द्वन्द्वं रयिप्राणाख्यमादितः ।
सृष्ट्वाऽभिमानिनौ देवौ चन्द्रादित्यौ च सृष्टवान् ॥ ७.७॥
मूर्तमोषध्यादिभोग्यं शब्दगन्धरसादिकम् ।
अमूर्तमनयोर्वृद्धिं देवश्चन्द्रः करोति हि ॥ ७.८॥
आदित्य उद्यन्भोक्तॄणां तत्तद्दिग्वर्तिनामिमान् ।
प्राणान्प्रवर्तयेद्भोक्तॄनेतेऽन्नं भुञ्जते ततः ॥ ७.९॥
चन्द्रस्तिथिमहोरात्रं सूर्यः सम्पादयत्यतः ।
तत्समूहस्वरूपोऽसौ कालः संवत्सरोऽभवत् ॥ ७.१०॥
यद्यदुत्पद्यते तत्तत्स्यादुपाधिः प्रजापतेः ।
प्रजापतिर्वत्सरात्मा स पुनर्द्विविधोऽभवत् ॥ ७.११॥
अभूतां वत्सरांशौ द्वावयने दक्षिणोत्तरे ।
चन्द्रादित्यौ तत्र देवौ दक्षिणोत्तरमार्गयोः ॥ ७.१२॥
इष्टपूर्तकृतश्चन्द्रं यान्ति दक्षिणमार्गतः ।
आवर्तन्ते पुनस्तत्र क्रममुक्तिर्न विद्यते ॥ ७.१३॥
योगिनः सगुणध्यानाद्रविमुत्तरमार्गतः ।
गत्वा तन्मण्डलं भित्त्वा ब्रह्मलोकं व्रजन्ति हि ॥ ७.१४॥
आसीत्प्रजापतिर्मासः पक्षौ शुक्लेतराविह ।
यौ तयोश्च रविश्चन्द्रोऽभिमन्तारावुभौ स्थितौ ॥ ७.१५॥
रविध्यायी तु कृष्णेऽपि कुर्वन् शुक्लफलं व्रजेत् ।
शुक्लपक्षे फलाधिक्यं शास्त्रोक्तं काम्यकर्मणाम् ॥ ७.१६॥
प्रजापतिरहोरात्ररूपोऽभूदह्नि देवता ।
रविश्चन्द्रो रात्रिदेवो रात्रावेव रतिस्ततः ॥ ७.१७॥
भोक्तृभोग्यात्मकं द्वन्द्वं सृष्ट्वाऽथैष प्रजापतिः ।
अन्नरूपोऽभवत्तस्मादन्नाद्रेतस्समुद्भवः ॥ ७.१८॥
रेतसोऽमूः प्रजा जाता रेतस्सेकं प्रजापतेः ।
व्रतं चरन्ति चेत्पुत्रं पुत्रीं चोत्पादयन्ति हि ॥ ७.१९॥
ब्रह्मचर्यरता ऊर्ध्वरेतसो ब्रह्मचिन्तकाः ।
ब्रह्मलोकं व्रजन्त्यन्ये निस्तपस्का न यान्ति तम् ॥ ७.२०॥
कात्यायनेन यत्पृष्टं हेयं जन्म तदीरितम् ।
भार्गवः सूक्ष्मदेहस्य स्थूलेऽप्राक्षीद्विवेचनम् ॥ ७.२१॥
तस्मिन्विवेचिते स्थूलस्यानात्मत्वं स्फुटं भवेत् ।
धारको द्योतकः श्रेष्ठ इत्यप्राक्षीदसौ त्रयम् ॥ ७.२२॥
देवाः कति स्थूलदेहं धारयन्त्यत्र धारणम् ।
द्विविधं जननं तस्य प्रेरणं चेति तद्द्वयम् ॥ ७.२३॥
ज्ञानवर्गे क्रियावर्गे स्थिताः के भासयन्ति तम् ।
प्रेरणाख्ये धारणेऽस्मिन्श्रेष्ठो देवेषु को भवेत् ॥ ७.२४॥
काठिन्यं च द्रवोष्णत्वे चलनं छिद्रमित्यमी ।
दृश्यन्तेंऽशाः पञ्चभूतजन्योऽतो देह इष्यते ॥ ७.२५॥
वाक्पाण्यादिः क्रियावर्गः क्रियां कुर्वन्न भासयेत् ।
ज्ञानवर्गो मनश्चक्षुरादिको भासयेद्वपुः ॥ ७.२६॥
प्रेरणाख्यां धारणां तु प्राण एव करोति हि ।
भूतेन्द्रियाभिमानिन्यो देवता गर्वमाप्नुवन् ॥ ७.२७॥
वयं देहमवष्टभ्य प्रेरयामो गृहादिषु ।
प्राणदेवोऽन्यदेवानामेतं गर्व न्यवारयत् ॥ ७.२८॥
यूयं मा प्राप्नुत भ्रान्तिमहमेवात्र पञ्चधा ।
प्राणापानादिभिर्भागैः धारयामि ह्यदो वपुः ॥ ७.२९॥
तानविश्वसतो देवान्विश्वासयितुमेष तु ।
देहान्निर्गतुमुद्युक्तो ह्यासन्देवाश्च विह्वलाः ॥ ७.३०॥
स्थिते स्वराज्ञि तिष्ठन्ति निर्गच्छन्ति च निर्गते ।
मधुकृन्मक्षिका देवाश्चासन्प्राणवशास्तथा ॥ ७.३१॥
प्राण सूत्रं तेन बद्धाः सर्वे तत्तद्वशा इमे ।
उत्क्रान्तिं वारयन्तस्ते प्राणं तुष्टुवुरादरात् ॥ ७.३२॥
देहोऽकिञ्चित्करः प्राण एव संसारकारणम् ।
भार्गवो निश्चिकायेत्थं पिप्पलादेन बोधितः ॥ ७.३३॥
क्रममुक्तिर्हेतुरस्य प्राणस्य ध्यानमित्यसौ ।
कौशल्यः प्राणविषयान्षट्प्रश्नानकरोत्स्फुटम् ॥ ७.३४॥
प्राणोऽयं कुत उत्पन्नः कथमेष वपुर्व्रजेत् ।
स्वरूपं प्रविभज्यैष कथं देहेऽवतिष्ठते ॥ ७.३५॥
केन वृत्तिविशेषेण देहादुत्क्रान्तिमाप्नुयात् ।
बाह्यं जगत्कथं धत्ते तस्याऽध्यात्मधृतिः कथम् ॥ ७.३६॥
उपास्तिश्रद्धया सर्वं विशेषं पृष्टवानिति ।
तुष्टो गुरुरुवाचैषां प्रश्नानानां स्पष्टमुत्तरम् ॥ ७.३७॥
परमात्मन उत्पन्नः प्राण आत्मा त्वविक्रियः ।
अविष्कृत्यैव देहं स्वं देहच्छाया यथोदिता ॥ ७.३८॥
छायानृतैव दृष्टा चेत्प्राणोऽप्यात्मनि कल्पितः ।
यथा दर्पणदीप्त्यादिर्मायोपाधिस्तथात्मनः ॥ ७.३९॥
पूर्वकल्पे कृतं कर्म मनसा यत्तदेव हि ।
प्राणस्य स्थूलदेहेषु समागमनकारणम् ॥ ७.४०॥
ग्रामेष्वधिकृतान् सम्राड् विनियुङ्क्ते यथा पृथक् ।
प्राणो वृत्तीः स्वकीयास्ताः विनियुङ्क्ते यथायथम् ॥ ७.४१॥
मलमूत्रविसर्गार्थमपानं स्थापयेदधः ।
मुखनासिकयोः कुर्वन् स्वयं श्वासमवस्थितः ॥ ७.४२॥
समानः स्थापितो मध्ये भुक्तमन्नं समं नयेत् ।
अन्नाप्यायनतो मूर्धच्छिद्रैः सप्तविधोऽभवत् ॥ ७.४३॥
हृत्पुण्डरीके जीवात्मा स्थितस्तद्बहुभिर्वृतम् ।
नाडीभेदैर्मूलनाडी सङ्ख्या चैकाधिकं शतम् ॥ ७.४४॥
प्रत्येकं शतसङ्ख्याः स्युः शाखा नाड्यस्तथा पुनः ।
द्वासप्ततिसहस्राणि प्रतिशाखाः प्रकीर्तिताः ॥ ७.४५॥
तासु सर्वास्ववस्थाय व्यानोऽयं कुरुते बलम् ।
करोत्युदान उत्क्रान्तिं कण्ठस्थो ह्यन्यजन्मने ॥ ७.४६॥
विभज्य पञ्चघात्मानमेवं देहे व्यवस्थितः ।
उदानवायुनोत्क्रान्तिरुक्ता बहिरथोच्यते ॥ ७.४७॥
आपो भूमिवियद्वायुतेजसां येऽभिमानिनः ।
देवास्तद्रूपतः प्राणो धत्ते बाह्यमिदं जगत् ॥ ७.४८॥
पुनस्तद्देवतारूपः शारीराश्चक्षुरादिकान् ।
प्राणादीननुगृह्णातीत्याध्यात्मं धारणं भवेत् ॥ ७.४९॥
खेरनुप्रहुश्चक्षुष्यस्ति तद्वत्परेष्वपि ।
अपानादिषु भूम्यादेरुपकारोऽस्ति शास्त्रतः ॥ ७.५०॥
तेजोदेवतयोदानोऽनुगृहीतो यतस्ततः ।
शारीरौष्ण्ये प्रशान्तेऽस्माद्देहादेहान्तरं व्रजेत् ॥ ७.५१॥
मनस्येकीभवत्यादाविन्द्रियाणि तदात्मनः ।
यं देहं भावयेत्तत्र याति प्राणः सजीवकः ॥ ७.५२॥
षट्सु प्रश्नेषु निर्णीतं प्राणं ध्यायति यः पुमान् ।
सोपाधिकब्रह्मवेदी स क्रमेण विमुच्यते ॥ ७.५३॥
ब्रह्मलोकान्तसंसारोऽपरविद्याफलं ततः ।
गार्ग्यस्तु परविद्यार्थं पञ्चप्रश्नानवोचत ॥ ७.५४॥
कानि स्वपन्ति कान्यत्र जाप्रति स्वप्नदृक्च कः ।
सुप्तौ सुखं भवेत्कस्य जगत्कस्मिन्विलीयते ॥ ७.५५॥
दशेन्द्रियाणि बाह्यानि स्वपन्त्यन्तर्धिया सह ।
रश्मयोऽस्तं यथा यान्ति सन्ध्यायां रविणा सह ॥ ७.५६॥
श्रवणादिक्रिया नैव सुप्तत्वादिति गम्यते ।
तदापि जाग्रति प्राणाः श्वासादेरविलोपनात् ॥ ७.५७॥
जाठराग्निः पटुर्भूत्वा भुङ्क्ते जरयते तदा ।
प्राणान्यागाग्निरूपेण ध्यात्वा यागफलं व्रजेत् ॥ ७.५८॥
बाह्माक्षाणामुपरमे मनोऽनुपरतं यदा ।
जीवात्मा तदुपाधिः सन् सदा स्वप्नमवेक्षते ॥ ७.५९॥
नाडीषु सञ्चरन् जीवो नानाजन्मभिरर्जिताः ।
वासना वीक्षते सोऽयं स्वप्न इत्यभिधीयते ॥ ७.६०॥
हृच्छिद्राण्यावृतानि स्युः सुप्तौ पित्ताख्यतेजसा ।
चित्तोपाधिकजीवोऽपि पित्तेनात्राभिभूयते ॥ ७.६१॥
दुःखवृत्त्युदयश्चित्ते (वृत्त्या) नास्ति छिद्रनिरोधतः ।
आत्मानन्दः स्वप्रकाशस्तदा जीवस्य तिष्ठति ॥ ७.६२॥
सुप्तौ च प्रलये मुक्तौ जगदात्मनि लीयते ।
निवासवृक्षे लीयन्ते सन्ध्यायां पक्षिणो यथा ॥ ७.६३॥
तन्मात्राणि च भूतानि ज्ञानकर्मेद्रियाण्यपि ।
अन्तःकरणभेदाश्च शक्ती ज्ञानक्रियात्मिके ॥ ७.६४॥
एतेषां विषयाः सर्वे द्रष्टृश्रोत्रादिनामकः ।
जीवोऽन्तःकरणस्थोऽपि जगत्सर्वमिदं भवेत् ॥ ७.६५॥
न किञ्चिद्भाति निद्रायां लीनं स्यात्तदवेक्षया ।
सर्वेषां प्रलये यद्वन्मुक्तौ तत्त्वविदस्तथा ॥ ७.६६॥
परमात्मा लयाधारो यथा तद्वस्थितेरपि ।
आधारस्तेन जगतः परमात्मोपलक्ष्यताम् ॥ ७.६७॥
उपलक्षयिता जीवो बुद्धौ चित्प्रतिबिम्बकः ।
उपलक्ष्यं ब्रह्म तत्तु स्यादच्छायादिरूपकम् ॥ ७.६८॥
छाया तमस्तेन हीनं शरीरत्रयवर्जितम् ।
लौहित्यादिगुणैर्हीनं शुभ्रं क्रोधाद्यभावतः ॥ ७.६९॥
अक्षरं नाशहेतूनामभावाद्ब्रह्म तादृशम् ।
यो जानाति स सर्वज्ञः सर्वात्मा च भवेत्खलु ॥ ७.७०॥
सत्यकामस्तु पूर्वोक्तब्रह्मानुभवसाधनम् ।
प्रणवध्यानमप्राक्षीत्फलभेदेन संयुतम् ॥ ७.७१॥
लोकेषु ज्ञानकर्मभ्यां साध्येषु कतमं ब्रजेत् ।
आमृति प्रणवध्यायी सविशेषमिदं वद ॥ ७.७२॥
शृण्वोङ्कारः प्रतीकं स्यादपरस्य परस्य च ।
ब्रह्मणोऽन्यतरद्ब्रह्म प्रणवेन विचिन्तयेत् ॥ ७.७३॥
विराडाद्यपरं तद्वत्सत्यज्ञानात्मकं परम् ।
मात्रात्रयविभक्तं तदुपरं ब्रह्म चिन्तयेत् ॥ ७.७४॥
विराढकारः सूत्रात्मोकारो ह्यव्याकृतं पुनः ।
मकार इति विज्ञेयो विभागोऽपरचिन्तने ॥ ७.७५॥
सूत्रव्याकृतविज्ञानहीनो यदि विचिन्तयेत् ।
विरामात्रं तमोङ्कारं तदापि व्यर्थता न हि ॥ ७.७६॥
ऋगाख्यदेवाः सहसा भूर्लोकं प्रापयन्ति तम् ।
पूर्ववासनया योगमभ्यस्यत्यधिकं पुनः ॥ ७.७७॥
विराट्सूत्रात्मकं मात्राद्वयं ध्यात्वा तु नीयते ।
यजुर्वेदैः सोमलोकं पुनरावृत्तिसंयुतम् ॥ ७.७८॥
विराट्सूत्राव्याकृताख्यं त्रिमात्रं प्रणवं स्मरेत् ।
सामवेदैर्ब्रह्मलोकं नीयते मुक्तिकारणम् ॥ ७.७९॥
समस्तजीवसङ्घाख्यः सूत्रात्मा यः परोऽन्यतः ।
तस्मादपि परं ब्रह्मतत्त्वं यत्तदवेक्षते ॥ ७.८०॥
क्रममुक्तिर्भवेदित्थमपरब्रह्मचिन्तनात् ।
ओङ्कारेण परं ब्रह्म ध्यात्वेक्षित्वा च मुच्यते ॥ ७.८१॥
शान्तं जरामृत्युहीनमभयं ब्रह्म यत्परम् ।
तच्चोङ्कारेण विद्वान्यः सोऽन्वेतीति पृथक् श्रुतम् ॥ ७.८२॥
मुक्तौ प्राप्वं परं ब्रह्म यत्तस्य प्रत्यगात्मताम् ।
बुभुत्सुः सन् भरद्वाजः पुरुषं प्रष्टुमिच्छति ॥ ७.८३॥
राजपुत्रः षोडशभिः कलाभिः पुरुषं युतम् ।
अपृच्छन्मां न वेदाहं वदैतं पुरुषं मुने ॥ ७.८४॥
शृण्वसौ पुरुषो देहे हृन्मध्ये भासते सदा ।
तस्मिन्प्राणादिनामान्ता माययोत्पादिताः कलाः ॥ ७.८५॥
प्राणः श्रद्धा खादिभूतपञ्चकं चेन्द्रियं मनः ।
अन्नं वीर्यं तपो मन्त्राः कर्म लोकाश्च नाम च ॥ ७.८६॥
आरोपिताः कला यस्मिन् पूर्णोऽसौ पुरुषस्ततः ।
उपलब्धिस्तथाप्यस्य देहमध्ये प्रशस्यते ॥ ७.८७॥
चिद्रूपताऽत्र विस्पष्टा दर्शनश्रवणादिभिः ।
अपैति जीवता देहे स्थिते पूर्णत्वबोधनात् ॥ ७.८८॥
जीवत्वापादकोपाधिः प्राणस्तस्माज्जनैः सदा ।
प्राणोत्क्रान्तिस्थिती स्वात्मन्यारोप्येतेमुमूर्षिभिः ॥ ७.८९॥
कस्मिन्नुत्क्रान्त उत्क्रातिमाप्स्यामीति विचारयन् ।
परमात्माऽसृजत्प्राणान् जनारोपोऽभवत्ततः ॥ ७.९०॥
जीवत्वस्यारोपितस्य निवृत्त्यर्थं चिदात्मनि ।
देहस्थे पूर्णरूपेण पुरुषत्वं विबुध्यताम् ॥ ७.९१॥
जगत्प्राणादिनामान्तं सर्वमस्मिन्प्रकल्पितम् ।
सर्वाधिष्ठानरूपत्वात् पूर्णत्वमुपपद्यते ॥ ७.९२॥
नदीष्वब्धिं प्रविष्टासु लीयेते रूपनामनी ।
कलाः स्वात्मनि बोधेन लीना स्वात्माऽब्धिवत्स्थितः ॥ ७.९३॥
एषोऽकलोऽमृतः पूर्णश्विदात्मा मुक्त उच्यते ।
एवं बोधयितुं सर्वे वेदान्ताः सम्प्रवर्तिताः ॥ ७.९४॥
कलाः प्रतिष्ठिता यस्मिन् रथनाभावरा इव ।
तं वेद्यं पुरुषं सर्वे जानीध्वं मृत्युहानये ॥ ७.९५॥
कात्यायनादयः सर्वे शृणुध्वं मुनिपुङ्गवाः ।
एतावदेव ब्रह्माहं वेद्मि नातोऽधिकं क्वचित् ॥ ७.९६॥
मुनयोऽप्यर्चयन्तस्तं पिप्पलादं वचोऽब्रुवन् ।
संसारभयतोऽस्माकं पालनात्त्वं हि नः पिता ॥ ७.९७॥
अविद्यायाः परं पारं यस्तारयति तस्य ते ।
शुश्रूषामुचितां कर्तुं न शक्ताः प्रणर्ति विना ॥ ७.९८॥
गुरुभ्यः परमर्षिभ्यो भूयो भूयो नमो नमः ।
इत्येवं पिप्पलादस्तान्मुनीननुगृहीतवान् ॥ ७.९९॥
वेदैश्चतुर्भिरुत्पन्ना विद्येयं ब्रह्मगोचरा ।
प्रकाशितातः सन्तुष्याद्विद्यातीर्थमहेश्वरः ॥ ७.१००॥
इति श्रीमद्विद्यारण्यमुनिविरचिते अनुभूतिप्रकाशे
प्रश्नोपनिषद्विवरणं नाम सप्तमोऽध्यायः ॥ ७॥
८. कौषीतकीशाखा विवरणे इन्द्रप्रतर्दनसंवादो नाम अष्टमोऽध्यायः ।
ऐतरेये तैत्तिरीये छान्दोग्येऽथर्वणे च यत् ।
तत्त्वं चतुर्वेदविद्याप्रकाशे तत्समीरितम् ॥ ८.१॥
अनुभूतिप्रकाशेऽथ कौषीतक्यादिनामसु ।
चतुर्वेदाङ्गशाखासु यत्तत्त्वं तदुदीर्यते ॥ ८.२॥
ऋग्वेदस्थितशाखा या कौषीतक्यभिधाङ्किता ।
तस्यां प्रतर्दनायेन्द्रः प्राहात्मानुभवं स्फुटम् ॥ ८.३॥
मनुष्येभ्यो हिततमं वरं वव्रे प्रतर्दनः ।
हितं हिततरं चेन्द्रो मेने हिततमं घिया ॥ ८.४॥
हितं स्वर्गसुखं मर्त्यसुखादप्यधिकं त्वतः ।
तद्वैराग्यं हिततरं यागाद्यायासवर्जनात् ॥ ८.५॥
स्वात्मबोधो हिततमो नित्यानन्दानुभूतिदः ।
इति मत्वेन्द्र आहेतं शिष्यं जानीहि मामिति ॥ ८.६॥
सहस्राक्षोऽहमित्युक्तेर्मद्देह इति चेरणात् ।
अस्मच्छब्दो वपुस्तस्य स्वामिनं च ब्रवीत्ययम् ॥ ८.७॥
सहस्राक्षवपुस्तेन दृष्टं स्वामी तु तद्दृशा ।
न द्रष्टुं शक्यते लिङ्गात्पुरैवानुमतः खलु ॥ ८.८॥
सहस्राक्षवपुः स्वामियुक्तं स्याद्व्यवहर्तृतः ।
मच्छरीरवदित्येवं बालेनाप्यवबुध्यते ॥ ८.९॥
अतो बुद्धिमतो बोद्धुं योग्योऽस्मच्छब्दलक्षितः ।
विवक्षितः कश्चिदर्थ इति शिष्येण निश्चितम् ॥ ८.१०॥
अलौकिकात्मा ज्ञेयोऽस्तु तद्विज्ञानेन किं फलम् ।
इति चेद्दुःखसम्बन्धराहित्यं तत्त्वधीफलम् ॥ ८.११॥
तस्माद्धिततमं ज्ञानं दुःखाभावोऽत्रवर्ण्यते ।
सहस्राक्षे स्थूलदेहे दुःखं रोगादिजं भवेत् ॥ ८.१२॥
स्वामिन्यस्मिन्सूक्ष्मदेहे पुण्यपापकृतं भयम् ।
त्वाष्ट्रादीनां वधेऽप्यासीद्भयं नैव चिदात्मनः ॥ ८.१३॥
त्वष्टुः पुत्रो विश्वरूप आसीद्देवपुरोहितः ।
स्वामिद्रोहं चकारासौ तं त्वाष्ट्रं हतवानहम् ॥ ८.१४॥
कर्तर्यभूद्ब्रह्महत्या न त्वसङ्गे चिदात्मनि ।
वेदान्तज्ञानहीनानां यतीनां हनने तथा ॥ ८.१५॥
लोकत्रये बहुविधानसुरान् हृतवानहम् ।
चिदात्मनोऽपि मे तत्र नैव लोमापि हिंस्यते ॥ ८.१६॥
माहात्म्यं मम नैतत्स्यात्किन्तु ज्ञानस्य तद्भवेत् ।
अन्योऽपि मां चिदात्मानं वेत्ति चेत्तत्फलं भवेत् ॥ ८.१७॥
वाचा वा मनसा मातृवधादीन् कुरुते यदि ।
तथापि ज्ञानिनो मोक्षो न ह्येतैर्विनिवार्यते ॥ ८.१८॥
पापं कृतवतोऽप्यस्य मुखे हर्षक्षयो न हि ।
न मुक्तिर्नश्यतीत्येवं शास्त्रैरस्य विनिश्वयात् ॥ ८.१९॥
ननु मूढस्यापि नास्ति चिन्मात्रे पापलेपनम् ।
ततः कोऽतिशयस्तत्त्वविदः स्यादिति चेच्छृणु ॥ ८.२०॥
अहङ्कर्तृगतं पापमज्ञात्वारोप्यते चिति ।
तेन ग्लानिर्मुखे भाति जन्मापि नरके भवेत् ॥ ८.२१॥
ज्ञानेन कर्मणस्तस्य बीजभावो विनश्यति ।
जन्मप्ररोहो नैवास्तीत्येवं निश्चित्य हृष्यति ॥ ८.२२॥
दग्धबीजं यथा लोके न प्ररोहक्षमं तथा ।
ज्ञानाग्निदग्ध यत्कर्म न तज्जन्मप्रदं भवेत् ॥ ८.२३॥
तर्हि तत्त्वविदः श्रेष्ठा मूढवन्नियमेन तत् ।
कुतः पापं त्यजन्तीति चेद्रहस्यमिदं शृणु ॥ ८.२४॥
यद्यप्यामुष्मिकी हानिर्नास्त्यथाप्यैहिकी तु सा ।
महती विद्यते तेन पापं यत्नेन वर्जयेत् ॥ ८.२५॥
शिष्टास्त्यजन्ति पापिष्टं प्रत्यक्षो नरकः स हि ।
तन्निन्दकस्तस्य पापं गृहीत्वा नरकं व्रजेत् ॥ ८.२६॥
स्तोता कर्मी तु संसर्गात्स्वयमप्याचरेत्तथा ।
इत्थं दोषत्रयं दृष्ट्वा शिष्टाः पापं त्यजन्ति हि ॥ ८.२७॥
किं च पुण्यरतः पूर्व ज्ञानमाप्नोति नान्यथा ।
पश्चाच्च तद्वासनया पुण्यमेव करोत्यसौ ॥ ८.२८॥
किं बहूक्त्या तत्त्वविदो न भयं पारलौकिकम् ।
उपदेशसहस्रथां च तथाचार्यैरुदीरितम् ॥ ८.२९॥
परलोकभयं यस्य नास्ति मृत्युभयं तथा ।
तस्यात्मज्ञस्य शोच्याः स्युः सब्रह्मेन्द्रा अपीश्वराः ॥ ८.३०॥
मां जानीहीत्येवमिन्द्रः स्वात्मज्ञाने प्रवर्त्य तम् ।
प्राणोऽस्मीत्यादिवाक्येन तस्मै तत्त्वमवोचत ॥ ८.३१॥
प्राणप्रज्ञे क्रियाज्ञानशक्ती द्वे लिङ्गदेहगे ।
तद्धिष्ठानरूपत्वात्ताभ्यामात्मोपलक्षितः ॥ ८.३२॥
प्रज्ञात्मा प्राणरूपोऽस्मीत्येवं तस्मा अवोचत ।
आनन्दोऽजर इत्यादि निर्णयस्तस्य उच्यते ॥ ८.३३॥
अत्रोपायो नास्ति कश्चिदुपाधिमुपलक्षकम् ।
विनात्मवाचकः शब्दो यस्मान्न कापि वीक्ष्यते ॥ ८.३४॥
लोके गुणक्रियाजातिरूढयः शब्दहेतवः ।
नात्मन्यन्यतमोऽमीषां तेनात्मा नाभिधीयते ॥ ८.३५॥
उपाधिष्वपि सर्वेषु सामीप्यात्प्रत्यगात्मनः ।
प्राणप्रज्ञाद्वयं योग्यमत्यन्तं तेन लक्ष्यते ॥ ८.३६॥
प्राणशब्दोऽभिधावृत्त्या वायुं चेष्टकमाह हि ।
प्रज्ञाशब्दो ज्ञानहेतुं बुद्धिं वक्ति स्वशक्तितः ॥ ८.३७॥
तद्भ्रान्त्यधिष्ठानतया तद्धेतुत्वोपचारतः ।
ताभ्यामात्मा लक्ष्यमाणो ज्ञेयः शाखाग्रचन्द्रवत् ॥ ८.३८॥
देहेन्द्रियादयो भावा ज्ञानादिव्यापृतिक्षमाः ।
यस्य सन्निधिमात्रेण सोऽहमित्यवधारय ॥ ८.३९॥
अजडात्मवदाभान्ति यत्सान्निध्याज्जडा अपि ।
देहेन्द्रियमनः प्राणाः सोऽहमित्यवधारय ॥ ८.४०॥
उपाधिलक्षितं तत्त्वं यदि बोद्धुं न शक्नुयाः ।
तर्ह्युपाधिद्वयोपेतमुपास्व गुणसंयुतम् ॥ ८.४१॥
आयुष्यममृतत्वं च गुणौ प्राणस्य सम्मतौ ।
इहायुः प्राणतः स्वर्गे चामृतत्वमिति स्फुटम् ॥ ८.४२॥
सत्यसङ्कल्पता प्रज्ञागुणध्यानानुसारतः ।
फलमाप्नोति कामी चेन्निष्कामस्तत्त्वमीक्षते ॥ ८.४३॥
उपास्त्यैकाग्र्यमावाथ तत्त्वं वीक्षितुमादितः ।
प्रज्ञाप्राणावुपाधी तौ विविच्येतां यथातथम् ॥ ८.४४॥
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं धीन्द्रियपञ्चकम् ।
वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियपञ्चकम् ॥ ८.४५॥
इन्द्रियाणां प्रवृत्तिः स्यात्प्रज्ञालोचनपूर्विका ।
प्राणवायुप्रेरिता चेत्येवं लोके व्यवस्थितिः ॥ ८.४६॥
तत्र मूढाः केचिदाहुर्युगपञ्चक्षुरादयः ।
सर्वेऽपि स्वस्वषये प्रवर्तन्त इतीदृशम् ॥ ८.४७॥
तदसन्निपुणोऽप्यत्र न शक्तः सूक्ष्ममीक्षितुम् ।
कालाल्पत्वेन सञ्छाद्य क्रमं धूर्तो विडम्बयेत् ॥ ८.४८॥
प्रज्ञाप्राणसहायेन विना नैवेन्द्रियं क्वचित् ।
प्रवर्तते सहायस्तु क्रमभावीति निश्चितः ॥ ८.४९॥
अन्यथा निखिलं वेद धूर्तो ह्येकक्षणे पठेत् ।
या प्रज्ञाप्राणयोर्वृत्तिः सा स्याद्वाग्वृत्तिवत्क्रमात् ॥ ८.५०॥
प्रज्ञाप्राणानुग्रहेण वाग्यदाह तदेतरे ।
चक्षुराद्या उपरतास्तामनुब्रुवते खलु ॥ ८.५१॥
स्वव्यापारे प्रवृत्ताश्चेत्प्रज्ञाप्राणानुकर्षणात् ।
वाचो विघ्नो भवेद्विघ्नवारणं ह्यनुवादिता ॥ ८.५२॥
एवमन्यत्रापि योज्यमतः सर्वेऽपि संहताः ।
एकैकविषयो ह्युक्तो व्यहारः क्रमाद्भवेत् ॥ ८.५३॥
क्रमभावी विचित्रोऽयं व्यवहारश्चिदात्मना ।
येनैकेनेक्ष्यते सोऽयमन्यः सर्वेभ्य इष्यताम् ॥ ८.५४॥
प्राणा वागादयः सर्वे किं समा उत विद्यते ।
श्रेष्ठस्तेष्विति चेत्प्राणः श्रेष्ठो जीवनकृत्वतः ॥ ८.५५॥
तस्मादुपेक्ष्य वागादीन् प्राणोपाधिः समाश्रितः ।
आत्मबोधाय किञ्चायं प्राण उत्थापयेद्वपुः ॥ ८.५६॥
ननु सुप्तावयं प्राणो देहं नोत्थापयत्यमुम् ।
किन्तु जागरणे तस्मात्प्रज्ञैवात्र प्रयोजिका ॥ ८.५७॥
चतुर्भिरुह्यते यत्तु सर्वशक्त्या शरीरकम् ।
तूलायते तदेवाहन्धियाघ्रातमितीक्ष्यते ॥ ८.५८॥
सत्यमेव ततः प्रज्ञोपाधिः प्राणवदाश्रितः ।
प्रज्ञात्मा प्राण एवैको मिलित्वोपाधिरिष्यते ॥ ८.५९॥
द्वयोर्मृतौ जीवने च सहुभावात्तदेकता ।
उत्थापकत्वादुक्थं तदित्त्यैकाग्र्याय चिन्तयेत् ॥ ८.६०॥
चित्तैकाग्र्ये क्षमा बुद्धिर्बोद्धुं तत्साक्षिणं भवेत् ।
जगद्धेतुतयाऽप्येष प्राणः स्वात्मोपलक्षकः ॥ ८.६१॥
एकादशेन्द्रियाण्येषां विषयाश्च जगत्खलु ।
सुप्तौ सर्व जगल्लीनं प्राणोपाधिक आत्मनि ॥ ८.६२॥
इन्द्रियाण्येव लीयन्ते विषया नेति चेन्न तत् ।
प्रातीतिकस्य जगतो मानाभावो लयो मतः ॥ ८.६३॥
प्रातीतिकत्वं वेदान्तसिद्धान्ते जगतः स्फुटम् ।
अतः सुप्तौ जगल्लीनं प्रबोधे जायते पुनः ॥ ८.६४॥
प्राणप्रतीतिरप्यस्य सुप्तौ नास्तीति चेत्तदा ।
प्राणोक्तिरन्यदृष्ट्यैव प्राणेनात्मोपलक्ष्यते ॥ ८.६५॥
प्रबोधे स्वात्मनोऽक्षाणि जायन्ते विस्फुलिङ्गवत् ।
तेभ्योऽभिमानिदेवाः स्युर्देवेभ्यो विषया इमे ॥ ८.६६॥
दृष्टिसृष्टिमिमां ब्रह्मानुभवी बहुमन्यते ।
स्वप्नबोधात्स्वसंसारो लीयते स्वप्नवद्यतः ॥ ८.६७॥
न्यायेनानेन मरणे, मूर्च्छादौ चोह्यतां छयः ।
लीनस्य पुनरुत्पत्तौ व्यवहारक्रमं शृणु ॥ ८.६८॥
प्राणोपाधिकजीवात्मा यदा व्यवजिहीर्षति ।
तदा वाक्सृजते शब्द जीवो वाचा ब्रवीति तम् ॥ ८.६९॥
एवं सर्वत्र विज्ञेयं प्राणे सर्वाप्तिरीरिता ।
प्रज्ञा प्राणादभिन्नाऽतस्तस्यां सर्वाप्तिरुच्यते ॥ ८.७०॥
वाक् प्रज्ञायामेकमंशमभिमानाख्यमाश्रिता ।
प्रज्ञाभिमानवशतः शब्दोच्चारणशक्तियुक् ॥ ८.७१॥
शरीरगा त्वगप्येवं शक्ताभूत्स्पर्शजे सुखे ।
रतौ प्रजातावानन्दे चोपस्थः शक्तिमानभूत् ॥ ८.७२॥
क्रीडा चोत्पादनं वीर्यमोक्षश्वोक्तमिदं त्रयम् ।
ध्येये ज्ञेये च कामादौ चित्तं शतमभूत्खलु ॥ ८.७३॥
सर्वेद्रियेषु प्रज्ञाया अभिमानोऽवधार्यताम् ।
अन्वयव्यतिरेकाभ्यामुदाहार्योऽखिलेष्वसौ ॥ ८.७४॥
प्रज्ञया वाचमारुह्य जीवो नामाभिवक्ति च ।
अन्यचित्तोऽभवं तेन नावोचमिति चोच्यते ॥ ८.७५॥
वक्ष्यामीत्यभिमानोऽयं वागारोह इतीर्यते ।
ध्यास्यामीत्यभिमानात्तु चित्तारोहस्तथा भवेत् ॥ ८.७६॥
अभिमानोऽपि धीवृत्तिः सापि पूर्वं भवेदथ ।
धिया ध्यानादिरित्येका धीः क्रमात्कुरुते द्वयम् ॥ ८.७७॥
यथा प्राणे जगत्सर्वं लयोत्पत्त्योरवस्थितम् ।
प्रज्ञायां च तथा सर्वं स्थितिकाले व्यवस्थितम् ॥ ८.७८॥
प्रज्ञाप्राणौ ततो मुख्योपाधी स्वात्मावबोधने ।
तद्द्वारेणावबोद्धव्यो जीवात्मादौ विवेकिना ॥ ८.७९॥
वाचा नामाभिवदनं यत्तत्स्यात्कर्तृपूर्वकम् ।
क्रियात्वात्कृषिवत्कर्ता चाहमित्यनुभूयते ॥ ८.८०॥
शब्दादिविषयेऽहन्धीः केनापि न हि शक्यते ।
देहेन्द्रियेष्वपि तथा मदीयत्वावभासनात् ॥ ८.८१॥
आनखाग्रमहङ्कारो वपुर्व्याप्यावतिष्ठते ।
चिद्बिंबप्रतिबिम्बाभ्यां व्याप्तोऽसौ कर्तृतां व्रजेत् ॥ ८.८२॥
क्रियावांश्चेतनः कर्ताहङ्कारस्तादृशस्ततः ।
कर्ता भूत्वाखिलैरक्षैर्व्यापारान् कुरुतेऽखिलान् ॥ ८.८३॥
जीवात्मानं विविच्येत्थं चेतनं प्राणधारिणम् ।
विविच्यात्परमात्मानमानन्दं शुद्धचेतनम् ॥ ८.८४॥
प्रतिबिम्बाहङ्कृतिभ्यां बिम्बं निष्कृष्य साक्षिणम् ।
ब्रह्मेति विद्यात्सर्वस्य तस्मिन्नारोपितत्वतः ॥ ८.८५॥
प्रज्ञामात्रा भूतमात्रा ग्राह्यग्राहकरूपतः ।
संसारं निर्वहत्यस्मिन्नात्मतत्त्वे प्रकल्पिताः ॥ ८.८६॥
चक्रस्यारेष्वाश्रिता स्यान्नेमिनाभावरास्तथा ।
अक्षेषु विषयास्तानि चात्मनि प्राणलक्षिते ॥ ८.८७॥
चेष्टा कल्पनहेतुत्वात्प्राणो धीकल्पनस्य च ।
हेतुत्वेन भवेत्प्रज्ञा ततस्त्वानन्द एव हि ॥ ८.८८॥
परप्रेमास्पदतया सर्वेषां यो विभात्यसौ ।
नित्यानन्दः परात्मा स्याज्जरामरणवर्जनात् ॥ ८.८९॥
न पुण्येन भवेद्देवो न पापेन पशुर्भवेत् ।
चिच्छायावानहङ्कार एव स्यात्पुण्यपापवान् ॥ ८.९०॥
तदीये पुण्यपापे द्वे देहस्थे च जरामृती ।
स्वात्मन्यारोपयेन्मूढस्ततो देवादिजन्मभाक् ॥ ८.९१॥
आरोपे बाधिते बोधात्कर्म स्याद्दग्धबीजवत् ।
ततो जन्माङ्कुरो नास्ति निर्लेपे परमात्मनि ॥ ८.९२॥
कार्योपाधेरभावेऽपि कारणोपाधिमत्त्वतः ।
कर्मास्यास्त्विति चेदीशः कर्माध्यक्षो न कर्मकृत् ॥ ८.९३॥
कारयित्त्वा पुण्यमेव कर्तारं स्वर्गमापयेत् ।
पापं तु कारयित्वा तं नरकं प्रापयेदसौ ॥ ८.९४॥
पर्जन्यवत्प्रेरकत्वान्नास्य वैषम्यमापतेत् ।
शाल्यादीन् बहुधा वृष्टिर्वर्धयेद्विषमापि नो ॥ ८.९५॥
उत्तमाधमभावोऽत्र तत्तद्बीजेन कारितः ।
तारतम्यं च जीवेषु स्वस्ववासनया कृतम् ॥ ८.९६॥
मातृवत्पालयेल्लोकं शिक्षयेत्पितृवत्प्रभुः ।
स्वामी स्याद्राजवत्सोऽयं ममात्मेत्यवगम्यताम् ॥ ८.९७॥
मायोपाधौ स्थिते तस्य मिथ्यात्वं बुद्ध्यते ततः ।
संसारी जीववन्नेशः स्वानन्दैकरसो ह्ययम् ॥ ८.९८॥
अखण्डैकरसानन्दो मुक्तोऽयं स्वात्मदृष्टितः ।
संसारिदृष्ट्या सर्वेश इति विद्धि प्रतर्दन ॥ ८.९९॥
इन्द्रानुग्रहतः सोऽभूत्कृतकृत्यः प्रतर्दनः ।
एतद्व्याख्यानतस्तुष्याद्विद्यातीर्थमहेश्वरः ॥ ८.१००॥
इति श्रीमद्विद्यारण्यमुनिविरचिते अनुभूतिप्रकाशे
कौषीतकीशाखा विवरणे इन्द्रप्रतर्दनसंवादो नाम अष्टमोऽध्यायः ॥ ८॥
९. कौषीतकीशाखोपनिषद्विवरणो नाम नवमोऽध्यायः ।
राजा बालाकये प्राह विप्राय ब्रह्मवेदनम् ।
कौषीतक्याख्याशाखायामत्र स्पष्टीकरोमि तत् ॥ ९.१॥
दृप्तो बालाकिरपरब्रह्मवित्स कदाचन ।
अजातशत्रुं काशीशं बुबोधयिषुरागतः ॥ ९.२॥
अजातशत्रुर्ब्रह्मात्मवेदनाच्छौर्यतोऽपि च ।
अन्तर्बहिश्च निःशत्रुः काश्यां राजा बभूव सः ॥ ९.३॥
गर्गगोत्रजविप्रोऽयं बालाकिर्नैव तत्त्ववित् ।
किन्तु प्राणोपासकोऽयं दर्पेण महतावृतः ॥ ९.४॥
राजन् बुभुत्सवे तुभ्यं परं ब्रह्म ब्रुवाण्यहम् ।
इत्युक्त्वादित्यपुरुषं ब्रह्मोपास्वेत्यवोचत ॥ ९.५॥
राजा निवार्य तं प्राह फलं ध्येयगुणानपि ।
एवं पञ्चदश ब्रह्माण्यप्यत्रासाववोचत ॥ ९.६॥
चन्द्रे विद्युति मेघे खे वायावग्नौ जलेऽपि च ।
आदर्शे श्रवणे गन्तृशब्दे छायाकृतावपि ॥ ९.७॥
देहे स्वप्ने दक्षिणेऽक्षिण्यपि वामेऽब्रवीत्क्रमात् ।
सर्वत्र राज्ञा प्रत्युक्तो विप्रस्तूष्णीमवस्थितः ॥ ९.८॥
अजातशत्रू राजा तं परब्रह्मविदुक्तवान् ।
परं ब्रह्म वदिष्यामीत्युक्तिस्तव मृषा भवेत् ॥ ९.९॥
जगतः पुरुषाणां च कर्तृ ब्रह्मेति बुद्ध्यताम् ।
बालाकिः परविद्यार्थं राजानमुपसन्नवान् ॥ ९.१०॥
राजा नाङ्गीचकारैतत्स्वजातेरधमत्वतः ।
गुरुत्वं नास्ति मे तुभ्यं ब्रह्म विज्ञापयाम्यहम् ॥ ९.११॥
इत्युक्त्वा पाणिना विप्रमादायान्तःपुरं गतः ।
सूत्रात्मैव परं ब्रह्म प्राणो जीव इतीदृशः ॥ ९.१२॥
बालाकेनिश्चयस्तस्य व्यावृत्त्यै सुप्तमागतौ (स्पष्टमाहतम्) ।
सुषुप्ते पुरुषे प्राणो न लीनचक्षुरादिवत् ॥ ९.१३॥
जीवश्चेत्प्रतिबुद्ध्येत समाहूतः स्वनामभिः ।
इति मत्वाह्वयत्प्राणं शास्त्रीयैस्तस्य नामभिः ॥ ९.१४॥
नोत्तस्थौ स पुमान् किन्तु शिष्य एवात्र पूर्ववत् ।
यष्ट्यासौ ताडितः सुप्तः समुत्तस्थौ त्वरान्वितः ॥ ९.१५॥
यथा भस्मावृतो वह्निर्वायुना ज्वाल्यते तथा ।
प्राणो नात्मा बोधहीनो घटवद्यस्तु बुद्ध्यते ॥ ९.१६॥
इन्द्रियैः सहितो भोक्ता जीवोऽसौ चेतनत्वतः ।
द्वा सुपर्णेति मन्त्रेण चेतनौ द्वावुदीरितौ ॥ ९.१७॥
तयोरन्यतरो भोक्ताऽनश्नन्नन्यः प्रकाशते ।
चिच्छायावानहङ्कारो व्याप्तो जागरणे पुमान् ॥ ९.१८॥
इन्द्रियैर्विषयान् भुङ्क्ते तं भोक्तारमबुध्यत ।
प्राणात्मवेद्यसौ भोक्तृबोधेनैवातिविस्मितः ॥ ९.१९॥
बुद्धं ब्रह्मेति सन्तुष्टो नान्यत्प्रष्टुमपैक्षत ।
ज्ञापयिष्येऽहमित्येवं राज्ञा तस्मै प्रतिश्रुतम् ॥ ९.२०॥
शिष्टिं बोधयितुं तस्मात्स्वयं प्रश्नांश्चकार सः ।
मन्दधीरपि यः श्रोता श्रद्धालुर्विनयान्वितः ॥ ९.२१॥
अपृष्टेनापि वक्तव्या तस्मै विद्येति शास्त्रधीः ।
यो भोक्ताऽत्रोत्थितः सोऽयं क्वाऽशयिष्ट पुरा क वा ॥ ९.२२॥
अभूद्धीरहिता सुप्तिः कुतो वाऽगादयं पुमान् ।
बालाकिना अविज्ञातमिदं सर्वमिति स्वयम् ॥ ९.२३॥
निश्चित्य त्रितयस्यास्य निर्णयं स्पष्टमब्रवीत् ।
हृदयं कमलाकारं देहमध्येऽस्त्यधोमुखम् ॥ ९.२४॥
नाड्यस्तस्माद्विनिर्गत्य व्याप्नुवन्त्यखिलं वपुः ।
अहङ्कारोपाधिरात्मा जीवो भूत्वा हृदि स्थितः ॥ ९.२५॥
नाडीभिः प्रसृतः सोऽक्षैर्जानन् जागरणे स्थितः ।
बाह्यभोगप्रदं कर्म यदा क्षीणं तदा पुनः ॥ ९.२६॥
वासनाभोगदे कर्मण्युद्बुद्धे स्वप्नभाग्भवेत् ।
स्वप्ननाडीष्ववेक्ष्याथ कर्मणोऽस्यापि सङ्क्षयात् ॥ ९.२७॥
हृदि सङ्कोचमाप्नोति सा सुषुप्तिरितीर्यते ।
नाडीमूलानि हृत्पद्मे पुरीतद्वेष्टितेऽवसन् ॥ ९.२८॥
यानि तेषु प्रविश्यान्तर्लीयते परमात्मनि ।
परमात्मा स्वतः पूर्णः सच्चिदानन्दलक्षणः ॥ ९.२९॥
सोऽहङ्कारपरिच्छिन्नो जीवत्वारोपवान् भवेत् ।
अज्ञानकार्योऽहङ्कारोऽवस्थितः फलभुक्तये ॥ ९.३०॥
फलदे कर्मणि क्षीणे लीयतेऽसौ स्वकारणे ।
पूर्णेनैक्यमवाप्नोति परिच्छिन्नो यथा घटे ॥ ९.३१॥
नष्टे घटाकाश ऐक्यं वियता महता ब्रजेत् ।
यदा न कञ्चन स्वप्नं पश्येत्सुप्तस्तदाऽखिलम् ॥ ९.३२॥
विषयेन्द्रियजातं यत्तत्प्राणे प्रविलीयते ।
प्राणशब्दो वायुमाह परमात्मानमप्यसौ ॥ ९.३३॥
प्रकृष्टचेष्टाहेतुत्वमुभयत्रापि विद्यते ।
वायौ श्वासक्रियाः सर्वाः सृष्टिस्तु परमात्मनि ॥ ९.३४॥
दृष्टिभेदाद्द्वयोश्चाक्षलयो वक्तुं हि शक्यते ।
सुप्तस्याक्षलयः प्राणवायाविति तटस्थधीः ॥ ९.३५॥
अद्वैते द्वैतविलयं मन्यते सुप्त उत्थितः ।
सुप्ताभिप्रायमाश्रित्य परात्मनि जगल्लयः ॥ ९.३६॥
श्रुत्युक्तस्तेन पूर्वोक्तप्रश्नयोरुत्तरं भवेत् ।
कैषोऽशयिष्ट कुत्रेयं सुप्तिस्तत्रोत्तरं क्रमात् ॥ ९.३७॥
परामात्मन्यशयिष्टाऽभूदज्ञाने सुप्तिरित्यदः ।
परिच्छिन्नस्य पूर्णात्मतादात्म्यं शयनं भवेत् ॥ ९.३८॥
साहङ्कारस्य जगतो विलयः सुप्तिरुच्यते ।
कुत आगादिति प्रश्नस्योत्तरं दृश्यतामिदम् ॥ ९.३९॥
अज्ञानेनावृतात्पूर्णादागच्छति परात्मनः ।
यदा प्रबुद्ध्यते सुप्तस्तदाग्नेर्विस्फुलिङ्गवत् ॥ ९.४०॥
प्राणा यथायथं तस्माज्जायन्ते परमात्मनः ।
प्राणाभिमानिदेवानामग्न्यादीनां जनिस्ततः ॥ ९.४१॥
लोक्यन्ते विषया अक्षैस्ते देवेभ्यः समुद्गताः ।
सर्वसाधारणः सर्ग एकः प्रातिस्विकोऽपरः ॥ ९.४२॥
आकाशादिक्रमादाद्यः प्राणादिक्रमतोऽपरः ।
सर्वेषां प्राणिनां कर्मक्षये स्यात्प्रलयो महान् ॥ ९.४३॥
पुनः कर्मोद्भवे तेषां स्यान्महासृष्टिरीश्वरात् ।
एकस्य कर्मणि क्षीणे प्रलयः सुप्तिनामभृत् ॥ ९.४४॥
पुनः कर्मोद्भवे तस्य सृष्टिः स्याज्जागराभिघा ।
अद्वैततत्त्वबोधाय सृष्टिः सर्वत्र कथ्यते ॥ ९.४५॥
अल्पा सा महती वास्तु सदद्वैतं विबुद्ध्यते ।
प्रौढस्य राजगेहस्य द्वारं स्यात्पुरतो महत् ॥ ९.४६॥
पृष्ठतोन्तःपुरद्वारं चोरद्वाराख्यमल्पकम् ।
महाद्वारेण सहसा दुर्लभं राजदर्शनम् ॥ ९.४७॥
जनसम्मर्दबाहुल्याद्द्वाराणां च बहुत्वतः ।
अल्पद्वारे स्वामिभक्तो हठाद्राजानमीक्षते ॥ ९.४८॥
दृष्टिसृष्ट्यानुभूत्यर्थी वेत्त्यात्मानं तथा हठात् ।
महासृष्ट्या तत्पदार्थमादौ ज्ञात्वा तथा पुनः ॥ ९.४९॥
त्वम्पदार्थं शोधयित्वा वाक्याद्बोधो विलम्बते ।
तस्मादिहाजातशत्रुर्बालाकेरविलम्बतः ॥ ९.५०॥
प्रत्यग्ब्रह्मत्वबोधार्थं दृष्टिसृष्टिमवोचत ।
सुप्तावासीद्यदज्ञानमहङ्कारलयोऽत्र हि ॥ ९.५१॥
सोऽहङ्कारः कर्मभोगकाले स्यात्पुनरुद्गतः ।
तेनावच्छिन्न आत्मापि कर्ता भोक्तापि पूर्ववत् ॥ ९.५२॥
भोक्तुरात्मन उत्पन्नं भोगसाधनमिन्द्रियम् ।
इन्द्रियप्रेरको देवानुग्रहस्तत उद्गतः ॥ ९.५३॥
अक्षेभ्योऽनुगृहीतेभ्यो लोका भान्ति समुद्गताः ।
सेयं प्रातीतिकी सृष्टिस्तस्माज्जाता ततः स्वयम् ॥ ९.५४॥
जगत्कर्ता परात्मेति क्षणाद्वालोऽपि बुध्यते ।
ईश्वरो महिमोपेतः सोऽप्यन्य इति वासना ॥ ९.५५॥
धीमतां चिरमारूढा वियदादिक्रमस्ततः ।
किं बहूक्त्याऽस्तु या काचित्सृष्टिः सा मायिकी तेतः ॥ ९.५६॥
अद्वितीयानन्द आत्मा सुषुप्तावनुभूयते ।
अहङ्कारो मायिको यस्तदवच्छिन्नचेतनः ॥ ९.५७॥
आत्मा जागरणे कृत्स्नमानखं व्याप्नुयाद्वपुः ।
गूढोऽग्निररणौ व्यापी तथा सुप्तौ चितिर्वपुः ॥ ९.५८॥
व्याप्नोत्यविद्यया गूढा जागरे क्षुरवत्स्थिता ।
नापितस्य क्षुराः पात्रे स्पष्टा भान्ति पृथक्स्थिताः ॥ ९.५९॥
चक्षुरादिषु चिल्लेशाः स्पष्टा भान्ति पृथक्तथा ।
सर्वेऽपि करणात्मानः कर्त्रात्मानमिमं सदा ॥ ९.६०॥
अनुसृत्यैव तिष्ठति श्रेष्ठिनं स्वजना इव ।
पुत्रमित्रादिभिः स्वीयैः सार्धं श्रेष्ठी धनी सदा ॥ ९.६१॥
भुङ्क्ते तेऽपि तदिष्टार्थं कुर्वन्तो भोजयन्ति तेम् ।
एवं जीवः स्वकीयाक्षैः सार्धं शब्दादिकान् सदा ॥ ९.६२॥
भुङ्क्तेऽक्षाणि च शब्दादीन्गृह्णन्ति स्वामितुष्टये ।
यत्र तिष्ठति भोक्तासौ सुप्तौ जागरणे पुनः ॥ ९.६३॥
यस्मादुदेति सोऽद्वैतः परमात्मेति बुद्ध्यताम् ।
इत्थमद्वैतबोधार्थमहङ्कारे परेश्वरः ॥ ९.६४॥
स्पष्टचित्प्रतिबिम्बोऽभूदिति श्रुत्यन्तरे श्रुतम् ।
यावदद्वैतमात्मानमिन्द्रो नैव विजज्ञिवान् ॥ ९.६५॥
असुरा बहिरन्तस्थास्तावदभ्यभवन्निमम् ।
बहिष्ठा असुराः स्वर्गे स्थितमेनं बबाधिरे ॥ ९.६६॥
आन्तरा असुराश्चित्ते कामाद्या दुःखदायिनः ।
यदा विजज्ञावात्मानमसुरानखिलांस्तदा ॥ ९.६७॥
हत्वा जयेन देवानां श्रैष्ठ्यं स्वाराज्यमाप्तवान् ।
अजातशत्रुतामेति जातब्रह्मात्मबोधतः ॥ ९.६८॥
अन्तर्बहिर्वा कः शत्रुर्मम सर्वात्मदर्शिनः ।
ब्रह्माद्याः स्थावरान्ता ये प्राणिनो मम ते वपुः ॥ ९.६९॥
कामक्रोधादयो दोषा जायेरन्मे कुतोऽन्यतः ।
असुराणां स्वात्मताप्तावसुरत्वं हतं भवेत् ॥ ९.७०॥
अयमेव जयस्तस्य देवेभ्यः श्रेष्ठता ततः ।
अद्वैतमपराधीनं स्वराट् स्यात्ते न तत्त्ववित् ॥ ९.७१॥
आत्मानं बोधयित्वैषामधिपोऽधिकपालनात् ।
नैतदिन्द्रस्य माहात्म्यं किन्तु ज्ञानस्य तत्त्वतः ॥ ९.७२॥
अन्योऽप्यद्वैतमात्मानं वेत्ति चेदिन्द्रवद्भवेत् ।
अजातशत्रुर्बालाकिं विप्रमित्थमवोधयत् ॥ ९.७३॥
तथैवोत्तमतागर्वं त्यक्त्वा नानीत बुद्धिमान् ।
विद्वानप्युपसन्नाय दद्याद्विद्यां महादरात् ॥ ९.७४॥
देयात्ताभ्यां स्वभावं तं विद्यातीर्थमहेश्वरः ॥ ९.७५॥
इति श्रीमद्विद्यारण्यमुनिविरचिते अनुभूतिप्रकाशे
कौषीतकीशाखोपनिषद्विवरणो नाम नवमोऽध्यायः ॥ ९॥
१०. मैत्रायणीयशाखाविवरणो नाम दशमोऽध्यायः ।
मैत्रायणीयनाम्नी या शाखा सा याजुषी मता ।
तस्यां शाकायन्य मुनिर्बोधयामास भूपतिम् ॥ १०.१॥
बृहद्रथः स्वस्य राज्ये पुत्रं संस्थाप्य निर्गतः ।
वने महत्तपस्तप्त्वा विद्यार्थं मुनिमाययौ ॥ १०.२॥
अशाश्वतं शरीरं मे कदा यायात्ततः पुरा ।
ज्ञास्याम्यात्मानमात्मज्ञो मुनिर्मां बोधयिष्यति ॥ १०.३॥
इत्यभिप्रेत्य साष्टाङ्गं प्रणिपत्य भुवि स्थितः ।
वृणीष्व वरमित्युक्तो वृतवानात्मवेदनम् ॥ १०.४॥
राज्ञां भोगप्रधानानामात्मज्ञानं सुदुःशकम् ।
वृणीष्व कामानित्युक्तः स मुनेः पादमग्रहीत् ॥ १०.५॥
पादं स्वमूर्ध्न्यवस्थाप्य स्ववैराग्यं प्रकाशयन् ।
आधारे करणे दोषानवोचद्भोक्तृभोग्ययोः ॥ १०.६॥
भोगाधिकरणं देहस्तस्य दोषा इति स्फुटाः ।
अस्थिचर्मस्नायुमज्जामांसशुक्रादयोऽखिलाः ॥ १०.७॥
बीभत्साकारणान्येषु मज्जता भुज्यते कथम् ।
विट्पूर्णखाते मग्नः सन् भुङ्क्ते कोऽपि न बुद्धिमान् ॥ १०.८॥
पुरा त्वविद्ययाच्छन्नदोषोऽहं भुक्तवांस्ततः ।
बालोऽपि मूढो यत्किञ्चिदद्याद्विष्टादिकं तथा ॥ १०.९॥
भोगाधिकरणे दोषा आसतां भोगसाधने ।
चित्तेऽपि बहवो दोषा वर्तते हि निरन्तरम् ॥ १०.१०॥
कामक्रोधौ लोभमोहौ विषादेर्ष्याभयादयः ।
ये सन्त्येतैर्ग्रस्तचित्ते भोगिनः किं सुखं भवेत् ॥ १०.११॥
श्रूयन्तां भोक्तृदोषाश्च भोक्तारो बहवो मताः ।
देहाभिमानिनो जीवा अधमा मध्यमोत्तमाः ॥ १०.१२॥
दरिद्रा अधमा ज्ञेया मध्यमाश्चक्रवर्तिनः ।
गन्धर्वाद्या उत्तमाः स्युस्ते सर्वेऽपि क्षयिष्णवः ॥ १०.१३॥
उत्पन्नध्वंसिनो यद्वत्स्युर्दंशमशकादयः ।
तथैव सर्वभोक्तारो म्रियन्ते स्वायुषः क्षये ॥ १०.१४॥
भोक्ता न म्रियते किन्तु देह एवेतिचेच्छृणु ।
देहस्थस्यैव भोक्तृत्वं तन्नश्येद्वपुषा सह ॥ १०.१५॥
दरिद्राणां भोगहेतुः श्रीर्भृत्याश्च न सन्त्यथ ।
सुधुम्नप्रमुखानां विद्यन्ते चक्रवर्तिनाम् ॥ १०.१६॥
इति चेत्सन्तु सर्वेषां मिषतमेव मध्यमः ।
म्रियते चक्रवर्ती तां सन्त्यज्य महतीं श्रियम् ॥ १०.१७॥
अन्तर्धानादिशक्तिश्वेद्गन्धर्वादिषु विद्यते ।
विद्यतां नाम मृत्युस्तु तेषां शास्त्रेषु कथ्यते ॥ १०.१८॥
भोक्तॄणां नश्वराणां को भोगः स्यान्मृत्युचिन्तया ।
शयानो भुवि नो कश्चिन्मुमूर्षुर्धनमिच्छति ॥ १०.१९॥
तिष्ठत्वसौ भोक्तृदोषो भोग्येऽपि श्रूयतामयम् ।
अब्धिगिर्यादिकं सर्व नश्वरं किमुतेतरत् ॥ १०.२०॥
दोषान् सोढ्वा सकृद्भुक्तः संसारो नश्यतीति चेत् ।
न भोगैराश्रितस्यास्य संसारावृत्तिदर्शनात् ॥ १०.२१॥
भोगकाले कृतं कर्म कुतो जन्म ददाति नो ।
अन्धकूपस्थितो भेक इवाहं संसृतिस्थितः ॥ १०.२२॥
संसारकूपपतितमस्मादुद्धर्तुमर्हसि ।
त्वमेव गतिरस्माकमन्या कापि न विद्यते ॥ १०.२३॥
राज्ञोऽस्य तीव्रवैराग्यं दृष्टा मुख्याधिकारिताम् ।
तमाह कृतकृत्यस्त्वमात्मज्ञोऽसि न संशयः ॥ १०.२४॥
यज्ञदानादि कृत्यं ते जातं विविदिषोदयात् ।
सफलं न पुनः कर्म कर्तव्यं तेऽत्र विद्यते ॥ १०.२५॥
विषयासक्तिरेवास्य ज्ञानस्य प्रतिबन्धिका ।
एषा तु नास्ति ते ज्ञानं हस्तप्राप्तमिव स्थितम् ॥ १०.२६॥
संसारहेयतां बुद्ध्वा त्यक्ते तस्मिन्नशेषतः ।
योऽवशिष्टो भाति सोऽयमेवात्मेत्यवगच्छ भोः ॥ १०.२७॥
अवशिष्टोऽयमात्मासावहमित्येव गम्यते ।
मतभेदादहम्बुद्धिर्बहुष्वस्त्यत्र को भवेत् ॥ १०.२८॥
देहः कर्ता च साक्षीति त्रयो वादिभिरीरिताः ।
आत्मानस्तेषु कतमो भवतोऽभिमतो वद ॥ १०.२९॥
साक्ष्यात्माभिमतो नासौ तयोर्दोषास्त्वयेरिताः ।
संसारान्तःपातिनौ तौ न तयोरात्मतोचिता ॥ १०.३०॥
चाक्षुषव्यवहारेऽस्य भासकत्वेन साक्षिता ।
विवेक्तुं शक्यते तस्मादक्ष्युपाधौ स उच्यते ॥ १०.३१॥
देहमध्येऽस्ति हृत्पद्मं नाडीयुतमधोमुखम् ।
नाड्यस्तूर्ध्वमधश्चैतं देहं व्याप्य व्यवस्थिताः ॥ १०.३२॥
अहङ्कारोऽत्र चिद्युक्तः कर्ता भोक्ता हृदि स्थितः ।
मनोऽन्तःकरणं स्थित्वा हृदि वृत्त्या बहिर्व्रजेत् ॥ १०.३३॥
रश्मिवत्प्रसृता वृत्तिर्नाड्याप्नोत्यक्षिगोलकम् ।
अस्वतन्त्रा बहिश्चक्षुरिन्द्रियेण सह व्रजेत् ॥ १०.३४॥
वृत्त्यवच्छिन्नचैतन्यं घटाकाशवदेतया ।
वृत्त्या सह बहिर्गत्वा तत्राज्ञानं नुदेत्क्षणात् ॥ १०.३५॥
तद्वृत्त्यागमनात्पूर्वमज्ञानेन समावृतम् ।
बाह्यं जगत्तदज्ञानं तया वृत्त्याऽपसर्यते ॥ १०.३६॥
वर्तिनिष्ठो यथा दीपस्तमो नाशयते तथा ।
चैतन्यं वृत्तिनिष्ठं यत्तदज्ञानस्य नाशकम् ॥ १०.३७॥
एष हृन्निष्ठचैतन्यपदार्थोऽक्ष्णा बहिर्गतः ।
व्याप्नुवन्निखिलं तत्र व्यथां नाप्नोति काञ्चन ॥ १०.३८॥
प्रतिकूलात्तु विषयाद्या व्यथा सा तु मानसी ।
न चैतन्यगतेत्येवमाचार्याः स्पष्टमब्रुवन् ॥ १०.३९॥
दुःखी यदि भवेदात्मा कः साक्षी दुखिनो भवेत् ।
दुःखिनः साक्षिता नैव साक्षिणो दुःखिता तथा ॥ १०.४०॥
नर्ते स्याद्विक्रियां दुःखी साक्षिता का विकारिणः ।
धीविक्रियासहस्राणां साक्ष्यतोऽहमवक्रियः ॥ १०.४१॥
यः साक्षी चित्पदार्थोऽसौ जीवात्मा तस्य जीवता ।
अहङ्कारेण तादात्म्यभ्रान्त्यैव परिकल्पिता ॥ १०.४२॥
आत्माहङ्कारदेहाभ्यां युक्तः कलुषितः पुरा ।
विवेचितः स्थूलदेहादीषदेव प्रसीदति ॥ १०.४३॥
बोधयित्वा जीवतत्त्वं जीवस्य ब्रह्मरूपताम् ।
बोधयामास सोऽप्यात्मा स्वेन रूपेण तिष्ठति ॥ १०.४४॥
अहङ्काराद्विविक्तश्चेत्तदा सम्यक् प्रसीदति ।
आधिव्याध्याख्यकालुष्यं न चिन्मात्रेऽस्ति किञ्चन ॥ १०.४५॥
एष साक्षी सम्प्रसादो देहद्वयसमुत्थितः ।
शास्त्रसिद्धं परं ब्रह्म ज्योतिः प्राप्नोति वाक्यतः ॥ १०.४६॥
मत्तोऽन्यद्ब्रह्म परमं स्वप्रकाशमिति भ्रमः ।
पुरासीत्तत्त्वमस्यादिवाक्येनासौ निवर्त्तते ॥ १०.४७॥
अब्रह्मत्वभ्रमापायो ज्योतिः प्राप्तिरितीर्यते ।
ततोऽयं ब्रह्मणा स्वेन रूपेण व्यवतिष्ठते ॥ १०.४८॥
एवं व्यवस्थिते योऽसावात्मानुभवगोचरः ।
स एव मृतिभीत्यादिरहितं ब्रह्म नेतरत् ॥ १०.४९॥
श्रवणं मननं ध्यानं विद्यायाः साधनं त्रयम् ।
अज्ञानं संशयो भ्रान्तिरित्येतेषां निवर्तकम् ॥ १०.५०॥
गुरूपदेशश्रवणादज्ञानं विनिवर्तते ।
उपपत्तिपरामर्शात्संशयानां निवर्तनम् ॥ १०.५१॥
निरन्तरध्यानतस्तु नश्यति भ्रान्तिवासना ।
राजन्ते श्रवणं जातं मननं कुरु यत्नतः ॥ १०.५२॥
प्रमाणे सम्प्रदाये वा तत्त्वे वा संशयो भवेत् ।
उदितेऽनुदिते वेति होमः शास्त्राद्विकल्पितः ॥ १०.५३॥
न तथा ब्रह्मविद्येयं सर्वोपनिषदीरणात् ।
न प्रमाणे संशयोऽतः सम्प्रदायेऽपि नास्त्यसौ ॥ १०.५४॥
शाखाप्रवर्तको मैत्रो मह्यमाह न चापरः ।
सोऽपि किञ्चिदुपाख्यानमुदाहृत्य ममाब्रवीत् ॥ १०.५५॥
तत्त्वस्य संशयोऽपैति तदाख्यानमिदं शृणु ।
मुनयो वालखिल्या ये ते प्रजापतिमब्रुवन् ॥ १०.५६॥
अचेतनं शरीरं तत्केन चेतनवत्कृतम् ।
प्रेरको वास्य को ब्रूहीत्युक्तः प्रत्यब्रवीदसौ ॥ १०.५७॥
वेदानामुत्तरे भागे श्रूयते परमेश्वरः ।
स करोत्युभयं तस्य तात्त्विकं रूपमुच्यते ॥ १०.५८॥
अज्ञानमिश्रणाभावात्शुद्धः पापविवर्जनात् ।
पूतो रूपेण नाम्ना च हीनत्वाच्छून्यमुच्यते ॥ १०.५९॥
शान्तः क्रोधादिराहित्यादप्राणोऽचेष्टकत्वतः ।
ईशत्वोपाधिराहित्यादनीशात्मा स्वतो भवेत् ॥ १०.६०॥
कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः ।
कार्यकारणतां हित्वा पूर्णबोधोऽवशिष्यते ॥ १०.६१॥
देशात्कालाद्वस्तुतश्च परिच्छेदविवर्जनात् ।
अनन्तोऽपक्षयाभावादक्षयोऽचलनात्स्थिरः ॥ १०.६२॥
नित्यस्फूर्त्या शाश्वतोऽयमजो जन्मादिवर्जनात् ।
स्वतन्त्रो न पराधीनः स्वमहिम्न्येव तिष्ठति ॥ १०.६३॥
महिमाश्वर्यरूपत्वादखण्डैकरसात्मता ।
आधारान्तरराहित्यात्स्थितिरत्रोपचर्यते ॥ १०.६४॥
अनिच्छस्येदृशस्यैतद्देहनिर्वहणं कथम् ।
इति चेत्स्वांशरूपेण देहेऽवस्थाय निर्वहेत् ॥ १०.६५॥
स एवोक्तो देहसाक्षी बिद्वद्भिरनुभूयते ।
नेतरैः सूक्ष्मरूपोऽयमिन्द्रियाविषयत्वतः ॥ १०.६६॥
पूर्णत्वात्पुरुषाख्येऽसौ देहे स्वांशेन वर्तते ।
बुद्धिपूर्वं यथा सुप्तः स्वेच्छया प्रतिबुध्यते ॥ १०.६७॥
अध्यापकः प्रदोषेषु मध्यरात्रे प्रबुद्ध्यते ।
स्वेच्छया परमात्मापि तथात्रांशेन वर्तताम् ॥ १०.६८॥
प्रतिदेहं तु चिन्मात्रो घटाकाश इव स्थितः ।
देहं साक्षितया जानन् क्षेत्रज्ञ इति कथ्यते ॥ १०.६९॥
सङ्कल्पाध्यवसायाभिमानैरेषोऽनुमीयताम् ।
सर्वैरक्षैरुपेतत्वात्सङ्कल्पाद्यस्य सम्भवेत् ॥ १०.७०॥
तेनावच्छिन्नचैतन्यरूपेणेदं वपुः सदा ।
चेतनीकृत्य कार्येषु प्रेर्यतेऽश्वैर्यथा रथः ॥ १०.७१॥
अखण्डैकरसस्यांशो नेति चेत्श्रूयतामिदम् ।
अखण्डैकरसात्मैव माययेश्वरतामगात् ॥ १०.७२॥
मायाया अनृतत्वेन नाखण्डत्वं विरुद्ध्यते ।
मायायां स्वच्छरूपायामात्मायं प्रतिबिम्बति ॥ १०.७३॥
तदुपाधिक ईशोऽभूत्सृष्टेः प्रागेक एव सः ।
अतो नारमतैकाकी राजामात्यादिको यथा ॥ १०.७४॥
द्यूतक्रीडामिवेशोऽसौ सृष्टिक्रीडामवैक्षतं ।
द्रव्यान्तरमुपादानमदृष्ट्वा स्वं व्यचारयत् ॥ १०.७५॥
बहु स्यामहमेवात्र प्रजारूपीति चिन्तयन् ।
देहानसृजत स्थूलान्पाषाणप्रतिमा इव ॥ १०.७६॥
स्वयमेव यथा स्वप्ने गिरिनद्यादिरूपतः ।
कल्पितो भात्यसावात्मा भात्वेवं बहुरूपतः ॥ १०.७७॥
ज्ञानक्रियाशक्तिहीना देहाः क्रीडार्थमक्षमाः ।
इत्यालोच्य क्रियाशक्तिः प्राणो भूत्वान्तराविशत् ॥ १०.७८॥
श्वासाधोगत्यन्नसाम्योद्गारादिव्याप्तिसिद्धये ।
पञ्चधा व्यभजत्प्राणं प्राणोपाधिक ईश्वरः ॥ १०.७९॥
उपांश्वन्तर्यामिसंज्ञौ ग्रहौ द्वौ सोमयाजिनः ।
नियतौ तद्वदुच्छ्वासनिश्वासौ प्राणिनामपि ॥ १०.८०॥
लोहकारः स्वहस्ताभ्यां पर्यायेण दृतिद्वयात् ।
वह्निं ज्वालयते यद्वज्जाठरो ज्वाल्यतेऽनलः ॥ १०.८१॥
निश्वासोच्छ्वाससन्दीप्तो भुक्तं पाचयतेऽनलः ।
ईशस्य जाठराग्नित्वाकारो भगवतेरितः ॥ १०.८२॥
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ १०.८३॥
कर्णौ पिधाय यं घोषं शृणोत्यन्तः स जाठरात् ।
वह्नेर्जातो मुमूर्षुस्तु नैनं घोषं शृणोति हि ॥ १०.८४॥
औष्ण्योपेतं पञ्चविधप्राणलिङ्गाभिधं वपुः ।
प्राणोपाधिकचिद्रूपो ज्ञानशक्त्यापि युज्यते ॥ १०.८५॥
ततो मनोमयो भूत्वा सत्यसङ्कल्पतां व्रजेत् ।
यत्सङ्कल्पयते जीवस्तत्करोत्येव सर्वथा ॥ १०.८६॥
हृदि स्थितः सन् शब्दादीन् भुञ्जेऽहं विषयानिति ।
सङ्कल्प्याक्षाणि सृष्ट्वा तैर्भुङ्क्तेऽक्षैर्विषयान् सदा ॥ १०.८७॥
देहो रथः पञ्च हयास्तस्य कर्मेन्द्रियाणि हि ।
ज्ञानेन्द्रियाणि यानि स्युस्तानि बन्धनरज्जवः ॥ १०.८८॥
मनोऽत्र सारथिः सर्वैरवच्छिन्नेशतां व्रजन् ।
चिदात्मा चेतनं देहं कृत्वा प्रेरयते सदा ॥ १०.८९॥
तस्यापाये मृतो देहोऽचेतनो न प्रवर्तते ।
चिदशस्य प्रेरकत्वं ब्रवीति भगवान् स्फुटम् ॥ १०.९०॥
ममैवांशो जीवलोके जीवभूतः सनातनः ।
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ १०.९१॥
अवच्छिन्नचिदात्माऽसौ स्वतो नेच्छति किञ्चन ।
न भुङ्क्ते सुखदुःखे च तस्मिन्नारोप्यतेऽखिलम् ॥ १०.९२॥
सर्वेष्वपि शरीरेषु भाति तद्धर्मवानिव ।
न तिष्ठति स्वतस्तेषु नापि तद्धर्मसंयुतः ॥ १०.९३॥
ज्ञानेन्द्रियैर्नदृश्योऽयं ग्राह्यः कर्मेद्रियैर्न च ।
स्वरूपसौक्ष्म्यादव्यक्तो वेदान्तैरेव बुध्यते ॥ १०.९४॥
निर्ममत्वात्सर्वगोऽपि शरीरेषु च तिष्ठति ।
अकर्ताऽप्यनभिज्ञैस्तु कर्तेवासौ विभाव्यते ॥ १०.९५॥
वेदानामुत्तरे भागे इत्यादिग्रन्थवर्णितम् ।
आत्मनो वास्तवं रूपं कर्तृत्वं नास्य विद्यते ॥ १०.९६॥
स सर्वोपनिषत्सिद्ध एष हृद्युपलभ्यते ।
शुद्धः स्थिरोऽचलो नास्य कर्मलेपोऽस्ति कश्चन ॥ १०.९७॥
अव्यमो निःस्पृहस्तूष्णीमुदासीन इव स्थितः ।
स्वस्थ विक्षेपराहित्यादित्यात्मानं प्रपश्यत ॥ १०.९८॥
ईदृशोऽप्यज्ञदृष्ट्याऽसौ सत्त्वादिगुणधारिणा ।
मायापटेन सञ्छन्नो भुञ्जान इव लक्ष्यते ॥ १०.९९॥
इत्थं बोधितवानेष वालखिल्यान्प्रजापतिः ।
तत्त्वं बुद्ध्वाऽथ पप्रच्छुः कः संसारीति ते गुरुम् ॥ १०.१००॥
श्रूयतां परमात्मोक्तस्तस्मादन्योऽस्ति कश्चन ।
भूतात्माख्यो निकृष्टोऽयं पुण्यपापफलैर्युतः ॥ १०.१०१॥
विप्रक्षत्रादिसद्योनिं श्ववराहादिकामपि ।
असद्योनिमवाप्नोति भूलोके जन्म चेत्तदा ॥ १०.१०२॥
अन्यत्र जन्म चेत्तर्हि पुण्येन स्वर्गमश्नुते ।
पापेन नरकं द्वन्द्वैरभिभूतः परिभ्रमेत् ॥ १०.१०३॥
मानावमानौ शीतोष्णेद्वन्द्वानीत्यादिकानि हि ।
यो भूतात्मोदितः सोऽथ विस्पष्टमभिधीयते ॥ १०.१०४॥
अपञ्चीकृतभूतैर्यज्ज्ञातं सूक्ष्मं वपुर्हि तत् ।
भूतैः पञ्चीकृतैर्जातं यत्तत्स्थूलमिदं वपुः ॥ १०.१०५॥
ज्ञानाक्षाणां क्रियाक्षाणां वायूनां पञ्चकत्रयम् ।
मनोऽहङ्कार इत्येवं लिङ्गं सप्तदशात्मकम् ॥ १०.१०६॥
अहङ्कारे भौतिके यच्चैतन्यं प्रतिबिम्बितम् ।
स भूतात्माऽत्र चिद्बिम्बं निर्लेपं ब्रह्म कथ्यते ॥ १०.१०७॥
भूतात्मा प्रकृतेर्जातैर्गुणैरेषोऽभिभूयते ।
तमोगुणाभिभूतत्वात्स्वात्मस्थं ब्रह्म नेक्षते ॥ १०.१०८॥
अधिष्ठानतया ब्रह्म भूतात्मन्यपि तिष्ठति ।
पद्मपत्रे नीरबिन्दुरसंश्लिष्टो यथा तथा ॥ १०.१०९॥
ईदृशोऽपीश्वरो मायायुक्तः सन् प्रेरयत्यमुम् ।
भूतात्मानं स भूतात्मा विविनक्तीश्वरं न तम् ॥ १०.११०॥
सुखैर्वैषयिकैः सत्त्वगुणोद्भूतैः प्रतृप्यति ।
उद्रेके रजसः सोऽयं कलुषीक्रियते भृशम् ॥ १०.१११॥
तदानीमतिचाञ्चल्याल्लुप्यते ह्यखिलात्फलात् ।
कृर्षि प्रक्रम्य तां त्यक्त्वा तपः कुर्वस्यजेददः ॥ १०.११२॥
तत्तत्फले सस्पृहत्वात्व्यग्रो नाप्नोत्यसौ सुखम् ।
अहङ्कारेण बद्धः स्याज्जालेन विहगो यथा ॥ १०.११३॥
संसारभ्रमणं तस्य प्रोक्तं शाखान्तरेष्वपि ।
करणप्रेरकः कर्ता भूतात्मा संसरत्ययम् ॥ १०.११४॥
चैतन्येन हि पूर्णेन सोऽन्तर्व्याप्तस्ततश्चिति ।
भ्रान्त्यारोपेण संसारस्तत्रासौ न तु वास्तवः ॥ १०.११५॥
दृष्टान्तोऽत्राग्निना व्याप्तो लोहपिण्डोऽभिधीयते ।
तप्तलोहं मुद्गरेण हतं बहुविधं भवेत् ॥ १०.११६॥
अहङ्कारे चिदाभासो भूतात्मा साक्षिभासितः ।
हन्यमानो गुणैः सत्त्वादिभिर्बहुविधो भवेत् ॥ १०.११७॥
यज्जन्म योनिलक्षाणां भवेच्चतुरशीतिषु ।
सोऽयं बहुविधो भावो लोहे दात्रकुठारवत् ॥ १०.११८॥
कुलालेन यथा चक्रं तथा मायाविना गुणाः ।
सत्त्वादयः प्रेरिताः स्युस्तैश्च जन्मान्यनेकधा ॥ १०.११९॥
लोहे मुद्गरघातेन नाग्नेर्बाधस्तथा गुणैः ।
भूतात्मोपद्रवेणास्य साक्षिणो नास्त्युपद्रवः ॥ १०.१२०॥
एकैकदेहो नरको भवेद्भूतात्मनो महान् ।
मैथुनोद्भूत्यादिदोषाः प्रसिद्धा एव देहिनाम् ॥ १०.१२१॥
देहे दोषा यथा चित्ते दोषास्तद्वदनेकशः ।
सम्मोहाद्यास्तामसाः स्युस्तृष्णाद्या राजसा मताः ॥ १०.१२२॥
भूतात्मा तैः प्रेरितः संस्तैस्तैस्तामसराजसैः ।
कर्मभिर्बहुधा देहानवाप्नोति पुनः पुनः ॥ १०.१२३॥
श्रुत्वा संसारिणं वालखिल्या विस्मयमाययुः ।
संसारस्य प्रतीकारं पप्रच्छुर्मुनयः पुनः ॥ १०.१२४॥
शाम्येद्भूतात्मता येन चिदात्मत्वं तु शिष्यते ।
तमुपायं गुरो ब्रूहीत्युक्तः सन्गुरुरुक्तवान् ॥ १०.१२५॥
नद्यूर्म्यादिकदृष्टान्तैः संसारस्याप्यनिष्टताम् ।
मिथ्यात्वं च विनिश्चित्य व्रजेज्ज्ञानाधिकारिताम् ॥ १०.१२६॥
या वेदेनोदिता विद्या सा भूतात्मप्रतिक्रिया ।
तपो योगः स्तुतिर्बोधश्चोक्तं वेदे चतुष्टयम् ॥ १०.१२७॥
स्वाश्रमोचितधर्मो यः स एवास्य तपो भवेत् ।
शान्ताः स्युर्मोह तृष्णाद्यास्तेन तामसराजसाः ॥ १०.१२८॥
तच्छान्तौ सत्त्ववृद्धिः स्यात्सत्वेनैकाग्रता घियः ।
तयात्मतत्त्वानुभवस्ततो मुक्तो न संसरेत् ॥ १०.१२९॥
निरिन्धनाग्निवच्चित्तं शाम्येद्योगेन कारणे ।
संस्कारमाशेषत्वान्न धीः संसर्तुमर्हति ॥ १०.१३०॥
तदानीं जीवचैतन्यं ब्रह्मण्येकी भवेद्यथा ।
जले जलं वह्निरग्नौ व्योम्नि व्योम स्थितं तथा ॥ १०.१३१॥
अद्वैतमनुभूयास्मिन्समाधौ व्युत्थितः पुनः ।
स्तुवन् सर्वात्मतां त ब्रह्मणोऽनुस्मरेत्सदा ॥ १०.१३२॥
कुत्सो मुनिर्यथाऽस्तौषीत्त्वं ब्रहोत्यादिना तथा ।
स्तुवन्नपनुदेद्वैतवासनां चिरमाश्रिताम् ॥ १०.१३३॥
योगादद्वैतविज्ञाने वासनायाश्च सङ्क्षये ।
सन्त्यज्य जीवताभ्रान्तिं परमात्मत्वमाप्नुयात् ॥ १०.१३४॥
सा भ्रान्तिस्तमसा जन्या तमस्त्वाश्रितमात्मनि ।
परमात्मत्वमावृत्त्य कल्पयेज्जीवताभ्रमम् ॥ १०.१३५॥
यदावरकमज्ञानमात्माऽस्मिन्प्रतिबिम्बति ।
ईश्वरः प्रतिबिम्बोऽसौ सृष्ट्यादीनां प्रवर्तकः ॥ १०.१३६॥
यदज्ञानं विक्रियते भवत्येष तमोगुणः ।
दृश्यमानं जगदिदं तम एवाभवत्पुरा ॥ १०.१३७॥
ईशेन प्रेरितं तत्स्याद्रजो जलतरङ्गवत् ।
रजोऽपि प्रेरितं तद्वत्सत्वमेव गुणत्रयम् ॥ १०.१३८॥
समष्टिरूपोऽहङ्कारः सत्त्वात्सारः समुद्धृतः ।
चिद्बिम्बप्रतिबिम्बाभ्यां युक्तोऽसौ चेतनो भवेत् ॥ १०.१३९॥
प्रतिदेहं व्यष्टिरूपक्षेत्रज्ञत्वेन तिष्ठति ।
सङ्कल्पोऽध्यवसायश्च देहे तत्सत्त्वसाधकः ॥ १०.१४०॥
हिरण्यगर्भो वेदेषु समष्टिव्यष्टिरूपधृक् ।
श्रूयते यः स सूत्रात्मा प्रजापतिरिहोदितः ॥ १०.१४१॥
तस्य श्रेष्ठास्त्रयो देहाः सृष्ट्यन्तस्थितिहेतवः ।
ब्रह्मा रुद्रो विष्णुरिति गुणत्रयसमुद्गताः ॥ १०.१४२॥
यो यः सृजति लोकेऽस्मिन् ब्रह्मा तत्राभिमन्यते ।
नाशाभिमानी रुद्रोऽयं विष्णुः स्थित्यभिमानवान् ॥ १०.१४३॥
प्रजापतिस्त्रिधा भूत्वा भूयोऽपि बहुधाऽभवत् ।
वसुरुद्रादित्यभेदैर्गिरिनद्यादिभेदतः ॥ १०.१४४॥
आत्मन्यध्यारोप एवं प्रोक्तो मायाविनिर्मितः ।
आत्माऽधिष्ठानरूपेण प्रविष्टः सर्ववस्तुषु ॥ १०.१४५॥
इत्थं विवेचितश्चात्मा भात्याधिक्येन पालकः ।
नाधिष्ठानं विना किञ्चिदारोप्यं बाध्यते क्वचित् ॥ १०.१४६॥
आरोपितस्य सर्वस्याधिष्ठानं तत्त्वमीक्षते ।
तस्मादन्तर्बहिश्चात्मा स्थितः सर्वेषु वस्तुषु ॥ १०.१४७॥
प्रजापतिर्वालखिल्यान्मुनीनेवमबूबुधत् ।
शाकायन्यः कथामेतां राज्ञे प्रोवाच धीमते ॥ १०.१४८॥
वैराग्यं परमात्माऽत्र जीवात्मा साधनानि च ।
तपो योगः स्तुतिर्बोध इति सर्वं व्यवस्थितम् ॥ १०.१४९॥
शाकायन्याय भगवान्मैत्रोऽखिलमुवाच ह ।
तत्सर्वं मेऽनुगृह्णातु विद्यातीर्थमहेश्वरः ॥ १०.१५०॥
इति श्रीमद्विद्यारण्यमुनिविरचिते अनुभूतिप्रकाशे
मैत्रायणीयशाखाविवरणो नाम दशमोऽध्यायः ॥ १०॥
११. कठवल्लीविवरणो नाम एकादशोऽध्यायः ।
याजुष्यां कठशाखायां विद्यां यां नचिकेतसे ।
यमः प्रोवाच तां सर्वां सङ्ग्रहेण ब्रवीम्यहम् ॥ ११.१॥
नचिकेताः कुमारः सन् स्वपित्रा प्रेषितो यमम् ।
गत्वा तं तोषयित्वात्मज्ञानं वरमयाचत ॥ ११.२॥
प्रेते मनुष्ये सन्देहो भूयान्मतविभेदतः ।
पारलौकिक आत्मास्ति नास्ति वा निर्णयं वद ॥ ११.३॥
चार्वाका देहमेवाहुः कर्मिणः स्वर्गगामिनम् ।
मुमुक्षवो मुच्यमानमित्युक्तो गुरुराह तम् ॥ ११.४॥
दुर्विज्ञेयमणुत्वात्तद्देवैश्च विचिकित्सितम् ।
त्यक्त्वैतत्पुत्रवित्तादीन् वृणीष्वेत्युक्त आह ॥ ११.५॥
पुत्राद्या नश्वराः क्लेशहेतवश्चाथ दुर्गमम् ।
तत्त्वं वक्तुं त्वाहशोऽन्यो नेत्यात्मैव त्वयोच्यताम् ॥ ११.६॥
शृणु प्रियं हितं चेति पुरुषैरर्थ्यते द्वयम् ।
प्रियाः पुत्रादयस्त्वात्मा हितो दुःखविवर्जितः ॥ ११.७॥
अविवेकविवेक द्वौ मार्गौ तत्राविवेकिनः ।
प्रियार्थिनस्त्वं तु नैवं मत्तो ज्ञानं हितं भज ॥ ११.८॥
मूढातिमूढौ न समौ त्वयाऽत्यन्तविवेकिना ।
मूढस्त्वीषद्विवेकी सन् स्वर्गमिच्छति नैहिकम् ॥ ११.९॥
तदुगुरुश्च तथैतौ द्वावन्धनीतान्धवत्स्थितौ ।
आत्मतत्त्वानभिज्ञत्वादविद्याभ्यन्तरे स्थितौ ॥ ११.१०॥
अतिमूढो धनार्थी सन् ब्रह्महत्यादिकान्यपि ।
करोति परलोकैस्तु न तस्य प्रतिभासते ॥ ११.११॥
चार्वाकैः कर्मिभिश्चात्मा श्रवणायापि दुर्लभः ।
मुमुक्षवोऽपि बहवः शृण्वन्तोऽपि न जानते ॥ ११.१२॥
हविर्भुजां हि देवानामप्रियं मर्त्यवेदनम् ।
मर्त्यास्तत्त्वं न जानन्ति विघ्नैर्देवकृतैर्हताः ॥ ११.१३॥
आचार्यशिष्ययोर्दोषान्देवा उत्पादयन्ति हि ।
वाग्दोषाद्बुद्धिदोषाद्वा वक्तुं शक्नोति नो गुरुः ॥ ११.१४॥
अविश्वासात्कुतर्काद्वा शिष्यो बोद्धुं न शक्नुयात् ।
ईश्वरानुग्रहाद्देवा विहन्तुं शक्नुवन्ति नो ॥ ११.१५॥
सहनावित्यादि शान्तिजपेनेशप्रसादतः ।
निर्विघ्नौ गुरुशिष्यौ स्तस्तादृशौ दुर्लभौ खलु ॥ ११.१६॥
शब्दार्थज्ञः स्वात्मतत्त्वानुभवी च गुरुर्द्विधा ।
आद्यो नरो न तु ब्रह्म नरत्वभ्रान्त्यनाशनात् ॥ ११.१७॥
तेनोक्ते संशया एव स्युर्वाचा बहुयोजनात् ।
ब्रह्मैवानुभवी तेन ब्रह्म प्रोक्तं विबुध्यते ॥ ११.१८॥
कुतर्कान्नाश्यते विद्या तार्किको न गुरुस्ततः ॥ ।
आगमे चानुभूतौ च कुशलोऽत्र गुरुर्भवेत् ॥ ११.१९॥
शिष्यो बहिर्मुखो न स्यादध्यात्मं योगमाचरन् ।
दुर्दर्शत्वादिसंयुक्तमप्यात्मानं प्रपश्यतिः ॥ ११.२०॥
बाह्येन्द्रियैर्न दृश्योऽयं गूढस्थानप्रवेशतः ।
पञ्चकोशगुहान्तस्थो गह्वरे तमसि स्थितः ॥ ११.२१॥
योगेनान्तर्मुखा बुद्धिस्तमो नाशयते ततः ।
देवं ज्ञात्वा हर्षशोकौ त्यजेत्तद्योग्यतास्ति ते ॥ ११.२२॥
योग्योऽहं चेत्तर्हि तत्त्वं रहस्यं यत्त्वमीक्षसे ।
तद्ब्रूहि सर्वसंसारगुणातीतं विमुक्तये ॥ ११.२३॥
धर्माधर्मौ कार्यहेतू तथा भूतभविष्यती ।
अन्यच्च सर्वं नो यत्र तदेवापेक्षितं मम ॥ ११.२४॥
सर्ववेदेषु यद्वेद्यं तपांसि यदवाप्तये ।
ब्रह्मचर्ये च तद्वस्तु प्रणवेनाभिधीयते ॥ ११.२५॥
प्रणवो वाचकस्तस्य स्यात्प्रतीकमुपास्तये ।
तेन बोद्धर्भवेन्मुक्तिर्ब्रह्मलोकोऽप्युपासितुः ॥ ११.२६॥
न जायते न म्रियते प्रणवार्थश्चिदात्मकः ।
पुराणोऽसावजत्वेन नित्यः स्यादमृतत्वतः ॥ ११.२७॥
कारणं मास्य कार्यं वा देहघातेऽपि नो हतिः ।
देहो देहान्तरं हन्ति न चिद्धन्ति न हन्यते ॥ ११.२८॥
श्यामाकादेरणोरेषोऽणीयांस्तत्राणुकल्पनात् ।
महीयान्महतः खादेस्तत्राकाशादिकल्पनात् ॥ ११.२९॥
स्थितो जन्तोर्हृद्गुहायां तं निष्कामस्तु पश्यति ।
इन्द्रियाणां प्रसन्नत्वाद्वीतशोकस्तदा भवेत् ॥ ११.३०॥
अन्तर्मुखोऽहं पश्यामि मत्तोऽन्यो बाह्यधीः पुमान् ।
ज्ञातुमर्हति को वा तं विरुद्धात्मत्वभासिनम् ॥ ११.३१॥
दूरं गच्छेदिहासीनः शयानो याति सर्वतः ।
समदो विमदश्चाऽतो दुर्लक्ष्यो ह्यविवेकिभिः ॥ ११.३२॥
वने ध्यातुं समासीनो देहं सङ्कल्प्य मानसम् ।
तेनैव नगरं गत्वा करोति क्रयविक्रयौ ॥ ११.३३॥
शयानो मञ्चकेऽक्षेषु विलीनेषु निराकृतिः ।
आकाशवत्सर्वगतः एकः सुप्तोऽवतिष्ठते ॥ ११.३४॥
धनविद्यादिभिर्मत्तः पाण्डित्यं सदसि ब्रुवन् ।
वैराग्यनटनेनासौ लक्ष्यते मदहीनवत् ॥ ११.३५॥
एवं विरुद्धधर्मत्वात्स्वभावः कोऽस्य वास्तवः ।
इति ज्ञातुमशक्यत्वादन्तर्दृष्ट्यैवमीक्षताम् ॥ ११.३६॥
अशरीरं शरीरेष्वनवस्थेष्वेष्ववस्थितम् ।
सर्वगं बहुभावाधिष्ठानं मत्वा न शोचति ॥ ११.३७॥
नायमात्मा बहोः पाठाद्बहुश्रुत्या च मेधया ।
लभ्यो बहिर्मुखस्यास्य नेश्वरानुग्रहो यतः ॥ ११.३८॥
यमन्तर्मुखमीशोऽनुगृह्णीते तेन लभ्यते ।
तस्येशः स्वात्मनो रूपं भासयत्यखिलं स्फुटम् ॥ ११.३९॥
पापं क्रोधमनैकाग्र्यं योगसिद्धिं च नैति यः ।
तमीश्वरोऽनुगृह्णाति संज्ञानेनैवमाप्नुयात् ॥ ११.४०॥
ब्राह्मणादिजगन्मृत्युसहितं यस्तु संहरेत् ।
सोऽयमुग्रः कथं बोद्धुं शक्यः स्यान्नियतिं विना ॥ ११.४१॥
को बोद्धा कश्च बोद्धव्य इति चेत्तावुभौ शृणु ।
बुद्धिप्रविष्टौ जीवेशौ बोद्धृबोद्धव्यतां गतौ ॥ ११.४२॥
अवच्छिन्नो भवेज्जीवोऽनवच्छिन्नो महेश्वरः ।
रथस्वामी च गन्तव्यदेशो यद्वदुभौ यथा ॥ ११.४३॥
जीवं तं रथिनं विद्धि शरीरं रथमेव तु ।
जीवोपाधिमहङ्कारं सारथिं प्रग्रहं मनः ॥ ११.४४॥
इन्द्रियाणि हया ज्ञेया विषया गम्यभूमयः ।
सारथ्यधीना सर्वत्र रथिनः सदसद्गतिः ॥ ११.४५॥
कर्ता सारथिरक्षाणि नियम्य मनसा क्रमात् ।
गच्छन्नन्तर्मुखो मार्गपारं विष्णुपदं व्रजेत् ॥ ११.४६॥
इन्द्रियादिर्विष्णुतत्त्वपर्यन्तो ह्यन्तरक्रमः ।
इन्द्रियेभ्यो भौतिकेभ्यो भूतेष्वान्तरता स्थिता ॥ ११.४७॥
तद्भूतेभ्यः सूक्ष्मभूतकार्यत्वान्मन आन्तरम् ।
ततोऽतिसूक्ष्मकार्यत्वात्कर्तृत्वोपाधिरान्तरः ॥ ११.४८॥
समष्टिकर्तृतोपाधिरान्तरो व्यष्टिकर्तृतः ।
समष्ट्याख्यमहत्तत्वात्तद्धेत्वव्यक्तमान्तरम् ॥ ११.४९॥
मायाख्याव्यक्ततोऽप्यस्याधारः पुरुष आन्तरः ।
पुरुषान्न परं किञ्चित्सर्वं तेनैव पूरितम् ॥ ११.५०॥
सद्रूपः पुरुषस्तस्य सत्त्वेनान्यस्य पूरणात् ।
अस्तीति निखिलं भाति पूरकः पुरुषो मतः ॥ ११.५१॥
वस्तुतत्त्वविचारोऽतः पुरुषेऽस्मिन्समाप्यते ।
गन्तव्यतत्त्वसीमत्वाद्रथी गच्छति तं क्रमात् ॥ ११.५२॥
रथिनो वास्तवं रूपं पूर्णत्वं तदबोधतः ।
अवच्छिन्नत्वमेतच्च तद्बोधेन निवर्तते ॥ ११.५३॥
आत्मा सर्वेषु देहेषु भ्रान्त्या गूढो न भासते ।
एकाग्र्यया सूक्ष्मयैतं पश्येत्ताच्छील्यवान्धिया ॥ ११.५४॥
धियस्तथात्वं योगात्स्याद्योगो भूमिचतुष्कवान् ।
वाग्धीकर्तृसमष्टीनां निरोधाद्भूमयोऽभवन् ॥ ११.५५॥
वागादिकं बाह्यमक्षं निरुन्धन् शेषयेन्मनः ।
मनो निरुधन् कर्तारं शेषयेद्व्यष्टिरूपिणम् ॥ ११.५६॥
सविकल्पकमेतश्च निरुन्धन्निर्विकल्पकम् ।
अस्मीत्येतन्मात्ररूपं महान्तमवशेषयेत् ॥ ११.५७॥
तमप्यन्ते निरुध्याथ शान्तात्मा शिष्यते स्वयम् ।
क्षुरधारेव विषमो योगो मन्दमतेरयम् ॥ ११.५८॥
क्षुरोऽतिलग्नो देहघ्नो न लग्नश्चेद्वपेत नो ।
समाहितं मनोप्येवं निद्रां कुर्याद्बहिर्व्रजेत् ॥ ११.५९॥
कौशलं योगिनोऽपेक्ष्यं नापितस्य यथा क्षुरे ।
निवार्य लयविक्षेपौ समादध्यात्परात्मनि ॥ ११.६०॥
शब्दस्पर्शादिहीनात्मा सौक्ष्म्यात्सूक्ष्मधियेक्ष्यते ।
खवाय्वग्निजलोर्वीणां स्थौल्यं शब्दादिमत्त्वतः ॥ ११.६१॥
शब्दस्पर्शौ रूपरसौ गन्धो भूतगुणा इमे ।
एकद्वित्रिचतुःपञ्चगुणा व्योमादयः क्रमात् ॥ ११.६२॥
गुणाधिक्ये स्थौल्यवृद्धिः सौक्ष्म्यवृद्धिर्गुणक्षयात् ।
निर्गुणं चातिसूक्ष्मत्वादतिसूक्ष्मधियेक्षते ॥ ११.६३॥
विद्यायोगौ यमेनोक्तौ वैराग्यं नचिकेतसा ।
स्वत एवास्त्युपाख्यानं नाचिकेतमिदं शुभम् ॥ ११.६४॥
एतदेवातिविस्पष्टं पुनश्चात्र प्रपञ्च्यते ।
श्रूयतां नचिकेतोऽत्र विद्यायाः प्रतिबन्धकम् ॥ ११.६५॥
इन्द्रियाणि बहिर्द्रष्टुं ससृजे परमेश्वरः ।
अतस्तैः प्रत्यगात्मानं न कश्चिदपि वीक्षते ॥ ११.६६॥
सकामं च मनस्तद्वन्निष्कामं चात्मबुद्धये ।
सृष्टं तयोर्योगयुक्तमनसात्माऽवलोक्यते ॥ ११.६७॥
यच्चैतन्यानुग्रहेण रूपादीनन्द्रियैः पुमान् ।
जानाति येन स्वप्नादि दृश्यते तद्विविच्यताम् ॥ ११.६८॥
चैतन्येन जडं ज्ञेयमित्युक्ते शिष्यतेऽत्र किम् ।
अज्ञानं निखिलं प्राज्ञं चैतन्यं ब्रह्म वस्तु हि ॥ ११.६९॥
यद्देवैरपि सन्दिग्धं यत्पृष्टं नचिकेतसा ।
धर्माधर्माद्यतीतं यत्तदिदं ब्रह्म वर्णितम् ॥ ११.७०॥
यः कर्मफलभोक्ताऽस्ति जीवः प्राणादिधारकः ।
उपाधितो विविच्यैतं ज्ञात्वेशं न जुगुप्सते ॥ ११.७१॥
जुगुप्सा योनिसम्प्राप्तिर्नाऽसावेतस्य विद्यते ।
जगत्कर्तृतया लक्ष्य ईशोऽयं तस्य का जनिः ॥ ११.७२॥
यद्देहेऽस्ति तदेवैषु वेदेषु ब्रह्म गीयते ।
मृत्योः स मृत्युमाप्नोति योऽत्र नानेव पश्यति ॥ ११.७३॥
मनसैवेदमाप्तव्यमेकाग्रेणेशजीवयोः ।
तत्त्वमद्वैतमेतस्मिन्योगी भेदं न पश्यति ॥ ११.७४॥
हृन्निष्ठो बुद्ध्यवच्छिन्नो जीवो ह्यङ्गुष्ठमात्रकः ।
उपाध्यपगमे सोऽयमीशानो भूतभव्ययोः ॥ ११.७५॥
वृष्टं जलं पर्वताग्रे बहुधाऽधोगतिं व्रजेत् ।
जीवेशभेददृक्चैवं बहुयोनिषु जायते ॥ ११.७६॥
वृष्टं तु निर्मले कूपे सुस्थितं पीयतेऽमृतम् ।
तथैव ब्रह्मतां स्वस्य विजानन्मुच्यते सुधीः ॥ ११.७७॥
पुरमेकादशद्वारं नामिमूर्धन्यसंयुतम् ।
देहाख्यं यस्य तं दृष्ट्वा विमुक्तः सन् विमुच्यते ॥ ११.७८॥
जीवन्नविद्याकामादिबन्धैर्मुक्तो मृतः पुनः ।
शरीरग्रहणाभावाद्विदेहः सन् विमुच्यते ॥ ११.७९॥
प्राणमूर्ध्न नयत्यात्माऽपानवायुं नयत्यधः ।
तत्सेवकाश्चक्षुराद्या लिङ्गेनात्माऽनुमीयताम् ॥ ११.८०॥
सकर्तृकाः प्राणचक्षुराद्याः स्युः साधनत्वतः ।
कुठारवत्ततो नायमस्तीत्येतन्निराकृतम् ॥ ११.८१॥
प्राणापानवशाद्देहो जीवतीति यदुच्यते ।
तन्न प्राणाद्याश्रयो यः कर्ता तेनैव जीवति ॥ ११.८२॥
स कर्ताऽस्मिन्मृते देहे स्वकर्मवशतः पुनः ।
विप्रादियोनिमाप्नोति लतावृक्षादिकामपि ॥ ११.८३॥
देहौ नीचोत्तमौ तादृक्कर्मकर्तृपुरःसरौ ।
नीचोत्तमत्वात्प्रासादपर्णशाले यथा तथा ॥ ११.८४॥
सुप्तेष्वक्षेषु यः स्वप्ने कामं कामं सृजत्ययम् ।
देहातिरिक्तस्तं को वा निराकर्तुं प्रभुर्भवेत् ॥ ११.८५॥
जीवात्मानं प्रसाध्यैवं तस्यैवोपाध्यपायतः ।
ब्रह्मतां वेत्ति जगत आधारत्वेन लक्षिताम् ॥ ११.८६॥
अग्निर्यथैकः काष्ठेषु प्रविश्य बहुधा भवेत् ।
तथात्मा त्वेक एवैषु देहेषु बहुधोच्यते ॥ ११.८७॥
वायुश्चैकोऽपि देहेषु प्रविश्य प्राणरूपतः ।
बहुधा भात्येवमात्मा प्रत्युपाधि पृथग्भवेत् ॥ ११.८८॥
सर्वचक्षुःस्वरूपोऽपि न रविर्नेत्ररोगभाक् ।
सर्वात्मत्वेऽपि तद्ब्रह्म तथा दुःखैर्न लिप्यते ॥ ११.८९॥
सर्वभूतान्तरात्मैकः स्वतन्त्रो माययावृतः ।
एकं स्वं बहुधा कुर्याद्बहुरूपो यथा नटः ॥ ११.९०॥
मायोपाधिक ईशोऽयं बुद्ध्युपाधिमतां नृणाम् ।
कर्मानुसारिणः कामान् विदधात्युपभुक्तये ॥ ११.९१॥
स्वचित्तस्थं साक्षिरूपमीशं पश्यन्ति ये नराः ।
तेषां नित्या दुःखशान्तिर्ब्रह्मानन्दश्च शाश्वतः ॥ ११.९२॥
अनिर्देश्यं तमानन्दं प्रत्यक्षं मन्वते बुधाः ।
स दृश्यो वा स्वप्रकाश इति चेन्न स दृश्यते ॥ ११.९३॥
न भासयन्ति सूर्याद्या बुद्ध्याद्याश्च स्वयम्प्रभम् ।
किं तु भान्तं तमन्वेते भान्ति भासा तदीयया ॥ ११.९४॥
सर्वोत्तमत्वादूर्ध्वं तन्मूलं संसारशाखिनः ।
देवमानुषपश्वाद्याः शाखास्तस्याधमा मताः ॥ ११.९५॥
यन्मूलं तत्स्वयञ्ज्योतिस्तदेवामृतमुच्यते ।
तस्मिन् लोकाः श्रिताः सर्वे तच्च नात्येति कश्चन ॥ ११.९६॥
मायाशक्तियुजा तेन जगत्सर्वं नियम्यते ।
अग्निसूर्य्यादयस्तस्माद्भीताः सन्तश्चरन्ति हि ॥ ११.९७॥
नरदेहस्य पातात्प्राक्तद्बोद्धुं शक्नुयान्न चेत् ।
जन्मान्तरेषु तद्बोधः प्रायेणात्यन्तदुर्लभः ॥ ११.९८॥
स्वप्नवत्पितृलोकस्य स्वातन्त्र्यं नास्ति किञ्चन ।
गन्धर्वलोके भोगेच्छावशाद्धीरतिचञ्चला ॥ ११.९९॥
ब्रह्मलोकेऽस्त्येष बोधः स लोकः सुलभो न हि ।
आदर्शवच्छुद्धचित्ते नरेणात्मेक्ष्यते स्फुटम् ॥ ११.१००॥
इन्द्रियाणामनात्मत्वमागमापायदर्शनात् ।
बुध्वा तत्साक्षिणि स्वस्मिन् ब्रह्मत्वं बुध्यते सुखात् ॥ ११.१०१॥
मन्दश्चेदक्षधीकर्तृसमष्ट्यव्यक्तरूपतः ।
क्रमाद्विविच्य मूढं (गूढं) स्वं वीक्ष्यते सूक्ष्मया धिया ॥ ११.१०२॥
बाह्याक्षविषयेष्वात्मस्वरूपं न हि तिष्ठति ।
निवृत्ताक्षो निरुद्धेन सूक्ष्मेण मनसेक्षते ॥ ११.१०३॥
अप्रमत्तोऽखिलाऽक्षाणि सकर्तॄणि यदा पुमान् ।
निरुणद्धि तदा योगस्तामवस्थां प्रचक्षते ॥ ११.१०४॥
सर्वाक्षाऽगोचरत्वेऽपि स्वात्माऽस्तीत्याह तत्त्ववित् ।
कारणस्यात्मनोऽसत्त्वे शून्यं कार्यं जगद्भवेत् ॥ ११.१०५॥
अस्तीत्येवोपलब्धव्यो नाऽयमस्तीति न त्वया ।
सर्वत्रानुगतं यत्तत्तन्नास्तीत्युच्यते कथम् ॥ ११.१०६॥
सोपाधिकं तावदादौ दृष्ट्वाऽस्तीति ततः पुनः ।
उपाधीन् सम्परित्यज्य तत्त्वभावेन पश्यति ॥ ११.१०७॥
उपाधीनां माययैषां कल्पितत्वेन तैर्विना ।
निरुपाधिकसन्मात्रं वस्तु तच्च तथेक्ष्यताम् ॥ ११.१०८॥
कलुषं जलमानीय ततोऽस्मिन् कातकं रजः ।
यदा क्षिपेत्तदा नीरं प्रसीदति यथा तथा ॥ ११.१०९॥
सोपाधिकज्ञानवतो निरुपाधिः प्रसीदति ।
रजःप्रक्षेपसदृशी योगान्निष्कामता धियः ॥ ११.११०॥
यदा सर्वे प्रमुच्यते कामा येऽस्य हृदि स्थिताः ।
तदैव मर्त्यतां हित्वा स जीवन् ब्रह्मतां व्रजेत् ॥ ११.१११॥
अहङ्कारेण चैतन्यं ग्रथित्वेच्छति चेत्तदा ।
हृदये ग्रन्थयः कामास्ते भिद्यन्ते विवेकिनः ॥ ११.११२॥
अहङ्कारचितोरैक्यभ्रान्तेरपगमे सति ।
कामाभासाः सन्तु चित्ते क्रमान्नश्यन्ति तेऽपि च ॥ ११.११३॥
जीवन्मुक्तस्तु निष्कामो न मृतिं प्रतिपद्यते ।
प्राणोत्क्रान्तिर्मृतिः सा तु ज्ञानिनो न हि विद्यते ॥ ११.११४॥
प्राणा अन्तर्विलीयन्ते तप्ताश्मक्षिप्तनीरवत् ।
ज्ञानी पुराऽपि ब्रह्मैव सन् ब्रह्माऽप्येति तल्लये ॥ ११.११५॥
ब्रह्म बोद्धुमशक्तः सन्नुपास्ते चेत्तदा पुमान् ।
नाड्या मूर्धन्यया ब्रह्मलोकं गत्वा विमुच्यते ॥ ११.११६॥
अत्रैवोपासकस्यास्य धीशुद्धिश्चेत्तथा त्वसौ ।
देहाद्विविच्य हृन्निष्ठं ब्रह्मत्वेनावगच्छति ॥ ११.११७॥
मृत्युप्रोक्तां नाचिकेतो विद्यां योगं तथाऽखिलम् ।
लब्ध्वा ब्रह्माप्तवानेवं लब्ध्वाऽन्योऽपि विमुच्यते ॥ ११.११८॥
विद्या तत्फलयोर्विघ्नशान्त्यर्थं सहनाविति ।
मन्त्र जपेत्तेन विघ्नाः शाम्यन्त्येव न संशयः ॥ ११.११९॥
वैराग्यं नाचिकेतस्य यथा तीव्रं तथा पुमान् ।
प्राप्नोति सेव्यमानः सन्व् इद्यातीर्थमहेश्वरम् ॥ ११.१२०॥
इति श्रीमद्विद्यारण्यमुनिविरचिते अनुभूतिप्रकाशे
कठवल्लीविवरणो नाम एकादशोऽध्यायः ॥ ११॥
१२. श्वेताश्वतरविवरणो नाम द्वादशोऽध्यायः ।
श्वेताश्वतरनामा यो यजुःशाखाप्रवर्तकः ।
सोऽत्याश्रमिभ्यः प्रोवाच विद्यां व्याचक्ष्महेऽत्र ताम् ॥ १२.१॥
ये वेदवादिनस्ते तु मीमांसन्ते मुमुक्षवः ।
जगतः कारणं ब्रह्मेत्येवं वेदेषु घुष्यते ॥ १२.२॥
उत्पत्तिस्थितिनाशाः स्युर्यतस्तत्कारणं त्विति ।
सामान्यमेव विज्ञातं विशेषस्तु न बुध्यते ॥ १२.३॥
कस्माद्वस्तुविशेषान्नो जन्म केन च जीवनम् ।
लयः कस्मिन् व्यवहृतौ सुखादौ को नियच्छति ॥ १२.४॥
पितृभ्यामन्नतो रोगादपि जन्मादयस्त्रयः ।
नियामकश्च राजेति वचनं बालभाषितम् ॥ १२.५॥
पितृराजाद्यशेषस्य जगतश्चित्यतेऽधुना ।
कारणं तच्च शास्त्रैकगम्यं शास्त्रं तु नैकधा ॥ १२.६॥
कालः स्वभावो नियतिर्यदृच्छौ भूतपञ्चकम् ।
प्रधानं जीव एतानि मतान्युक्तानि शास्त्रिभिः ॥ १२.७॥
ऋतुकाले भवेद्गर्भो वर्षर्तौ सस्यसम्भवः ।
उदाह्रियत इत्यादि बहुधा कालवादिना ॥ १२.८॥
स्वभाववाद्यग्निमुष्णं जलं द्रवमुदाहरत् ।
रूपज्ञानं चक्षुषैवेत्याहुर्नियतिवादिनः ॥ १२.९॥
धनिकत्वादिव्यवस्था यहच्छावादिनोच्यते ।
भूतवादी देहगतकाठिन्यादीनुदाहरत् ॥ १२.१०॥
प्रधानवादी पुरुषान् सात्विकादीनुदाहरत् ।
जीववादी कर्मवशाज्जन्मदेवाद्युदाहरत् ॥ १२.११॥
सर्वत्र युक्तेर्दृष्टत्वात्किं तत्त्वमिति चिन्त्यते ।
सर्वेषामनिवार्यत्वात्तत्सङ्घोऽस्त्विति चेन्न तत् ॥ १२.१२॥
स्वतन्त्रे चेतने जीवे सति कालाद्यचेतनाः ।
समप्रधानभावेन कथं सङ्घीभवन्ति ते ॥ १२.१३॥
तर्हि जीवो हेतुरस्तु तन्न दुःखादिदर्शनात् ।
स्वतन्त्रः स्वात्मनो दुःखं कुर्वन्दृष्टो न हि क्वचित् ॥ १२.१४॥
दोषान् सर्वेषु पक्षेषु पश्यन्तो बहुधा तदा ।
मायाशक्तिमनिर्वाच्यामपश्यन्ध्यानयोगतः ॥ १२.१५॥
द्वित्रिकक्षासु युक्तीनां सत्त्वेऽप्यते न सन्ति ताः ।
न जानामीत्येवमन्ते विषीदति हि वादिनः ॥ १२.१६॥
यदन्ते शरणं सर्ववादिनामविवादतः ।
तदज्ञानमनिर्वाच्या मायेत्याहुर्विपश्चितः ॥ १२.१७॥
अनिर्वाच्येऽपि युक्तिं चेदन्विच्छति स मूढधीः ।
नीरूपं चक्षुषा द्रष्टुमिच्छत्येवातिमोहितः ॥ १२.१८॥
सर्वकार्येषु शक्तत्वान्मायाऽऽक्षेपं न साऽर्हति ।
दुर्घटस्येव घटने स्वभावः सर्वसम्मतः ॥ १२.१९॥
तथाविधायां मायायां परात्मा प्रतिबिम्बितः ।
अवान्तराणि वस्तूनि कालादीन्यधितिष्ठति ॥ १२.२०॥
मायाविशिष्टमीशानं जगदाकारतां गतम् ।
संसारचक्रमित्याहुः संसाराख्यनदीति च ॥ १२.२१॥
पुनः पुनर्जायमानश्चक्रवत्परिवर्तते ।
अविच्छेदेन संसारो नदीवत्प्रवहेत्सदा ॥ १२.२२॥
जीवोऽहङ्कारोपहितश्चक्रवद्भ्राम्यते सदा ।
मायोपहित ईशानो जन्मसु प्रेरयेदमुम् ॥ १२.२३॥
उपाधिद्वयहीनं तु ब्रह्म वेदेषु बोध्यते ।
इत्थं वेदरहस्यज्ञा भवेयुर्ब्रह्मतत्पराः ॥ १२.२४॥
जगत्स्याव्यक्तमव्यक्तं सृष्टिसंहारयोः क्रमात् ।
बिभर्ति द्वयमीशानश्चिदात्मा तु विमुक्तिभाक् ॥ १२.२५॥
ईशानीशावज्ञतज्ज्ञौ भोक्ता भोजयिता च तौ ।
तयोर्निर्वाहिका माया ब्रह्मण्यारोपितं त्रयम् ॥ १२.२६॥
जगद्भ्रमं जीवभेदं वासना देहधारणम् ।
चतुष्टयं निराकुर्यादभिध्यानादिभिः क्रमात् ॥ १२.२७॥
अभितो ब्रह्मरूपत्वध्यानाद्याति जगद्भ्रमः ।
ब्रह्मत्वे योजिते स्वस्य जीवभावोऽपि गच्छति ॥ १२.२८॥
अद्वये भाविते तत्त्वे वासना विनिवर्तते ।
आरब्धान्ते देहहानिर्मायैवं क्षीयतेऽखिला ॥ १२.२९॥
ब्रह्मज्ञानात्पाशहानौ क्षीणक्लेशो न जन्मभाक् ।
पाशाश्चतुर्विधाश्चैव शास्त्रेषु प्रतिपादिताः ॥ १२.३०॥
मलो माया कर्म तत्त्वतिरोधानं च ते मताः ।
मलो ज्ञानक्रियाशक्तयोश्छादको दोष इष्यते ॥ १२.३१॥
रागादिहैतुर्मायोक्ता कर्म पुण्यं च पातकम् ।
मूढैस्तत्त्वतिरोधानं सर्वैरप्यनुभूयते ॥ १२.३२॥
क्लेशान् पतञ्जलिः प्राह तेष्वविद्यादिरस्मिता ।
द्वितीया द्वेषरागौ चाभिनिवेशस्तु पञ्चमः ॥ १२.३३॥
भोक्ता भोग्यं प्रेरकश्च त्रयं ब्रह्मेति तत्त्वधीः ।
उपायेन ब्रह्मधीः स्यादरणिस्थाग्निलाभवत् ॥ १२.३४॥
उपायः प्रणवेनात्मध्यानं तेनैष लभ्यते ।
तिलात्तैलादयो यद्वल्लभ्यास्तत्तदुपायतः ॥ १२.३५॥
सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम् ।
आत्मविद्यातपोभ्यां तमुपलभ्य विमुच्यते ॥ १२.३६॥
यदुक्तं प्रणवध्यानं स योगस्तत्र यत्नवान् ।
मनो ब्रह्मणि युञ्जानस्तत्साक्षात्कुरुते धिया ॥ १२.३७॥
उरोंसमूर्धस्थानेषु त्रिषु देहं समुन्नतम् ।
अवस्थाप्यासनं जित्वा प्रत्याहारं समाचरेत् ॥ १२.३८॥
हृद्यक्षाणां निरोधो यः प्रत्याहारः स उच्यते ।
जयेत्प्राबल्यमक्षाणां प्राणायामेन धैर्यवान् ॥ १२.३९॥
प्राणाधीनव्यापृतीनामक्षाणां प्राणरोधनात् ।
निरोधः स्यात्ततश्चित्तं धारयेताप्रमादतः ॥ १२.४०॥
समे शुचौ शर्करादिमशकादिविवर्जिते ।
मनोऽनुकूलेऽवस्थाय देशे ध्यानं समाचरेत् ॥ १२.४१॥
नाडीरूपाणि नीहारधूमान्यत्र विभान्ति चेत् ।
ब्रह्मसन्निधिमाप्ताधीरिति निश्चीयतां तदा ॥ १२.४२॥
निर्जरत्ववितृष्णत्वशुभगन्धादि चेद्भवेत् ।
योगसिद्धिः प्रवृत्तेति ज्ञात्वा योगे स्थिरो भवेत् ॥ १२.४३॥
मेघच्छन्नं चन्द्रबिम्बं मेघापायेऽतिनिर्मलम् ।
तथैव बुद्धिचाञ्चल्यशान्तावात्मा प्रसीदति ॥ १२.४४॥
स्वात्मतत्त्वप्रसादेन ब्रह्मतत्त्वं प्रसीदति ।
शास्त्राद्बुद्धं ब्रह्मतत्त्वमात्मत्वेनानुभूयताम् ॥ १२.४५॥
अजं ध्रुवं मायिकैस्तैः कार्यैः सर्वैर्विवर्जितम् ।
ज्ञात्वा देवं परात्मानं सर्वपापैर्विमुच्यते ॥ १२.४६॥
एष देवः सर्वदिक्षु वह्नयादिष्वखिलेषु च ।
वर्तते तं विचिन्त्याथ प्रणमेत्सर्वदैव तम् ॥ १२.४७॥
तत्त्वयोगौ समुद्दिष्टावुत्तमस्याधिकारिणः ।
अथ सोपाधिकं वस्तु मन्दं प्रत्यभिधीयते ॥ १२.४८॥
ऐन्द्रजालिकवन्मायाजालवानेक ईश्वरः ।
नियच्छन् शक्तिभिर्लोकान् सृजते संहरत्यपि ॥ १२.४९॥
एक एवेश्वरस्तादृक्द्वितीयो नैव विद्यते ।
जनानां प्रत्यगात्माऽसौ जगत्सृष्ट्यादिकार्यपि ॥ १२.५०॥
स विराडूपतां प्राप्य विश्वतश्चक्षुरादिमान् ।
सर्वेषां चक्षुराद्या ये तदीया एव तेऽखिलाः ॥ १२.५१॥
यो देवानामिति प्रोक्तैस्त्रिभिर्मन्त्रैस्तमीश्वरम् ।
मुमुक्षुः प्रार्थयेतैव सदा बुद्धिविशुद्धये ॥ १२.५२॥
ततः शुद्धमन्तिर्ब्रह्म सर्वभूतेष्ववस्थितम् ।
अन्तर्बहिश्व संव्याप्तं ज्ञात्वा स्यान्मृतिवर्जितः ॥ १२.५३॥
श्वेताश्वतरनामाऽहं पुरुषं वेद्मि तं प्रभुम् ।
अन्योऽपि तं विदित्वैव मृत्युमत्येति नान्यथा ॥ १२.५४॥
यस्मात्परं नापरं वा किञ्चिदस्ति तदद्वयम् ।
वृक्षवन्निश्चलं तेन पूर्णं सर्वमिदं जगत् ॥ १२.५५॥
एतद्विदुर्मृत्युहीनास्ते स्युर्ये तु न तद्विदुः ।
ते दुःखमेव गच्छन्ति न तत्सोपाधिकेक्षणे ॥ १२.५६॥
दुर्लक्ष्यो निरुपाध्यात्मा सूक्ष्मधीवर्जितैर्नरैः ।
सुलक्ष्य एव सोपाधिस्तस्मादेवं स्मरेदमुम् ॥ १२.५७॥
सर्वानन शिरोग्रीवः सर्वभूतगुहाशयः ।
वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥ १२.५८॥
विश्वाकारजनेः प्राक्च सर्वव्यवहृतिक्षमः ।
अपाणिपादो जवनो ग्रहीता सर्वशक्तियुक् ॥ १२.५९॥
अणोरणीयान्दुर्लक्ष्यो महीयान्महतः स्फुटः ।
इत्यात्मानं शास्त्रदृष्ट्या पश्यतो नास्ति दुःखिता ॥ १२.६०॥
स्थूलदर्शी तु साकारे सर्वात्म्ये वासिते सति ।
निराकारं ततो बोद्धुं प्रार्थयेतैश्वरं वपुः ॥ १२.६१॥
य एकोऽवर्ण इत्यादि स्तुवन्मन्त्रचतुष्टयात् ।
प्रार्थ्याथ मायाजीवौ च बुद्धसुप्तौ (बन्धमुक्तौ/बद्धमुक्तौ) विचारयेत् ॥ १२.६२॥
लोके काचिदजा वर्णत्रयोपेता बहुप्रजाः ।
सृजते तामजः कश्चित्सेवतेऽन्यस्तु तां त्यजेत् ॥ १२.६३॥
तेजोऽबन्नात्मिका तद्वन्माया वर्णैस्त्रिभिर्युता ।
आसक्तो भजते मायां विरक्तस्तु विमुञ्चति ॥ १२.६४॥
विरक्तः कर्त्रकर्तारौ विचित्यात्स्वस्य विग्रहे ।
चिच्छायावानहङ्कारः कर्ता चिद्भाति केवला ॥ १२.६५॥
पादपे क्षुधितः पक्षी फलमत्तीतरः पुनः ।
पश्यन्नास्ते तथा विद्याद्भोक्तृतत्साक्षिणावुभौ ॥ १२.६६॥
चिच्छायागतभोक्तृत्वं साक्षिण्यारोप्यते भ्रमात् ।
अनीश्वरोऽयं साक्षीति शोको भवति मोहतः ॥ १२.६७॥
नित्यतृप्तेश्वरत्वं तत्साक्षितत्त्वं तदीक्षते ।
यदा तदा वीतशोको महिमानमवाप्नुयात् ॥ १२.६८॥
ऋचो देवाश्च शब्दार्था यस्मिन्नात्मनि कल्पिताः ।
यस्तं न वेद तस्यर्चा किं स्याद्यो वेत्त्यसौ कृती ॥ १२.६९॥
छन्दांसि यज्ञानन्यच्च मायावी सृजतेऽखिलम् ।
जीवात्मना प्रविश्यास्ते सन्निरुद्धो वपुष्ययम् ॥ १२.७०॥
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।
तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ १२.७१॥
ईशो यः स्वत एकः सन् जीवाकारैरनेकशः ।
योनिं योनिं व्रजत्येतमीशं ज्ञात्वा न संसरेत् ॥ १२.७२॥
प्रतिबन्धस्य बाहुल्याद्यो देवेत्यादिमन्त्रतः ।
पुनः पुनर्भजेतेशं प्रतिबन्धनिवृत्तये ॥ १२.७३॥
अदृष्टप्रतिबन्धो यो निवर्त्य भजनेन तम् ।
दृष्टो यः प्रतिबन्धस्तं विचारेण जयेत्पुनः ॥ १२.७४॥
सूक्ष्मेभ्यः परमाणुभ्योऽप्यतिसूक्ष्मो न लक्ष्यते ।
बहिर्मुखैः स्वतः सोऽयं विश्वं व्याप्याऽवतिष्ठते ॥ १२.७५॥
जगतः पालनेनायमस्तीत्यादौ विबुध्यताम् ।
ब्रह्मर्षयो देवताश्च योगेनैतं विजानते ॥ १२.७६॥
क्षीरे घृतनिमित्तं यत्सारं तद्धीमतेक्ष्यते ।
तथा वृत्तिनिरोधिन्या सूक्ष्मं वस्तु धियेक्ष्यताम् ॥ १२.७७॥
दिवारात्रिस्तमश्चान्यद्यस्मिन्नास्ति न किञ्चन ।
नोर्ध्वं न तिर्यग्तद्वस्तु न दृष्टान्तोऽस्य विद्यते ॥ १२.७८॥
दृग्गोचरे तस्य रूपं नास्त्यतः कोऽपि नेक्षते ।
अजात इति मन्त्राभ्यामन्तर्दृष्ट्या भजेत तेम् ॥ १२.७९॥
पुनश्चैवं विवेक्तव्यं विद्याविद्ये निजात्मगे ।
अविद्यया बद्ध्यतेऽसौ विद्यया तु विमुच्यते ॥ १२.८०॥
अविद्याकल्पितोपाधिभेदादीशत्वजीवते ।
चैतन्यस्य भवेतां ये कथ्येते ते क्रमादिह ॥ १२.८१॥
हिरण्यगर्भमुत्पन्नमादौ ज्ञानैर्बिभर्ति यः ।
एकैकमन्तःकरणं बहुधा विकरोत्ययम् ॥ १२.८२॥
अधश्चीर्ध्वं दिशः सर्वा भ्राजतेऽसौ प्रकाशयन् ।
भारं वहेद्यथाऽनङ्वान् जगद्भारं वहेत्तथा ॥ १२.८३॥
यो भावान् क्षीरबीजादीन्दधिवृक्षादिरूपतः ।
परिणामं नयेत्सोऽयं गुणांस्त्रीन् विनियोजयेत् ॥ १२.८४॥
अविद्याकृतमीशत्वं तदिदं स्पष्टमीरितम् ।
वेदगुह्योपनिषदा तस्य तत्त्वमुदीरितम् ॥ १२.८५॥
अविद्याकृतजीवत्वमथ स्पष्टमुदीर्यते ।
सत्त्वं रजस्तमश्चेति गुणैर्जीवः समन्वितः ॥ १२.८६॥
स फलार्थं कर्म कुर्याद्भुङ्क्ते तस्यैव तत्फलम् ।
दक्षिणोदगधोमार्गैः संसरत्येष कर्मभिः ॥ १२.८७॥
अङ्गुष्ठमात्रहृन्निष्ठः स्वप्रकाशः स सूर्यवत् ।
अहङ्कारोपाधिकः सन् सङ्कल्पान् कुरुते बहून् ॥ १२.८८॥
बुद्धिवृत्त्यात्मचैतन्यसंयोगादेष चेतनः ।
स सङ्कोचविकासाभ्यां तैस्तैर्देहैः समो भवेत् ॥ १२.८९॥
नैव स्त्री न पुमानेष नैव चायं नपुंसकः ।
यद्यच्छरीरमादत्ते तेन तेन स कथ्यते ॥ १२.९०॥
अविद्याधीनजीवेशावुक्तौ यत्तत्त्वमेतयोः ।
तद्विद्यासिद्धये कालस्वभावादीन् विचारयेत् ॥ १२.९१॥
मूलकारणतैतेषां न युक्ता जनिमत्त्वतः ।
देवस्य महिमा योऽसौ मायाख्यस्तस्य युज्यते ॥ १२.९२॥
तन्महिम्नावृतं सर्वं कालं च कलयत्यसौ ।
भूतभव्यादिरूपेण भिन्नोऽसौ जायते ततः ॥ १२.९३॥
जलाग्न्यादिसमुत्पत्तौ स्वभावः सह जायते ।
यदृच्छा पञ्चभूतानि प्रधानं चेति मायिकम् ॥ १२.९४॥
मूलकारणताऽस्त्येव मायाया जन्यभावतः ।
अवान्तरं कारणत्वं कालादीनां भवत्विदम् ॥ १२.९५॥
एकं प्रधानं द्वे पुण्यपापे सत्त्वादिकास्त्रयः ।
अष्टौ प्रकृतयो भूमिमुख्यास्तैर्जायते वपुः ॥ १२.९६॥
यो मायावी स सर्वेषामादिः कालत्रयात्परः ।
विश्वरूपं स्वचित्तस्थं तमुपास्य प्रसादयेत् ॥ १२.९७॥
संसारवृक्षात्कालादिशाखायुक्तात्परोह्ययम् ।
धर्मावहं पापनुदं स्वचित्तस्थं तमीक्ष्यताम् ॥ १२.९८॥
विष्ण्वादीनामीश्वराणां परमं तं महेश्वरम् ।
देवानां परमं देवं विदामोऽस्य प्रसादतः ॥ १२.९९॥
न तस्य वपुरक्षं च विद्यते तत्समोऽपि न ।
परास्य शक्तिर्विविधा बलज्ञानक्रियादिका ॥ १२.१००॥
सोऽधिष्ठानतया सर्वकारणं कारणाधिपः ।
ये जीवा अधिपस्तेषां नान्योऽस्याधिपतिर्भवेत् ॥ १२.१०१॥
यस्तन्तुनाभ इत्यादिमन्त्रेण प्रार्थयेत्ततः ।
एको देवः सर्वदेहे गूढो व्यापी च सर्वतः ॥ १२.१०२॥
सर्वप्राण्यन्तरात्माऽसावध्यक्षः सर्वकर्मणाम् ।
सर्वभूताशयः साक्षी निर्गुणः शुद्धचिद्वपुः ॥ १२.१०३॥
ये तु पश्यन्ति तं धीरास्तेषां स्याच्छाश्वतं सुखम् ।
नित्यं तं चेतनं बुद्ध्वा प्राप्नुयाच्छान्तिमक्षयाम् ॥ १२.१०४॥
अशक्यं यत्सुखं वक्तुं तदेतदनुभूयते ।
इति तत्त्वविदः प्राहुरुपायः श्रूयतामिह ॥ १२.१०५॥
विवेकयोगस्तद्बोधहेतुस्तत्त्वविवेकतः ।
यथाशास्त्रं विविच्यानुभवन्ति दृढयोगतः ॥ १२.१०६॥
सूर्यचन्द्रादयः सर्वभासका अपि तत्सुखम् ।
नैव भासयितुं शक्ता भास्यन्ते किन्तु तेन ते ॥ १२.१०७॥
चित्सुखात्मा स्वप्रकाशो भासते प्रथमं स्वयम् ।
सूर्यादयस्तस्य चिता भासन्ते न चिताऽन्यया ॥ १२.१०८॥
एकाकी सूर्यवद्योऽयं सर्वं व्याप्नोति भासयन् ।
तं यो वेत्ति स एवेशो नास्त्यन्यो हेतुरीशने ॥ १२.१०९॥
ज्ञान्येव विश्वकृत्कालकालः सत्त्वादिभासकः ।
प्रधानजीवयोः स्वामी हेतुः संसारमोक्षयोः ॥ १२.११०॥
विद्याफलमिदं बाह्यधीयो न स्यात्कदाचन ।
तद्धीशान्त्यै प्रार्थयेत तं यो ब्रह्माणमीश्वरम् ॥ १२.१११॥
हिरण्यगर्भं सृष्ट्वादौ वेदांस्तस्मै ददाति यः ।
तं भासकं स्वात्मधियो मुमुक्षुः शरणं भजे ॥ १२.११२॥
निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ।
भजे स्वयं भासमानं तं दग्धेन्धनवह्निवत् ॥ १२.११३॥
निष्कलोऽवयवैर्हीनो हेतुहीनो निरञ्जनः ।
निरिन्धनाग्निसाम्यं तु मायातत्कार्यवर्जनात् ॥ १२.११४॥
तादृशं परमात्मानं विदित्वैव विमुच्यते ।
विना ज्ञानं न मुक्तिः स्यादितरैः कोटिसाधनैः ॥ १२.११५॥
यदा चर्मवदाकाशं वेष्टयिष्यति मानवाः ।
तदा देवमविज्ञाय मुक्तिर्न त्वस्ति तद्वयम् ॥ १२.११६॥
तपसा देवमाराध्य श्वेताश्वतरनामकः ।
अत्याश्रमिभ्यः प्रोवाच ब्रह्मविद्यामृषिप्रियाम् ॥ १२.११७॥
वेदान्ते परमं गुह्यं नानोपाख्यानवर्णितम् ।
नाऽप्रशान्ताय दातव्यं देयं शिष्याय धीमते ॥ १२.११८॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ १२.११९॥
अन्तःप्रविष्टः शास्तेति योऽतर्यामी श्रुतीरितः ।
सोऽस्मान्मुख्यगुरुः पातु विद्यातीर्थमहेश्वरः ॥ १२.१२०॥
इति श्रीमद्विद्यारण्यमुनिविरचिते अनुभूतिप्रकाशे
श्वेताश्वतरविवरणो नाम द्वादशोऽध्यायः ॥ १२॥
१३. बृहदारण्यके काण्वविद्याप्रकाशो नाम त्रयोदशोऽध्यायः ।
काण्वो याजुषशाखायां नानाख्यानोपबृंहिताम् ।
ब्रह्मविद्यामुवाचेमां सङ्ग्रहेण ब्रवीम्यहम् ॥ १३.१॥
बृहदारण्यकप्रोक्तैः विराट्सूत्राद्युपासनैः ।
स्याद्विराडादिरूपत्वं स विराडिह कथ्यते ॥ १३.२॥
उपास्तेर्महिमा तेन भात्युपासनमिच्छतः ।
मुमुक्षुस्तु विराडादिदोषान्दृष्ट्वा विरज्यते ॥ १३.३॥
अध्यायस्य तृतीयस्य चतुर्थब्राह्मणे श्रुतम् ।
वैराजं वपुरेतच्च शरीरान्तरकारणम् ॥ १३.४॥
इदं नरगवाश्वादि वपुस्तत्सृष्टितः पुरा ।
आत्मासीत्पुरुषाकारो ब्रह्माण्डाख्यशरीरभृत् ॥ १३.५॥
प्रत्यग्रूपः पराग्रूपाद्व्यावृत्तोऽनुभवात्मकः ।
प्रथते यः स आत्मेति प्राहुरात्मविदो बुधाः ॥ १३.६॥
बहिर्मुखेन न ज्ञातं प्रत्यक्त्तत्त्वमतिं विना ।
यदज्ञातं परं तत्त्वं तद्भवेत्सर्वकारणम् ॥ १३.७॥
विराडपि ततो जज्ञे त्रैलोक्यात्मकदेहवान् ।
यथोक्तज्ञानकर्मभ्यामेवं प्रत्यग्विराडभूत् ॥ १३.८॥
स एष परमोऽप्यात्मा कोशपञ्चकधारणात् ।
संवृत्तः पुरुषाकारः कामाविद्याद्युपप्लुतः ॥ १३.९॥
सोऽनुवीक्ष्यात्ममोहोत्थं वैराजं रूपमात्मनः ।
नापश्यदपरं किञ्चित्सोऽहमस्मीत्यथाभ्यधात् ॥ १३.१०॥
अहमित्येव नामास्य सम्पन्नं तेन लौकिकाः ।
तत्पृष्टाः (तत्सृष्टाः) स्वं स्वमात्मानमहमित्यभिचक्षते ॥ १३.११॥
कोशपञ्चकयुक्तस्य प्रत्यक्तत्त्वस्य नाम तत् ।
विराजा कृतमित्येतत्सर्वसाधारणं मतम् ॥ १३.१२॥
असाधारणदेहस्य तत्तत्पित्रादिना कृतम् ।
देवदत्तादिकं नाम जघन्यं पूर्वनामतः ॥ १३.१३॥
कस्त्वमित्येष पृष्टः सन्नादावहमिति ब्रुवन् ।
पश्चाज्जघन्यं नामेदं वक्ति जिज्ञासवे जनः ॥ १३.१४॥
चिदेकरस आत्मैव कश्मले कोशपञ्चके ।
एकतामभिसम्पन्नोऽहङ्कारोत्यभिमानतः ॥ १३.१५॥
बहवोऽतीतकल्पेऽन्य आसन्यद्यप्युपासकाः ।
तथापि भावनाधिक्यादेक एव विराडभूत् ॥ १३.१६॥
निःशेषेणासुरं पापं दग्धवान् बहुजन्मभिः ।
ततो विराडभूदन्योऽप्येवं दग्ध्वा भवेद्विराट् ॥ १३.१७॥
दुग्धपापोऽप्यनात्मज्ञो देहादावभ्यमन्यत ।
ततः स्वनाशमाशङ्क्य सोऽबिभेदस्मदादिवत् ॥ १३.१८॥
स्रजं हि कल्पयित्वास्ते तद्भयादाकुलेन्द्रियः ।
एवं नश्वरदेहादि प्रतीच्यारोप्य कम्पते ॥ १३.१९॥
आलोचयेत्स्रजस्तत्त्वं भीतिध्वस्त्यै यथा नरः ।
विराडालोचयत्तद्वत्प्रतीचस्तत्त्वमादरात् ॥ १३.२०॥
आलोचयन्यथा तत्त्वमपास्तध्वान्ततद्भयम् ।
अनन्यानुभवं साक्षाद्ददर्शैकात्म्यमात्मनि ॥ १३.२१॥
प्रत्यग्याथात्म्यविज्ञानशिखाप्लुष्टमहातमाः ।
आत्माशेषपुमर्थोऽयं सोऽमन्यत ततो विराट् ॥ १३.२२॥
देहेन्द्रियमनोबुद्धिभावाभावादिसाक्षिणः ।
प्रतीचोऽन्यत्किमप्यत्र नास्ति कस्माद्बिभेम्यहम् ॥ १३.२३॥
अन्वयव्यतिरेकाभ्यां स्वमात्मानं यदा पुमान् ।
प्रतीच्येवानुसन्धत्ते ब्रह्मास्मीति तदेक्षते ॥ १३.२४॥
प्रत्यग्दृष्ट्या तदज्ञानं न तज्जं चेक्षते स्वतः ।
ब्रह्म प्रतीचोरैकात्म्यात्तद्दूरीकृत्य गर्जति ॥ १३.२५॥
प्रत्यक्ता ब्रह्मणो रूपं ब्रह्मता चात्मनः स्वतः ।
एवं सति कुतो मे भीरिति विद्वाँस्त्रपायते ॥ १३.२६॥
ब्रह्मविद्यामृते नान्यद्भयहेतुविनाशकृत् ।
अतोऽवबोधादेवास्य भयं वीयाय सर्वतः ॥ १३.२७॥
कस्मादभेष्यदीशोऽयं द्वितीयात्खलु तद्भयम् ।
द्वितीयो नेश्वरस्यास्ति ततो निर्भय एव सः ॥ १३.२८॥
ननु प्रजापतेरैक्यदर्शनं कुत उद्बभौ ।
शास्त्राचार्यादितद्धेतोरसत्वात्तदसम्भवः ॥ १३.२९॥
उच्यते महता पुण्यपुञ्जपाकेन तत्पदम् ।
वैराजं लब्धवांस्तेन ज्ञानमस्योद्बभौ स्वतः ॥ १३.३०॥
ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः ।
ऐश्वर्यं चैव धर्मश्च सहसिद्धमिति स्मृतिः ॥ १३.३१॥
एवं सति स्वयंभातवेदत्वाद्बुद्धवान् स्वयम् ।
बोधध्वस्तात्ममोहस्याप्यरतिस्समजायत ॥ १३.३२॥
स्वाभीष्टवस्त्वलाभेन चेतसो यानवस्थितिः ।
अरतिः सा सिसृक्षोः सा वस्त्वलाभादजायत ॥ १३.३३॥
ननु विज्ञानविध्वस्तावविद्यायाः कुतोऽरतिः ।
ध्वस्तान्ध्यस्यापि सा चेत्स्यातनिर्मोक्षः प्रसज्यते ॥ १३.३४॥
अप्युत्पन्नात्मबोधानामधिकारासमाप्तितः ।
अरत्यादि यथा दृष्टं तथैव स्यात्प्रजापतेः ॥ १३.३५॥
अधिकारो यस्य यावान् भुक्ते भोगे स तावति ।
कुतो न मुच्यते मुक्ति प्रतिबन्धस्य सङ्क्षयात् ॥ १३.३६॥
सत्यामप्यात्मविद्यायां यो दोषो न निवर्तते ।
तेन दोषेणानुमेयोऽधिकारो विदुषामसौ ॥ १३.३७॥
प्रबलारब्धवेगेन कामुकः सन् प्रजापतिः ।
एकं देहं स्वभोगार्थमसृजत्मिथुनात्मकम् ॥ १३.३८॥
तत्द्वेधापातयद्देहमभूतां दम्पती उभौ ।
मनुः पुमान् वधूर्ज्ञेया शतरूपात्र नामतः ॥ १३.३९॥
तयोः सम्भोगतो जाता मनुष्या दम्पती पुनः ।
नानादेहानगृह्णीतां ताभ्यां द्वन्द्वानि जज्ञिरे ॥ १३.४०॥
गवाश्वरासभाजाविप्रमुखा आपिपीलिकम् ।
प्राणिनो मिथुनात्मानो जाताः कर्मानुसारतः ॥ १३.४१॥
मुखबाहूरुपादेभ्यो वह्नीन्द्रवसुभूमिकाः ।
देवता असृजद्ब्रह्मा चातुर्वर्ण्यनियामिकाः ॥ १३.४२॥
तत्रेन्द्रादीन् भिन्नदेवान्मन्यन्ते यागभूमिषु ।
कर्मिणस्तदसज्ज्ञेयं विराडेवाखिला इमे ॥ १३.४३॥
अविद्वदधिकारित्वात्कर्मणां भिन्नदेवताः ।
उच्यन्तां कर्मकाण्डेन वस्तुतस्तु न तत्तथा ॥ १३.४४॥
विराजो जीवतामाहुः केचिदन्ये परात्मताम् ।
उभयं युक्तमेवैतत्विवक्षायाः विशेषतः ॥ १३.४५॥
सोपाधिकविवक्षायां जीव एव विराट् भवेत् ।
निरुपाधिविवक्षायां परमात्मैव नेतरः ॥ १३.४६॥
वयमप्येवमेवेति यद्युच्येत तथास्तु तत् ।
सृष्ट्वा विराट् भोक्तृवर्गं भोग्यमन्नमचीकॢपत् ॥ १३.४७॥
पूर्वजन्मनि मर्त्यः सन् कृत्वासौ ज्ञानकर्मणी ।
अमृतानसृजद्देवान्यद्यप्येतत्महाद्भुतम् ॥ १३.४८॥
सृष्ट्वाखिलमवेत्सृष्टमहमस्म्यखिलं जगत् ।
ईदृशो महिमा ज्ञेयः कृतयोर्ज्ञानकर्मणोः ॥ १३.४९॥
वर्णितेत्थं प्रयत्नेन ज्ञानकर्मफलोर्जितः ।
उपासितुः प्रवृत्त्यर्थं निवृत्त्यर्थं मुमुक्षुतः ॥ १३.५०॥
सृष्ट्वैश्वर्ये स्वतन्त्रत्वं तत्कामी बहु मन्यते ।
दोषानेव विवेक्यत्र बहूनुत्प्रेक्षते धिया ॥ १३.५१॥
अविद्या पटसंवीतचक्षुषामियदेव हि ।
वैदिकं साधनं ज्ञेयं ज्ञानकर्मस्वभावकम् ॥ १३.५२॥
तच्च कर्त्रादिसापेक्षं विरञ्च्यन्तफलप्रदम् ।
जन्मादिविक्रियाषट्कयुतं सातिशयं जडम् ॥ १३.५३॥
दुःखानि च विचित्राणि सन्त्येव बहुजन्मसु ।
अनेन क्लेशयुक्तेन दुर्लभं तपसा विना ॥ १३.५४॥
कथञ्चित्साधितेऽप्यस्मिन् परानन्दघनं प्रभुम् ।
अन्तर्भाव्य विराट्पिण्डे स्थातव्यं हि जुगुप्सिते ॥ १३.५५॥
न केवलं पिण्डवासस्तादात्म्यं चाभिमानतः ।
ततो भयं भक्षणाय पितुर्मुखविदारणात् ॥ १३.५६॥
चाण्डालानां तु नेयं भीः किन्तु पन्नगजन्मनः ।
को भेदः स्याद्विराड्जन्मन्युरगात्पुत्रभक्षिणः ॥ १३.५७॥
कृच्छ्राद्भये प्रशान्तेऽपि जग्राहाथारतिग्रहः ।
क्रियमाणे प्रतीकारे गर्दभादिशरीरता ॥ १३.५८॥
एकयोनौ सकृज्जातः क्लेशं सोढुं न शक्नुयात् ।
अनन्तयोनिष्वसकृज्जायमानस्य का कथा ॥ १३.५९॥
निस्तरेद्विद्यया चेत्किं बकबन्धप्रयासतः ।
अथ विद्यामुपेक्ष्योर्ध्वं किं विद्यां प्रार्थयिष्यते ॥ १३.६०॥
क्लेशेन महतोपास्य बहुयोनीः प्रविश्य च ।
विद्यान्वेषणतः श्रेय इदानीमेव वेदनम् ॥ १३.६१॥
एवं विचार्य बहुशस्तूर्णमेव मुमुक्षति ।
निवृत्तः सर्वबाह्यार्थात्प्रमेयं मातुमर्हति ॥ १३.६२॥
अधिकारी साधितैः स्यादेवं फलविचारतः ।
तेन प्रमातुं यद्योग्यं तदिदानीं निरूप्यते ॥ १३.६३॥
उपादेयस्य मेयस्य वाच्या सम्भावना यथा ।
हेयसंसारहेतुश्च वक्तव्यो यत्नतस्तथा ॥ १३.६४॥
संसाराख्यमहाव्याधेः किं मूलमिति चिन्तिते ।
तद्ध्वस्तये चिकित्सेयं तदा फलवती भवेत् ॥ १३.६५॥
अविज्ञातनिदानेन भिषजा यच्चिकित्सितम्।
तद्ध्वस्तये चिकित्सेयं तदा फलवती भवेत् ॥ १३.६६॥
मायामूलं द्वैतमेतदित्यज्ञाते कथं त्विदम्।
अद्वैतं बुद्धिमारोहेत्स्यादतोऽन्या तु नैव धीः ॥ १३.६७॥
देहादृष्टिक्रियाकर्तृरागाध्यासार्थसप्तकात्।
द्वारा संसारहेतुः स्यादात्माज्ञानं तु लोकवत् ॥ १३.६८॥
आत्माज्ञानमनर्थानां मूलं लोकेऽपि नेतरत् ।
स्वपराक्रममज्ञात्वा युध्यन्म्रियत एव हि ॥ १३.६९॥
एवं स्वात्मानमज्ञात्वा संसारानर्थमाप्नुयात् ।
अनर्थाज्ञानयोः कार्यकारणत्वं प्रपञ्च्यते ॥ १३.७०॥
जिहासितस्यानर्थस्य हेतुः स्यात्सशरीरता ।
न प्रियाप्रियविच्छेदः सशरीरस्य कस्यचित् ॥ १३.७१॥
धर्माधर्मौ च देहस्य योनिरित्यागमोऽब्रवीत्।
विहितं प्रतिषिद्धं च कर्म मूलं तयोरपि ॥ १३.७२॥
कर्तुरेव भवेत्कर्म रागद्वेषाच्च कर्तृता।
शोभनाशोभनाध्यासौ रागद्वेषप्रयोजकौ ॥ १३.७३॥
उक्ताध्यासोऽप्यन्यवस्तुसद्भावात्स्यान्न चान्यथा।
वस्त्वन्तरस्य सद्भाव आत्माज्ञानेन कल्पितः ॥ १३.७४॥
एवं देहादिवस्त्वन्तसप्तकव्यवधानतः।
संसारानर्थहेतुः स्यादात्माज्ञानं जगत्सृजेत् ॥ १३.७५॥
प्रत्यग्याथात्म्यसंमोहात्जगत्सदिव भासते।
प्रत्यग्याथात्म्यसंबुद्धौ न सत्तान्नासदुच्यते ॥ १३.७६॥
अशेषानर्थरूपस्य प्रत्यगज्ञानरूपिणः।
ध्वस्तौ ध्वस्तिरनर्थानामानन्दश्च समाप्यते ॥ १३.७७॥
निरस्तातिशयानन्दरूपता प्रत्यगात्मनि।
यो वै भूमा तत्सुखं स्यादित्यादि श्रुतिसंमतम् ॥ १३.७८॥
Verses 66-78 are not found in certain
texts. They are added for completion and
rest renumbered accordingly.
स्वत आनन्दयाथात्म्येऽप्यबोधाद्दुःखसम्प्लुतिः ।
सोऽबोधोऽनर्थहेतुत्वान्निर्देष्टव्यश्चिकित्सितुम् ॥ १३.७९॥
अबुद्धमात्मनस्तत्त्वं प्रमातुं योग्यमागमैः ।
निर्देष्टव्यं तदप्यत्र सम्भावयितुमञ्जसा ॥ १३.८०॥
तमँबोधं तच्च मेयमव्याकृतगिरा श्रुतिः ।
निरदिक्षच्छ्रुतिः सा तु न्यायेनात्र विचार्यते ॥ १३.८१॥
तद्भेदं तर्ह्यविस्पष्टमासीदव्याकृताभिधम् ।
इत्येतस्मिन्श्रौतवाक्ये पदार्थस्तावदीर्यते ॥ १३.८२॥
अज्ञानात्मन्यशेषेण लीनं बीजस्वरूपधृक् ।
तच्छब्देन जगत्प्रोक्तं परोक्षार्थाभिधायिना ॥ १३.८३॥
अव्याकृतस्य जगतो भूतकालाभिसङ्गतेः ।
बुभुत्सुं प्रति पारोक्ष्यात्तच्छब्दस्तत्र युज्यते ॥ १३.८४॥
ऐतिह्यार्थे हशब्दः स्यात्सुखेनार्थावबुद्धये ।
तर्केणोक्ते धियः क्लेशः परमाण्वनुमानवत् ॥ १३.८५॥
अचिन्त्याः खलु ये भावाः न तांस्तर्केण योजयेत् ।
नाप्रतिष्ठिततर्केण गम्भीरार्थस्य निश्चयः ॥ १३.८६॥
नामरूपादिविकृतं पराङ्मानेन भासितम् ।
इदंशब्देन निखिलं जगदेतदुदीर्यते ॥ १३.८७॥
सामानाधिकरण्येन तदिदम्पदयोः श्रुतम् ।
कार्यकारणयोरैक्यं व्याकृताव्याकृतात्मनोः ॥ १३.८८॥
एकस्य जगतोऽवस्थे व्याकृताव्याकृतात्मके ।
अवस्थयोर्विभेदेऽपि तद्धर्मी न हि भिद्यते ॥ १३.८९॥
बाल्ययौवनभेदेऽपि देवदत्तो न भिद्यते ।
ततो जगदभेदेन सामानाधिकरण्यगीः ॥ १३.९०॥
नामरूपाद्यभिव्यक्तेः प्राक्तनः काल उच्यते ।
तर्हीत्यनेन शब्देन स कालो लोककल्पितः ॥ १३.९१॥
यद्यप्यव्याकृते कालव्यक्तिर्नास्ति तथाप्यमी ।
लोकाः प्रलयकालत्वव्यवहारं प्रकुर्वते ॥ १३.९२॥
जगतोऽस्यानभिव्यक्तिव्याकृतगिरोच्यते ।
न जगत्प्रागवस्थायां व्यक्तं गर्भस्थपुत्रवत् ॥ १३.९३॥
आसीदिति च सत्तत्त्वमधिष्ठानतयोदितम् ।
तथा च भावरूपत्वाज्जगद्व्याकृतिमर्हति ॥ १३.९४॥
अव्याकृतवचस्त्वेवमवतार्यास्य वर्णिताः ।
पदार्था अथ वाक्यार्थो न्यायेनैव निरूप्यते ॥ १३.९५॥
यस्य वेदान्तमेयत्वं कारणं जगतश्च यत् ।
अव्याकृतं तदेवात्र वाक्यार्थो द्विविधं हि तत् ॥ १३.९६॥
चित्प्राधान्यादविद्यायाः प्राधान्याच्च द्विधाऽद्वयम् ।
यच्चिद्वस्तु प्रमेयं तदविद्या तु विकारकृत् ॥ १३.९७॥
न चिद्वस्तु विवादार्हं तेन सर्वार्थसिद्धितः ।
अज्ञोऽहमित्यविद्यापि प्रसिद्धैवानुभूतितः ॥ १३.९८॥
नासदासीन्नो सदासीत्तम आसीदिति श्रुतिः ।
आसीदिदं तमोभूतमप्रज्ञातमिति स्मृतिः ॥ १३.९९॥
अज्ञानत्वात्प्रमाणेन ज्ञातव्यमिति मेयता ।
अज्ञानस्य विकारित्वात्कारणत्वं च सम्भवेत् ॥ १३.१००॥
मायां तु प्रकृतिं विद्यादीशो मायीति हि श्रुतिः ।
दैवी ह्येषा गुणमयी मम मायेति च स्मृतिः ॥ १३.१०१॥
इत्यव्याकृतवाक्यार्थो न्यायेन सुनिरूपितः ।
अथ व्याकृतवाक्यार्थः क्रमात्प्राप्तो निरूप्यते ॥ १३.१०२॥
व्याकृतं द्विविधं देहसृष्टिर्जीवप्रवेशनम् ।
देहादिर्विषयत्वेन प्रवेशात्पूर्वमुच्यते ॥ १३.१०३॥
अव्याकृतं यत्पूर्वोक्तमरूपकमनामकम् ।
तदिदं नामरूपाभ्यामेव व्याक्रियते स्वयम् ॥ १३.१०४॥
सुषुप्तादुत्थिती राज्ञः स्वयमेव यथा तथा ।
जग्धाशेषजगन्मूर्तेरव्यक्ताद्व्याकृतिर्मुहुः ॥ १३.१०५॥
नामरूपे तु शब्दार्थौ न ताभ्यामतिरिच्यते ।
जगत्किञ्चिद्घटादौ हि द्वयमेव समीक्ष्यते ॥ १३.१०६॥
प्रक्रियानियमो नात्र पुंव्युत्पत्तिप्रधानतः ।
अतः श्रुतिषु सृष्ट्यादिविगानं बहुधेक्ष्यते ॥ १३.१०७॥
यया यया भवेत्पुंसां व्युत्पत्तिः प्रत्यगात्मनि ।
सा सैव प्रक्रियेह स्यात्साध्वी सा चानवस्थिता ॥ १३.१०८॥
विस्पष्टत्वं व्याकुलत्वं शुक्तिकारजतादिवत् ।
स्पष्टमव्याकृतान्मोहात्मिथ्याज्ञानमिदं जगत् ॥ १३.१०९॥
नामरूपाध्यास एवं व्याकृतः प्रतिपादितः ।
प्रवेश्यः तत्र (प्रवेश्यस्यात्र) जीवस्य प्रवेशः प्रतिपाद्यते ॥ १३.११०॥
सर्वशास्त्रारम्भ एष यदर्थस्तद्विबुद्धये ।
स एष इह देहेषु प्रविष्ट इति गीयते ॥ १३.१११॥
स एषोऽत्रानखाग्रेभ्यः प्रविष्ट इति वेदगीः ।
व्याख्यायतेऽसौ पदशः आदौ मीमांस्यते त्वथ ॥ १३.११२॥
स इत्यनेन शब्देन प्रकृतार्थाऽवमर्शिना ।
अव्याकृताध्यक्ष आत्मा यः पुरोक्तः स उच्यते ॥ १३.११३॥
यद्वा विराडधिष्ठानं ब्राह्मणादावुदीरितम् ।
आत्मशब्देन तस्यात्र परामर्शो भविष्यति ॥ १३.११४॥
तच्छब्देन परामृष्टः साक्ष्यव्याकृतभासकः ।
एतच्छब्देन कार्यस्थः प्रत्यक्ष उपदिश्यते ॥ १३.११५॥
अद्वितीयमधिष्ठानं कार्यस्थः सद्वयस्तयोः ।
स एष इत्यभेदोक्तिर्दुष्करेति न चोद्यताम् ॥ १३.११६॥
अज्ञातवास्तुतत्त्वस्य दुष्करं नास्ति किञ्चन ।
नीलीकृतं नभः पश्येच्चक्षुषा नीलवस्त्रवत् ॥ १३.११७॥
योग्यायोग्यव्यवस्थेयं मानव्यवहृतौ भवेत् ।
कल्पनामात्रनिष्पत्तेर्नापेक्षाज्ञानभूमिषु ॥ १३.११८॥
इहेत्यनेन सूत्रादिस्थाणुपर्यन्तविग्रहाः ।
उच्यन्ते तेषु जीवोऽयं विस्पष्टमुपलभ्यते ॥ १३.११९॥
प्रविष्ट इति शब्देन चिदाभासतमोन्विता ।
जीवत्वेनोपलब्धिर्या चितः सैषाभिधीयते ॥ १३.१२०॥
चिदाभासप्रवेशस्तु प्रत्यङ्मोहे स्वतो भवेत् ।
तत्कार्येष्वनुवृत्तः स उपाधिश्चित्प्रवेशने ॥ १३.१२१॥
जपाकुसुमरक्तत्वं स्फटिके कल्प्यते यथा ।
चिदाभासप्रवेशोऽयं चित्यध्यारोप्यते तथा ॥ १३.१२२॥
सूत्रादिस्थाणुपर्यन्तं जगत्सृष्ट्वा स्वमायया (जगत्सृष्ट्वात्ममायया) ।
स्वाभासैकसहायेन स एव प्राविशत्परः ॥ १३.१२३॥
आनखाग्रेभ्य इत्युक्त्या मर्यादाऽस्य प्रवेशने ।
उक्ता स्पर्शेन चैतन्यं नखाग्रावधि लक्ष्यते ॥ १३.१२४॥
सामान्येन विशेषाच्च चिद्देहं व्याप्य वर्तते ।
दृष्टान्ताभ्यां द्वयी वृत्तिर्द्विविधाभ्यामिहोच्यते ॥ १३.१२५॥
दारु कृत्स्नमभिव्याप्य यथाग्निर्दारुणि स्थितः ।
संव्याप्य तद्वदखिलं देहमात्मा व्यवस्थितः ॥ १३.१२६॥
तस्थावसंव्याप्य यथा क्षुरपात्रं क्षुरस्तथा ।
श्रोत्रादिनाडिमध्यस्थस्तनुमव्याप्य संस्थितः ॥ १३.१२७॥
क्षुरपात्रे स्थानभेदाद्विभिद्यन्ते यथा क्षुराः ।
चैतन्यानि विभिद्यन्ते तथा नाडीविभेदतः ॥ १३.१२८॥
प्राप्नोति वृत्ती द्वे जीवः स्वप्नजाग्रदवस्थयोः ।
सामान्यवृत्तिमेवैकां सुषुप्ते प्रतिपद्यते ॥ १३.१२९॥
सामान्यवृत्तिर्या साऽत्र जीवनायोपपद्यते ।
विशेषवृत्तयो देहे शब्दाद्यालोचनोद्यताः ॥ १३.१३०॥
मवेशवाक्यं पदशस्तात्पर्याच्च स्फुटीकृतम् ।
तदनुग्राहको न्याय इदानीं प्रविचार्यते ॥ १३.१३१॥
देवदत्तः परिच्छिन्नः सांशश्चाऽतो गृहं विशेत् ।
निरंशः सर्वगश्चात्मा कथं देहे विशेदसौ ॥ १३.१३२॥
अप्रविष्टस्वभावोऽयं दिग्देशाद्यनभिप्लुतेः ।
कल्पितोऽस्य प्रवेशः स्याज्जलपात्रार्कबिम्बवत् ॥ १३.१३३॥
विभागाद्यंशवैषम्येऽप्यस्ति साम्यं विवक्षितम् ।
उपाधिस्थोपलब्ध्यादिसाम्यं केन निवार्यते ॥ १३.१३४॥
उपाधावुपलभ्यत्वमन्यथात्वेन भासनम् ।
बहुत्वभानमित्येतद्दृष्टदार्ष्टान्तयोः समम् ॥ १३.१३५॥
तेजोधिकं रवेर्बिम्बमशक्यं द्रष्टुमञ्जसा ।
तथापि जलमध्ये तद्बिम्बं सम्यगवेक्ष्यते ॥ १३.१३६॥
स्वयम्प्रकाश आत्मैवं नोपलभ्योऽनुपाधिकः ।
जडदेहाद्युपाधौ तु विस्पष्टमुपलभ्यते ॥ १३.१३७॥
जीवत्वभ्रान्तिरेषैवं प्रत्यग्बोधोपयोगतः ।
जलपात्रार्कसाम्येन प्रवेश इति कल्प्यते ॥ १३.१३८॥
यथा सृष्ट्यादयः कॢप्ताः प्रवेशोऽपि तथेक्ष्यताम् ।
युक्त्या नैवोपपद्यन्ते सृष्ट्याद्याः कल्पितास्ततः ॥ १३.१३९॥
नन्वेवं पर एवात्र प्रविष्टश्चेत्तदा जनाः ।
पश्यन्त्येतं विनाशास्त्रमिति शास्त्रं वृथा भवेत् ॥ १३.१४०॥
अहं प्राणिम्यहं वच्मि पश्याम्येतच्छृणोमि तत् ।
मन्येऽहमित्यहम्बुद्ध्याः दृष्ट एवाखिलैः परः ॥ १३.१४१॥
उच्यते, तन्न पश्यन्ति प्रविविक्तं स्वतो जनाः ।
नो श्वासभाषणे दृष्टिश्रुती वा स्तोऽस्य नो मतिः ॥ १३.१४२॥
प्रविष्टस्यास्ति चेच्छासभाषणाद्यस्तु तावता ।
प्रवेष्टरि किमायातं शास्त्रबोध्यः स एव हि ॥ १३.१४३॥
प्रविष्टस्य प्रवेष्टुश्च रूपाभेदेऽपि भिन्नताम् ।
प्रविष्टत्वाप्रविष्टत्वधर्माभ्यां को निवारयेत् ॥ १३.१४४॥
प्रविष्टं येऽत्र पश्यन्ति नाप्रविष्टममी विदुः ।
व्याधत्वेन प्रपश्यन्तो न विदुः राजपुत्रताम् ॥ १३.१४५॥
व्याधोऽयमित्यसावुक्तिर्योजयेत्प्राणसङ्कटे ।
राजदेवादिकोक्तिस्तु भवेद्बहुफलप्रदा ॥ १३.१४६॥
तद्वत्प्रविष्टदृष्टिर्या सा संसारे नियोजयेत् ।
अप्रविष्टात्मदृष्टिस्तु मोचयेत्सर्व सङ्कटात् ॥ १३.१४७॥
अतोऽप्रविष्टदृष्ट्यर्थं निन्द्यते हि प्रविष्टदृक् ।
प्रविष्टदर्शनं यत्स्यान्न तद्दर्शनमात्मनः ॥ १३.१४८॥
स्वतः परोऽपि देहादौ प्रविष्टोऽकार्त्स्न्यदोषतः ।
दूषितो दर्शनं तस्य न भवेत्परदर्शनम् ॥ १३.१४९॥
अकृत्स्नत्वं यथाऽस्य स्याद्व्यवहारे तथोच्यते ।
श्वासयोगात्प्राणिता स्याद्वक्ता वदनयोगतः ॥ १३.१५०॥
द्रष्टा दर्शनयोगेन श्रोता श्रवणयोगतः ।
मन्ता मननयोगेन स्प्रष्ट्रादौ योजयेत्तथा ॥ १३.१५१॥
एवं चाहं प्राणितेति ज्ञाते वक्त्राद्यसङ्ग्रहः ।
वक्ताहमित्यपि ज्ञाते प्राणित्रादेरसङ्ग्रहः ॥ १३.१५२॥
यतिदीक्षितचोरादिभूमिकां धारयेन्नटः ।
तत्र दृष्टे दीक्षितेऽन्ये दृष्टा यत्यादयो न हि ॥ १३.१५३॥
प्राणनादिकृतां मध्ये एकैकं यः समीक्ष्यते ।
न स जानात्यकृत्स्नत्वादेतदीक्षितवस्तुनः ॥ १३.१५४॥
इत्युक्तं व्याकृतं सर्वं जडाजडविभागवत् ।
आरोपोऽयं तन्निवृत्त्यै विद्यासूत्रमिहोच्यते ॥ १३.१५५॥
आत्मेत्येवमुपासीतेत्येतत्सूत्रमुदाहृतम् ।
उक्त्वा पदार्थं सूत्रानुग्राहको न्याय उच्यते ॥ १३.१५६॥
यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह ।
यच्चास्य सन्ततो भावस्तस्मादात्मेति कथ्यते ॥ १३.१५७॥
व्याप्नोत्यनवशेषेण सर्पादीन् स्रगिवाखिलान् ।
कल्पनाधिष्ठानतया प्रत्यङ्ङात्मा भवेत्ततः ॥ १३.१५८॥
सर्वाधिष्ठानसन्मात्र इत्यशेषजगत्प्रति ।
अधिष्ठानतया व्याप्तिं श्रुतिर्ब्रूते सदात्मनः ॥ १३.१५९॥
स्वचिदाभासमोहेन तदुत्थानखिलान्यतः ।
आदत्तेऽनात्मनः प्राज्ञस्तत आत्मेति तं विदुः ॥ १३.१६०॥
परे आत्मनि सर्वेऽपि सम्प्रतिष्ठन्ते एकले ।
पृथिव्याद्या अनात्मान इति चाथर्वणे वचः ॥ १३.१६१॥
आत्माभासाः पराचीना धीवृत्तिर्विषयोन्मुखाः ।
प्रत्यङ्ङात्ति यतोऽतोऽसावात्मेत्युक्तो मनीषिभिः ॥ १३.१६२॥
विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् ।
आनन्दभुक्तथा प्राज्ञ इति चागमशासनम् ॥ १३.१६३॥
अव्यावृताननुगतः पूर्णः स्वात्मन्यवस्थितः ।
यतोऽस्य सन्ततो भावस्तस्मादात्मेति शब्द्यते ॥ १३.१६४॥
तद्विष्णोरिति मन्त्रोऽपि विष्णोस्तत्परमं पदम् ।
चक्षुर्वदाततं व्योम्नि व्याचष्टे प्रत्यगात्मनि ॥ १३.१६५॥
चतुर्विधनिरुक्त्यात्र चत्वारोऽर्थाः प्रकीर्तिताः ।
अधिष्ठानं कारणत्वं जीवभावो विमुक्तता ॥ १३.१६६॥
यन्मुक्तरूपं साक्षित्वाद्व्याकृतेऽव्याकृतेऽपि तत् ।
अतिरोहितमत्रात्मशब्देनैतथि सूत्रितम् ॥ १३.१६७॥
आत्मशब्दधियोरात्मा विषयो नेति भाषितुम् ।
सूत्रेऽस्मिन्नितिशब्दोऽयं यथैतत्स्यात्तथोच्यते ॥ १३.१६८॥
यत्रेति परशब्दः स्यात्तत्रोपचरितं वचः ।
ज्येष्ठं पितेति पश्यन्तीत्यादावेवमवेक्षणात् ॥ १३.१६९॥
व्याकृताव्याकृते ये द्वे कल्पिते ते विचारतः ।
एते वारयितुं सूत्रे एवकारमसूत्रयत् ॥ १३.१७०॥
उपेति सामीप्यवाची तन्निष्ठा प्रत्यगात्मनि ।
कार्यकारणरूपाभ्यां प्रत्यङ्नेदीय ईक्ष्यते ॥ १३.१७१॥
एतस्य ब्रह्मसामीप्यं तत्त्वमस्यादिनोच्यते ।
आसीतेति तु शब्देन कूटस्थत्वमसूत्रयत् ॥ १३.१७२॥
व्युत्थाय कारणात्कार्यात्तत्तत्त्वज्ञानवर्त्मना ।
उपेत्य कूटस्थमजमासीतापरिणामवान् ॥ १३.१७३॥
इत्यात्मसूत्रे शब्दार्थो वाक्यार्थश्चोपवर्णितः ।
तदनुग्राहको न्यायः आशङ्कापूर्वमुच्यते ॥ १३.१७४॥
व्याकृताव्याकृताभ्यां तद्वस्तुतत्त्वं तिरोहितम् ।
इति यच्छङ्कितं तन्न स्वरूपस्यातिरोहितेः ॥ १३.१७५॥
स्वस्वरूपं तिरोधातुं न हि केनापि शक्यते ।
विस्फार्यतामिहाक्षाणि किमक्षैरपराध्यते ॥ १३.१७६॥
आपादयेयुः शब्दादीन्यद्यक्षाणि तथापि ते ।
का हानिस्तस्य शब्दादेरेव तत्त्वं विबुध्यताम् ॥ १३.१७७॥
तैः शब्दादितया भाति तत्त्वरूपतया न तु ।
इति चेदत एवैतद्वेदवाक्येन बुध्यताम् ॥ १३.१७८॥
न परोक्षत्वमाशङ्क्यं स्वस्वरूपत्वहेतुतः ।
शब्दादितत्त्वं यद्बोद्धुः स्वरूपं तन्न चेतरम् ॥ १३.१७९॥
एकस्याप्यत्र चित्तस्य सहकारिविभेदतः ।
क्रमेण ग्रहणं तत्त्वे शब्दादौ च कुतो न हि ॥ १३.१८०॥
इति शङ्कोत्तरं प्रोक्तमेतत्सूत्रेण सूचितम् ।
स्वरूपवाच्यात्मशब्दादतिरोधानभासनात् ॥ १३.१८१॥
ननु प्राणादियुक्तात्मबोधोऽकार्त्स्न्येन दूषितः ।
सोऽकार्त्स्न्यदोषः शुद्धात्मबोधे कस्मान्न सम्भवेत् ॥ १३.१८२॥
इत्याशङ्कापनुत्त्यर्थमत्रेदं श्रूयते स्फुटम् ।
अत्र ह्येते सर्व एकीभवन्तीति श्रुतेर्वचः ॥ १३.१८३॥
प्राणाद्युपाध्युपहिताः सर्वेऽप्यात्मान ईश्वरे ।
शुद्धात्मन्येकतां यान्ति पुत्रभ्रात्रादयो यथा ॥ १३.१८४॥
पुत्रो भ्राता पितेत्येको भिद्यते प्रतियोगिभिः ।
पुत्रादयस्त एकस्मिंस्तस्मिन्यान्त्येकतां स्वतः ॥ १३.१८५॥
आत्मनोऽनवशेषेण सम्बन्धोऽनात्मवस्तुनः ।
रज्जुसर्पादिवन्नातः प्रतीचः शिष्यते पराङ् ॥ १३.१८६॥
सर्वमज्ञातमेव स्याद्यस्मिन्नज्ञात आत्मनि ।
ज्ञाते ज्ञातं च कृत्स्नोऽसौ तावत्त्वात्सर्ववस्तुनः ॥ १३.१८७॥
प्रमाभासत्वमेतेन वाक्येनास्य निवारितम् ।
मात्वं सम्भाव्यते तस्य पदनीयत्ववाक्यतः ॥ १३.१८८॥
अस्य सर्वस्य जगत आत्मेति यदुदीरितम् ।
तदेतत्पदनीयं स्यादिति वाक्यस्य योजना ॥ १३.१८९॥
पदनीयेति शब्देन प्रमातुं योग्यतोच्यते ।
अज्ञातत्वात्पुमर्थत्वात्प्रमातुं योग्यतात्मानः ॥ १३.१९०॥
अव्याकृतव्याकृतयोरज्ञानात्मकता यतः ।
अतः आत्मातिरेकेण नाज्ञातार्थोऽस्ति कश्चन ॥ १३.१९१॥
ज्ञेयार्थानन्दयोर्यस्मात्समाप्तिः प्रत्यगात्मनि ।
परमः पुरुषार्थोऽत आत्मा भवति नेतरः ॥ १३.१९२॥
अज्ञातत्वं पुरा प्रोक्तमव्याकृतगिरा यथा ।
ज्ञेयार्थस्य समाप्तिं तां वक्त्यनेनेति वाक्यतः ॥ १३.१९३॥
अनेनैतद्वेद सर्वमित्यात्मज्ञानमात्रतः ।
सार्वज्ञ्यमुक्तमानन्दसमाप्तिस्तु प्रवक्ष्यते ॥ १३.१९४॥
अन्यज्ञानेन नान्यस्य क्वचिदस्त्यवबुद्धता ।
आत्मज्ञानेन सर्वस्य ज्ञानं कथमुदीर्यते ॥ १३.१९५॥
सत्यमेवं भवेदेतद्यद्यात्माप्यन्य इष्यते ।
आत्मासावन्य इति च नानुन्मत्तस्य गीरियम् ॥ १३.१९६॥
प्रत्यक्तत्त्वे परिज्ञाते जगत्तत्त्वं प्रबुद्ध्यते ।
इत्यत्र पददृष्टान्तो यथावत्स विविच्यते ॥ १३.१९७॥
एकं पादं यथाश्वस्य दृष्ट्वाश्वत्वमशेषतः ।
दृष्टवानेव भवति दृष्टोऽश्व इति वर्णनात् ॥ १३.१९८॥
एवं स्वदेहमात्रस्थे साक्षितत्वेऽवलोकिते ।
अशेषजगतस्तत्त्वं लभ्यतैव न संशयः ॥ १३.१९९॥
आनन्दस्य समाप्तिर्या प्रत्यगात्मनि साधुना ।
प्रदर्श्यतेऽनुभूत्यात्र स्पष्टं सार्वजनीनया ॥ १३.२००॥
वित्तात्पुत्रः प्रियः पुत्रात्पिण्डः पिण्डात्तथेन्द्रियम् ।
इन्द्रियेभ्यः प्रियः प्राणः आत्मा प्रियतमस्ततः ॥ १३.२०१॥
स्वात्मभोगस्य हेतुत्वात्प्राणादौ प्रीतिरिष्यते ।
न स्वतोतो न सा मुख्या वेश्याप्रीतिर्यथा तथा ॥ १३.२०२॥
प्रतीचि निर्निमित्तैव सर्वावस्थास्वपीष्यते ।
प्रीतिरग्न्युष्णवत्तस्मान्मुख्यासाविति गम्यताम् ॥ १३.२०३॥
सर्वान्तरतरत्वेन युज्यते निर्निमित्तता ।
बाह्येषु सनिमित्तत्वं प्रीतेः स्पष्टं गवादिषु ॥ १३.२०४॥
व्याध्याद्युपद्रुतो लोको मृतिमप्यभिवाञ्छति ।
निर्निमित्तप्रियत्वे तु देहादेस्तन्न युज्यते ॥ १३.२०५॥
अनात्मा प्रिय इत्येवं यो मुह्यति स पामरः ।
विनाशित्वमुदाहृत्य मूढं तं बोधयेद्बुधः ॥ १३.२०६॥
अनात्मा भोगकालेऽस्य सुखं यावत्प्रयच्छति ।
तत्सहस्रगुणं दुःखं नाशकाले प्रयच्छति ॥ १३.२०७॥
या प्रीतिरविवेकानां विषयेष्वनपायिनी ।
व्युत्थाप्य (व्युत्थाय) विषयेभ्यस्तां प्रतीच्येव निवेशयेत् ॥ १३.२०८॥
विषया इव न प्रत्यक्कदाचिदपि नश्यति ।
अतो दुःखप्रदत्वं तु शङ्कितुं न च शक्यते ॥ १३.२०९॥
सूत्रार्थज्ञमनुष्याणां मतिं विज्ञाय केचन ।
मुमुक्षवो गुरुं प्राप्य चोदयन्त्यतिसम्भ्रमात् ॥ १३.२१०॥
यद्ब्रह्मविद्यया सर्वभावाप्तिं मन्वते नराः ।
तद्ब्रह्म किं विदित्वाभूत्सर्वमित्येतदीर्यताम् ॥ १३.२११॥
एवं मुमुक्षुभिश्चोद्ये कृते करुणया गुरुः ।
अनायासेन तच्चोद्यं परिहर्तुं वचोऽब्रवीत् ॥ १३.२१२॥
ब्रह्मैव बोधात्प्राग्जीवो भूत्वात्मानमवेत्पुनः ।
अहं ब्रह्मेति तद्बोधात्सर्वात्मकमभूत्तदा ॥ १३.२१३॥
अवेत्सोपाधिरात्मायमात्मानं निरुपाधिकम् ।
ज्ञातृज्ञानज्ञेयभेदात्न दोषोऽत्र मनागपि ॥ १३.२१४॥
अविविक्तस्तु देहाद्यैरात्मा भवति वेदिता ।
विविक्तात्मा वेदितव्यो धीवृत्तिर्वेदनं भवेत् ॥ १३.२१५॥
अविद्यारोपनिह्नुत्यै तदात्मानमवेदिति ।
आत्माभिमुखधीवृत्तिरात्मवेदनमुच्यते ॥ १३.२१६॥
आत्मानमेव तदवेदित्युक्तादेवकारतः ।
निर्माल्यवत्परित्याज्यं देहादीत्यवगम्यते ॥ १३.२१७॥
त्यज्यमाने (त्याज्यमाने) तु देहादावात्मैवैकोऽवशिष्यते ।
परित्यक्तुमशक्यत्वादात्मानं निह्नुतेऽत्र कः ॥ १३.२१८॥
अहं ब्रह्मास्मि नो जीव इत्यवेद्ब्रह्मरूपताम् ।
शोधितस्याहमर्थस्य युज्यते ब्रह्मरूपता ॥ १३.२१९॥
ब्रह्मता नात्मनोऽन्यत्र नात्मता ब्रह्मणोऽन्यतः ।
तद्याथात्म्याप्रबोधात्तु तयोरेष विपर्ययः ॥ १३.२२०॥
अब्रह्मानात्मताहेतौ प्रत्यग्ध्वान्ते निवर्तिते ।
आत्मानमेव ब्रह्मेति निर्विघ्नं प्रतिपद्यते ॥ १३.२२१॥
निवर्त्यभेदाद्भिन्नोऽर्थो ब्रह्माहम्पदयोर्भवेत् ।
अब्रह्मानात्मते वार्ये एकस्मिन्नेव वस्तुनि ॥ १३.२२२॥
स्वानुभूत्यवसेयेऽस्मिन्प्रतीच्यब्रह्मतां जनाः ।
आरोप्य शास्त्रगम्येऽस्मिननात्मत्वमकल्पयन् ॥ १३.२२३॥
अनुभूत्यवसेयोऽहं ब्रह्म शास्त्रसमर्पितम् ।
अस्मीति बोधादारोपद्वयमत्र निवर्तते ॥ १३.२२४॥
अस्मीति वर्तमानोक्तेर्विद्याकालैव मुक्तता ।
सिद्धातोऽसौ न साध्या स्यादग्निहोत्रादिकार्यवत् ॥ १३.२२५॥
तस्मात्तत्सर्वमभवदिति वाक्येन वेदनात् ।
उच्यते सर्वभावाप्तिरसर्वज्ञत्वापवादतः ॥ १३.२२६॥
स्वतः सर्वात्मकम्ब्रह्म भात्यसर्वमिव भ्रमात् ।
विद्यया भ्रान्तिबाधेऽस्य सर्वत्वमवशिष्यते ॥ १३.२२७॥
नन्वसौ सर्वभावाप्तिर्न विद्यामात्रतो भवेत् ।
विनोत्तमत्वानुष्ठानकालदेवाद्यनुग्रहम् ॥ १३.२२८॥
विप्रस्य फलदो वेदो न शूद्रस्याधमत्वतः ।
देवादेरुत्तमस्यैव तथा विद्या फलप्रदा ॥ १३.२२९॥
यागज्ञानमनुष्ठानाद्विना न स्वर्गदं तथा ।
ब्रह्मज्ञानमनुष्ठानाद्विना सर्वाप्तिदं कथम् ॥ १३.२३०॥
गर्भाधानमृतावेव नान्यकाले तथोत्तमे ।
विद्या कृतयुगे सर्वभावं यच्छति नान्यदा ॥ १३.२३१॥
राज्ञा कृषिफलं यद्वत्करार्थं प्रतिबध्यते ।
सर्वभावस्तथा देवैर्यागभुग्भिर्निवार्यते ॥ १३.२३२॥
तस्मादनुत्तमे जन्मन्यननुष्ठायिनः कलौ ।
युगे देवाद्यृणवतो न विद्या सर्वभावदा ॥ १३.२३३॥
इति चोदयितुर्येऽत्रचत्वारश्चोद्यहेतवः ।
तद्यो य इत्यादि वाक्यैश्चतुर्भिस्तान्निरस्यति ॥ १३.२३४॥
न तावदुत्तमं जन्म सर्वभावप्रयोजकम् ।
उत्तमस्यापि देवादेः सर्वत्वं ब्रह्मबोधतः ॥ १३.२३५॥
यो देवानां ऋषीणां वा मध्ये ब्रह्म व्यबुध्यत ।
असावसावेव सर्वमभून्नान्यस्तु कश्चन ॥ १३.२३६॥
मनुष्याणां तथा मध्ये ब्रह्मवित्सर्वभावभाक् ।
विद्याविद्ये एव तस्मात्सर्वत्वाल्पत्वकारणे ॥ १३.२३७॥
ब्रह्म वा इदमग्रेऽभूदिति विद्याधिकारिता ।
श्रूयते ब्रह्मणो ब्रह्म सर्वजातिषु तत्समम् ॥ १३.२३८॥
न पश्वादेः सर्वभावप्रसङ्गो बोधवर्जनात् ।
शूद्रजातिश्च विदुरः सति बोधे विमुच्यते ॥ १३.२३९॥
यागविद्येवात्मविद्या नानुष्ठानमपेक्षते ।
फलदान इति ज्ञेयं वामदेवनिदर्शनात् ॥ १३.२४०॥
ब्रह्मात्मत्वं वामदेवः पश्यन्मन्वादिरूपताम् ।
प्रतिपेदे ह्यनुष्ठानावसरस्तत्र को वद ॥ १३.२४१॥
न चितो वामदेवे वा मनौ वाऽन्येषु वा भिदा ।
तेन मन्वादिचिद्वामदेवेन प्रत्यपद्यत ॥ १३.२४२॥
यत्तु पुण्ययुगे सर्वभावो न तु कलावपि ।
तदसद्बोधसाध्यस्य पुण्यकालानपेक्षणात् ॥ १३.२४३॥
न सूर्यग्रहणापेक्षो बोधान्निद्राक्षयः क्वचित् ।
तथा न सर्वभावोऽयं कालभेदमपेक्षते ॥ १३.२४४॥
य एतर्ह्यपि वेदाऽहं ब्रह्मऽस्मीति (ब्रह्माऽस्मीति) तदैव सः ।
इदं सर्वं भवत्येव यदिदं जगदीक्ष्यते ॥ १३.२४५॥
अविचारितरम्यस्य नामरूपात्मकस्य यत् ।
जगतो वास्तवं रूपं सत्तत्त्वं ब्रह्म तद्भवेत् ॥ १३.२४६॥
नराणामधर्मणत्वात्सर्वभावं दिवौकसः ।
वारयन्ति हविर्भोक्तुं तैर्दत्तमिति चेन्न तत् ॥ १३.२४७॥
तस्य ज्ञातात्मतत्वस्य (ज्ञातात्मतावस्य) प्रध्वस्ततमसो यतेः ।
इन्द्रादयोऽपि नैवालं सर्वभावाप्तिवारणे ॥ १३.२४८॥
यद्यपीशा नृणां देवास्तथापि ब्रह्मवेदिनः ।
अनीशाः प्रत्युतैतेषामात्मा भवति तत्त्ववित् ॥ १३.२४९॥
इत्थमादेयविद्यायाः सूत्रवृत्ती उदाहृते ।
हेयाविद्या स्वकार्येण युक्ता सूत्रयति श्रुतिः ॥ १३.२५०॥
स्वस्मादन्यां देवतां य उपास्ते स्वं न वेद सः ।
इति सूत्रमविद्यायाः सकार्यायाः श्रुतीरितम् ॥ १३.२५१॥
अचिन्त्यशक्तिश्चिन्निष्ठा स्वाश्रयं मोहयेत्क्वचित् ।
अविद्या साऽबोधनात्स्यात् जीवत्वभ्रान्तिकारिणी ॥ १३.२५२॥
नाश्रयं मोहयेद्यासावीश्वरत्वस्य कल्पिका ।
वस्तुत्वभ्रान्तिरेवास्यां हेया सा त्ववतिष्ठते ॥ १३.२५३॥
सृष्टिप्रकरणे तत्र मायाकारः पुरोदितः ।
अव्याकृतगिरा तस्य कार्यं व्याकृतमीरितम् ॥ १३.२५४॥
कर्मप्रकरणे त्वस्मिन्नविद्याकार ईर्यते ।
स्वस्माद्भिन्ना देवतेति धीरविद्याविजृम्भिता ॥ १३.२५५॥
स्वस्यतत्त्वमविज्ञाय यागदानादिकर्मभिः ।
स्वतोऽन्या देवताः पाति ह्यनड्वान्वाणिजं यथा ॥ १३.२५६॥
अपि भूरिपशोः पुंस एकस्मिन्नपि तस्करैः ।
ह्रियमाणे पशौ दुःखं किमु सर्वापहारतः ॥ १३.२५७॥
सर्वस्वतुल्ये नृपशौ ब्रह्मधीपरिमोषिणा ।
ह्रियमाणे महद्दुःखं सर्वेषां च दिवौकसाम् ॥ १३.२५८॥
तस्मादेषां न प्रियं तद्यन्मनुष्या विजानते ।
ब्रह्मात्मत्वमतो देवाः प्रतिबध्नन्ति वेदनम् ॥ १३.२५९॥
स्पष्टीकृतं पारतन्त्र्यं पशुदृष्टान्ततो नृणाम् ।
वर्णाश्रमादि तद्धर्मसृष्टिः कर्मार्थमीरिता ॥ १३.२६०॥
नन्वेवं तस्य मुक्तिश्च स्यादेवात्मधियं विना ।
अज्ञानकर्मणोः श्रुत्या सादरेणोपवर्णनात् ॥ १३.२६१॥
मैवमात्मा किमज्ञातो मुक्तिदः कर्म वा महत् ।
आम्नायकृषिवन्नायमज्ञातात्मा फलप्रदः ॥ १३.२६२॥
अनधीतो यथा वेदो नार्थज्ञानेन पालयेत् ।
अकृता वा कृषिः पाति नाकर्तारं फलार्थिनम् ॥ १३.२६३॥
तथा स्वात्माप्यविज्ञातो मुमुक्षुं मोक्षदानतः ।
न पालयत्यतो मुक्तिरज्ञस्य न हि कस्यचित् ॥ १३.२६४॥
स्वात्माख्यलोकमज्ञात्वा यो देहाख्यस्वलोकतः ।
प्रैत्यसौ पुनरप्यन्यं देहलोकं व्रजेद्दृढम् ॥ १३.२६५॥
अनात्मविन्महत्पुण्यमश्वमेधादिकं यदि ।
कुर्यान्नित्यफलायैतदथाप्यन्ते विनश्यति ॥ १३.२६६॥
कृतस्य हि क्षयोऽवश्यं कोष्ठागारादिवद्भवेत् ।
न मोक्षायादरस्तस्मात्श्रुतावज्ञानकर्मणोः ॥ १३.२६७॥
किन्तु जीवन्मुक्तिकाले बोधहेयं विवेचितम् ।
मुक्तिस्तु विद्यासूत्रेण सूचिता स्याद्विचारतः ॥ १३.२६८॥
आत्मानमेव निद्वैतं स्वप्रभं प्रविचारयेत् ।
विचारयति यस्तस्य फलं न क्षीयते क्वचित् ॥ १३.२६९॥
कामी कामयते यद्यत्सुखं स्वर्गादिजं पुमान् ।
अस्मादेवात्मनस्तत्तत्सृजते कर्मपूजितात् ॥ १३.२७०॥
अविनाशोऽखिलानन्दहेतुत्वं चेत्यदो द्वयम् ।
न कर्मणां फले युक्तं युक्तं विद्याफले तु तत् ॥ १३.२७१॥
सिद्धस्य व्यञ्जिका विद्याव्यक्तात्मा फलमुच्यते ।
न ह्यात्मनो विनाशोऽस्ति नित्यं विद्याफलं ततः ॥ १३.२७२॥
सार्वभौमादिकाः प्रोक्ता उत्तरोत्तरवृद्धितः ।
हिरण्यगर्भपर्यन्ता आनन्दा आत्मबिन्दवः ॥ १३.२७३॥
ब्रह्मानन्दस्य भूतानि मात्रां यान्तीत्युदीरणात् ।
तत्तत्कर्मानुसारेण ब्रह्मानन्दः स्फुरेन्नृणाम् ॥ १३.२७४॥
तत्तद्विषयकामेन चित्तेऽस्मिन्व्याकुलीकृते ।
आनन्द आत्मभूतोऽपि स तिरोधीयते नृणाम् ॥ १३.२७५॥
पुण्येन विषये लब्धे चित्ते स्वास्थ्यमुपागते ।
आत्मानन्दः स्फुरेत्तावद्यावन्न व्याकुलान्तरम् ॥ १३.२७६॥
एवं च विषयानन्दा ब्रह्मानन्दस्य बिन्दवः ।
सर्वानन्दनिधिर्विद्याफलमित्येतदीरितम् ॥ १३.२७७॥
आनन्दबिन्द्वभिव्यक्तिहेतुकर्मप्रसिद्धये ।
ब्रह्मक्षत्रादिवर्णानां सृष्टिर्यत्नेन वर्णिता ॥ १३.२७८॥
वर्णाश्रमाभिमानी सन्नतत्त्वज्ञः पराङ्मतिः ।
देवादीनामाश्रयः स्यात्सर्वेषामापिपीलिकम् ॥ १३.२७९॥
देवानां यागहोमाभ्यामृषीणां वेदपाठतः ।
पितॄणां श्राद्धतो नॄणां वस्त्रान्नगृहदानतः ॥ १३.२८०॥
पशूनां तृणनीराभ्यामुच्छिष्टकणधान्यतः ।
श्वाखुटिट्टिभमुख्यानामेवं सर्वाश्रयो गृही ॥ १३.२८१॥
कर्मणा नार्जितो यस्मान्न कश्चिदुपकारकृत् ।
गृही देवादिभिस्तस्मादर्जितोऽभूत्स्वकर्मभिः ॥ १३.२८२॥
स्वस्वकर्मार्जितत्वेन देवाद्याः स्वस्वदेहवत् ।
अविनाशं सदेच्छन्ति गृहिणः स्वोपकारिणः ॥ १३.२८३॥
तत्त्वं बुध्वाननुष्ठानं नाशोऽयं गृहिणो महान् ।
एष देवादिभिः सर्वै न हि शक्यश्चिकित्सितुम् ॥ १३.२८४॥
कर्मणामननुष्ठानं मृतिरोगादिना तु यत् ।
नासावात्यन्तिको नाशो यस्मात्पश्चात्करिष्यति ॥ १३.२८५॥
मा भूत्सर्वस्वहानिर्नो ब्रह्मयाथात्म्यविद्यया ।
इति देवादयो विद्यां प्रतिबध्नन्ति यत्नतः ॥ १३.२८६॥
नन्वनर्थकरे केन गृहीत्वेवं (गृहीत्वायं) प्रवर्तितः ।
पारतन्त्र्यम् ऋते (पारतन्त्र्येऽमृते) नैव धीमानत्र प्रवर्तते ॥ १३.२८७॥
देवादिपारतन्त्र्यं तु गृहिणामधिकारिणाम् ।
मिथ्याधीमात्रहेतुत्वात्नाप्यविद्या प्रवर्तिका ॥ १३.२८८॥
तर्हि प्रवर्तकं ब्रूमः काम एव प्रवर्तकः ।
काम एष क्रोध एष इत्यादिस्मृतिवाक्यतः ॥ १३.२८९॥
अकामतः क्रिया काचिद्दृश्यते नेह कस्यचित् ।
यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम् ॥ १३.२९०॥
तस्मात्कामयते पूर्वं ब्रह्मचारी चतुष्टयम् ।
जाया मे स्यादथापत्यमथ वित्तमथ क्रिया ॥ १३.२९१॥
एतावानेव संसारे कामो नातोऽधिकः क्वचित् ।
लोकान्तरं कर्मफलं कर्मोक्त्यैवेरितं भवेत् ॥ १३.२९२॥
असम्भवे तु जायादेर्मनोवागादिषु क्रमात् ।
आत्मा जायादि सङ्कल्प्य ध्यायेज्जायादिसिद्धये ॥ १३.२९३॥
एवं कामप्रेरितः सन्याति कर्माधिकारिताम् ।
अवरुद्धन्ति गृहिणं देवाद्या अधिकारिणम् ॥ १३.२९४॥
इत्यविद्यासूत्र उक्तोऽनर्थो यत्नेन विस्तृतः ।
अयं निवर्त्यो विदुषा जीवतेति श्रुतेर्मतिः ॥ १३.२९५॥
कर्मोपास्तिफलं कण्वः प्राहात्मब्राह्मणे तथा ।
अव्याकृतं व्याकृतं च विद्याविद्ये ह्यतिस्फुटम् ॥ १३.२९६॥
अथाध्याये चतुर्थे च कण्वः पञ्चमषष्ठयोः ।
उपाख्यानानि बहुधा वक्ष्यत्यात्मावबुद्धये ॥ १३.२९७॥
अजातशत्रुर्मैत्रेयो दध्यङिङत्युक्तनामभिः ।
आख्यानान्यङ्कितानि स्युश्चतुर्थाध्यायगानि हि ॥ १३.२९८॥
आश्वलश्चार्तभागश्च भुज्यूषस्तकहोलकाः ।
गार्ग्युद्दालकशाकल्याः पञ्चमाध्यायगा इमे ॥ १३.२९९॥
आख्यानान्येतदीयानि स्युः षष्ठाध्याय ईरितम् ।
जनकस्य ह्युपाख्यानं सङ्ग्रहाद्विस्तरादपि ॥ १३.३००॥
उपाख्यानेषु सर्वेषु प्रत्येकं ब्रह्म वर्णितम् ।
श्रुतैरेतैरुपाख्यानैर्ब्रह्मविद्या दृढा भवेत् ॥ १३.३०१॥
यामात्मब्राह्मणे विद्यां कण्वः प्रोवाच सा स्फुटम् ।
व्याख्याता प्रीयतां तेन विद्यातीर्थमहेश्वरः ॥ १३.३०२॥
इति श्रीमद्विद्यारण्यमुनिविरचिते अनुभूतिप्रकाशे
बृहदारण्यके काण्वविद्याप्रकाशो नाम त्रयोदशोऽध्यायः ॥ १३॥
१४. अजातशत्रुविद्याप्रकाशो नाम चतुर्दशोऽध्यायः ।
अजातशत्रुरध्याये चतुर्थे ब्राह्मणैस्त्रिभिः ।
विद्यां बालाकये प्राह तां विस्पष्टमितो ब्रुवे ॥ १४.१॥
अजातशत्रुर्ब्रह्मात्मवेदनाच्छौर्यतोऽपि च ।
अन्तर्बहिश्च निःशत्रुः काश्यां राजा बभूव सः ॥ १४.२॥
गर्गगोत्रजविप्रोऽयं बालाकिर्नैव तत्त्ववित् ।
किन्तुप्राणोपासकोऽयं दर्पेण महता वृतः ॥ १४.३॥
अध्यात्मम् अधिदैवं च ब्रह्म स्यात्प्राणदेवता ।
समष्टिव्यष्टिरूपाऽसाविति गार्ग्यस्य निश्चयः ॥ १४.४॥
रव्याद्या व्यष्टयः प्रोक्ताः समष्टिस्तु विराड्भवेत् ।
न मुख्यब्रह्मतैतेषामिति राज्ञो विनिर्णयः ॥ १४.५॥
तस्मादुपासको गार्ग्यो न मुख्यं ब्रह्म वेत्त्यतः ।
अन्वयव्यतिरेकाभ्यां बोधयामास तं नृपः ॥ १४.६॥
स्याद्विज्ञानमयो भोक्ता न प्राण इति जागरे ।
विवेको दुःशको यस्मादन्न द्वावपि सुस्थितौ ॥ १४.७॥
यो विज्ञानमयः सुप्तावसावुपरतिं गतः ।
वर्तते पूर्ववत्प्राणो विवेकः सुशकस्तदा ॥ १४.८॥
तस्मात्सुषुप्तं पुरुषमामन्त्र्य प्राणनामभिः ।
अप्रबोधादभोक्तृत्वं प्राणस्याऽस्पष्टयत्नृपः ॥ १४.९॥
यदि भोक्ता भवेत्प्राणो जाग्रद्वच्छब्दम् आगतम् ।
अश्रोष्यन्नाऽशृणोत्तस्मान्न स्याद्भोक्तोपलादिवत् ॥ १४.१०॥
श्रोत्रादीनाम् उपाधीनां सुप्तावुपरतत्वतः ।
यथा जीवो न वेत्त्येवं प्राणोऽपीत्यसदुच्यते ॥ १४.११॥
नेन्द्रियाणां भवेत्स्वापो यदि प्राणप्रधानता ।
नामात्याः शेरते यस्माद्राज्ञि स्वामिनि जाग्रति ॥ १४.१२॥
देवताप्रतिषेधार्थं बोध्यते चन्द्रनामभिः ।
तदबोधादभोक्तृत्वं देवतायाः सुनिश्चितम् ॥ १४.१३॥
प्राणस्याभोक्तृतां गार्ग्यो व्यबुध्यत ततो नृपः ।
विज्ञानमयबोधाय चक्रे यत्नमुपायतः ॥ १४.१४॥
आपिष्यापिष्य बहुशः सुप्तं राजा व्यबोधयत् ।
आपेषणोत्थसंक्षोभात्ततोऽसौ प्रत्यबुध्यत ॥ १४.१५॥
मृतकल्पमिमं देहं स्वचिताऽऽवेशयन्निव ।
ज्वलन्निव समुत्तस्थौ यः स भोक्तेति गम्यताम् ॥ १४.१६॥
विज्ञानमन्तःकरणं तस्मिन्नात्मोपलभ्यते ।
राहुश्चन्द्रे यथा तद्वद्विज्ञानमयता ततः ॥ १४.१७॥
स्वाभासवदविद्योत्थबुद्ध्यादिव्याप्तिविभ्रमात् ।
तदात्मत्वाभिमानी सन्नहमित्युपलभ्यते ॥ १४.१८॥
यद्वोपलब्धिमात्रोऽपि विज्ञानाध्यस्तकर्तृताम् ।
प्राप्योपलब्धा स्यात्तेन विज्ञानमय उच्यते ॥ १४.१९॥
स्फटिको रक्ततां प्राप्य जपाकुसुमकल्पिताम् ।
पद्मरागायते तद्वदुपलब्धृत्वम् आत्मनः ॥ १४.२०॥
यद्वोपलभ्यो देहादेर्विज्ञानेन विवेचितः ।
स्याद्विज्ञानमयस्तेन पुरुषः परिपूरणात् ॥ १४.२१॥
अशेषान् कल्पितानेष विज्ञानादीननात्मनः ।
आत्मा पूरयति प्रत्यक्सर्पादीन्रशना यथा ॥ १४.२२॥
यो विज्ञानमयस्तस्य द्वैतधीः स्वप्नजाग्रतोः ।
अस्ति सुप्तौ तु सा नास्ति स्वभावोऽस्यात्र को भवेत् ॥ १४.२३॥
तस्य स्वभावं निर्णेतुं सुप्तौ क्वाभूदयं पुनः ।
कुत आगादिमं देहमित्येतदिह चिन्त्यते ॥ १४.२४॥
बुद्धावक्षेषु चात्माऽयं चिद्रूपः प्रतिबिम्बति ।
तादृग्बुद्धीन्द्रियोपाधिर्जागर्त्यात्मेति भण्यते ॥ १४.२५॥
कर्मक्षये बुद्धिरक्षैः सहाऽज्ञाने विलीयते ।
चैतन्यप्रतिबिम्बाश्च लीयन्ते स्वाश्रयाननु ॥ १४.२६॥
तदेन्द्रियाणां विज्ञानं धीविज्ञानेन संयुतम् ।
विज्ञानमय आदत्ते इति श्रुत्योपवर्ण्यते ॥ १४.२७॥
धीविज्ञानोपसंहारे विज्ञानमयताक्षतौ ।
निर्विकारात्मचैतन्यं केवलं परिशिष्यते ॥ १४.२८॥
एतदेव विवक्षित्वा प्रतिपादयति श्रुतिः ।
य एषोऽन्तर्हृदाकाशस्तस्मिन् शेते इतीदृशी ॥ १४.२९॥
बुद्धिर्हृदयशब्देन हृन्निष्ठत्वाद्विवक्ष्यते ।
आ समन्तात्काशतेऽयमित्याकाशोऽत्र चिद्वपुः ॥ १४.३०॥
बुद्धेरन्तः प्रतीचोऽन्यो नार्थः सम्भाव्यते यतः ।
तस्मादाकाशशब्देन प्रत्यगात्मेह गृह्यते ॥ १४.३१॥
प्राणादीनां यतो जन्म वक्ष्यते प्रत्यगात्मनः ।
तस्मादाकाशशब्देन ब्रह्मैवात्राभिधीयते ॥ १४.३२॥
अधिष्ठानत्वमन्तस्त्वमपरिच्छिन्नवस्तुनः ।
अन्तर्बहिर्विभागोऽयं न मुख्य उपपद्यते ॥ १४.३३॥
पराक् प्रमेयभूमिभ्यो मनसि व्युत्थिते सति ।
अनन्यबोधप्रात्यक्ष्याद्य एष इह भण्यते ॥ १४.३४॥
स्वतोऽवगमरूपेऽस्मिन् कूटस्थे निर्द्वयात्मनि ।
कार्त्स्न्येनावस्थितिर्भोक्तुःशेत इत्यभिधीयते ॥ १४.३५॥
घटभङ्गे घटाकाशो महाकाशान्न भिद्यते ।
विज्ञानलोपे विज्ञानमयस्यैवं परात्मता ॥ १४.३६॥
देहाद्यध्यक्षतां हित्वा सुप्तौ स्वात्मनि वर्तते ।
इत्येतत्साध्यते श्रुत्या समाख्यायाश्च युक्तितः ॥ १४.३७॥
सुप्तस्य स्वपितीत्येषा समाख्या सर्वसम्मता ।
निरुक्तिमाहुश्छन्दोगाः स्वमपीत इतीदृशीम् ॥ १४.३८॥
अतः समाख्यया सुप्तौ स्वाभाविक्यात्मनि स्थितिः ।
युक्तिश्चोपाधिसंहारः संसारित्वनिवृत्तये ॥ १४.३९॥
वागाद्युपाधिसम्बन्धात्संसारित्वमिवेक्ष्यते ।
ते तूपसंहृताः सर्वे ततोऽसंसारितात्मनः ॥ १४.४०॥
सर्वेन्द्रियवियोगेऽपि सुखिदुःखित्वमात्मनः ।
स्वप्ने दृष्टमतः सङ्ग आत्मनस्तात्त्विको भवेत् ॥ १४.४१॥
मैवं मृषात्वात्स्वप्नस्य मनोमात्रविजृम्भणात् ।
बाह्येन्द्रियविलोपेऽपि न मनो लुप्यते तदा ॥ १४.४२॥
महाराजादयस्तस्य स्वप्नानुभवगोचराः ।
न वास्तवा इति ज्ञेयाः शयानेभ्यः पृथक्त्वतः ॥ १४.४३॥
दृश्यं मिथ्यास्तु तद्द्रष्टुर्द्रष्टृता वास्तवी ततः ।
दृश्यं साऽपेक्षतेऽत्येषा शङ्कात्र विनिवार्यते ॥ १४.४४॥
न किञ्चन यदा वेद तदा सुप्त इतीरणात् ।
आत्मनो ज्ञानकर्तृत्वं सुप्तौ नास्तीति गम्यते ॥ १४.४५॥
सुप्तौ केन क्रमेणायमुपाधिः प्रविलीयते ।
तत्क्रमयावबोधाय हृदयादि विविच्यते ॥ १४.४६॥
आनाभितस्तथा कण्ठाद्धृदयं मध्यतः स्थितम् ।
सनालं पद्मकोशाभं पञ्चच्छिद्रमधोमुखम् ॥ १४.४७॥
कदम्बकुसुमोद्भूतकेसरा इव सर्वतः ।
प्रसृता हृदयान्नाड्यो बह्वन्नरसपूरिताः ॥ १४.४८॥
निर्गत्य हृदयाद्बुद्धिस्तासु स्वप्नं प्रपश्यति ।
ताभिर्देहाद्बहिर्गत्वा जागर्तीत्यभिधीयते ॥ १४.४९॥
पुनः प्रत्यवसृत्यैषा पुरीतद्वेष्टिते हृदि ।
प्रविश्य लीयते देहं व्याप्य सामान्यवृत्तितः ॥ १४.५०॥
सर्वसंसारदुःखानामत्यन्तोपरमात्तदा ।
आनन्दस्य परा निष्ठा दृष्टान्तैः सोपमीयते ॥ १४.५१॥
इन्द्रियस्याप्ररूढत्वात्स्वेष्टप्राप्तेर्विवेकतः ।
नीरागाणां बालराजब्राह्मणानां क्रमात्सुखम् ॥ १४.५२॥
दुःखं रागद्वेषजन्यं तदभावे सुखं स्वतः ।
इति व्याप्तिगृहीत्यर्थं बहुदृष्टान्तवर्णनम् ॥ १४.५३॥
अद्वयानन्दरूपत्वमित्थं सुप्तौ प्रदर्शितम् ।
एतावता स्वभावोऽस्य निर्णीतः प्रत्यगात्मनः ॥ १४.५४॥
क्वाभूदेष इति प्रश्नं निर्णीय कुत आगतः ।
इति प्रश्नं विनिर्णेतुमूर्णनाभ्यादिका श्रुतिः ॥ १४.५५॥
यः सुप्तौ निश्चितः स्वात्मा तस्य ब्रह्मत्वसिद्धये ।
जगत्सृष्टिर्वर्ण्यतेऽस्मात्सृष्टौ दृष्टान्त उच्यते ॥ १४.५६॥
अचेतनो यथातन्तुरूर्णनाभेः सचेतनात् ।
जातश्चिदात्मनस्तद्वत्प्राणलोकाद्यचेतनम् ॥ १४.५७॥
विस्फुलिङ्गा यथा चाग्नेर्जायतेऽग्निस्वभावतः ।
तथा सुप्तात्मनो जीवा विज्ञानमयनामकाः ॥ १४.५८॥
स्वरूपतो जन्मतश्च प्राणादिभ्रान्तिकल्पितः ।
जीवस्य कल्पितं जन्म स्वरूपं तु न कल्पितम् ॥ १४.५९॥
उद्भूतिस्थितिनाशाः स्युर्जगतोऽस्य प्रतिक्षणम् ।
अविद्यामात्रहेतुत्वान्नामीषां विद्यते क्रमः ॥ १४.६०॥
यस्मादविद्ययैवात्मा प्राणक्षेत्रज्ञरूपभाक् ।
स्वतोऽतः स परं ब्रह्म तस्योपनिषदुच्यते ॥ १४.६१॥
यद्गुह्यं ब्रह्मणो नाम बोधायोपासनाय वा ।
तत्स्यादुपनिषच्छब्दवाच्यं तच्चात्र बुद्ध्यते ॥ १४.६२॥
सत्यस्य सत्यमित्येतन्नामब्रह्माऽवबोधकम् ।
प्राणा आपाततः सत्याः सत्यं ब्रह्मैव वस्तुतः ॥ १४.६३॥
असत्यो देह उदित एकजन्मन्युपक्षयात् ।
सत्याः प्राणा लिङ्गरूपा आमोक्षमनपक्षयात् ॥ १४.६४॥
मोक्षेऽप्यक्षीण आत्मा तु सत्यसत्य उदाहृतः ।
सत्यस्य सत्यं प्रोवाच ब्रह्म बालकये नृपः ॥ १४.६५॥
प्राणा वै सत्यमित्युक्तं यत्सत्यं व्यावहारिकम् ।
बालाक्यभिमतं तत्तु द्वितीयब्राह्मणे स्फुटम् ॥ १४.६६॥
शिशुवद्विषयासङ्गरहितः प्राण इष्यते ।
वागादीनामिव यतो विषयोऽस्य न दृश्यते ॥ १४.६७॥
शरीरमस्याधानं स्याद्देहमापादमस्तकम् ।
सामान्यवृत्त्या संव्याप्य चेष्टयत्यनिशं यतः ॥ १४.६८॥
प्रत्याधानं शिरो ज्ञेयं प्रतिच्छिद्रं व्यवस्थितः ।
प्रसारयति नेत्रादीन् प्राणो मूर्ध्नि व्यवस्थितः ॥ १४.६९॥
प्राणस्य बन्धनस्तम्भः शरीरबलमिष्यते ।
दौर्बल्ये सति देहस्य प्राणोत्क्रान्तिर्हि दृश्यते ॥ १४.७०॥
बन्धनायास्य दामान्नं वत्सबन्धनरज्जुवत् ।
अन्ने त्रिधा विभक्तेऽस्मिन् भागाभ्यां बध्यते स्वयम् ॥ १४.७१॥
स्थूलो भागः पुरीषं स्यान्मध्यमो देहपोषकः ।
प्राणं तर्पयते सूक्ष्म इति बद्धं वपुर्द्वयम् ॥ १४.७२॥
एवं विवेचितं प्राणं य उपास्ते रुणद्धि सः ।
भ्रातृव्यान्द्विषतः सप्त मूर्ध्नि छिद्रव्यवस्थितान् ॥ १४.७३॥
भ्रातृव्याः स्युः सहोत्पत्तेः शब्दाद्याः सङ्गवृत्तयः ।
द्विषन्ति च मुमुक्षुं ताः प्रत्यग्दृष्ट्यापहारतः ॥ १४.७४॥
सेवतेऽक्षिस्थितं प्राणं सप्त रुद्रादिदेवताः ।
अक्षीणा इत्युपास्ते यः सोऽन्नमक्षयमश्नुते ॥ १४.७५॥
कर्णादिसप्तच्छिद्रेषु गौतमाद्यृषिनामकाः ।
स्थिताः प्राणा इति ध्यायेद्वाचं च ब्रह्मवादिनीम् ॥ १४.७६॥
हिरण्यगर्भरूपेण सर्वभुक् स्यादुपासकः ।
इति गार्ग्यमतं ब्रह्म ब्राह्मणेऽस्मिन् प्रपञ्चितम् ॥ १४.७७॥
गार्ग्योक्तं ब्रह्म विस्तृत्य तन्निरासाय साम्प्रतम् ।
तृतीयब्राह्मणे प्राह राज्ञोक्तं ब्रह्म विस्तृतम् ॥ १४.७८॥
प्रथमब्राह्मणे राजा ब्रह्म यद्यप्यशेषतः ।
उवाचाथापि सत्यस्य सत्यता नैव विस्तृता ॥ १४.७९॥
सत्यसत्यत्वविस्तारमुखेन प्रतिपाद्यते ।
निष्प्रपञ्चब्रह्मतत्त्वं तृतीयब्राह्मणे स्फुटम् ॥ १४.८०॥
द्वे एव ब्रह्मणो रूपे प्रपञ्चत्वमुपागते ।
मूर्तामूर्तात्मके याभ्यामरूपं ब्रह्म रूप्यते ॥ १४.८१॥
मूर्तामूर्त प्रपञ्चश्च वासना चेति वा द्वयम् ।
सवासनमिदं रूपमनिदं चेति वा द्वयम् ॥ १४.८२॥
सन्निवेशो नेत्रदृशो यस्य तन्मूर्तमुच्यते ।
क्षित्यम्ब्वग्नित्रयं मूर्तममूर्तमितरद्द्वयम् ॥ १४.८३॥
मूर्तं मर्त्यं शीघ्रनाशात्परिच्छेदात्स्थितं तथा ।
प्रत्यक्षत्वात्सदित्युक्तममूर्ते तु विपर्ययः ॥ १४.८४॥
तन्नश्यति विलम्बेनेत्यमृतं व्याप्तिमत्वतः ।
यत्परोक्षमतस्त्यत्स्यान्मूर्तामूर्तात्मकं जगत् ॥ १४.८५॥
अध्यात्ममधिदैवं च द्विधा सत्यं व्यवस्थितम् ।
प्रसिद्धमुभयत्रापि स्थूलसूक्ष्मवपुर्द्वयम् ॥ १४.८६॥
स्थूलसारतया ज्ञेये चक्षुरादित्यमण्डले ।
मूर्तमर्त्यपरिच्छिन्नप्रत्यक्षत्वविशेषिते ॥ १४.८७॥
अमूर्तामृतसंव्याप्तपरोक्षत्वैस्तु संयुतम् ।
उभयत्र स्थितं लिङ्गममूर्तरस उच्यते ॥ १४.८८॥
सारासारयुते रूपे मूर्तामूर्ते उदीरिते ।
अरूपं ब्रह्मरूपाभ्यां व्यवहारे निरूप्यते ॥ १४.८९॥
मूर्तामूर्ते ब्रह्मरूपे इति पक्षो निरूपितः ।
प्रपञ्चतद्वासने द्वे रूपे इत्येष वर्ण्यते ॥ १४.९०॥
प्रपञ्चो नाम पूर्वोक्तं मूर्तामूर्तद्वयं भवेत् ।
सद्वासना विचित्राः स्युरनन्ता लिङ्गमाश्रिताः ॥ १४.९१॥
अनेकवासनाचित्रं तल्लिङ्गं पटभित्तिवत् ।
मायेन्द्रजालसदृशं व्यामोहास्पदमात्मनः ॥ १४.९२॥
एतावन्मात्र आत्मेति तत्र भ्रान्ता निरागमाः ।
बौद्धकाणादसाङ्ख्याद्यास्तर्कमात्रोपजीविनः ॥ १४.९३॥
एकैकां वासनां तत्र प्रतिक्षणविनश्वरीम् ।
आहुः क्षणिकमात्मानं बौद्धा विज्ञानवादिनः ॥ १४.९४॥
आत्मनो द्रव्यभूतस्य गुणा बुद्ध्यादयो नव ।
वासनात्वेन वेदोक्ता इति वैशेषिकादयः ॥ १४.९५॥
त्रिगुणं यत्प्रधानं तत्पुरुषार्थेन हेतुना ।
प्रवर्तते वासनात्वकॢप्तिस्तत्रेति कापिलाः ॥ १४.९६॥
अनन्तकल्पोपचिता अनन्ता एव वासनाः ।
उदाहरणमात्रं तु दृष्टान्तैरिह वर्ण्यते ॥ १४.९७॥
हारिद्रं वसनं यद्वत्संसर्गात्पीततां व्रजेत् ।
तद्वन्नार्यादिसंसर्गाल्लिङ्गं रागादिमद्भवेत् ॥ १४.९८॥
ईषत्पाण्डुश्च परुषः स्यात्स्वतः श्वेतकम्बलः ।
तथेषच्छ्रद्धया युक्तं स्वतो रोषादिभागपि ॥ १४.९९॥
इन्द्रगोपोऽतिरक्तः स्यात्स्वत एव तथा मनः ।
विविक्तदेशस्थस्यापि विषयप्रवणं क्वचित् ॥ १४.१००॥
अग्नेरर्चिर्यथा भास्वद्दहत्यपि तथा क्वचित् ।
वेदशास्त्रविदप्यन्यान् बाधेतेर्ष्याद्युपद्रवैः ॥ १४.१०१॥
सिताम्भोजं यथा सौम्यं सुगन्धि मृदु च स्वतः ।
जन्मनैव तथा चित्तं युक्तं शमदमादिभिः ॥ १४.१०२॥
तीव्रविद्युद्यथात्यन्तं घनध्वान्तापनोदकृत् ।
तथा हिरण्यगर्भस्य सर्वज्ञा वासना भवेत् ॥ १४.१०३॥
तामुपासीन आप्नोति श्रियमत्यन्तमूर्जिताम् ।
रजःसत्त्वतमोयोगाद्वासनानां विचित्रता ॥ १४.१०४॥
प्रपञ्चवासने ब्रह्मरूपे इत्येतदीरितम् ।
तथेदमनिदंरूपे इति पक्षोऽधुनोच्यते ॥ १४.१०५॥
सवासनं जगत्सर्वं तत्रेदं रूपमीरितम् ।
सच्च त्यच्चेति सत्यं तत्प्रोच्यते पाञ्चभौतिकम् ॥ १४.१०६॥
सत्यस्य सत्यमनिदं वक्तव्यं शिष्यते ततः ।
आदेशोऽनन्तरं तस्य क्रियतेऽनन्यमानिनः ॥ १४.१०७॥
आदेशो नेति नेतीति ब्रह्मतत्त्वावबोधकः ।
यथायमुपपद्येत तथा सम्यङ्निरूप्यते ॥ १४.१०८॥
इतिशब्देन चिद्भास्यमनूद्य प्रतिषिध्यते ।
नकारेण द्विरुक्तिस्तु वीप्सा कृत्स्ननिषिद्धये ॥ १४.१०९॥
मूर्तं वा यदि वामूर्तमज्ञानं वासनाथवा ।
अध्यात्ममधिदैवं वा तत्सर्वं प्रतिषिध्यते ॥ १४.११०॥
अथवात्रेति शब्दौ द्वौ जीवेशोपाधिवाचिनौ ।
नकाराभ्यामुपाधी द्वौ निषिध्य ब्रह्म लक्ष्यते ॥ १४.१११॥
यथा मात्रादिसत्तेयं प्रत्यक् संवित्ससाक्षिका ।
प्रमात्रादेरभावोऽपि तथाऽतस्तेन लक्ष्यते ॥ १४.११२॥
अतिरोहितसंवित्को दृष्टिमात्रात्मकत्वतः ।
विनैव वाचकं शब्दं बोध्यो लक्षणयाऽप्यतः ॥ १४.११३॥
अनन्यानुभवेनैव भावाभावात्मभूमिषु ।
प्रत्यक्कूटस्थमात्मानं पश्यन्नास्ते फलात्मनः ॥ १४.११४॥
अतो मात्रादिसम्भेदो यत्र यत्र निवर्तते ।
तत्र तत्रैककः प्रत्यक् स्वमहिम्नैव सिद्ध्यति ॥ १४.११५॥
एतद्वस्तु स्वतः सिद्धं प्रमात्राद्यनपेक्षतः ।
सर्वस्यैव ततः सिद्धे कथं सिद्ध्येत्तदन्यतः ॥ १४.११६॥
तदित्थं नेति नेतीति वाक्यं ब्रह्मात्मबोधकम् ।
जीवेशोपाधिनिह्नुत्या लक्ष्याखण्डावसानतः ॥ १४.११७॥
इत्येवमनिदं रूपं ब्रह्मणः प्रतिपादितम् ।
निर्नाम्नस्तस्य नामैतत्सत्यसत्यमिति श्रुतम् ॥ १४.११८॥
सच्च त्यच्चेति सत्याख्याः प्राणास्ते ब्रह्मणात्मना ।
आत्मवन्तस्ततो ब्रह्म सत्यसत्यमितीरितम् ॥ १४.११९॥
अजातशत्रुर्यां विद्यां ब्राह्मणैस्त्रिभिरुक्तवान् ।
तद्व्याख्यानेन सन्तुष्याद्विद्यातीर्थमहेश्वरः ॥ १४.१२०॥
इति श्रीमद्विद्यारण्यमुनिविरचिते अनुभूतिप्रकाशे
अजातशत्रुविद्याप्रकाशो नाम चतुर्दशोऽध्यायः ॥ १४॥
१५. बृहदारण्योपनिषदि मैत्रेयीविद्याप्रकाशो नाम पञ्चदशोऽध्यायः ।
मैत्रेय्यै याज्ञवल्क्यो यां चतुर्थब्राह्मणेऽब्रवीत् ।
ससाधनां ब्रह्मविद्यां विस्पष्टं व्याकरोति ताम् ॥ १५.१॥
वित्तस्य कर्महेतुत्वात्तत्त्यागो ज्ञानसाधनम् ।
इति दर्शयितुं प्राह श्रुतिराख्यायिकां शुभाम् ॥ १५.२॥
एषणात्रयसंन्यासो वित्तत्यागेन लक्ष्यते ।
ज्ञानस्य हेतुः संन्यास इति शास्त्रेषु डिण्डिमः ॥ १५.३॥
द्विविधः कर्मसंन्यासः फलसाधनभेदतः ।
फलाय ज्ञानिनस्त्यागो जिज्ञासोर्ज्ञानसिद्धये ॥ १५.४॥
ज्ञानित्वाद्याज्ञवल्क्योऽयं जीवन्मुक्तिफलेच्छया ।
चित्तविक्षेपबाहुल्यं गार्हस्थ्यं त्यक्तुमिच्छति ॥ १५.५॥
निदिध्यासस्वेति शब्दात्सर्वत्यागफलं जगौ ।
न ह्यन्यचिन्तामत्यक्त्वा निदिध्यासितुमर्हति ॥ १५.६॥
निरन्तरं विचारो यः श्रुतार्थस्य गुरोर्मुखात् ।
तन्निदिध्यासनं प्रोक्तं तच्चैकाग्र्येण लभ्यते ॥ १५.७॥
अनात्मन्यरुचिश्चित्ते रुचिश्चात्मनि चेद्भवेत् ।
पुण्यपुञ्जेन शुद्धं तच्चित्तमैकाग्र्यमर्हति ॥ १५.८॥
शुध्यङ्कुरितमैकाग्र्यं विवेकेनाभिवर्धयेत् ।
प्रियाप्रियविवेकोऽतो मैत्रेय्या उपदिश्यते ॥ १५.९॥
पतिजायादि भोगेषु (भोज्येषु) भोक्तर्यात्मनि चेक्ष्यते ।
प्रीतिस्तत्र क्व मुख्येयं कुत्रामुख्येति चिन्त्यताम् ॥ १५.१०॥
सदा भूयासमेवाहं मा न भूवं कदाचन ।
इत्यनोपाधिकी प्रीतिः प्राणिनामात्मनीक्ष्यते ॥ १५.११॥
स्वसम्बन्धोपाधिनैव भोग्ये प्रीतिर्न तु स्वतः ।
अन्यथा वैरिभोग्येऽपि भोग्यत्वात्प्रीतिरापतेत् ॥ १५.१२॥
अविचारेण पुत्रादौ या प्रीतिस्तां विचारतः ।
आत्मन्येवोपसंहृत्य चित्तैकाग्र्यं विवर्धयेत् ॥ १५.१३॥
ऐकाग्र्यमचलं कृत्वा निदिध्यासनकारणम् ।
आत्मा द्रष्टव्य इत्येतत्सूत्रं व्याख्यातुमाददे ॥ १५.१४॥
आहात्मशब्दः प्रत्यञ्चं तथा लोकेऽनुभूतितः ।
अनेनाऽत्राऽऽत्मशब्देन प्रमेयं निर्दिदिक्षितम् ॥ १५.१५॥
द्रष्टव्य इति निर्दिष्टा प्रमितिर्दृशिधातुना ।
अज्ञातज्ञापनं तव्यप्रत्ययेनाऽभिधीयते ॥ १५.१६॥
अज्ञात आत्मा वेदान्तजन्यज्ञानेन मीयते ।
इत्येष एव वाक्यार्थो नाऽप्रवृत्तप्रवर्तनम् ॥ १५.१७॥
नन्वहम्प्रत्ययेनात्मा वेदान्तश्रवणात्पुरा ।
विज्ञात इति चेन्मैवं सार्वात्म्याऽनवबोधनात् ॥ १५.१८॥
लिङ्गदेहपरिच्छिन्नरूपग्राहिण्यहम्मतिः ।
सार्वात्म्यमात्मनस्तत्त्वं तदज्ञातमहन्धिया ॥ १५.१९॥
सर्वासूपनिषत्स्वेतत्सार्वात्म्यं प्रतिपद्यते ।
कार्यज्ञेयसमाप्तिः स्यात्सार्वात्म्यस्याऽवबोधतः ॥ १५.२०॥
आत्मा द्रष्टव्य इत्युक्त्या तत्त्वधीरुपदर्शिता ।
श्रोतव्य इत्यादिना तु विचार उपदर्श्यते ॥ १५.२१॥
श्रुत्यर्थाविष्कृतेर्हेतुः शब्दशक्तिविवेककृत् ।
श्रुतिलिङ्गादिको न्यायः प्रोक्तः श्रोतव्य इत्यतः ॥ १५.२२॥
अर्थाऽसम्भावनोच्छेदी तर्को मननमीरितम् ।
वेदशास्त्राऽविरोध्यत्र तर्को ग्राह्यो न चेतरः ॥ १५.२३॥
अपरायत्तबोधोऽत्र निदिध्यासनमुच्यते ।
ध्यानाशङ्कानिवृत्त्यर्थं विज्ञानेनेत्युदीरणात् ॥ १५.२४॥
द्रष्टव्य इति विज्ञानमुद्दिश्य श्रवणं तथा ।
मननं च विधायाऽथ विज्ञानमवधिं जगौ ॥ १५.२५॥
नन्वनात्मा न विज्ञात आत्मदर्शनमात्रतः ।
ततोऽकृत्स्नत्वदोषश्चेन्मैवं सर्वस्य वेदनात् ॥ १५.२६॥
आत्मनो दर्शनेनेदं दृष्टं स्यादखिलं जगत् ।
प्रत्यङ्मात्रैकयाथात्म्यात्कार्यकारणवस्तुनः ॥ १५.२७॥
कार्यात्मा कारणात्मा च द्वावात्मानौ परात्मनः ।
प्रत्यग्याथात्म्यमोहोत्थौ मोहे नष्टे विनश्यतः ॥ १५.२८॥
मोहतत्कार्ययोर्बाधे प्रत्यक् सर्वमितीर्यते ।
अतः प्रतीचि विज्ञाते सुलभं सर्ववेदनम् ॥ १५.२९॥
तत्रैवं सति यो मूढः समस्तव्यस्तरूपताम् ।
ज्ञातव्यां मनुते तां तु वेद एव निषेधति ॥ १५.३०॥
यो विप्रजातिश्चैतन्यादन्यद्वस्त्विति मन्यते ।
कैवल्यात्तं पराकुर्यात्विप्रजातिः पराङ्मुखम् ॥ १५.३१॥
ब्राह्मणोऽहमिति भ्रान्त्या बृहस्पतिसवादिषु ।
प्रवृत्तो लभते जन्मेत्येषैवास्य पराक्रिया ॥ १५.३२॥
विप्रत्ववत्क्षत्रलोकदेवभूतादिकं जगत् ।
स्वस्माद्भेदेन पश्यन्तं क्लेशयेदपराधिनम् ॥ १५.३३॥
यदस्ति तन्न जानाति यन्नेहास्ति तदीक्षते ।
इत्येवमपराधोऽस्य विद्यते भेददर्शिनः ॥ १५.३४॥
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥ १५.३५॥
अपोदितत्वाज्जात्यादिदर्शनस्येह किं पुनः ।
द्रष्टव्यमित्यतो वक्ति सर्वाखण्डत्वदर्शनम् ॥ १५.३६॥
प्रत्यक्त्वेन य आभाति प्रत्यग्बुद्धिप्रमाणकः ।
तावन्मात्रैकयाथात्म्यमुक्तजात्यादि दृश्यताम् ॥ १५.३७॥
एवं श्रोतव्य आत्मायं समाप्तः श्रवणे विधिः ।
कथं मन्तव्य इत्यत्र दुन्दुभ्यादि निदर्शनम् ॥ १५.३८॥
स्थितौ जनौ लयेऽप्येतज्जगदात्मातिरेकतः ।
नास्तीत्येतत्क्रमेणाऽत्र दृष्टान्तैः प्रतिपाद्यते ॥ १५.३९॥
यथा दुन्दुभिशब्दत्वसामान्यादुत्थितान्पृथक् ।
नादातुं शक्नुयात्कश्चिद्विशेषानसिकोशवत् ॥ १५.४०॥
तद्वदात्मातिरेकेण नात्मीयोऽर्थो मनागपि ।
यतः समीक्षितुं शक्यस्तेनासौ रज्जुसर्पवत् ॥ १५.४१॥
सामान्यं तद्विशेषश्च तद्विशेषा इति त्रयः ।
दुन्दुभिस्तस्य चाघातः शब्दश्चेत्येभिरीरिताः ॥ १५.४२॥
सामान्यं दौन्दुभः शब्दो वीरादिरससंयुतः ।
विशेषस्तद्विशेषास्तु नीचोच्चादिविभेदिनः ॥ १५.४३॥
नीचादिभेदिनः शब्दाः वीरादिरससंयुते ।
अन्तर्भवन्ति सोऽप्यन्तर्भूतः स्याद्दौन्दुभध्वनौ ॥ १५.४४॥
एवं शङ्खेऽपि वीणायां योजयित्वा पुनः (ततः) पुनः ।
शङ्खदुन्दुभिवीणाख्यध्वनीनन्यत्र योजयेत् ॥ १५.४५॥
ध्वनित्रयं महाशब्दसामान्येंऽतर्भवेदिति ।
विवक्षया शङ्खभेरीवीणास्तिस्र उदीरिताः ॥ १५.४६॥
यथा विशेषसामान्यतत्सामान्यपरम्परा ।
शब्दे स्थिता तथा सर्वमुपलब्धिस्थमीक्षते ॥ १५.४७॥
उपलब्धोऽस्ति सन् कुम्भो लम्बोष्ठो देशकालवान् ।
पूर्वाऽपूर्वाऽतिरेकेण नोत्तरोऽर्थोऽनुभूयते ॥ १५.४८॥
एवं चिदन्वयात्सर्वं चिदध्यस्तं तथा सति ।
चिदात्मैवास्य सर्वस्य तात्त्विकं रूपमीक्ष्यताम् ॥ १५.४९॥
स्थितिकाले यथैकात्म्यं शक्यते ज्ञातुमञ्जसा ।
यथोक्तन्यायतस्तद्वदुत्पत्तावपि शक्यते ॥ १५.५०॥
धूमार्चिर्विस्फुलिङ्गादि विभागजननात्पुरा ।
अग्निरेव न धूमाद्यास्तथैकात्म्यं जनेः पुरा ॥ १५.५१॥
स्वार्थसाधनयत्नादीननपेक्ष्य यथा सृजेत् ।
धूमादीन्हुतभुक्तद्वदृगादीन्प्रत्यगीश्वरः ॥ १५.५२॥
नार्थं बुध्वा वेदसृष्टिः कालिदासादिवाक्यवत् ।
किन्तु श्वास इवायत्नात्स्यादतोऽपौरुषेयता ॥ १५.५३॥
मन्त्राश्चतुर्विधा ज्ञेया ऋग्वेदादिगिरोदिताः ।
ब्राह्मणं चेतिहासादिरूपमष्टविधं भवेत् ॥ १५.५४॥
प्रसिद्धाश्चेतिहासाद्याः ऋग्वेदाद्युपबृंहकाः ।
निखिलापि जगत्सृष्टिः शब्दसृष्ट्योपलक्ष्यते ॥ १५.५५॥
प्रज्ञानव्यतिरेकेण यथैव स्थितिसर्गयोः ।
वस्त्वन्तरं न सम्भाव्यं प्रलयेऽपि तथोच्यते ॥ १५.५६॥
स्वाभाविकाऽऽत्यन्तिकौ द्वौ प्रलयौ जगतस्तयोः ।
स्वाभाविकः स्यात्कल्पान्ते बोधादात्यन्तिको मतः ॥ १५.५७॥
समुद्रखिल्यौ दृष्टान्तौ क्रमात्प्रलययोर्मतौ ।
लीयतेऽब्धौ जलं यद्वत्तथा ब्रह्मणि तज्जगत् ॥ १५.५८॥
साक्षाद्वाऽथ प्रणाड्या वा जलमब्धौ प्रलीयते ।
साक्षाद्गङ्गादिका नद्यस्तत्प्रणाड्या जलान्तरम् ॥ १५.५९॥
तथैव कारणं वस्तु साक्षाद्ब्रह्मणि लीयते ।
कार्यं तु कारणद्वारेत्येतदत्र विवक्षितम् ॥ १५.६०॥
विषयप्रलयेनाक्षप्रलयस्योदितत्वतः ।
लयः सर्वस्य जगतो ब्रह्मणीत्यत्र सुस्थितम् ॥ १५.६१॥
एवं मन्तव्य आत्माऽयम् अर्थासम्भवनुत्तये ।
दुन्दुभ्याद्युक्तदृष्टान्तन्यायमार्गेण यत्नतः ॥ १५.६२॥
अपरायत्तबोधाख्यनिदिध्यासनसिद्धये ।
आत्यन्तिकलयं वक्तुं खिल्यदृष्टान्त उच्यते ॥ १५.६३॥
सामुद्रमम्भो लवणक्षेत्रे भानुविपाकतः ।
लवणोपलतां प्राप्य सैन्धवः खिल्य उच्यते ॥ १५.६४॥
स खिल्य उदधौ क्षिप्तस्तापशान्तौ विलीयते ।
अशक्यः पुनरुद्धर्तुं खिल्यरूपेण पूर्ववत् ॥ १५.६५॥
खिल्योद्धृत्यै नीरमब्धावाददीत यतो यतः ।
तत्र तत्र रसो लभ्यः खिल्यस्त्वेष न कुत्रचित् ॥ १५.६६॥
सामुद्रस्याम्भसस्तापात्खिल्यतैवं परात्मनः ।
आब्रह्मस्तम्बपर्यन्तं जीवता स्यादविद्यया ॥ १५.६७॥
महद्भूतमनन्तं स्यादपारं चिद्घनं स्वतः ।
देहेन्द्रियाख्यभूतेभ्यो जीवत्वेन समुत्थितम् ॥ १५.६८॥
महत्त्वं सर्वगत्वं स्याद्भूतत्वं नित्यसिद्धता ।
अनन्तापारशब्दाभ्यां व्याप्तिनित्यत्वसाधनम् ॥ १५.६९॥
कार्यकारणराहित्यं यदि वेहोपलक्ष्यताम् ।
अनन्तत्वमकार्यत्वमपारत्वमहेतुता ॥ १५.७०॥
विज्ञानघन एवेति जात्यन्तरनिषेधनम् ।
तदिदं वस्तुनस्तत्त्वं मायिकी सा समुत्थितिः ॥ १५.७१॥
अब्धिस्थानीयमैकात्म्यं जलस्थानं तु साक्षिचित् ।
क्षेत्रस्थानं शरीरादि तापस्थानं तु विभ्रमः ॥ १५.७२॥
खिल्यस्थानं चिदाभासयोगात्कर्तृत्वभोक्तृते ।
द्रष्टा श्रोता द्विजो गौरो धनी गोमान् भवेत्ततः ॥ १५.७३॥
प्रत्यगात्मैव सद्ब्रह्म परोक्षमभवत्तदा ।
ब्रह्मैव सन्नयं चात्मा संसारित्वमवाप्तवान् ॥ १५.७४॥
इत्येवं परवस्त्वेव पञ्चभूताख्यमायया ।
जीवत्वेन समुत्थाय स्वतः शास्त्रेण बुद्ध्यते ॥ १५.७५॥
सर्वमात्मैव सम्यग्धीजन्मनैवाखिले भ्रमे ।
नष्टे नश्यति जीवत्वं जले प्रक्षिप्तखिल्यवत् ॥ १५.७६॥
क्षेत्रज्ञेश्वरभेदेन पुनः संज्ञा न विद्यते ।
तद्धेतोस्तमसो ध्वंसात्खिल्यानुद्धरणं यथा ॥ १५.७७॥
दृष्टिमात्रात्मयाथात्म्यात्कार्यकारणवस्तुनः ।
न ज्ञातं किञ्चिदप्यस्ति नानपास्तं तथा तमः ॥ १५.७८॥
आत्यन्तिकोऽयं प्रलयः पुनर्जन्मविवर्जनात् ।
स्वाभाविकलये शक्तिशेषादस्ति पुनर्जनिः ॥ १५.७९॥
विज्ञानैकघनस्यास्य संज्ञा नास्तीति यद्वचः ।
तद्व्याहतिर्न शक्यात्र तयोर्विषयभेदतः ॥ १५.८०॥
विज्ञानैकघनोक्त्याऽस्य कृत्स्नैकात्म्यं पुरोदितम् ।
संज्ञा नास्तीति चाविद्याजन्या बुद्धिर्निषिध्यते ॥ १५.८१॥
कार्यकारणताशेषि स्वतःसिद्धमनन्यगम् ।
यद्वस्तु तदलं स्वात्मसंवित्त्यै निरपेक्षतः ॥ १५.८२॥
ऐकात्म्यं यद्विज्ञातं तद्द्वैतमिव विभ्रमात् ।
स्याद्यत्र तत्र पुंसोऽसौ कर्तृकर्मादिभेदधीः ॥ १५.८३॥
ननु द्वैतमिवेत्येतदुपमानं कथं तव ।
उपमेयद्वैतवस्तुराहित्यादिति चेच्छृणु ॥ १५.८४॥
रामरावणयोर्युद्धं रामरावणयोरिव ।
इत्यादावुपमा दृष्टा स्वस्य स्वेन तथेष्यताम् ॥ १५.८५॥
यद्वल्लोके चन्द्रभेदः कल्पितत्वेन सम्मतः ।
जगद्भेदोपमा सा स्यान्मिथ्यात्वं तेन सिद्ध्यति ॥ १५.८६॥
समस्तव्यस्तरूपत्वं यो वक्तीहात्मनः श्रुतेः ।
तत्पक्षस्य निषेधाय द्वैतमिथ्यात्ववर्णनम् ॥ १५.८७॥
ज्ञातृज्ञानज्ञेयरूपं प्राप्य स्वप्ने यथा मृषा ।
एको व्यवहरत्येवमज्ञो व्यवहरेन्मृषा ॥ १५.८८॥
यस्यामविद्यावस्थायां भेदभ्रान्तिस्तदा पुमान् ।
घ्रातृघ्रेयघ्राणसंज्ञामाप्नोत्यन्यां तथा त्रिधा ॥ १५.८९॥
अविद्यायां विनष्टायां घ्रातृघ्राणादिभेदधीः ।
विनश्यतीत्यभिप्रेत्य संज्ञा नास्तीति वर्णितम् ॥ १५.९०॥
अभिज्ञोऽप्यज्ञवद्भेदं घ्रातृघ्राणादिलक्षणम् ।
विजानातीति चेन्मैवं विद्यायां तदसम्भवात् ॥ १५.९१॥
यस्यां तु विद्यावस्थायामात्मैवास्याभवज्जगत् ।
तदा कः केन किं जिघ्रेदद्वैते परवस्तुनि ॥ १५.९२॥
दृष्टगोचरवत्सर्वं कार्यकारणवज्जगत् ।
ध्वस्तात्मान्ध्यस्य विदुषः सम्यग्ज्ञानोदये भवेत् ॥ १५.९३॥
ग्राहकादिविभागोऽत्र नास्ति तद्धेत्वसम्भवात् ।
चिन्मात्रस्य स्वतः सिद्धेर्विज्ञानघनतेरिता ॥ १५.९४॥
मुक्तस्य व्यवहारस्तु भ्रान्तिवासनया कृतः ।
भ्रान्तिनाशेऽपि संस्कारानुवृत्तिर्दृश्यते खलु ॥ १५.९५॥
वासनामात्रसंज्ञा तु देहे सति न वार्यते ।
वस्तुत्वभ्रान्तिसंज्ञैव प्रबुद्धस्यात्र वार्यते ॥ १५.९६॥
ज्ञातृज्ञानज्ञेयरूपा न संज्ञा विषये यथा ।
प्रतीच्यपि तथा संज्ञा प्रबुद्धस्य न विद्यते ॥ १५.९७॥
ज्ञानोत्पत्तौ न संज्ञाऽस्तीत्यास्तां तावदिहात्मनि ।
अपि सत्यामविद्यायां न संज्ञाऽस्त्यात्मनीदृशी ॥ १५.९८॥
ग्राहकादिजगत्सर्वं येन कूटस्थसाक्षिणा ।
लोकः सर्वो विजानाति जानीयात्केन तं वद ॥ १५.९९॥
बोद्धृत्वाल्लोचनेनापि न संज्ञा प्रत्यगात्मनि ।
न बोद्धा गृह्यतेऽन्येन विषयेण वा ॥ १५.१००॥
व्यावहारिकसंज्ञाऽसौ संसारिण्यपि दुर्लभा ।
किमु निःशेषविध्वस्तसंसारार्णवकारणे ॥ १५.१०१॥
इत्येवमपरायत्तबोधेनात्यन्तिको लयः ।
निदिध्यासनरूपोऽत्र फलभूतः प्रकीर्तितः ॥ १५.१०२॥
याज्ञवल्क्योऽत्र मैत्रेयीमन्वगृह्णाद्यथा तथा ।
मुमुक्षुमनुगृह्णातु विद्यातीर्थमहेश्वरः ॥ १५.१०३॥
इति श्रीमद्विद्यारण्यमुनिविरचिते अनुभूतिप्रकाशे
बृहदारण्योपनिषदि मैत्रेयीविद्याप्रकाशो नाम पञ्चदशोऽध्यायः ॥ १५॥
१६. बृहदारण्यके मधुविद्याप्रकाशो नाम षोडशोऽध्यायः ।
पञ्चमे ब्राह्मणे दध्यङ्ङाथर्वण उवाच याम् ।
अश्विनोर्मधुविद्यां तामत्र स्पष्टीकरोम्यहम् ॥ १६.१॥
परस्परोपकारित्वं पृथिव्याः प्राणिनामपि ।
यत्तन्मधुत्वं विज्ञेयमुपकारस्तु सर्जनम् ॥ १६.२॥
जन्तुभिः पृथिवी सृष्टा स्वकर्मफलभुक्तये ।
पृथिव्याऽप्यात्मभोगार्थं सृष्टाः सर्वेऽपि जन्तवः ॥ १६.३॥
पार्थिवाणि शरीराणि भुज्यन्ते जन्तुभिस्तथा ।
पृथिव्याऽपि धरित्रीत्वं भुज्यते जन्तुधारणात् ॥ १६.४॥
अस्यां पृथिव्यां यो भास्वानामोक्षमविनश्वरः ।
लिङ्गात्मा मध्वसौ सर्वभूतानां तानि तस्य च ॥ १६.५॥
अध्यात्मं यश्च शारीरो लिङ्गात्मा पार्थिवांशजः (वांशगः) ।
स चापि मधु सर्वेषां सर्वभूतानि तस्य च ॥ १६.६॥
साध्यात्मं साधिदैवं च साधिभूतमिदं जगत् ।
एकैकस्यात्मनः कृत्स्नं भोग्यत्वेनाऽवतिष्ठते ॥ १६.७॥
सर्वं सर्वस्य कार्यं स्यात्सर्व सर्वस्य भोजकः ।
इत्येषा मधुविद्यात्र वैषम्यात्क्लेशहारिणी ॥ १६.८॥
भूतानि भूमिर्द्वे लिङ्गे इत्युक्तं यच्चतुर्विधम् ।
मध्वविद्याकृतं तस्य वस्तुतत्त्वमथोच्यते ॥ १६.९॥
अयमेव स इत्यत्र मधुरूपश्चतुर्विधः ।
प्रपञ्चोऽयमिति प्रोक्तः स इत्यात्मोच्यते परः ॥ १६.१०॥
अयमेव स इत्युक्त्या सामानाधिकरण्यतः ।
प्रत्यङ्मात्रैकयाथात्म्यं प्रपञ्चस्यावबोध्यते ॥ १६.११॥
स इत्यनेन निर्देष्टुमतीतग्रन्थवर्णितः ।
योऽयमित्यादिभिर्वाक्यैश्चतुर्भिः स्मार्यते परः ॥ १६.१२॥
आत्मा द्रष्टव्य इत्युक्तममृतं चेति वर्णनम् (वर्णितम्)।
नेति नेत्युदितं ब्रह्म तत्सर्वमभवत्त्विति ॥ १६.१३॥
आत्माऽमृतब्रह्मसर्वशब्दैः प्राक् प्रतिपादितम् ।
वस्त्वस्य मधुनस्तत्त्वमिति वाक्यार्थ ईरितः ॥ १६.१४॥
उत्तरेष्वपि वाक्येषु मधुरूपमिदं जगत् ।
ब्रह्मापि मधुनस्तत्त्वं योजयेदुक्तवर्त्मना ॥ १६.१५॥
साधारणविशेषाभ्यां धर्मो भोगप्रदो द्विधा ।
अधिदैवं तथाध्यात्ममित्यत्रासौ विभज्यते ॥ १६.१६॥
सत्यमानुषयोरेवं विभागं योजयेद्द्विधा ।
पृथिव्याद्या मानुषान्ता विराडंशा उदीरिताः ॥ १६.१७॥
अयमात्मेति निर्देशो विराजोऽभिमतोंऽशिनः ।
हिरण्यगर्भस्तत्रत्यः प्रोक्तस्तेजोमयोक्तितः ॥ १६.१८॥
विराड् हिरण्यगर्भाख्यस्थूलसूक्ष्मशरीरगः ।
चिदाभासोऽत्र यश्चायमात्मेत्युक्त्याभिधीयते ॥ १६.१९॥
अपूर्वानपरामध्यप्रत्यग्याथात्म्यवित्तये ।
स वा इत्यादिको ग्रन्थः सदृष्टान्तोऽभिधीयते ॥ १६.२०॥
ननूक्तं मधुनस्तत्त्वमयमेव स इत्यतः ।
वचनाद्बहुपर्यायैर्भूयोऽप्येतद्दृढीकृतम् ॥ १६.२१॥
बाढमेतावता वस्तुसार्वात्म्यं स्यात्प्रपञ्चितम् ।
तदेवाऽभिव्यज्यतेऽथ विदुषः फलरूपतः ॥ १६.२२॥
स एव मधुतत्त्वाख्य आत्माऽयं तत्त्वविन्मतः ।
आधिपत्यं च राजत्वं विदुष्यविदुषोऽधिकम् ॥ १६.२३॥
अत्राऽधिपत्यशब्देन स्वातन्त्र्यमभिधीयते ।
स्वार्थः प्रत्यक्तदर्थत्वात्सहेतोर्जगदात्मनः ॥ १६.२४॥
राजत्वं राजनाद्भास्वदविलुप्तात्मदर्शनात् ।
ब्रह्मास्मीति परिज्ञानध्वस्तध्वान्तत्वकारणात् ॥ १६.२५॥
योऽसावविद्यया देही संसारीवाप्यभूत्पुरा ।
स एव विद्यया ब्रह्मेत्यतोऽस्मिञ्जगदर्पितम् ॥ १६.२६॥
चक्रस्यारा यथा सर्वे नाभिनेम्योः समर्पिताः ।
सजीवा निखिला देहा ब्रह्मविद्यर्पितास्तथा ॥ १६.२७॥
समाप्ता ब्रह्मविद्येयं कैवल्यावाप्तयेऽखिला ।
यथोक्तब्रह्मविद्यायाः स्तुत्यर्थाख्यायिकोच्यते ॥ १६.२८॥
दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच द्विविधं मधु ।
प्रवर्ग्याङ्गरविध्यानं ब्रह्मज्ञानमिति द्वयम् ॥ १६.२९॥
तं वृत्तान्तमृषिः पश्यन् प्राब्रवदश्विनौ प्रति ।
वृत्तान्तमब्रवीदृग्भ्यामृग्भ्यां च ब्रह्मवेदनम् ॥ १६.३०॥
अश्विनोर्युवयोरुग्रं लाभाय गुरुमारणम् ।
आविष्करोमि लोकेऽस्मिन्मेघो वृष्टिं यथा तथा ॥ १६.३१॥
दध्यङ्ङाथर्वणोऽश्वस्य शिरसा युवयोर्मधु ।
यत्प्रोवाच तदप्यत्र जानन्नाविष्करोम्यहम् ॥ १६.३२॥
छित्वा गुरोः शिरोऽन्यत्र निक्षिप्याऽश्वस्य यच्छिरः ।
तदाहृत्य गुरो स्कन्धे प्रतिष्ठापयतो युवाम् ॥ १६.३३॥
सत्यप्रतिज्ञः स गुरुः सोद्वाप्येतादृशीं व्यथाम् ।
मधुद्वयमुवाचेति कथितोऽर्थ ऋचोर्द्वयोः ॥ १६.३४॥
ईशो मनुष्यपश्वादिदेहांश्चक्रे पुरा ततः ।
स पक्षी लिङ्गरूपेण भूत्वा तान् प्राविशत्प्रभुः ॥ १६.३५॥
योऽयं पुरुषशब्दोऽस्मिन्मन्त्रे तस्य निरुक्तितः ।
जीवब्रह्मैक्यतात्पर्यं मन्त्रस्यास्योपवर्ण्यते ॥ १६.३६॥
पुरि शेते यतस्तस्मात्पुरुषो जीव उच्यते ।
सर्वं पूरयतीत्येवं पुरुषो ब्रह्म भण्यते ॥ १६.३७॥
अनेन ब्रह्मणा किञ्चिद्बहिर्नाऽनावृतं क्वचित् ।
नास्त्यसंवृतमन्तश्च पूरणात्पुरुषस्तथा ॥ १६.३८॥
रूपं रूपं प्रविष्टोऽयं प्रतिबिम्बो भवत्ययम् ।
तदस्य प्रतिबिम्बत्वं प्रत्यग्याथात्म्यवित्तये ॥ १६.३९॥
चैतन्यात्मादयः शब्दाः व्युत्पन्नाः प्रतिबिम्बके ।
लक्षयन्ति चिदात्मानं तेन याथात्म्यवेदनम् ॥ १६.४०॥
मिथ्याऽभिमानैः साभासबुध्यादिपरिकल्पितैः ।
द्रष्टा श्रोताऽहमित्यादिबहुरूपो विचेष्टते ॥ १६.४१॥
सन्त्यस्य हरयोऽक्षाख्या हरणाद्विषयान् प्रति ।
प्राणिभेदादनन्तास्ते तैस्तु संसरतीश्वरः ॥ १६.४२॥
मन्त्रोक्ता हरयोऽध्यस्ताः तत्सङ्ख्या च प्रकल्पिता ।
एतेषां तत्त्वमात्मैवेत्याह ब्राह्मणमादरात् ॥ १६.४३॥
निःशेषमधुकाण्डस्य तदेतदिति वाक्यतः ।
सारः सङ्क्षिप्यते साक्षात्करविन्यस्तबिल्ववत् ॥ १६.४४॥
अज्ञातं संशयज्ञातं मिथ्याज्ञातमिदं जगत् ।
तदेतदित्यनूद्यास्य तत्त्वं ब्रह्मेति बोध्यते ॥ १६.४५॥
निष्कारणं तन्निष्कार्यं निश्छिद्रं बाह्यवर्जितम् ।
परोक्षप्रतिषेधार्थमात्मा ब्रह्मेति भण्यते ॥ १६.४६॥
सर्वानुभव एवायं यतः सर्वानुभूस्ततः ।
कार्त्स्न्यात्सर्वो भवेदेष चिन्मात्रत्वात्तथाऽनुभूः ॥ १६.४७॥
कर्तव्यमेतद्विज्ञानमिति वेदानुशासनम् ।
अस्याऽतिलङ्घने दोषः संसारानर्थसङ्गतिः ॥ १६.४८॥
कुर्वतस्तु महान् लाभः स्वात्मनः कृतकृत्यता ।
मधुकाण्डार्थसर्वस्वमित्थं श्रुत्योपसंहृतम् ॥ १६.४९॥
विद्यावंशजपाद्विद्याविघ्नः सर्वो निवार्यते ।
मुमुक्षुमनुगृह्णातु विद्यातीर्थमहेश्वरः ॥ १६.५०॥
इति श्रीमद्विद्यारण्यमुनिविरचिते अनुभूतिप्रकाशे
बृहदारण्यके मधुविद्याप्रकाशो नाम षोडशोऽध्यायः ॥ १६॥
१७. आश्वलायनादिमुनिबोधाख्यो नाम सप्तदशोऽध्यायः ।
याज्ञवल्क्योऽश्वलादिभ्यो विजिगीषुकथामुखात् ।
उक्तवान् पञ्चमेऽध्याये तत्त्वविद्यामनेकधा ॥ १७.१॥
अध्यात्ममधिभूतं च यजमानर्त्विगादिषु ।
स्वाभाविकः परिच्छेदो मृत्युर्मर्त्यफलार्जनात् ॥ १७.२॥
कालोऽपि मृत्युः कर्त्रादि मारणात्स्यात्स च द्विधा ।
सौरोऽहोरात्ररूपेण चान्द्रः पक्षादिरूपतः ॥ १७.३॥
जेतुं मृत्युत्रयं ब्रह्मलोकं प्राप्तुं च साधनम् ।
प्रश्नैश्चतुर्भिः पप्रच्छ देवध्यानं तदुत्तरम् ॥ १७.४॥
यजमानस्य वागादेर्होत्रादेश्चाधिदैविके ।
अग्न्यादावेकतां ध्यात्वा मुच्यते चातिमुच्यते ॥ १७.५॥
मुक्तिस्त्यक्त्वासुरं भावं देवभावस्य चिन्तनम् ।
ब्रह्मलोकोऽतिमुक्तिः स्यान्न कैवल्यमुपासनात् ॥ १७.६॥
अथ सम्पद उच्यन्ते स्वल्पे कर्मणि कर्मणः ।
महतश्चिन्तनं सम्पत्तया प्राप्यं महत्फलम् ॥ १७.७॥
होतृप्रयुक्तऋग्जातित्रये सम्पादयन्नमून् ।
लोकान्त्रैलोक्यमाप्नोति समत्वात्त्रित्वसङ्ख्यया ॥ १७.८॥
समिन्मांसाज्यमुख्यानामुज्ज्वलत्वादिसाम्यतः ।
देवलोकादिसम्पत्त्या देवलोकादिमाप्नुयाद् ॥ १७.९॥
ब्रह्मणो मनसो वृत्तिष्वनन्तास्वन्तवर्जितान् ।
विश्वान् सम्पादयन्देवाननन्तं लोकमाप्नुयात् ॥ १७.१०॥
उक्तास्वृग्जातिषूद्गात्रा गीयमानासु सम्पदा ।
लोकत्रयस्य प्राणादेरपि लोकत्रयं व्रजेत् ॥ १७.११॥
गया भूर्ब्राह्मणो विष्णुरन्नं ब्रह्मेति सम्पदा ।
श्राद्धे फलस्य बाहुल्यं मत्वा सम्पादयन्ति हि ॥ १७.१२॥
बन्धाख्यमृत्युस्तन्मृत्युर्विदुषोऽनुक्रमस्तथा ।
प्रयोजकस्तयोर्मृत्य्वोः प्रेरकं चात्र पृच्छ्यते ॥ १७.१३॥
अधिभूताधियज्ञादिपरिच्छेदः फलात्मकः ।
मोहासङ्गात्मको मृत्युर्ग्रहातिग्रहबन्धवान् ॥ १७.१४॥
ग्रहा घ्राणादयो ज्ञेया गृह्णन्ति विषयान्यतः ।
घ्राणादिप्रेरकत्वेन गन्धाद्याः स्युरतिग्रहाः ॥ १७.१५॥
पूर्वब्राह्मणसम्प्रोक्तध्यानसंयुक्तकर्मभिः ।
परिच्छेदविनाशेऽपि मृत्योः सर्वस्य न क्षयः ॥ १७.१६॥
हिरण्यगर्भरूपेऽपि श्रूयन्ते हि क्षुधादयः ।
अतो मृत्योरशेषस्य मृत्युरन्योऽत्र पृच्छ्यते ॥ १७.१७॥
निर्णेयौ मृत्युतन्मृत्यू बन्धमोक्षावबुद्धये ।
दुर्वचौ च ग्रहादीनां लोकेऽत्यन्ताप्रसिद्धितः ॥ १७.१८॥
ग्रहातिग्रहवद्बन्धो देहेऽप्येष तथाप्यसौ ।
जन्मान्तरेष्वसञ्चारान्नाप्रसिद्धो न दुर्वचः ॥ १७.१९॥
एकमेव मनः सर्वजन्मगामीति तार्किकाः ।
अक्षान्तराण्यपीत्यन्ये तेन सङ्ख्याऽत्र दुर्वचा ॥ १७.२०॥
मनोन्यायः समोऽन्येषु तेनादोषविवक्षया ।
पर्यग्रहीदष्टसङ्ख्यामन्यान्तर्भाव ऊह्यताम् ॥ १७.२१॥
यस्येन्द्रियस्य योऽर्थोऽस्मिन् जन्मन्यन्यत्र तत्तथा ।
उतान्यथेति सन्देहात्सङ्ख्येयं पृच्छ्यते पुनः ॥ १७.२२॥
दृष्टानुसार्यदृष्टं तु कल्पनीयमितीदृशात् ।
न्यायात्प्राह यथा दृष्टमिन्द्रियार्थव्यवस्थितिम् ॥ १७.२३॥
बन्धत्वं विशदीकर्तुं ग्रहातिग्रहकल्पनम् ।
मोचनीयो ग्रहग्रस्तस्तथैवाक्षार्थबन्धनात् ॥ १७.२४॥
ग्रस्तं हिरण्यगर्भान्तं मृत्युना सकलं जगत् ।
ग्रहातिग्रहरूपेण मृत्युस्तस्यास्ति वा न वा ॥ १७.२५॥
अस्ति चेदनवस्था स्यादनिर्मोक्षोऽन्यथा भवेत् ।
इत्यसौ दुर्वचः प्रश्नो दृष्टान्तेनापनुद्यते ॥ १७.२६॥
वह्नेः सर्वाशिनो मृत्योर्यथा मृत्युर्जलं महत् ।
बङ्घमृत्योस्तथा मृत्युरज्ञानं बन्धहृल्लये ॥ १७.२७॥
अज्ञानमृत्योर्विज्ञानं मृत्युस्तस्यापि तत्तथा ।
तत्कातकरजोन्यायान्नानवस्थामिहानयेत् ॥ १७.२८॥
प्राक्तनान्यपि जन्मानि सम्यग्ज्ञानमपह्नुते ।
अपह्नुते स्वमित्यस्मिन्नर्थे नैषा चमत्कृतिः ॥ १७.२९॥
अथ तत्त्वविदः प्राणा उत्क्रामन्त्यथवा न हि ।
स्यात्पुनर्जनिरुत्क्रान्तावनुत्क्रान्तौ मृतिः कथम् ॥ १७.३०॥
नोत्क्रामन्ति न तिष्ठन्ति किन्तु निर्वातदीपवत् ।
न कारणं शिष्यतेऽत्र तस्य ज्ञानेन निह्नुतेः ॥ १७.३१॥
अनारब्धफलं कर्म तदुत्क्रान्तेः प्रयोजकम् ।
स्थितेर्निमित्तमारब्धं ते नष्टे ज्ञानभोगतः ॥ १७.३२॥
उपादाननिमित्ताभ्यां हीनानामुत्क्रमः कथम् ।
कथं वात्र स्थितिस्तस्माद्युक्त आत्यन्तिको लयः ॥ १७.३३॥
प्राणत्यागेन देहोऽयं म्रियते बाह्यवायुना ।
आपूर्णः स्थौल्यमापन्नो निश्चेष्टो दृश्यते यतः ॥ १७.३४॥
प्राणा एव विलीयन्ते किं वा सर्वं प्रयोजकम् ।
आद्ये प्राणजनिर्भूयो द्वितीये नाम तत्कथम् ॥ १७.३५॥
अप्रयोजकनामैव शिष्यते न प्रयोजकम् ।
अविद्याकामकर्मादि नोक्तदोषद्वयं ततः ॥ १७.३६॥
परवाचाभिनिष्पत्तेर्विदुषो बन्धनं प्रति ।
नामाप्रयोजकं युक्तस्तच्छेषः परदेहवत् ॥ १७.३७॥
मुक्तावप्यवशिष्टत्वान्नाम्नोऽनन्तत्वसाम्यतः ।
विश्वान् सम्पादयन्देवाननन्तं लोकमश्नुते ॥ १७.३८॥
ग्रहातिग्रहबन्धाख्यमृत्योर्यत्स्यात्प्रयोजकम् ।
कालकर्मेश्वरादीनां मध्ये तत्किमितीर्यते ॥ १७.३९॥
अविद्वद्विषयः प्रश्नो विदुषो बन्धसङ्क्षयात् ।
आतत्त्वबोधमज्ञानी बध्यतेऽनन्तजन्मभिः ॥ १७.४०॥
अनुगृह्णन्ति वागादीन् स्वांशैरग्न्यादिदेवताः ।
भोगक्षये मृतौ स्वांशान् संहरन्ति यथायथम् ॥ १७.४१॥
पुंसो देहग्रहे भूयो देहस्थानेषु देवताः ।
अंशं निदधति स्वं स्वं न देहग्रहणात्पुरा ॥ १७.४२॥
अधिष्ठातृवियोगेन न्यस्तदात्रोपमैर्युतः ।
वागादिभिरसौ किंस्वित्प्रयोजकमुपाश्रयेत् ॥ १७.४३॥
किं कारणात्मतामेति किं वा केनचिदात्मना ।
अवतिष्ठत एवायं किं वा कर्मैव संश्रितः ॥ १७.४४॥
गुणान्वा यदि वेशानं कालं वा दैवमेव वा ।
यदृच्छां सन्ततिं शून्यं विनाशं वेति भण्यताम् ॥ १७.४५॥
प्रश्नेन तुष्टः सन्त्यज्य विजिगीषां सहामुना ।
निर्गतौ विजिगीषुभ्यो मिथो निर्णयमूचतुः ॥ १७.४६॥
संसारभूमिवर्तित्वात्नैवायं कारणाश्रयः ।
कर्मादिपरतन्त्रत्वात्स्वाश्रयोऽयं न चेष्यते ॥ १७.४७॥
जडत्वाद्गुणकालादिर्न जीवं नेतुमर्हति ।
हठो यदृच्छाशून्यं तु मानहीनं तथेतरत् ॥ १७.४८॥
जीवेश्वरौ स्वतन्त्रौ चेद्विधिशास्त्रमनर्थकम् ।
अतोऽसाधारणो जन्महेतुः कर्मैव शिष्यते ॥ १७.४९॥
सति कर्मणि वैचित्र्यं देहानामुपपद्यते ।
देवेशानुगृहीतत्वाज्जाड्यदोषो न कर्मणः ॥ १७.५०॥
तृतीयब्राह्मणे पुण्यफलावधिरुदीर्यते ।
अश्वमेधः परं पुण्यं ब्रह्मलोकफलावधिः ॥ १७.५१॥
प्रत्यक्षः स्थावरत्वाख्यः स्पष्टः पापफलावधिः ।
विज्ञायते द्वयज्ञानादियत्ता हेयसंसृतेः ॥ १७.५२॥
अश्वमेधादि यत्पुण्यं महोपासनया युतम् ।
तत्फलं संसृतिस्तस्य भुज्युना पृच्छ्यतेऽवधिः ॥ १७.५३॥
ब्रह्माण्डाद्बहिरन्तश्च समष्टिव्यष्टिरूपिणः ।
व्याप्तिर्हिरण्यगर्भस्य संसारस्यावधिर्मतः ॥ १७.५४॥
आगमैकाधिगम्योऽयमर्थ इत्युपदर्शयन् ।
गन्धर्वाख्यायिकामाह गन्धर्वगुरुस्ततः ॥ १७.५५॥
लोकांस्तानपि गन्धर्वादश्वमेधकृतां फलम् ।
श्रुत्वा पारिक्षितोक्त्यात्र वादिनं तं व्यमोहयत् ॥ १७.५६॥
अश्वमेधकृतो वक्ति भुज्युः पारिक्षिता इति ।
परितः क्षितिमावेष्ट्य स्थिता इति विवक्षया ॥ १७.५७॥
द्विर्याज्ञवल्क्यमुद्दिश्य प्रश्नोक्तिस्त्रासजन्मने ।
अत्रस्तोऽतीन्द्रियज्ञानं दर्शयन्निदमुक्तवान् ॥ १७.५८॥
गन्धर्वेण गतिः प्रोक्ता अश्वमेधकृताम् इति ।
भूयः पृष्टः स्वयं वक्तुं प्राह लोकस्य विस्तृतिम् ॥ १७.५९॥
आदित्यरथगत्याध्वमितो यावानहर्निशम् ।
द्वात्रिंशद्गुणितस्तावान्व्याप्तो भानुगभस्तिभिः ॥ १७.६०॥
इयानेव प्राणिभोगसिद्धये लोक इष्यते ।
इतः परस्ताद्द्विगुणा पृथिव्यालोकवर्जिता ॥ १७.६१॥
अन्तरालोकयुक्तः सन् बहिरालोकवर्जितः ।
लोकालोकगिरिर्मध्ये पृथिव्योरनयोः स्थितः ॥ १७.६२॥
समुद्रो द्विगुणो भूमेर्घनोदाख्यो बहिः स्थितः ।
अण्डाद्बहिर्घनोदोऽयमिति पौराणिका जगुः ॥ १७.६३॥
पुराणं बाध्यते श्रुत्या ध्यानार्था वा श्रुतिर्मता ।
सर्वथाप्यण्डरूपोऽयं वैराजो देह इष्यताम् ॥ १७.६४॥
योऽण्डाद्बहिः स्थितो वायुः सूत्रात्मेति श्रुतीरितः ।
एषोऽश्वमेधकृत्पुण्यपरिपाको न चापरः ॥ १७.६५॥
क्षुरधाराद्युपमितः सन्धिर्योऽण्डकपालयोः ।
तेन बाह्ये नयत्येतानश्वमेधस्य देवता ॥ १७.६६॥
ते वायुभावमापन्नाः समष्टिव्यष्टिरूपतः ।
अण्डाद्बहिस्तदन्तश्च तिष्ठन्त्यखिलरूपिणः ॥ १७.६७॥
अध्यात्मादिविभागेन व्याप्तिर्व्यष्टिरितीरिता ।
समस्तत्वेन संव्याप्तिः समष्टिरिति कीर्तिता ॥ १७.६८॥
समष्टिव्यष्टिरूपं य उपास्तेऽसौ सकृन्मृतः ।
हिरण्यगर्भो भूत्वाथ मुच्यते म्रियते न तु ॥ १७.६९॥
संसारोत्कर्षसीमेत्थं वर्णिता ज्ञानकर्मजा ।
इतो विरक्तमालक्ष्य वर्ण्यते स्वात्मनिर्णयः ॥ १७.७०॥
चतुर्थब्राह्मणे मोक्षयोग्यः कर्तृत्ववर्जितः ।
विषयो ब्रह्मविद्यायाः अस्त्यात्मेति निरूप्यते ॥ १७.७१॥
अहन्धीकर्मशास्त्राभ्यां दृष्टेर्द्रष्टा न सिध्यति ।
किन्तु दृष्ट्यादिसंयुक्तो ब्रह्मताऽस्य विरुध्यते ॥ १७.७२॥
अतो ब्रह्मत्वयोग्यस्य प्रतीचोऽत्र बुभुत्सया ।
अनूद्य ब्रह्मतामादौ तदर्हं परिपृच्छति ॥ १७.७३॥
यत्साक्षादपरोक्षं स्याद्ब्रह्म तद्रूपतामयम् ।
अर्हेत्सर्वान्तरस्तादृग्य आत्मा ब्रूहि तं मुने ॥ १७.७४॥
साक्षादिति पदेनात्र व्यवधानं निवार्यते ।
स्वर्गलोकादिवद्ब्रह्म नातो देशान्तरादिगम् ॥ १७.७५॥
अगौणतापरोक्षोक्त्या ब्रह्मत्वस्य विवक्षिता ।
नामादेरिव नो गौणं ब्रह्मत्वं प्रत्यगात्मनः ॥ १७.७६॥
आविर्भावोऽपरोक्षत्वं तच्चास्त्यव्यवधानतः ।
स्वप्रकाशं स्वभावत्वादिति वार्थः पदद्वये ॥ १७.७७॥
अव्यावृत्ताननुगतं वस्तु ब्रह्म गिरोच्यते ।
अकारणमकार्यं तदित्यनेनोदितं भवेत् ॥ १७.७८॥
अमुमर्थमिदं प्राप्तं न चेदात्मैव तद्भवेत् ।
यतोऽत आत्मरूपार्थं य आत्मेति विशेष्यते ॥ १७.७९॥
सजातीयविजातीयद्वितीयार्थनिवृत्तये ।
सर्वान्तर इति प्राह सार्वात्म्यं तेन सिध्यति ॥ १७.८०॥
सार्वात्म्यं ब्रह्मणो योग्यं तच्च जीवात्मनीरितम् ।
मुख्यापरोक्ष्यं जीवस्य योग्यं ब्रह्मणि वर्णितम् ॥ १७.८१॥
अभेदो वास्तवो जीवब्रह्मणोर्व्यत्ययादतः ।
विवक्षितस्तत्प्रसङ्गाद्वादिव्यामोह आर्थिकः ॥ १७.८२॥
आत्मनो ब्रह्मता मुख्या ब्रह्मणोऽप्यात्मता तथा ।
प्रत्यग्दृष्ट्या पराग्दृष्ट्या मिथो ब्रह्मात्मनोर्भिदा ॥ १७.८३॥
ब्रह्मत्वमात्मनो रूपं तमसा तत्तिरोहितम् ।
आत्मत्वं ब्रह्माणोऽप्येवं ततो जीवेशभेदधीः ॥ १७.८४॥
तमसो बोधविध्वंसादब्रह्मानात्मताहतेः ।
प्रत्यङ्मात्रावशेषत्वात्स्यामपूर्वादिमानहम् ॥ १७.८५॥
अमूढो याज्ञवल्क्योऽत्र प्रत्यग्दृष्ट्या परामृशन् ।
प्रत्याहैष त आत्मेति तं सर्वान्तरमद्वयम् ॥ १७.८६॥
मुख्योऽपरोक्षो यः प्रत्यक् स्वप्रकाशो विभासते ।
एतच्छब्देन तं प्राह विस्पष्टत्वविवक्षया ॥ १७.८७॥
अन्तर्मुखस्य विस्पष्टो नायं सन्देहगोचरः ।
इत्यभिप्रेत्य तत्प्रश्ने बहुमानं तु नाकरोत् ॥ १७.८८॥
षष्ठ्यन्तस्य त इत्यस्य युष्मद्बुद्ध्युपलक्षितम् ।
देहादिसर्वमाव्योम्नो दृश्यमर्थो विवक्षितः ॥ १७.८९॥
आत्मेत्यव्यभिचारेण स्वरूपं यत्तदुच्यते ।
प्रमात्राद्यागमापायसाक्षित्वात्तत्स्वरूपता ॥ १७.९०॥
यद्यस्मिन् व्यभिचार्येत तत्स्वरूपं न कुत्रचित् ।
कुण्डलित्वं यथा पुंसः साक्षित्वव्यभिचारवान् ॥ १७.९१॥
व्यभिचारो मिथो यद्वत्प्रमात्रादेः स्वसाक्षिकः ।
साक्षिणोऽव्यभिचारस्तु तथा किं साक्षिको भवेत् ॥ १७.९२॥
आत्मात्मवत्वसम्बन्धः षष्ठ्योक्तो जगदात्मनोः ।
स्वतो निरात्मकं दृश्यमात्मना सात्मतां व्रजेत् ॥ १७.९३॥
आत्मा सर्वस्वरूपत्वात्सर्वान्तरगिरोदितः ।
सर्पधारादिकल्पेषु रज्जोरान्तरता यथा ॥ १७.९४॥
आत्मनोऽनवशेषेण तदन्यार्थाभिसङ्गतेः ।
प्रत्यङ्मात्रतयैवान्यद्बोधादात्मनि लीयते ॥ १७.९५॥
इत्थं स्वानुभवाद्याज्ञवल्क्यः सर्वान्तरं जगौ ।
अन्यः संशयमापाद्य जिगीषुः परिपृच्छति ॥ १७.९६॥
तवात्मेत्युत्तरं दत्तं ममात्मेति त्रिधेक्ष्यते ।
देहो लिङ्गं च साक्षीति तेषु सर्वान्तरस्तु कः ॥ १७.९७॥
सर्वान्तरत्वं दुःसाध्यमल्पयोर्देहलिङ्गयोः ।
सद्भावेऽन्यस्य किं मानमप्रमेयस्य साक्षिणः ॥ १७.९८॥
एवं पृष्टः स्वानुभूतौ वादिनोऽनधिकारताम् ।
मत्वाऽनुमानतः सत्तामात्मनः प्रत्यपादयत् ॥ १७.९९॥
स्वप्रभे माननैष्फल्यादप्रमेयत्वमिष्यते ।
वादिभ्रान्तिनिवृत्त्यर्थं मानोक्तौ ह्रियतेऽत्र किम् ॥ १७.१००॥
प्राणादिकरणैश्चेष्टा कर्तृपूर्वा क्रियात्वतः ।
छिदिक्रियावत्कर्तृत्वं न युक्तं देहलिङ्गयोः ॥ १७.१०१॥
कारणप्रेरकः कर्ता करणैः प्रेर्यते वपुः ।
लिङ्गं तु करणात्मत्वात्नैव कर्तृत्वमर्हति ॥ १७.१०२॥
मुखसञ्चारिणा जाग्रद्यः प्राणेनानतीक्षिता ।
सर्वप्रत्यक्तमः सोऽयमात्मा सर्वान्तरावधिः ॥ १७.१०३॥
सुप्तेऽस्मिन् करणग्रामे योऽसुप्तोऽलुप्तदृष्टिकः ।
अथ सर्वान्नामरूपान् पश्य प्राणिति वायुना ॥ १७.१०४॥
(अर्थात्सवासनारूपान्पश्यन्)
स्पष्टेषु बहुलिङ्गेषु मानाभावमचूचुदः ।
इत्युपालब्धये लिङ्गान्यपानादीन्युदाहरन् ॥ १७.१०५॥
एकादशेन्द्रियोत्पन्नचेष्टानामुपलक्षणम् ।
प्राणाद्युदाहृतिस्तेन लिङ्गानां बहुता स्फुटा ॥ १७.१०६॥
प्राणादिकार्यकरणैः स्वतोऽसंहत एकलः ।
अकुर्वन् कुरुते चेष्टामयस्कान्तो मणिर्यथा ॥ १७.१०७॥
रथादौ नियता चेष्टा चेतनेनानधिष्ठिते ।
न दृष्टा चेतनस्तेन प्राणादीनां प्रवर्तकः ॥ १७.१०८॥
ससूत्रदारुयन्त्रेण सदृशं लिङ्गवद्वपुः ।
यः प्रेरयत्यसावात्मेत्युक्तेऽन्योपजहास तम् ॥ १७.१०९॥
यथा गां दर्शयेत्युक्ते लिङ्गं मूढो वदेत्तथा ।
आपरोक्ष्यमनुक्त्वा त्वं लिङ्गेनावेदयस्यहो ॥ १७.११०॥
लिङ्गं वाच्यं परोक्षेऽर्थे न त्वात्मनि परोक्षता ।
इति मत्वाऽऽहैवकारं पारोक्षस्य निवर्तकम् ॥ १७.१११॥
मुख्यापरोक्षमुक्तं त इति दर्शयितुं पुनः ।
प्रत्यग्दृष्टिपरं वाक्यमुत्तरत्वेन वक्त्यसौ ॥ १७.११२॥
विद्वद्भाषामबुध्वाऽन्यः स्वरूपादिष्विवात्मनि ।
अक्षजन्यापरोक्षत्वं मत्वाऽपृच्छत्पुरेव तम् ॥ १७.११३॥
दृष्टश्रुतमतज्ञातेष्वेषु सर्वान्तरस्तु कः ।
दृष्ट्याद्यगोचरः प्रत्यङ्ङिति प्रश्नमपाकरोत् ॥ १७.११४॥
वेद्मीति यद्बलाद्वक्ति न वेद्मीति च यद्बलात् ।
योगिनोऽनुभवन्त्येतमगोचरतयैव हि ॥ १७.११५॥
उक्तवर्त्मातिरेकेण नात्मवस्तु घटादिवत् ।
शक्यते प्रतिनिर्देष्टुं प्रमाणाऽगोचरत्वतः ॥ १७.११६॥
द्रष्टृदर्शनदृश्यानां साक्षिणः स्वप्रभस्य तत् ।
प्रमाणगोचरत्वं तु वस्तुस्वाभाव्यतो भवेत् ॥ १७.११७॥
दृष्टेर्न पश्येद्द्रष्टारमिति प्रत्युत्तरं वचः ।
वक्त्यगोचरतामेतद्वाक्यं विव्रियते स्फुटम् ॥ १७.११८॥
चक्षुर्जन्यमनोवृत्तिश्चिद्युक्ता रूपभासिका ।
दृष्टिरित्युच्यते द्रष्टा दृष्टेः कर्तेति लौकिकैः ॥ १७.११९॥
अतो दृष्टिद्वयं वाक्ये भाति षष्ठ्यन्तशब्दतः ।
एका दृष्टिस्तृजन्तेन धातुनाऽन्येति तद्द्व्यम् ॥ १७.१२०॥
प्रमातुर्जायते वृत्तिश्चक्षुषा रूपरञ्जिता ।
द्रष्टव्यं तु तया रूपं साक्षी दृश्यते तया ॥ १७.१२१॥
दृष्टेर्द्रष्टारमात्मानं दृष्ट्या पश्येन्न दृश्यया ।
इति वाक्यं मुनिर्वक्ति वर्णितं न्यायगर्भितम् ॥ १७.१२२॥
येन चक्षुरिदं दृष्टं चक्षुषा यन्न पश्यति ।
ब्रह्म विद्धि तदेव त्वमिति श्रुत्यन्तरे स्फुटम् ॥ १७.१२३॥
श्रुतिः श्रोत्रजधीवृत्तिस्तस्याः श्रोताऽवभासकः ।
श्रुत्या शब्दावगाहिन्या श्रोतारं शृणुयान्न तम् ॥ १७.१२४॥
ऊहापोहात्मधीवृत्तिर्मतिस्तस्याः प्रकाशकम् ।
अनूह्यमनपोह्यं तं न मन्वीथास्त्वमेतया ॥ १७.१२५॥
अस्पष्ट ऊह्य आत्मा तु विस्पष्टो भानरूपतः ।
अनपोह्योऽनपायित्वादात्मा नापैति कर्हिचित् ॥ १७.१२६॥
निश्चयात्मकधीवृर्त्तिर्विज्ञातिस्तद्विभासकम् ।
असन्दिग्धं तया वृत्त्या न विज्ञातुं त्वमर्हसि ॥ १७.१२७॥
दृष्टश्रुतमतज्ञातेष्वित्थमात्मा न कश्चन ।
किं तर्येष तवात्मेति प्रोक्तः सर्वान्तरः पुरा ॥ १७.१२८॥
यः सर्वं विषयीकुर्वन् विषयीक्रियते न हि ।
किन्तु भाति स्वयं सोऽयं सर्वान्तर इतीरितः ॥ १७.१२९॥
सर्वान्तरत्वं सार्वात्म्यमन्यस्मिन्सति तत्कुतः ।
न चेदन्यत्तदा सर्वशब्दार्थो नेति शङ्किते ॥ १७.१३०॥
अतोऽन्यदार्तमित्याह दोषद्वयनिवृत्तये ।
आर्तं मायामयं तस्य तत्त्वज्ञानेन पीडनात् ॥ १७.१३१॥
सर्पादीनां कल्पितानां रज्जुरात्मा यथा तथा ।
मायामयस्य सर्वस्य चिद्वस्त्वात्मेति सुस्थितम् ॥ १७.१३२॥
पञ्चमब्राह्मणे पूर्वमुक्तस्य प्रत्यगात्मनः ।
ब्रह्मत्वसाधनं बोधो मुक्तलक्ष्म च वर्ण्यते ॥ १७.१३३॥
उषस्तपृष्टादन्यत्वं निवर्तयितुमात्मनः ।
यदेव साक्षादित्युक्तावेवकारः प्रयुज्यते ॥ १७.१३४॥
उपदेशस्य विषयस्त्वमर्थः शोधितः पुरा ।
न ब्रह्मत्वं सम्यगुक्तमिति पृच्छति तत्पुनः ॥ १७.१३५॥
अशनायादिरहितब्रह्मताया अभाषणे ।
न स्यात्सर्वान्तरत्वादि संसारिणि चिदात्मनि ॥ १७.१३६॥
इत्यभिप्रेत्य तेनोक्तं साक्षादित्यादिकं पुनः ।
अनूद्य सर्व पप्रच्छ कहोलो ब्रह्मरूपताम् ॥ १७.१३७॥
त्वमर्थाच्छोधितान्नान्यद्ब्रह्मेत्येतद्विवक्षया ।
उक्तमेवोत्तरं भूय एष इत्याद्यवोचत ॥ १७.१३८॥
क्षुत्पिपासे शोकमोहौ जरामृत्यू इतीदृशैः ।
त्रिभिर्युग्मैर्विशिष्टानां मध्येऽसौ कतमो वद ॥ १७.१३९॥
यद्यन्यतम एतेषां तस्य न ब्रह्मता तदा ।
एतेष्वनन्तर्भूतस्तु न कोऽप्यात्मा जनैर्मतः ॥ १७.१४०॥
विद्वज्जनानुभूत्यैष क्षुधादेरवभासकः ।
प्रसिद्ध इत्यभिप्रेत्य ब्रह्मत्वेन तमुक्तवान् ॥ १७.१४१॥
अत्येति योऽशनायादीन्विचारेण निरूपणे ।
क्षुधादिसाक्षी तस्यास्य ब्रह्मत्वं केन वार्यते ॥ १७.१४२॥
नन्वेक आत्मा मूढानां विदुषां चेति ते मतम् ।
उक्तोर्मिषट्कातीतत्वं तद्वत्वं चास्य तत्कथम् ॥ १७.१४३॥
अविचारविचाराभ्यां यथा सर्पत्वरज्जुते ।
तथात्मन्यपि संसारभावाभावावितीक्ष्यताम् ॥ १७.१४४॥
क्षुत्पिपासे प्राणधर्मौ शोकमोहौ तु मानसौ ।
जरामृत्यू देहधर्मावात्मधर्मौ न कश्चन ॥ १७.१४५॥
प्राणसञ्चारबाहुल्याद्गमनादिश्रमे सति ।
क्षुत्पिपासाजनिस्तेन प्राणधर्मत्वमेतयोः ॥ १७.१४६॥
इष्टस्य वस्तुनोऽसिद्धौ चेतसो याऽनवस्थितिः ।
स शोको मनसो धर्मो मोहश्च विषयभ्रमः ॥ १७.१४७॥
जरा देहस्य शैथिल्यं मृत्युः प्राणवियुक्तता ।
ते सर्वेऽप्यात्मनि भ्रान्त्या कल्पिता व्योम्नि नैल्यवत् ॥ १७.१४८॥
यः स्वकारणसंसर्गः क्षुधादेः प्रलये मतः ।
अनात्यन्तिकरूपत्वात्सोऽत्ययोऽत्र न गृह्यते ॥ १७.१४९॥
तत्कारणनिषेधो यः स्वमहिम्नैव वस्तुनः ।
तमत्ययं मोक्षविधौ तद्विद्वांसः प्रचक्षते ॥ १७.१५०॥
प्राणहेतुस्तमः प्राणधर्माभ्यामुपलक्ष्यते ।
सूत्रात्मा शोकमोहाभ्यां जरया मृत्युना विराट् ॥ १७.१५१॥
तमः सूत्रं विराजं च योऽत्येत्यात्मा स्वभावतः ।
असङ्गस्तत्परं ब्रह्म साक्षादित्यादिलक्षणम् ॥ १७.१५२॥
यथा विशुद्धमाकाशं सति वाऽसति वा मले ।
नीहारादौ तथैवात्मा कार्यकारणवस्तुनि ॥ १७.१५३॥
परमात्मस्वभावोऽयं कहोलाय प्रपञ्चितः ।
तद्बोधसाधनं त्यागः एतमित्यादिनोच्यते ॥ १७.१५४॥
उत्पन्नसम्यग्ज्ञानस्य संन्यासो लक्षणं यतः ।
साधनं च तदुत्पत्तौ संन्यासोऽतोऽत्र गम्यताम् ॥ १७.१५५॥
ब्रह्मात्मनोर्यदेकत्वं ब्राह्मणद्वयनिश्चितम् ।
एतं तमिति शब्दाभ्यां तदैकात्म्यमनूद्यते ॥ १७.१५६॥
अत्येति योऽशनायादीनेतं सर्वान्तरं पुरा ।
उदितं तं विदित्वाऽथ व्युत्तिष्ठत्येषणात्रयात् ॥ १७.१५७॥
ब्रह्मप्रश्नेन पृष्टे ते तद्बोधफलसाधने ।
इति मत्वोत्तरत्वेन व्युत्थानद्वयमुच्यते ॥ १७.१५८॥
पूर्वं विदित्वा प्रश्नात्तु व्युत्थायेत्यन्वयात् श्रुतात् ।
विद्वत्संन्यास आभाति ब्रह्मविद्याफलात्मकः ॥ १७.१५९॥
व्युत्थायाथ विदित्वेति व्यत्ययेनार्थिकान्वयात् ।
सिद्धो विविदिषात्यागः स्पष्टः श्रुत्यन्तरेष्वसौ ॥ १७.१६०॥
स्वात्मलोकं समिच्छन्तः प्रव्रजन्तीति वक्ष्यति ।
त्यागेनैकेऽमृतत्वं तु प्राप्ता इत्यपरा श्रुतिः ॥ १७.१६१॥
ब्राह्मणग्रहणं श्रुत्वा विप्राणामेव भाष्यकृत् ।
संन्यासेऽधिकृतिं प्राह चतुर्थाश्रमरूप्यसौ ॥ १७.१६२॥
विद्याङ्गं तत्फलात्मानं गार्गीविदुरयोरापि ।
स्त्रीशूद्रयोर्भाष्यकारः संन्यासमनुमन्यते ॥ १७.१६३॥
पुत्रैषणेति पुत्रार्थं दारस्वीकारवाञ्छनम् ।
कर्मणां साधने वित्ते तृष्णा वित्तैषणा मता ॥ १७.१६४॥
लोकैषणेति देवादिलोकार्थोपासनाऽर्थिता (ना श्रुता) ।
न कश्चिदन्यः संसारः उक्तादस्त्येषणात्रयात् ॥ १७.१६५॥
मनुष्यलोकः पुत्रेण पितृलोकस्तु कर्मणा ।
विद्यया देवलोकश्चेत्यब्रवीत्सङ्ग्रहश्रुतिः ॥ १७.१६६॥
न्याय्यां वृत्तिं समुल्लङ्घ्य तद्विरुद्धतया स्थितिः ।
व्युत्थानमुदितं राज्ञः सामन्तो व्युत्थितो यथा ॥ १७.१६७॥
भिक्षया लक्ष्यते चर्या परिग्रहविवर्जिता ।
किं भोग्यं परिगृह्णीयात्सर्वभोग्येषु दोषदृक् ॥ १७.१६८॥
लोकत्रयार्थैषणाभ्यो व्युत्थानं चापरिग्रहः ।
द्वयं बोधमहिम्नैव विदुषां न तु यत्नतः ॥ १७.१६९॥
आनन्दैकस्वभावं स्वमात्मानं पश्यतः कुतः ।
कामः परिग्रहो वा स्यात्योऽकाम इति वक्ष्यति ॥ १७.१७०॥
एषणात्रय एतस्मिन्समाना बन्धहेतुता ।
इति मत्वैकतां तासां त्याज्यैवेत्यब्रवीत् श्रुतिः ॥ १७.१७१॥
कर्मण्येवाधिकारस्ते मा फलेष्विति शास्त्रतः ।
एषणात्वात्फलं त्याज्यं न तु कर्मादिसाधनम् ॥ १७.१७२॥
इति भ्रमं व्युदसितुं प्राब्रवीत्साध्यसाधने ।
उभे अप्येषणे एवेत्यतस्त्यागस्तयोर्द्वयोः ॥ १७.१७३॥
अविशुद्धधियः कर्मण्यधिकारेऽपि शुद्धधीः ।
सत्यां विविदिषोत्पत्तौ तदर्थं कर्म सन्त्यजेत् ॥ १७.१७४॥
यस्माद्ब्रह्मविदः पूर्वे फलसंन्यासमाप्नुवन् ।
तस्माद्विविदिषुः कुर्यात्पाण्डित्यं फलसिद्धये ॥ १७.१७५॥
पाण्डित्यबाल्यमौनानि श्रवणादीनि तैरयम् ।
भवति ब्राह्मणस्तत्र ब्राह्मण्यं ब्रह्मरूपता ॥ १७.१७६॥
पण्डेतिबुद्धेर्नामैतत्सा जाता यस्य मानतः (नामतः) ।
स पण्डितस्तस्य कर्म पाण्डित्यं श्रवणं तु तत् ॥ १७.१७७॥
आचार्याच्चागमात् श्रुत्वा निःशेषं वेदनं ततः ।
बालभावेन तिष्ठासेत्युक्त्वा मननतत्परः ॥ १७.१७८॥
श्रवणं शास्त्रतात्पर्यनिश्चयो मननं पुनः ।
अर्थासम्भावनोच्छित्यै युक्तीनामनुचिन्तनम् ॥ १७.१७९॥
पाण्डित्येन विदित्वाऽथ च्छित्वा बाल्येन संशयम् ।
मुनिर्ध्यानसमाधिभ्यां भवेद्धीवृत्तिशान्तये ॥ १७.१८०॥
प्रशान्तवृत्तिके चित्ते परमानन्ददीपके ।
कृतकृत्यो ब्रह्मभावं गतो ब्राह्मण उच्यते ॥ १७.१८१॥
केनेति लक्षणप्रश्नो येनेदृक्तेन लक्ष्यताम् ।
इत्युत्तरवचो योज्यं तस्यार्थः प्रविविच्यते ॥ १७.१८२॥
गीतायां कुत्रचित्प्रोक्तं स्थितप्रज्ञस्य लक्षणम् ।
अन्यत्र विष्णुभक्तस्य गुणातीतस्य च क्वचित् ॥ १७.१८३॥
येन चिह्नेन तत्रायमीदृगेव निरेषणः ।
उपलक्षयितुं शक्यस्तदेवास्त्यस्य लक्षणम् ॥ १७.१८४॥
ब्रह्म यादृक्तादृगेव भवेद्विद्वान्विबोधतः ।
बोधोऽतो लक्षणं तस्य बोधश्च स्वात्मसाक्षिकः ॥ १७.१८५॥
अतोऽन्यदार्तमित्येष व्यतिरेकस्त्रिधोच्यते ।
प्रतीचो ब्रह्मतेहोक्ता भेद आर्तस्ततस्तयोः ॥ १७.१८६॥
निरेषणत्वं विद्याया हेतुरार्ता इहैषणाः ।
विदुषो लक्षणं बोध आर्तं तल्लक्षणान्तरम् ॥ १७.१८७॥
षष्ठेऽस्मिन् ब्राह्मणे ब्रह्मकार्यं सर्वं विविच्यते ।
सर्वान्तरत्वं सुज्ञेयं ब्रह्मणः सर्वनिर्णयात् ॥ १७.१८८॥
यद्यत्कार्यं कारणेन व्याप्तमन्तर्बहिश्च तत् ।
इति तर्केण पप्रच्छ कारणस्य परम्पराम् ॥ १७.१८९॥
पार्थिवं कठिनं सर्वमोतं प्रोतं द्रवे जले ।
दधिपिण्ड इव क्षीरे जलं कुत्र तथा स्थितम् ॥ १७.१९०॥
दीर्घतन्तुवदोतत्वं तिर्यक्तन्तोरिवेतरत् ।
यद्वान्तर्व्याप्तितत्वं प्रोतत्वं तु बहिः स्थितिः ॥ १७.१९१॥
जलस्य कारणं तेजस्तेजसो वायुराश्रयः ।
श्रुत्यन्तरादिदं ज्ञेयं वायोस्तु वियदाश्रयः ॥ १७.१९२॥
भूम्यादिवियदन्तानां भूतानामुत्तरोत्तरम् ।
सूक्ष्मताव्यापिते दृष्टे ताभ्यां कारणतेक्ष्यताम् ॥ १७.१९३॥
पञ्चभूतेभ्य उत्पन्ना अस्मद्देहादयोऽखिलाः ।
ब्रह्माण्डान्ता इमे देहा भोग्यत्वाल्लोकसंज्ञकाः ॥ १७.१९४॥
यथैकस्मादिक्षुरसादुत्तरोत्तरपाकतः ।
गुडादीनि बहूनि स्युर्भूतेभ्योऽण्डादयस्तथा ॥ १७.१९५॥
नरगन्धर्वमार्तण्डचन्द्रनक्षत्रदेवताः ।
इन्द्रो विराट् तदण्डं चेत्येता भूतदशाः स्मृताः ॥ १७.१९६॥
तत्र देहारम्भदशास्तत्तन्नाम्ना समीरिताः ।
स्थूलसूक्ष्मदशास्तासु कार्यकारणता क्रमात् ॥ १७.१९७॥
पञ्चीकृतानां भूतानां सूक्ष्मताण्डे समाप्यते ।
एतावदेव तर्केण गम्यं न तु ततः परम् ॥ १७.१९८॥
अण्डारम्भकभूतानामपञ्चीकृतभूतजम् ।
सूत्रं कारणमित्येतदागमेनैव गम्यते ॥ १७.१९९॥
अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत् ।
सूत्रान्तर्याम्यक्षराणि तार्किका नानुमन्वते ॥ १७.२००॥
तर्काभासो भवेत्तेषु हेतुदृष्टान्तवर्जनात् ।
अन्यथा प्रतिपत्त्याऽतो मूर्धपातं मुनिर्जगौ ॥ १७.२०१॥
सप्तमब्राह्मणे तर्क्यं सन्त्यज्यागममार्गतः (भागतः)।
ब्रह्माण्डकारणं सूत्रमन्तर्यामी च वर्ण्यते ॥ १७.२०२॥
सूत्रान्तर्यामिणौ ज्ञातौ गन्धर्वस्योपदेशतः ।
तर्कान्नेति विवक्षित्वा कथां भुज्युवदुक्तवान् ॥ १७.२०३॥
सूत्रबद्धं दारुयन्त्रं पुरुषो नर्तयेद्यथा ।
सूत्रबद्धं जगत्तद्वतन्तर्यामी नियच्छति ॥ १७.२०४॥
सूत्रान्तर्यामिणौ सर्वजगत्यनुगतावतः ।
तौ विद्वानखिलं वेत्तीत्यतो ज्ञातव्यता तयोः ॥ १७.२०५॥
समष्टिव्यष्टिरूपेण भुज्युं प्रति य ईरितः ।
स एव वायुः सूत्रात्मा तेन सर्वं जगद्धृतम् ॥ १७.२०६॥
ब्रह्मादिस्तम्बपर्यन्तं प्राणिकर्म पुरा कृतम् ।
वाय्वात्मना परिणतं वर्तते कारणात्मनि ॥ १७.२०७॥
मूर्तामूर्तब्राह्मणोक्तवासना एतमाश्रिताः ।
तदात्मकमिदं लिङ्गं यत्सप्तदशमुच्यते ॥ १७.२०८॥
विष्टब्धो वायुना देह इत्येतन्मरणे सति ।
आवयोर्वपुषः कर्मायोग्यत्वादवसीयताम् ॥ १७.२०९॥
अपञ्चीकृतभूतानां कार्यं सूत्रमुदाहृतम् ।
अण्डारम्भकभूतानि प्रोतान्योतानि तत्र हि ॥ १७.२१०॥
सूत्रादप्यान्तरं तत्त्वमन्तर्याम्याख्यमुच्यते ।
कार्यकारणभावोऽयमस्मिन्नुक्ते समाप्यते ॥ १७.२११॥
भूमिष्ठोऽभ्यन्तरो भूमेर्भूम्यज्ञातश्च भूवपुः ।
नियच्छति भुवं योऽन्तः स आत्माऽन्यस्य तेऽपि मे ॥ १७.२१२॥
लोकं धत्ते स्वयं भूमिः स्वान्तर्यामी स्वयं ततः ।
इति स्वभाववादोऽयं भूमिष्ठत्वेन वार्यते ॥ १७.२१३॥
अन्तरत्वेन भूमिष्ठपर्वतादि निवर्त्यते ।
भूदेवतानिवृत्तिः स्यात्यं न जानाति भूरिति ॥ १७.२१४॥
नान्तर्यामी विदेहत्वे साधनानामसम्भवात् ।
देहिता तु न दृष्टेति न दोषो भूवपुष्मतः ॥ १७.२१५॥
भूदेवताया यो देहो देहोंऽतर्यामिणोऽपि सः ।
देवस्य कर्मणेशस्य मायया चार्जितो यतः ॥ १७.२१६॥
न चैकदेहयोगेऽपि यन्तृयन्तव्यसङ्करः ।
बहिष्ठां देवतां भूमिमन्तःस्थेशो नियच्छति ॥ १७.२१७॥
कार्योपाधिर्बहिष्ठः स्यात्कारणोपाधिरान्तरः ।
उपाधिमात्रतो भेदो वस्तुतस्तु न भिद्यते ॥ १७.२१८॥
अतस्ते मेऽखिलस्यापि सोऽन्तर्याम्यात्मतां गतः ।
अमृतत्वान्न जीवत्वमात्मत्वेऽप्यस्य शङ्क्यते ॥ १७.२१९॥
सार्वात्म्यं वक्तुमस्यैष बहूपाधिषु वर्णितः ।
सर्वात्मा शक्तियुक्तो यः सोऽन्तर्यामीति गम्यताम् ॥ १७.२२०॥
प्रत्यग्ध्वान्तं चिदाभासं स्वकार्यनियमात्मकम् ।
तदुपाधिर्नियन्तैष परः प्रोक्तो न तु स्वतः ॥ १७.२२१॥
सर्वज्ञः सर्वशक्तिश्च सर्वात्मा सर्वगो ध्रुवः ।
जगज्जन्मस्थितिध्वंसहेतुरेष महेश्वरः ॥ १७.२२२॥
नारायणाभिधो मन्त्र एतस्यैवाभिधायकः ।
पञ्चाक्षरेण मन्त्रेण शिव इत्येष गीयते ॥ १७.२२३॥
हिरण्यगर्भं हैरण्यगर्भीया एवमूचिरे ।
व्यासस्तत्तत्पुराणेषु तत्तद्रूपतयोचिवान् ॥ १७.२२४॥
भूम्यादिदेवताः कस्मान्न स्वान्तर्यामिणं विदुः ।
अदृष्टोऽश्रुत इत्याह कारणं तदवेदने ॥ १७.२२५॥
दृष्टिश्रुतिमतिज्ञातिविषयत्वं चिदात्मनः ।
उषस्तब्राह्मणे पूर्वं युक्त्या सम्यङ् निवारितम् ॥ १७.२२६॥
मागोचरातिवर्तित्वान्मातृमानादिसाक्षिणः ।
द्रष्टुरन्यस्य चाभावान्न तं पश्यन्ति देवताः ॥ १७.२२७॥
अदृष्टत्वाश्रुतत्वादि प्रत्यग्ध्वान्तेऽपि सम्भवेत् ।
तन्निवृत्त्यै श्रुतिर्द्रष्टा श्रोता मन्तेत्यभाषत ॥ १७.२२८॥
द्रष्टृत्वश्रोतृताद्यस्य दृष्टिश्रुत्यादिसाक्षिता ।
अलुप्तचित्स्वभावत्वान्न विकारो मनागपि ॥ १७.२२९॥
लोकसिद्धा नियम्यस्य जीवस्य द्रष्टृता तथा ।
अन्तर्याम्यपि चेद्द्रष्टा देहे भासेत तद्द्वयम् ॥ १७.२३०॥
इति शङ्कानिवृत्त्यर्थं नान्योऽतोऽस्तीति भण्यते ।
लोके जीवतया मूढैरन्तर्याम्येव भाव्यते ॥ १७.२३१॥
साधारणो यथा सूर्यो मां प्रत्येवेति पामरैः ।
असाधारणरूपेण भाव्यते जीवता तथा ॥ १७.२३२॥
बुद्धिस्थः पर एवात्मा जीवात्मेति निगद्यते ।
बुद्ध्यागमापायसाक्षी नियन्तेत्युच्यते परः ॥ १७.२३३॥
सूत्रान्तर्यामिणौ शास्त्रगम्यत्वेन प्रतिष्ठितौ ।
अप्रतिष्ठिततर्केण गम्यमार्तमतोऽपरम् ॥ १७.२३४॥
अष्टमब्राह्मणे ब्रह्मतत्त्वं सम्यङ् निरूप्यते ।
सूत्रमन्तर्यामिता च यत्रोतप्रोततां व्रजेत् ॥ १७.२३५॥
पूर्वत्र गौतमोऽपृच्छत्सूत्रान्तर्यामिवस्तुनी ।
ओतप्रोतात्मतां गार्गी तयोरेवात्र पृच्छति ॥ १७.२३६॥
अण्डोर्ध्वाऽधोमध्यदेशान् कालं च व्याप्य तिष्ठति ।
सूत्रमित्याहुराचार्या ओतं प्रोतं च कुत्रचित् ॥ १७.२३७॥
अण्डारम्भकभूतानां न पृष्टा सूत्र ओतता ।
सूत्रेण विधृतं पूर्वमिति पूर्वत्र निर्णयात् ॥ १७.२३८॥
तार्किकत्वनिवृत्त्यर्थमाचार्योक्तिमुदाहरत् ।
निःशेषदेशकालोक्त्या सूत्रे सर्वात्मतोदिता ॥ १७.२३९॥
व्यक्तं सर्वं सूत्ररूपमव्यक्ते व्योमसंज्ञके ।
ओतं प्रोतं च विद्धीति प्राह पृष्टमनूद्य सः ॥ १७.२४०॥
देशकालौ च सूत्रेऽतर्भूतौ देशात्मकं ततः ।
वियन्नाकाशमत्रेति सूचनायानुवादगीः ॥ १७.२४१॥
बोद्धुं बोधयितुं चैतदव्यक्तं दुःशकन्त्विति ।
विस्मिता प्रणनामासौ तमव्याकृतवादिनम् ॥ १७.२४२॥
भूयोऽपि पृष्टमप्राक्षीत्प्रधानादिषु शङ्कया ।
प्रधानादीन् जगद्धेतून्वादिनः स्थापयन्ति हि ॥ १७.२४३॥
सावधारणमाकाशं एवेत्यन्यनिवृत्तये ।
आहोत्तरं मूर्धपातं सूचयंस्तर्कनिर्णये ॥ १७.२४४॥
यद्वा तन्तुष्विव पटः सूत्रं बहुषु संस्थितम् ।
इत्याशङ्क्य पुनः प्रश्न एवकारो बहुत्वनुत् ॥ १७.२४५॥
कस्मिन् खल्वयमाकाश ओतः प्रोतश्च ईर्यताम् ।
अनोतत्वे स्वतन्त्रत्वात्प्रधानत्वं प्रसज्यते ॥ १७.२४६॥
सूक्ष्मत्वाद्दुर्वचं सूत्रं व्योम सूक्ष्मतरं ततः ।
व्योमाश्रयः सूक्ष्मतमो न वाग्गोचरमेत्यतः ॥ १७.२४७॥
वक्ति चेन्निग्रहस्थानमवाच्यस्योक्तितो भवेत् ।
अनुक्तौ वादिता हानिरिति गार्ग्या विवक्षितम् ॥ १७.२४८॥
उक्तदोषद्वयास्पृष्टं प्रत्युत्तरमभाषत ।
एतद्वा अक्षरं गार्गि प्राहुस्तद्ब्राह्मणा इति ॥ १७.२४९॥
एतच्छब्देन तस्याह प्रत्यक्त्वात्साक्षितामसौ ।
प्रत्यक्तया तदैकात्म्यं स्वयमेव प्रतीयताम् ॥ १७.२५०॥
न व्यावृत्तं विशेषेभ्यो नानुवृत्तं च गोत्ववत् ।
अव्यावृत्ताननुगतं चैतन्यं केन वीक्ष्यताम् ॥ १७.२५१॥
यस्मात्प्रसिद्धं नास्त्यन्यत्प्रसिद्धं यन्न कस्यचित् ।
स्वप्रभत्वादसङ्गत्वात्वैशब्दस्तत्प्रसिद्धये ॥ १७.२५२॥
साक्षादित्यादिता पूर्वं योऽशनायादिना तथा ।
यत्नादभिहितः प्रत्यक्तच्छब्देन स गृह्यते ॥ १७.२५३॥
क्षराद्विरुद्धधर्मत्वादक्षरं ब्रह्म भण्यते ।
कार्यकारणरूपं तु नश्वरं क्षरमुच्यते ॥ १७.२५४॥
ध्वस्तात्माऽज्ञानतत्कार्याः प्रत्यग्याथात्म्यबोधतः ।
त्यक्तसर्वेषणा अत्र ब्राह्मणा इति कीर्तिताः ॥ १७.२५५॥
शास्त्रैकगम्यतासिद्ध्यै वदन्तीत्यभिधीयते ।
ब्राह्मणास्तद्वदन्तीति स्वापराधनिषेधगीः ॥ १७.२५६॥
नावाच्यं वच्म्यहं किन्तु वदन्ति गुरवोऽखिलाः ।
इति वच्मि वचस्तेन वादिताऽपि न हीयते ॥ १७.२५७॥
गुरवोऽपि कथं प्राहुरवाच्यमिति चेच्छृणु ।
स्थूलादीनां निषेधेन लक्षयन्त्यक्षरं बुधाः ॥ १७.२५८॥
अभावशेषो नाशङ्क्यो निषेधावधिशेषणात् ।
नाभावनिष्ठो लोकेऽपि निषेधः किमुताक्षरे ॥ १७.२५९॥
अन्तर्यामिणि बुद्धेऽथ सुशकम्बोद्धुमक्षरम् ।
प्रशासनेन लिङ्गेन सोऽन्तर्याम्यव बुध्यताम् ॥ १७.२६०॥
ईशितव्यार्थसम्बन्धादन्तर्याम्येतमक्षरम् ।
चैतन्याभासमोहाख्यवर्त्मनैव न तु स्वतः ॥ १७.२६१॥
एतस्य वा अक्षरस्य शासने सत्यदो जगत् ।
स्याद्व्यवस्थितमर्यादं सूर्यचन्द्रादिलक्षणम् ॥ १७.२६२॥
विवाद्गोचरापन्ना यन्तृपूर्वा जगत्स्थितिः ।
व्यवस्थितत्वाल्लोकस्य राजपूर्वा स्थितिर्यथा ॥ १७.२६३॥
सूर्यचन्द्रौ द्युभूर्लोको कालो नद्यो यथायथम् ।
नियमेन प्रवर्तन्ते सा प्रवृत्तिर्व्यवस्थितिः ॥ १७.२६४॥
धने दानेन नष्टेऽपि तत्फलप्रद ईश्वरः ।
यतोऽस्ति तेन दातारं तं प्रशंसन्ति वैदिकाः ॥ १७.२६५॥
नापूर्वं फलदं तस्मिन्मानाभावात्फलं पुनः ।
ईशादप्युपपन्नत्वात्नैवापूर्वस्य कल्पकम् ॥ १७.२६६॥
सेव्याद्राज्ञः फलप्राप्तिर्दृश्यते न त्वपूर्वतः ।
दानादिक्रियया सेव्यादीशात्तद्वत्फलं भवेत् ॥ १७.२६७॥
देवता यागकर्तारं पितरः श्राद्धकारिणम् ।
नाप्नुयुर्हव्यकव्यार्थं यदि न स्यात्प्रशासिता ॥ १७.२६८॥
होमयागतपांस्यज्ञैर्बहुकृत्वः कृतान्यपि ।
विनाशफलदानीति शासनं तत्प्रशासितुः ॥ १७.२६९॥
अज्ञानमात्रतो बन्धो ज्ञानमात्रेण मुक्तता ।
इत्याश्चर्याणि सर्वाणि कल्पयन्तीश्वरास्तिताम् ॥ १७.२७०॥
विवादशङ्कापीशेऽस्मिन्न सम्भाव्येति दर्शयन् ।
प्रशासनं लिङ्गरूपं प्रपञ्चितमनेकशः ॥ १७.२७१॥
यदप्रबोधात्कार्पण्यं ब्राह्मण्यं यत्प्रबोधतः ।
तदक्षरं प्रबोद्धव्यं यथोक्तेश्वरवर्त्मना ॥ १७.२७२॥
अक्षरस्य प्रशास्तृत्वं स्वमोहाभासकल्पितम् ।
न स्वाभाविकमित्येतद्वक्त्यदृष्टादिवाक्यतः ॥ १७.२७३॥
मागोचरातिवर्तित्वाददृष्टं स्यात्तदक्षरम् ।
अभावत्वनिषेधार्थं द्रष्ट्रक्षरमितीर्यते ॥ १७.२७४॥
कूटस्थदृक्त्वं द्रष्टृत्वं न दृश्ये दृष्टिकर्तृता ।
ओतप्रोतगिराऽशेषदृश्यवस्तुनिराकृतेः ॥ १७.२७५॥
उक्तद्रष्ट्रतिरेकेण दृश्यं नास्ति यथा तथा ।
जीवद्रष्टृनिषेधार्थं नान्यदित्याद्युदीरणम् ॥ १७.२७६॥
विजातीयसजातीयस्त्वन्तरनिषेधतः ।
कूटस्थमेकं चैतन्यं सिद्धं वस्त्वक्षरं परम् ॥ १७.२७७॥
एतस्मिन्नक्षरे गार्गि स्रजि कॢप्तफणीन्द्रवत् ।
ओतःप्रोतश्च निःशेष आकाशः कारणात्मकः ॥ १७.२७८॥
अक्षरं स्वात्मसम्मोहात्कारणत्वं निगच्छति ।
तथा कार्यत्वमप्येतन्निरवद्यं तदेकलम् ॥ १७.२७९॥
सर्वस्याक्षरमात्रत्वात्कृत्स्नने ज्ञेयसमाप्तितः ।
न ज्ञेयं शिष्यते किञ्चिन्नाप्यध्यस्तं तथा तमः ॥ १७.२८०॥
नवमब्राह्मणे देवनिर्णयस्तदुपासनम् ।
अष्टधा पञ्चधा चौपनिषदश्चोच्यते क्रमात् ॥ १७.२८१॥
सूर्यचन्द्रादयो देवाः शासितव्या उदीरिताः ।
तेषां विस्तार आनन्त्यं सङ्क्षेपस्त्वेकदेवता ॥ १७.२८२॥
त्रयश्चेत्यादिभिर्लक्ष्या बहुशब्दैरनन्तता ।
सुषुप्तिप्रलयावस्थः कारणात्मैकदेवता ॥ १७.२८३॥
नानात्वैकत्वरूपाभ्यां तिष्ठति प्राणदेवता ।
नियन्तव्यनियन्तृत्वसम्बन्धस्य प्रसिद्धये ॥ १७.२८४॥
पृथिव्येवेत्यादिवाक्यादष्टधोपासनेरिता ।
किं देवेत्यादिवाक्येन पञ्चधोपासनं श्रुतम् ॥ १७.२८५॥
एतावदेव शाकल्यो वेत्ति मायामयं तु तत् ।
याज्ञवल्क्यः स इत्यादिवस्त्वनूद्याथ पृष्टवान् ॥ १७.२८६॥
देवविस्तारसङ्क्षेपावष्टधा पञ्चधा च यत् ।
उपास्यमुक्तं तत्सर्वं नेति नेतीत्यपोह्यते ॥ १७.२८७॥
इतिशब्देन निर्दिष्टे दृश्ये तस्मिन्नपोहिते ।
योऽवशिष्टः स आत्मास्य दृश्यस्यात्मवतो मतः ॥ १७.२८८॥
आत्मात्मवत्वसम्बन्धो नान्यो दृग्दृश्ययोरिति ।
मत्वात्मशब्दो दृग्वस्तुन्यवाच्येऽपि प्रयुज्यते ॥ १७.२८९॥
ननु ब्रह्माधिकारेऽस्मिन् कथमात्मेति वर्ण्यते ।
नैष दोषोऽतिरेकेण नात्मनो ब्रह्मता यतः ॥ १७.२९०॥
ग्राह्यत्वं शीर्णता सङ्गो बन्धो भीतिश्च हिंसनम् ।
जाड्याज्जडस्य धर्माः स्युर्न ते सन्त्यात्मवस्तुनि ॥ १७.२९१॥
कार्यधर्मानतीत्यैतांस्तद्धेत्वज्ञाननिह्नुतेः ।
अपूर्वोऽनपरः पूर्ण आत्मा स्वात्मन्यवस्थितः ॥ १७.२९२॥
इति तत्त्वमनूद्यास्य सृष्टिसंहारहेतुताम् ।
तथैवोपनिषद्वेद्यमसङ्गत्वं च पृष्टवान् ॥ १७.२९३॥
आत्मा निरूह्य प्रत्यूह्य पुरुषान्योऽत्यवर्तत ।
तमौपनिषदं ब्रूहि मूर्धपातं तु तेऽन्यथा ॥ १७.२९४॥
योऽनूदितो नेति नेति सच्चिन्मात्रो ह्यविक्रियः ।
उक्तौ पुरुषनिर्वाहप्रतिवाहौ तु मायिकौ ॥ १७.२९५॥
सृष्टिरष्टविधोपास्यरूपा निर्वाह उच्यते ।
प्रतिवाहस्तु संहारो दिग्देवद्वारतो हृदि ॥ १७.२९६॥
वस्तुवृत्तेन निःशेषकार्यकारणवर्जनम् ।
तस्यातिक्रान्तिरुद्दिष्टा स चोपनिषदि श्रुतः ॥ १७.२९७॥
कर्मकाण्डे विरोधित्वान्नैवायं श्रूयते क्वचित् ।
ऐकात्म्यवस्तुविज्ञानं कर्मभिर्हि विरुद्ध्यते ॥ १७.२९८॥
य औपनिषदस्तस्य विज्ञानानन्दरूपता ।
दातृताभोगमुक्त्योश्च वक्तव्येत्युत्तरा श्रुतिः ॥ १७.२९९॥
महाप्रलयसम्पत्तौ जगतः पुनरुद्भवे ।
कारणं पृच्छ्यते वृक्षसर्वसाधर्म्यपूर्वकम् ॥ १७.३००॥
वृक्षःकाण्डरुहो बीजरुहो चेति द्विधा तयोः ।
समः काण्डरुहेणैष रेतसो योऽभिजायते ॥ १७.३०१॥
न पृच्छ्यतेऽतिस्ष्टत्वात्तदवान्तरकारणम् ।
किन्त्वस्पष्टमशेषस्य पृच्छ्यते मूलकारणम् ॥ १७.३०२॥
अन्वयव्यतिरेकाभ्यां बीजाख्यात्मूलकारणात् ।
दृष्टा वृक्षजनिस्तद्वत्कस्मान्मूलाज्जगज्जनिः ॥ १७.३०३॥
नित्यजातस्वभावत्वं न मन्तव्यं मृतो यतः ।
पुनः पुनर्जायते स्यात्कृतनाशादिरन्यथा ॥ १७.३०४॥
कोऽन्वेनं जनयेन्मर्त्यमित्युक्ता न विदुर्द्विजाः ।
जित्वा तान्याज्ञवल्क्यस्तु गोसहस्रं गृहीतवान् ॥ १७.३०५॥
मुनिपृष्टं जगन्मूलं मुमुक्ष्वनुजिघृक्षया ।
आह विज्ञानमानन्दं ब्रह्मेति श्रुतिरादरात् ॥ १७.३०६॥
विज्ञानमिति चैतन्यं न क्रिया नापि तत्फलम् ।
न कारकं न चाभावः क्रियादेः किन्तु भासकम् ॥ १७.३०७॥
निर्धूताशेषदुःखौघहेतुत्वात्सुखमेव तत् ।
अथैष परमानन्दो यो वै भूमेति शास्त्रतः ॥ १७.३०८॥
अव्यावृत्ताननुगतभास्वद्विज्ञानमात्रतः ।
निरवद्यान्वयत्वात्तत्साक्षाद्ब्रह्मेति भण्यते ॥ १७.३०९॥
तदेवाऽविद्यया शक्त्या भोगमोक्षप्रदातृ हि ।
अनुगृह्णातु तद्भूयो विद्यातीर्थमहेश्वरः ॥ १७.३१०॥
इति श्रीमद्विद्यारण्यमुनिविरचिते अनुभूतिप्रकाशे
आश्वलायनादिमुनिबोधाख्यो नाम सप्तदशोऽध्यायः ॥ १७॥
१८. जनकविद्याप्रकाशो नामाष्टादशोऽध्यायः ।
षष्ठाध्याये याज्ञवल्क्यो जनकायोपदिष्टवान् ।
उपस्तिं तत्त्वविद्यां तु सङ्ग्रहाद्विस्तरादपि ॥ १८.१॥
ध्यानादिहैव देवः सन्मृत्वा देवत्वमाप्नुयात् ।
प्रथमब्राह्मणे प्रोक्तं चतुष्पाद्ब्रह्मचिन्तनम् ॥ १८.२॥
वागाद्या देवतास्तासामाधारस्तत्तदिन्द्रियम् ।
अव्याकृतं च नामेति पादाश्चत्वार ईरिताः ॥ १८.३॥
असमाप्तेः पुमर्थस्य न मुख्यमनुशासनम् ।
तद्दत्तां याज्ञवल्क्योऽतो नाग्रहीद्गुरुदक्षिणाम् ॥ १८.४॥
द्वितीये ब्राह्मणे जाग्रत्स्वप्नसुप्तिमुखान्निजम् ।
आत्मानं शास्त्यतो राजा यथाविध्युपसन्नवान् ॥ १८.५॥
उक्तोपासनतः प्राप्यो देवभावः पुरोदितः ।
देवत्वान्मुच्यमानेन प्राप्यं पृच्छत्यसौ मुनिः ॥ १८.६॥
गन्तव्यं तु न जानामीत्यविद्यां स्वात्मनि स्थिताम् ।
प्रकटीकुर्वतो राज्ञ इन्धतत्त्वमुपादिशत् ॥ १८.७॥
इन्धतेऽहर्निशं यस्मादिन्धनामा ततः पुमान् ।
वीर्यवद्दक्षिणं चक्षुः श्रौतो वातिशयोऽत्र हि ॥ १८.८॥
परोक्षनामव्याजेन परमैश्वर्यवाचिनम् ।
इन्धशब्दं प्रयुञ्जान इन्धस्याहेश्वरात्मताम् ॥ १८.९॥
दक्षिणाक्षिणि चैतन्यं पुरुषो वामचक्षुषि ।
चैतन्यं स्त्रीति भेदोऽयं कल्प्यते सुखबुद्धये ॥ १८.१०॥
उक्ता जाग्रदवस्थैवमिन्द्रियव्यवहारकृत् ।
दम्पत्योः सङ्गमः स्वप्नो हार्दाकाशेऽथ भण्यते ॥ १८.११॥
सम्भूयस्तुतिरत्रेति संस्तावो हृदये सुषिः ।
अनिष्टान्नरसो रक्तपिण्डो यः सोऽन्नमेतयोः ॥ १८.१२॥
हृद्यन्तः शतनाडीनां पुञ्जं प्रावरणं विदुः ।
स्वप्नाज्जागरणप्राप्त्यै मार्गो नाड्यूर्ध्वगामिनी ॥ १८.१३॥
यस्मादन्नरसः केशसहस्रांशेन सम्मितैः ।
नाडीभेदैः स्वप्नदृश्यं याति सूक्ष्मतरस्ततः ॥ १८.१४॥
स्वप्नावस्था समाप्ताथ तस्य प्राचीति वाक्यतः ।
सुषुप्तिरुच्यते तत्र युक्ता सर्वदिगात्मता ॥ १८.१५॥
साश्रयैः करणैर्हीनो ग्रस्ताध्यात्माधिदैवतः ।
सुषुप्तावेक एवास्ते प्रज्ञानघनविग्रहः ॥ १८.१६॥
इन्धतैजससौषुप्तैर्विराट्सूत्रेश्वरा अपि ।
संलक्षिता अथैतेषां तत्त्वमात्मोपदिश्यते ॥ १८.१७॥
विराडिन्धादिभिर्भेदैरभिन्नो योऽवभासते ।
स एष नेति नेत्यात्मा न कार्यं नापि कारणम् ॥ १८.१८॥
तेनैव ज्ञात्मनाशेषं तद्ध्वान्तं ध्वान्तजं तथा । (ध्वान्तजं तत्तथा जगत्)
जग्ध्वा नेत्यात्मना विद्वान् पूर्णदृष्ट्यावशिष्यते ॥ १८.१९॥
गन्तव्यमुपदिश्यैवं प्राप्तोऽस्यभयमित्यृषिः ।
ऊचे बोधस्ततः प्राप्तः प्राप्स्यसीत्यन्यथा वदेत् ॥ १८.२०॥
ज्ञानेन सदृशीमन्यामपश्यन् गुरुदक्षिणाम् ।
अभयं त्वेति वचसा दक्षिणामाशिषं ददौ ॥ १८.२१॥
उत्तमा दक्षिणैषाशीर्मध्यमा तु नमस्क्रिया ।
स्वभूमिवपुषोर्दानं वित्तशाठ्यनिवृत्तये ॥ १८.२२॥
तृतीयब्राह्मणे स्वप्नसुषुप्त्योरतिविस्तृतिः ।
क्रियते तौ (क्रियतेऽतौ) हि दृष्टान्तौ परलोकविमोक्षयोः ॥ १८.२३॥
देहादिव्यतिरिक्तत्वं स्वप्रभत्वमसङ्गता ।
स्वप्नप्रसङ्गतस्त्वैतत्त्रयमत्र प्रपञ्च्यते ॥ १८.२४॥
अद्वैतत्वं दृष्ट्यलोप आनन्दैकस्वभावता ।
इदं त्रयं सुषुप्तस्य प्रसङ्गेनोपपाद्यते ॥ १८.२५॥
वरदानेन संवादमिच्छन्तं तमशङ्कया ।
आदौ राजेष्टमप्राक्षीत्प्रत्यग्ज्योतिर्बुभुत्सया ॥ १८.२६॥
देहेन्द्रियादिसङ्घातः पुमान् किं ज्योतिरुच्यताम् ।
उपवेशनगत्यादि न युक्तं ज्योतिषा विना ॥ १८.२७॥
किं सङ्घातगतं ज्योतिः किं वा सङ्घातिरेकि तत् ।
अतिरिक्तत्वमादत्ते आदित्यादेरुदाहृतेः ॥ १८.२८॥
रविसोमाग्निशब्दादिज्योतींष्युक्तानि जागरे ।
निदर्शनतया ज्योतिस्तैः स्वप्नेऽप्यनुमीयताम् ॥ १८.२९॥
स्वप्ने देहव्यवहृतिर्भिन्नज्योतिः (स्वप्नदेह) पुरःसरा ।
व्यवहारत्वतो जाग्रद्व्यवहारो यथा तथा ॥ १८.३०॥
सुप्तौ च पुनरुत्थानव्यवहारस्य कारणम् ।
अस्ति ज्योतिरिति ज्ञात्वा तद्विशेषं स पृष्टवान् ॥ १८.३१॥
स्वप्रकाशस्वरूपत्वात्तद्विशेषो ह्यतिस्फुटः ।
तथाप्यविद्ययाच्छन्नः सोऽस्पष्ट इव वर्तते ॥ १८.३२॥
एतादृश्या अविद्याया विचारेण निवृत्तये ।
आत्मैव ज्योतिरस्येति प्राह स्वप्नावभासकम् ॥ १८.३३॥
भास्यं स्वप्नसुषुप्त्यादि यस्मिन् भाने प्रकल्पितम् ।
तद्भानं तत्स्वरूपत्वादात्मशब्देन भण्यते ॥ १८.३४॥
आत्माविद्यां तदुत्थं वा पराग्धीरवगाहते ।
प्रत्यग्बुध्यावगाह्योऽतः आत्माऽहं भामि केवलः ॥ १८.३५॥
आत्मैवेत्येवकारेण स्वप्नदृश्येष्वनात्मसु ।
ज्योतिष्ट्वशङ्का व्यावृत्ता वासनामयवस्तुषु ॥ १८.३६॥
अस्येति वासनारूपो दृश्यो देहादिरुच्यते ।
भास्यभासकसम्बन्धः षष्ठ्योक्तो वासनात्मनोः ॥ १८.३७॥
ज्योतिष्ट्वम्भासकत्वं स्याच्चिदाभासमुखेन तत् ।
उपपन्नमसङ्गस्य भान्वादिवदनुग्रहात् ॥ १८.३८॥
भान्वादयः प्रभाद्वारा चक्षुराद्यनुगृह्णते ।
तथैवात्मानुगृह्णाति चिदाभासेन शेमुषीम् ॥ १८.३९॥
अविद्यान्वयवद्बुद्धेश्चिदाभासान्वयस्सदा (वयस्तथा) ।
अस्ति तद्व्यतिरेकेण बुद्धेः परिणतिर्वृथा ॥ १८.४०॥
चिदाभासविहीनस्य चित्तस्य परिणामतः ।
न किञ्चिद्भासते वस्तु साभासा धीस्ततः सदा ॥ १८.४१॥
साभासपरिणामेन दुःख्यस्मीत्यपि धीर्भवेत् ।
तथा साभासमज्ञानं न वेद्मीत्यनुभूयते ॥ १८.४२॥
अन्यथात्मनि कौटस्थ्याद्बुद्धौ चैतन्यवर्जनात् ।
सर्वोऽपि व्यवहारः स्यातन्धकारप्रनृत्यवत् (प्रवृत्तवत्) ॥ १८.४३॥
चिदाभासानुग्रहोऽत्र ज्योतिष्ट्वम्भानुवन्मतम् ।
न तु रव्यादिवच्चक्षुर्ग्राह्यभास्वररूपता ॥ १८.४४॥
आदित्यादिरनात्मार्थः सिध्यत्यक्षादिमानतः ।
मात्रादिसिद्धिदस्यास्य स्वतःसिद्धेर्न मेयता ॥ १८.४५॥
नाप्रमेयत्वमात्रेण शशशृङ्गादितुल्यता ।
अनन्यानुभवेनास्य विशदं स्फुरणं यतः ॥ १८.४६॥
स्यात्स्वप्नव्यवहारोऽयमात्मना ज्योतिषा दृशा ।
देहादिव्यतिरिक्तत्वमेवं सिद्धं चिदात्मनः ॥ १८.४७॥
आत्मैवास्येति देहादेः स्वरूपत्वेन चिच्छ्रुता ।
चितो देहादिभेदोऽपि भान्वादिवदुदीरितः ॥ १८.४८॥
पूर्वोत्तरविरुद्धार्थं मत्वा पप्रच्छ भूपतिः ।
बहवोऽर्थाः समीक्ष्यन्ते आत्माऽत्र कतमो वद ॥ १८.४९॥
पिण्डस्तावदिहैकोऽर्थो द्वितीयो लिङ्गसंज्ञितः ।
चिद्बिम्बिताऽवधिश्चान्यश्चतुर्थो नेति नेति यः ॥ १८.५०॥
देहादिभेदमाश्रित्य योऽयमित्युत्तरं जगौ ।
अधिष्ठानारोप्यभाव आत्मास्येति विवक्षितः ॥ १८.५१॥
विचारदृष्ट्याऽधिष्ठानमेवात्माध्यस्तवस्तुनः । (अस्याध्यस्तवस्तुनः)
तथापि जाड्यचैतन्यभेदोऽप्यस्तीह लोकतः ॥ १८.५२॥
एवं सत्यविरोधः स्याद्भेदाभेदार्थवाच्ययोः ।
योऽयमित्युत्तरे शब्दद्वयमेवं विविच्यताम् ॥ १८.५३॥
यः पृष्टः स्वपराग्वृत्तिप्रमामेयातिलङ्घितः ।
प्रत्यङ्मुखेन मानेन त्वयमित्युपदिश्यते ॥ १८.५४॥
पराञ्चीति च मन्त्रोक्तिः साक्षादात्मेति च श्रुतिः ।
पराङ्मानप्रमेयत्वमात्मनो विन्यवारयत् ॥ १८.५५॥
कुम्भकारेण कुम्भार्थो यथा प्रत्यक्ष ईक्ष्यते ।
विज्ञानेन तथा प्रत्यङ्ङात्माकारेण गृह्यते ॥ १८.५६॥
अयमित्यभिधायोग्यो लोके देहोऽपि वीक्ष्यते ।
विज्ञानमय इत्युक्त्या स्थूलदेहो निवर्त्यते ॥ १८.५७॥
विज्ञायतेऽनेन सर्वमिति विज्ञानशब्दतः ।
धीरुक्ता तन्मयत्वं तु तत्प्राचुर्यं विवक्षितम् ॥ १८.५८॥
आचख्युर्मयटं केचित्विकारार्थे न तच्छ्रुतम् ।
अनिर्मोक्षो विकारार्थे प्रायोऽर्थस्तूपपद्यते ॥ १८.५९॥
बुद्धिविज्ञानसम्पृक्तश्चन्द्रसंसक्तराहुवत् ।
प्रमीयते ततः प्रत्यग्विज्ञानमय उच्यते ॥ १८.६०॥
द्रष्टृत्वाद्यभिसम्बन्धोऽकारकस्यापि सर्वदा ।
धीविज्ञानकृतोऽतोऽपि विज्ञानमय उच्यते ॥ १८.६१॥
सर्वार्थकारणं बुद्धिः द्वारमात्रं ततोऽपरम् ।
इन्द्रियं तन्मयस्तस्माच्चिदाभासैकवर्त्मना ॥ १८.६२॥
प्राणबुद्ध्यविनाभूता इति प्राणमयोऽप्यतः ।
प्राणात्मवादः सम्प्राप्तः प्राणेष्विति निवार्यते ॥ १८.६३॥
दशेन्द्रियाणि मरुतः पञ्च च प्राणशब्दिताः ।
प्राणेषु योऽर्थोऽनुगतः स आत्मेत्यवधार्यताम् ॥ १८.६४॥
धीरेवात्मेत्यपाकर्तुं हृदीति श्रुतिरभ्यधात् ।
स्वार्थबुद्धौ य आभाति स आत्मा बुद्धिवृत्तिदृक् ॥ १८.६५॥
हृदीत्याधारनिर्देशाद्धीस्थवृत्तिषु चात्मता ।
प्रसक्ता तन्निवृत्त्यर्थमन्तरित्युपदिश्यते ॥ १८.६६॥
परागर्थानुसारिण्यो यतो धीवृत्तयस्ततः ।
प्रत्यक्त्ववाचकेनान्तःशब्देनैव निवर्तिताः ॥ १८.६७॥
जाड्यमात्मन इच्छन्ति कणभुङ्मतजीविनः ।
तेषां विप्रतिषेधार्थं ज्योतिरित्यभिधीयते ॥ १८.६८॥
जडबुध्याद्युपादानं तमस्तस्यावभासकम् ।
सकृद्विभातं चिन्मात्रं ज्योतिरात्मेति भण्यते ॥ १८.६९॥
अचेतनोऽपि बुद्ध्यादिश्चेतनावानिवेक्ष्यते ।
यस्य सन्निधितस्तस्य चिज्ज्योतिष्ट्वमिति स्फुटम् ॥ १८.७०॥
आत्मच्छायं पयोऽशेषं यथा मारकतो मणिः ।
परीक्षणाय प्रक्षिप्तः कुर्यादात्मा तथैव हि ॥ १८.७१॥
ज्योतिरात्मा चितिच्छायं प्रथमं कुरुते तमः ।
तमोयोगेन धीस्तद्वद्धीयोगादिन्द्रियं तथा ॥ १८.७२॥
अक्षयोगात्तथा देह एवमेते चिदात्मवत् ।
भासन्ते तेष्वतः पुंसां प्रत्यगात्मत्वविभ्रमः ॥ १८.७३॥
तमेव भान्तमात्मानमनुभात्यखिलं जगत् ।
इति श्रुत्यन्तरे स्पष्टमुक्तं ज्योतिष्ट्वमात्मनः ॥ १८.७४॥
आत्मेत्येवं प्रबुद्धेऽस्मिन् ज्योतिषि ध्वान्तनाशतः ।
सर्वस्यैवात्मयाथात्म्यादात्मा पुरुष उच्यते ॥ १८.७५॥
आत्माज्ञानसमुच्छित्तौ तज्जस्य न हि वस्तुनः ।
प्रत्यग्रूपात्पृथग्भूतं सम्भाव्यं केनचित्क्वचित् ॥ १८.७६॥
पूर्णत्वात्पुरुषः सोऽयं ज्योतिरात्मेति भण्यते ।
पूर्णस्य लोकसञ्चारः कथं स्यादिति भण्यताम् ॥ १८.७७॥
यः पूर्णः स समानः सन् बुद्ध्या लोकावुभावपि ।
सम्प्राप्तप्रतिपत्तव्यावनुसञ्चरति क्रमात् ॥ १८.७८॥
किं पुनः स्यात्समानत्वमात्मबुद्ध्योस्तदुच्यते ।
विवेकानुपलम्भेन तादात्म्यं रज्जुसर्पवत् ॥ १८.७९॥
सम एव धिया लोकौ सञ्चरत्येष न स्वतः ।
अतः संसारमिथ्यात्वं ध्यायतीवेति वर्ण्यते ॥ १८.८०॥
ध्यायन्त्यां ध्यायतीवात्मा चलन्त्यां चलतीव च ।
बुद्धिस्थे ध्यानचलने कल्प्येते बुद्धिसाक्षिणि ॥ १८.८१॥
आलोके व्यञ्जके यद्वदभिव्यङ्ग्यघटाकृतिः ।
आरोप्यते तथा बौद्धः संसारो बुद्धिसाक्षिणि ॥ १८.८२॥
ध्यानादीनामवस्तुत्वे स हि स्वप्न इति श्रुतिः ।
हेतुमाह स आत्मायं स्वप्नो भवति धीवशात् ॥ १८.८३॥
बुद्धिजागरणे यद्वज्जागर्मीत्यभिमन्यते ।
बुद्धिः स्वप्ने तथा स्वप्नरूपत्वमभिमन्यते ॥ १८.८४॥
जाग्रद्भोगमिमं लोकं स्वप्नो भूत्वातिवर्तते ।
वासनाराशिसाक्षित्वं स्वप्नं भोगं तदाप्नुयात् ॥ १८.८५॥
अविद्याकामकर्माख्यमृत्यो रूपाण्यतीत्य सः ।
जाग्रद्देहेन्द्रियादीनि तिष्ठति ज्योतिरात्मना ॥ १८.८६॥
तस्मात्स्वाभाविको नैव क्रियाध्यानादिलक्षणः ।
लोकद्वयानुसञ्चारः किन्त्वौपाधिक इष्यताम् ॥ १८.८७॥
जाग्रद्देहादिकं मृत्योः रूपं स्वप्नेऽतिवर्तताम् ।
न जन्मान्तर इत्येवमाशङ्क्योक्तं स व इति ॥ १८.८८॥
युज्यते जायमानः सन्दुःखैरात्मैष ऐहिकैः ।
मृतो वियुज्यते भाविजन्मस्वप्नसमं ततः ॥ १८.८९॥
जन्मात्र नासतः सत्त्वं किन्तु देहेन संयुतिः ।
प्रादुर्भावो जनेरर्थः सत एव स युज्यते ॥ १८.९०॥
मृतिः प्राणवियोगः स्यात्न तु नाशः सतो मतः ।
मृङ् प्राणत्याग इत्युक्तं स्वयं नष्टः कथं त्यजेत् ॥ १८.९१॥
इमं लोकं परं चायं जाग्रत्स्वप्नप्रवाहवत् ।
सदा भजति तेनास्य सिद्धा देहादिभिन्नता ॥ १८.९२॥
लोकायताः परं लोकं नेच्छन्त्यन्ये तु मन्वते ।
त्रीँल्लोकान् स्वप्नसंयुक्ताँस्ततस्तस्येति वक्त्यसौ ॥ १८.९३॥
अयोगं परलोकस्य वारयत्येवकारतः ।
सन्ध्यत्वेन तृतीयत्वं स्वप्नलोकस्य वार्यते ॥ १८.९४॥
भोगभावात्तृतीयत्वमुच्यते चेत्तथोच्यताम् ।
वस्तुतो न तृतीयत्वं धर्माधर्मप्रसङ्गतः ॥ १८.९५॥
देशयोरुभयोः सन्धिर्न हि देशान्तरं यथा ।
लोकयोरुभयोः सन्धिस्तथा लोकान्तरं न हि ॥ १८.९६॥
इमं लोकमिव स्वप्ने परलोकं स पश्यति ।
अतः प्रत्यक्षतोऽस्तित्वं परलोकस्य गम्यताम् ॥ १८.९७॥
अतीतजन्मवृत्तान्तं बाल्ये प्रायेण पश्यति ।
ऐहिकं यौवनेऽन्ते तु तपस्वी भावि वीक्ष्यते ॥ १८.९८॥
आक्रम्य यादृग्देहादिभाविजन्मनि वीक्षते ।
स्वप्नेऽपि तादृगाक्रम्य सुखदुःखानि पश्यति ॥ १८.९९॥
बहुजन्मसु सञ्चाराद्देहादिव्यतिरिक्तताम् ।
निरूप्याथ स्वप्रभत्वं स यत्रेति निरूप्यते ॥ १८.१००॥
स यदा वासनामस्य जाग्रल्लोकस्य सर्वशः ।
आदाय शेते विज्ञेया तस्य स्वप्रभता तदा ॥ १८.१०१॥
स यत्र प्रस्वपित्यत्र स्वयञ्ज्योतिः पुमानिति ।
योज्यमस्येत्यादिना तु स्वापशब्दार्थ उच्यते ॥ १८.१०२॥
न सुषुप्तिरिह स्वापः किन्तु स्वप्नो विवक्षितः ।
स जाग्रद्वासनाजन्यप्रपञ्चप्रतिभात्मकः (भासकः) ॥ १८.१०३॥
जाग्रल्लोकस्तु सर्वावानशेषमवतीत्यतः ।
अवितृत्वं च सप्तान्नब्राह्मणे प्राक् प्रपञ्चितम् ॥ १८.१०४॥
यद्वाऽध्यात्मादिभेदोऽयं सर्वोऽत्रास्तीति सर्ववान् ।
तस्य सर्वावतोऽशेषवासना स्वप्नसृष्टिकृत् ॥ १८.१०५॥
आदाय वासनां स्थूले देहे हित्वाभिमन्तृताम् ।
सूक्ष्मेऽभिमानं निर्माय पश्यन्नेषोऽवतिष्ठते ॥ १८.१०६॥
हननं च विनिर्माणं जीवे कर्मवशादिति ।
विवक्षुः स्मयमित्याह दैवं कर्मानुसार्यतः ॥ १८.१०७॥
स्वेन भासेति शब्दाभ्यां स्वकीया वासनोच्यते ।
स्वरूपभूता चित्स्वेन ज्योतिषेति विवक्षिता ॥ १८.१०८॥
इत्थम्भावे तृतीया स्याद्वासनाज्योतिषोस्ततः ।
भास्यभासकरूपेण स्थितिः स्वप्न इतीर्यते ॥ १८.१०९॥
अत्रान्यज्योतिषोऽभावात्स्वयञ्ज्योतिः पुमान् भवेत् ।
न ज्योतिष्ट्वं वासनाया भास्यत्वेन परिक्षयात् ॥ १८.११०॥
आत्मबुद्धिमनश्चक्षुरालोकविषयैर्युते ।
न जागरे स्वयं ज्योतिर्विवेक्तुं शक्यते नृभिः ॥ १८.१११॥
न सुषुप्तेऽपि तच्छक्यं भास्याभिव्यक्त्यभावतः ।
स्वप्ने तु भास्यमस्त्येकं ततो ज्योतिर्विविच्यते ॥ १८.११२॥
स्वप्ने जागरवद्द्रष्टा मातृमानादयस्ततः ।
दुर्विवेचत्वमाशङ्क्यं न तत्रेति निषिध्यते ॥ १८.११३॥
रथाश्वादीनि वस्तूनि जाग्रत्कर्मक्षये सति ।
लीयन्ते वासनास्तेषां तिष्ठति स्वप्रसिद्धये ॥ १८.११४॥
लोकसिद्धमुपादानं निमित्तं वा न विद्यते ।
स्वप्ने तेन रथादीनां मिथ्यात्वं युज्यतेतराम् ॥ १८.११५॥
असङ्गस्यापि सम्भाव्यमविद्याकामकर्मभिः ।
स्रष्टृत्वमित्यभिप्रेत्य स हि कर्तेत्यवोचत ॥ १८.११६॥
ब्राह्मणोक्तार्थदाढ्यार्थं श्रुतिर्मन्त्रानुदाहरत् ।
स्वयञ्ज्योतिष्ट्वदेहादिभिन्नत्वे तेष्वतिस्फुटे ॥ १८.११७॥
आराममेव मायोत्थं स्वप्ननिर्माणलक्षणम् ।
पश्यन्ति जन्तवस्तस्य न तं पश्यति कश्चन ॥ १८.११८॥
चिकित्सकप्रसिद्ध्यापि सुप्तो देहाद्विभिद्यते ।
द्रुतं न बोधयेत्सुप्तमिति प्राहुश्चिकित्सकाः ॥ १८.११९॥
देहान्यत्वस्वप्रभत्वे असोढ्वा स्वप्नमप्यमुम् ।
अपह्नुवानाश्चार्वाकास्तस्याहुर्जागरात्मताम् ॥ १८.१२०॥
तदसत्स्वप्नपार्थक्यं प्रसिद्धं लोकशास्त्रयोः ।
अत्रायं पुरुषस्तेन स्वप्रभः चेतनः पृथक् ॥ १८.१२१॥
मोदत्रासौ कर्मकार्यौ दृष्टौ स्वप्नेऽपि चात्मनः ।
इत्याशङ्क्य स वा एष इति कर्म विविच्यते ॥ १८.१२२॥
कालुष्यं जागरे जीवे स्वप्ने स्वल्पप्रसन्नता ।
सम्यक् प्रसीदत्यत्रेति सम्प्रसादः सुषुप्तकम् ॥ १८.१२३॥
स्वप्ने रत्वा चरित्वाथ विश्रान्तः सम्प्रसादके ।
पुनरायात्यसौ नाडीं स्वप्नार्थमिति योजना ॥ १८.१२४॥
दृष्ट्वैवेत्येवशब्देन न कृत्वेति विवक्षितम् ।
न कर्म कुरुते स्वप्ने कारकाणामसम्भवात् ॥ १८.१२५॥
जागरात्स्वप्नमाप्नोति स्वप्नात्सुप्तिमिति क्रमात् ।
वैपरीत्यं प्रतिन्यायं प्रतिमार्ग इतीर्यते ॥ १८.१२६॥
प्रतियोनि यथास्थानं स्वप्ननाड्यादि भण्यते ।
प्रतिमार्गमवाप्याथ स्वप्नाय स्थानमाव्रजेत् ॥ १८.१२७॥
अनन्वागमने हेतुरसङ्गत्वं हि शब्दतः ।
सूच्यते बाधकस्तर्कः प्रसिद्धिर्वात्र लौकिकी ॥ १८.१२८॥
यद्वानन्वागतत्वेन विवेकः कर्मणः कृतः ।
असङ्गत्वेन कामस्य कामो न ह्यात्मनो गुणः ॥ १८.१२९॥
स ईयते यत्र कामं यथाकामं प्रवर्तते ।
इति श्रुतिद्वयं स्वप्ने विस्पष्टं काममब्रवीत् ॥ १८.१३०॥
स्वप्रकामस्य वस्तुत्वं श्रुतिभ्यां चेद्विवक्षितम् ।
प्रबोधेऽप्यनुवर्तेत तच्च नास्ति ततो मृषा ॥ १८.१३१॥
जाग्रत्प्रयक्षमाश्रित्य जागरे मृत्युसत्यताम् ।
आशङ्क्य पुनरप्राक्षीद्दृष्ट्वैवेति तदुत्तरम् ॥ १८.१३२॥
मूढप्रत्यक्षतः कर्ता विद्वत्प्रत्यक्षतोऽक्रियः ।
विवेकिनामनुभवादात्मज्योतिर्विवेचितम् ॥ १८.१३३॥
असकृत्स्वप्नबुद्धान्तसञ्चारेऽपि न सङ्गवान् ।
इत्यर्थेऽस्मिन्महामत्स्यो दृष्टान्तत्वेन वर्ण्यते ॥ १८.१३४॥
इत्थं स्वप्नप्रसङ्गेन देहादिव्यतिरिक्तता ।
स्वप्रभत्वमसङ्गत्वं चेत्येतेऽर्थाः प्रपञ्चिताः ॥ १८.१३५॥
स एष परलोकस्य दृष्टान्तः स्वप्न ईरितः ।
सुषुप्तिर्मोक्षदृष्टान्तस्तदर्थो ग्रन्थ उत्तरः ॥ १८.१३६॥
तद्वा अस्यैतदित्यत्र प्राप्तकामस्वभावताम् ।
वक्तुं सुप्तावदुःखत्वं वक्ति श्येनैनिदर्शनात् ॥ १८.१३७॥
आत्मस्वभावो निःशेषं पुञ्जीकृत्येह लक्ष्यते ।
सुप्तौ मुक्ताविवाद्वैतस्वप्रभानन्दलक्षणः ॥ १८.१३८॥
अविद्या तु स्थिताऽप्यत्र द्वैतदुःखाद्यनुद्भवात् ।
स्वभावं न तिरोधत्ते स्वप्रभानन्दमद्वयम् ॥ १८.१३९॥
द्वैतदुःखादिरूपं यत्स्वात्मनः स्वप्नजाग्रतोः ।
तदविद्योत्थमित्येतत्ता वा अस्येति वर्ण्यते ॥ १८.१४०॥
विद्यायाः परमोत्कर्षे जाग्रत्साक्ष्यात्मवासना ।
सर्वोऽस्मीति मतिं स्वप्ने करोत्यद्वैतभासिनीम् ॥ १८.१४१॥
सर्वात्मभावः परमो लोको बाधविवर्जनात् ।
बाध्यन्ते देवराजाद्या इवशब्दस्ततः श्रुतः ॥ १८.१४२॥
नन्वद्वैतमपि द्वैतं सुप्त्यसुप्त्योरिहात्मनि ।
क्रमाद्भात्यत्र किं रूपं तस्येत्याशङ्क्य वर्ण्यते ॥ १८.१४३॥
यत्सार्वात्म्यं पुरा प्रोक्तं तदेवाद्वैतमात्मनः ।
रूपमागमतः स्वानुभूतेश्च पुरुषार्थतः ॥ १८.१४४॥
शास्त्रप्रसिद्धिं तच्छब्दो वक्त स्वानुभवं पुनः ।
एतच्छब्दः पुमर्थत्वमतिच्छन्दादिनोच्यते ॥ १८.१४५॥
शिवमद्वैतमित्यादि शास्त्रमुद्घुष्यते बहु ।
समाधिसुप्त्योरद्वैतं स्वयमेवानुभूयते ॥ १८.१४६॥
छन्दः कामः कर्म पापं भयं स्यात्कर्मणः फलम् ।
अनर्थरूपं त्रितयमद्वैते वीक्ष्यते न हि ॥ १८.१४७॥
त्रितयेन तु यद्युक्तं द्वैतं तस्य पुमर्थता ।
नेति द्वैतं श्रुतावस्यां वैशब्देन निवर्त्यते ॥ १८.१४८॥
योषिदालिङ्गितः क्षेत्रं गृहं वाप्यविचारयन् ।
यथा सुखी तथा सुप्तः कामभीत्यादिवर्जनात् ॥ १८.१४९॥
तद्वा अस्येति वाक्येन कामाभावः प्रपञ्च्यते ।
आत्मरूपं यदद्वैतमाप्तकामं तदीक्षताम् ॥ १८.१५०॥
सुषुप्तुश्च समाधित्सुर्बाह्यं कामयते न हि ।
अपि त्वात्मानमेवात्मा प्राप्त एवाखिलैः सदा ॥ १८.१५१॥
काम्यभोजनतस्तृप्तस्तदा भोज्यं न वाञ्छति ।
एवं काम्यात्मनि प्राप्ते किमन्यत्काम्यते पुनः ॥ १८.१५२॥
आत्मरूपमकामं यत्तच्छोकरहितं सदा ।
शोकान्तरं पृथक् शोकादिति निःशोकतोच्यते ॥ १८.१५३॥
ननु देहाभिमानश्च धर्माधर्मौ च शोकदाः ।
यथा जागरणे तद्वत्सुषुप्तौ च प्रसज्यते ॥ १८.१५४॥
मैवं पिताहमित्यादिदेहात्मभ्रान्तिलोपनात् ।
पितृत्वयुक्तदेहेऽभिमानः सुप्तस्य नेक्ष्यते ॥ १८.१५५॥
तत्तद्देहाभिमानस्तु क्षीणतत्कर्मसङ्क्षयात् ।
पुण्येन पाप्मनाऽनन्वागतं रूपं परात्मनः ॥ १८.१५६॥
हृदयाख्यं मनस्तस्य पुण्यपापे ततोऽखिलाः ।
शोका मनोगताः सुप्तौ शोकानात्माऽतिवर्तते ॥ १८.१५७॥
नेनु शोकादिवत्सुप्तौ चैतन्यमपि लुप्यते ।
सुप्तो न पश्यतीत्येवमाहुः सर्वेऽपि लौकिकाः ॥ १८.१५८॥
आत्मन्यदृष्टवशतो ज्ञानमिच्छादिवद्भवेत् ।
इत्याहुतार्किकाः सुप्तौ न ज्ञानं कर्मणः क्षयात् ॥ १८.१५९॥
यद्वै तन्नेत्यादि वाक्यैरस्योत्तरमुदीर्यते ।
न चिल्लोपः किन्तु बुद्धेर्लोप इत्येतदुत्तरम् ॥ १८.१६०॥
तच्छन्दः सुप्तिमाचष्टे वैशब्दोऽवधृतो भवेत् ।
तत्र सुप्तौ पुमान्नैव पश्यतीति जना जगुः ॥ १८.१६१॥
अदर्शनं सर्वथेति यदाहुरविवेकिनः ।
तद्विवेच्य तथा चात्मा पश्यन्नेव न पश्यति ॥ १८.१६२॥
साक्षिचैतन्यनित्यत्वात्पश्यन्नेव व्यवस्थितः ।
ज्ञातृज्ञानज्ञेयलोपाद्व्यवहारं न पश्यति ॥ १८.१६३॥
तस्मात्सुप्तौ चिदद्वैतं यद्रूपं परमात्मनः ।
एतद्द्रढयितुं प्रोक्ताः पर्यायाः बहवः श्रुतौ ॥ १८.१६४॥
ननु सर्वैर्जनैर्द्वैतं जागरे स्पष्टमीक्ष्यते ।
स द्वैत एव किं न स्यादात्मेत्याशङ्क्य वर्ण्यते ॥ १८.१६५॥
यत्रैव जागरे स्वस्मादन्यत्किञ्चिदिव भ्रमः ।
तत्रैवान्यः स्वयं द्रष्टा दृश्यमन्यदिवेक्षते ॥ १८.१६६॥
यद्वै तदित्युपक्रम्य व्याख्यातं तद्धि विस्तरात् ।
सलिलादिगिरा तस्य क्रियते चोपसंहृतिः ॥ १८.१६७॥
आत्मा सलिलवच्छुद्धः कार्यकारणहीनतः ।
स्वतोऽवबोधमात्रत्वात्कुतो विद्यादिसङ्गतिः ॥ १८.१६८॥
अन्तरेणापि सम्बन्धं कार्यकारणवस्तुनः ।
स्वतोऽनेकात्मकं तत्स्यादित्याशङ्क्यैकतोच्यते ॥ १८.१६९॥
अकारकस्वभावत्वमद्रष्टेत्यभिधीयते ।
यन्न हि द्वैतमित्युक्तेर्यत्र त्वस्येति चेरणात् ॥ १८.१७०॥
स्वतः पूर्णात्मकं ज्योतिर्यद्वा द्रष्टेति चोच्यते ।
अविद्याकार्यराहित्यादद्वैतोऽयं भवेत्स्वतः ॥ १८.१७१॥
प्रत्यग्दृष्ट्यव्यवहिते प्रात्यक्ष्यादात्मवस्तुनः ।
एष इत्यात्मनिर्देशो यत्साक्षादिति च श्रुतेः ॥ १८.१७२॥
अव्यावृत्ताननुगतं निःसामान्यविशेषवत् ।
ब्रह्मेति मुख्यवृत्त्येह वस्तु श्रुत्याभिधीयते ॥ १८.१७३॥
यतो लोकयतेर्धातोर्दर्शनार्थत्वहेतुतः ।
प्रकृतत्वात्तथा दृष्टेर्लोकनं लोक उच्यते ॥ १८.१७४॥
विज्ञानपुरुषस्यास्य योक्ता ब्रह्मात्मता पुरा ।
नैष्ठिकी गतिरेषाऽत्र गत्यन्तरसमाप्तितः ॥ १८.१७५॥
संपच्च परमैषैव मोहोत्थाश्चान्यसम्पदः ।
उत्कर्षातिशयः सम्पद्विभूतिश्चेति भण्यते ॥ १८.१७६॥
एषोऽस्य परमो लोको लोकास्त्वन्ये क्षयिष्णवः ।
क्षयिष्णुसाधनायत्ताः न त्वेषोऽसाधनाश्रयात् ॥ १८.१७७॥
आनन्दः परमोऽस्यैव सुखोत्कर्षसमाप्तितः ।
सर्वानन्दातिशायित्वात्तथा चैतत्प्रवक्ष्यते ॥ १८.१७८॥
आनन्दः परमोऽस्यैव इत्युक्तार्थप्रसिद्धये ।
एतस्यैवेति वचसा समर्थो हेतुरुच्यते ॥ १८.१७९॥
कृत्स्नोऽपि चैष आनन्दस्तदविद्यैकहेतुतः ।
बुद्ध्याद्युपाध्यवच्छेदान्मात्रेति व्यपदिश्यते ॥ १८.१८०॥
मानुषादिकहैरण्यगर्भान्तानन्दमात्रया ।
परानन्दं बोधयितुं श्रोत्रिये तदुदाहृतिः ॥ १८.१८१॥
श्रोत्रियो वेदशास्त्रज्ञो निष्पापो ब्रह्मवित्त्वतः ।
भोग्यदोषान्विविच्यास्ते नातः कामेन हन्यते ॥ १८.१८२॥
सुखं तृप्तिरकामत्वमित्येकार्था इमा गिरः ।
सर्वकामविहीनेऽतः सुखं सर्वं व्यवस्थितम् ॥ १८.१८३॥
श्रोत्रिये कामराहित्यात्सर्वानन्दाः सह स्थिताः ।
सोऽश्नुते सकलान् कामान् सहेति प्राह तित्तिरिः ॥ १८.१८४॥
सूत्रात्परमनन्तत्वाद्गणितं विनिवर्तते ।
यतो वाचो निवर्तंत इति श्रुत्यन्तरं जगौ ॥ १८.१८५॥
श्रोत्रियेणानुभूतो यो ब्रह्मानन्दोऽस्य विप्रुषः ।
सार्वभौमादिसूत्रान्ताः प्राणिनोऽनुभवन्त्यमी ॥ १८.१८६॥
वक्तव्यार्थे समाप्तेऽपि राजा पृच्छति पूर्ववत् ।
भीतो मुनिर्भये हेतुर्मेधावीत्यादिनोक्तवान् ॥ १८.१८७॥
सर्वेभ्यो निर्णयेभ्यो मामरौत्सीन्न तु मुञ्चति ।
अयमेव भये हेतुर्नोत्तरानवबोधनम् ॥ १८.१८८॥
स्वप्नः सुप्तिश्च दृष्टान्तौ परलोकविमोक्षयोः ।
तावेव मुनिना प्रोक्तौ शिष्टं दार्ष्टान्तिकद्वयम् ॥ १८.१८९॥
स्वप्नाज्जागरणं यद्वद्देहाल्लोकान्तरं तथा ।
इत्यभिप्रेत्य मुनिना स्वप्नाद्बोधोऽभिधीयते ॥ १८.१९०॥
शकटं बहुभिर्द्रव्यैर्योजितं गुरुभारतः ।
कुर्वन् शब्दान् बहून्याति चेतनेन प्रयोजितम् ॥ १८.१९१॥
शरीरस्थो हि लिङ्गात्मा ह्यन्वारूढश्चिदात्मना ।
शब्दान् कुर्वन्हि हिक्कादीन् प्रैत्यूर्ध्वश्वासपूर्वकम् ॥ १८.१९२॥
उपाध्यारोहमन्वात्मा रूढवत्प्रतिभासते ।
भानोरिवोदपात्रादावारोहो नात्मनः स्वतः ॥ १८.१९३॥
मर्मसूत्कृष्यमाणेषु वायुनोदानरूपिणा ।
मुमूर्षोरत्र यद्दुःखं स्मर्यतां तन्मुमुक्षुभिः ॥ १८.१९४॥
रोगेण जरया वायं देहः कार्श्यं यदाप्नुयात् ।
तदाम्रादिफलं वृन्तादिवाङ्गेभ्यः प्रयुज्यते ॥ १८.१९५॥
निर्गत्य हृदयस्थानान्नाडीमार्गेण जागरम् ।
प्राप्तोऽत्र वैपरीत्येन नाडीमार्गाधृदि व्रजेत् ॥ १८.१९६॥
जाग्रत्स्वप्नादिसिद्ध्यर्थं गमनागमने पुरा ।
इदानीं त्वन्यदेहेऽसौ प्राणं धारयितुं व्रजेत् ॥ १८.१९७॥
ननूपादित्सते देहे भोगाय प्राणधारणम् ।
भोग्यसम्पादने नास्ति शक्तिरस्येति चेच्छृणु ॥ १८.१९८॥
तत्कर्मोपार्जितैरन्यैः भोग्यं सम्पाद्यते पुरा ।
इत्येतद्विशदीकर्तुं राजदृष्टान्त उच्यते ॥ १८.१९९॥
राज्ञा जीवितदानेन ह्युग्रादय उपार्जिताः ।
मुमूर्षुणा भाविदेहबन्धवः कर्मणार्जिताः ॥ १८.२००॥
एवं पुत्रादिभावाय प्रतीक्षन्तेऽखिलाः सदा ।
ऋतावस्मिन्समायाति ब्रह्मपुत्रादिरूपतः ॥ १८.२०१॥
नन्विद्रियाणि प्रेतस्य लीयन्ते वपुषा सह ।
इत्याहुस्तार्किका ब्रह्म निरुपाधि कथं व्रजेत् ॥ १८.२०२॥
प्राणोपाधिक एवात्मा गच्छतीति विवक्षया ।
प्राणानामात्मसामीप्यगतिं वक्ति मृतौ श्रुतिः ॥ १८.२०३॥
राजानं प्रयियासन्तमाभिमुख्येन सेवितुम् ।
आयान्त्युग्रादयस्तद्वत्प्राणानामात्मसङ्गतिः ॥ १८.२०४॥
तृतीयब्राह्मणे प्रोक्ता देहे स्वप्नादिसंसृतिः ।
देहान्तरेषु संसारो मुक्तिश्चाथ प्रवक्ष्यते ॥ १८.२०५॥
स मुमूर्षुर्यदा देहे दौर्बल्यं प्राप्य मूढताम् ।
प्राप्नोतीव तदा चक्षुराद्या आयान्ति देहिनम् ॥ १८.२०६॥
राजदृष्टान्ततः प्रोक्तां प्राणानामात्मसङ्गतिम् ।
अनूद्य तत्प्रकारोऽत्र विस्तरेणाभिधीयते ॥ १८.२०७॥
तेजो मात्राश्चक्षुराद्याः प्रसृता मत्स्यजालवत् ।
जागरेऽथ मुमूर्षुस्ता समादाय हृदि व्रजेत् ॥ १८.२०८॥
अनुगृह्णाति यः पूर्वं चाक्षुषः पुरुषो रविः ।
भोगार्थमधुना सोयं भोगाभावादुपेक्षते ॥ १८.२०९॥
इन्द्रियस्योपसंहारादादित्यस्याप्युपेक्षया ।
आत्मा द्रष्टुमसामर्थ्यादरूपज्ञो भवेत्तदा ॥ १८.२१०॥
अस्मिन्नर्थे सर्वलोकप्रसिद्धिरभिधीयते ।
एकीभावादयं नैवं पश्यतीति जगुर्जनाः ॥ १८.२११॥
चक्षुर्बुद्धावैक्यमेति रवौ रव्यंश एकताम् ।
इन्द्रियान्तरतद्देवेष्वयं न्यायोऽत्र योज्यताम् ॥ १८.२१२॥
कृत्स्नप्राणोपसंहारसंयुक्तस्य मुमूर्षतः ।
नाड्यग्रं हृदयस्याथ प्रकर्षेण प्रकाशते ॥ १८.२१३॥
भाविदेहात्मता यस्य प्रत्यक्चैतन्यबिम्बता ।
वासनैवात्मनः सैषा प्रद्योतवचसोच्यते ॥ १८.२१४॥
स एष कर्मजो बुद्धेः प्रकाशो जायते मृतौ ।
स्वकर्मनिर्मितं लोकं तेनात्मायं प्रपश्यति ॥ १८.२१५॥
स्वप्नवत्प्राप्ततद्भावः पश्चात्देहाद्विनिःसरेत् ।
गम्यलोकानुसारेण द्वारं स्याच्चक्षुरादिकम् ॥ १८.२१६॥
देहाज्जिगमिषुः प्राणसहितो निर्गतः पुनः ।
सविज्ञानः भवेत्पूर्वं हृदि प्रद्योतनं यथा ॥ १८.२१७॥
पुरा नाडीविशेषेण निर्गन्तुं ज्ञानमीरितम् ।
गन्तुं लोकविशेषेऽथ पुनर्विज्ञानमीर्यते ॥ १८.२१८॥
हेतुर्जाग्रद्वासनास्य स्वप्नारम्भे यथा तथा ।
जन्मान्तरारम्भहेतुः किं स्यादिति तदुच्यते ॥ १८.२१९॥
विद्या सम्पादिता तेन पुरा कर्म च यत्कृतम् ।
या वासना च तत्सर्वं जन्म भोग्यादिकारणम् ॥ १८.२२०॥
देहं विद्या परिच्छिन्द्यादीदृशो देह इत्यथ ।
विकर्तृ कर्म वोढ्री तु पूर्वप्रज्ञेह पूर्वयोः ॥ १८.२२१॥
समर्था सैव ते यस्मादुद्वोढुं ज्ञानकर्मणी ।
नरस्यातः प्रधानत्वातात्ताभ्यां सा गृह्यते पृथक् ॥ १८.२२२॥
सर्वगस्य मनोमात्रगतिं ब्रूतेऽत्र तार्किकः ।
श्रुतिस्तु स्वमतं ब्रूते जलूकाख्यनिदर्शनात् ॥ १८.२२३॥
जलूका हि तृणाग्रस्था स्वमुखेन तृणान्तरम् ।
अवलम्ब्य वपुः शिष्टं सर्वं तत्रोपसंहरेत् ॥ १८.२२४॥
लिङ्गदेहोपाधिरात्मा धिया देहान्तरं स्मरन् ।
लिङ्गोपाधिकमात्मानं प्रापयेदन्यदेहकम् ॥ १८.२२५॥
ननु देहान्तरारम्भे उपादानं किमात्मनः ।
एतद्देहारम्भकं यत्तदेवोतान्यदीर्यताम् ॥ १८.२२६॥
स्वर्णकारः सुवर्णांशमादायान्यं नवं नवम् ।
तेनैव कुरुते भूय उपमृद्यातियत्नतः ॥ १८.२२७॥
पञ्चीकृतास्तु भूतांशाः स्थूलदेहस्य हेतवः ।
अल्पत्वेनातिसूक्ष्मास्तैर्लिङ्गं तिष्ठति वेष्टितम् ॥ १८.२२८॥
निर्मितस्तैरयं देहः पोषितः पितृवीर्यतः ।
मृतौ कञ्चुकवत्त्याज्यो बाह्यांशो वीर्यनिर्मितः ॥ १८.२२९॥
अधिष्ठानारोप्यभागौ तेषु देहेषु यौ स्थितौ ।
तादृशौ विशदीकर्तुं स वा इत्यादिका श्रुतिः ॥ १८.२३०॥
यः संसारी पुरा प्रोक्तः स एवायं स्वतः स्फुरन् ।
साक्षिचैतन्यरूपत्वादधिष्ठानमनात्मनः ॥ १८.२३१॥
विज्ञानं कर्तृतोपाधिर्मनः प्राणादयोऽखिलाः ।
बहिर्बहिः समारोप्याः सर्वमारोपितं चिति ॥ १८.२३२॥
तद्यदित्यादिना सर्वशब्दस्यार्थ उदाहृतः ।
प्रत्यक्षवस्तुन्यध्यासे सतीदम्मयता भवेत् ॥ १८.२३३॥
परोक्षवस्तुन्यध्यासाददोमय इतीर्यते ।
आरोपोक्तिसमाप्त्यर्थमितिशब्दः प्रयुज्यते ॥ १८.२३४॥
इदम्मयत्वं विस्पष्टमैहिकत्वादुपेक्ष्य तत् ।
अदोमयत्वं व्याचष्टे यथाकारीति वाक्यतः ॥ १८.२३५॥
करणं नित्यकर्म स्यात्काम्यं तु चरणं भवेत् ।
करणं कर्मशक्तिर्वा चरणं प्रत्ययात्मकम् ॥ १८.२३६॥
वासना कर्म विद्या च त्रयं जन्मप्रयोजकम् ।
उक्तं तत्र प्रधानत्वं कर्मणः श्रूयते पुनः ॥ १८.२३७॥
पूर्वकाण्डपरा इत्थं कर्मप्राधान्यमूचिरे ।
अथ वेदान्तशास्त्रज्ञाः प्राहुः कामप्रधानताम् ॥ १८.२३८॥
इत्येतद्विशदीकर्तुं स यथेत्युत्तरा श्रुतिः ।
कामः क्रतुः कर्म जन्मेत्येषामेव क्रमो भवेत् ॥ १८.२३९॥
रुचेरतिशयः काम्ये विषये ऋतुरीर्यते ।
पाक्षिकं कर्म काम्ये स्यात्करोत्येव कृतौ सति ॥ १८.२४०॥
कामप्राधान्यदार्ढ्यार्थं मन्त्रस्योदाहृतिः श्रुतौ ।
लिङ्ग्येते गम्यते सर्वं मनसाऽतोऽस्य लिङ्गता ॥ १८.२४१॥
यः पुरा स्वप्नदृष्टान्तात्परो लोको विवक्षितः ।
इति न्वित्युपसंहारं तदुक्तेः कृतवान्मुनिः ॥ १८.२४२॥
मुक्तिः सुषुप्ति दृष्टान्तात्मुनिना या विवक्षिता ।
मुनिरारभते वक्तुं तामथेत्यादिवाक्यतः ॥ १८.२४३॥
पूर्वोक्तकामिवैषम्यमथशब्देन सूच्यते ।
कामी संसरतीत्युक्तं कामाभावे विमुच्यते ॥ १८.२४४॥
परमानन्दरूपत्वमात्मनश्चेद्विबुध्यते ।
कुतः कामयते भोग्यं ततो बोधादकामता ॥ १८.२४५॥
बोधलभ्यमकामत्वं यथाकामेत्यसूत्रयत् ।
योऽकाम इत्यादिनैतत्सूत्रं विव्रियते स्फुटम् ॥ १८.२४६॥
योऽकामस्तस्य न प्राणा उत्क्रामन्तीति योजना ।
संसृतिः कामिनो यद्वदकामो मुच्यते तथा ॥ १८.२४७॥
दृष्टानुश्राविका बाह्यकामा यस्य न सन्त्यसौ ।
अकामस्तादृशत्वं तु निष्कामत्वेन सिद्ध्यति ॥ १८.२४८॥
विभ्रमापादिताः कामाः प्रत्यक्तत्त्वविवेकिनः ।
यस्माद्विनिर्गताः सोऽयं निष्काम इति भण्यते ॥ १८.२४९॥
आप्तकामत्वतः सिद्ध्येद्बुद्धेः कामविनिर्गमः ।
अप्राप्तौ काम्यमानस्य कामः क्वापि न निःसरेत् ॥ १८.२५०॥
एवं सत्याप्तकामत्वं निःकामत्वस्य साधनम् ।
कामाप्तौ त्वाप्तकामत्वमेव हेतुर्न चेतरत् ॥ १८.२५१॥
निरुपाधिः परानन्दः आत्मेति श्रुतिसम्मतः ।
आनन्दाः सर्वभूतानां तस्मिन्नन्तर्भवन्ति हि ॥ १८.२५२॥
पुत्रादिजन्या आनन्दा अपि तस्मिन्नवस्थिताः ।
तथाविधात्मकामोय आप्तकामो भवेदयम् ॥ १८.२५३॥
यदीदृगाप्तकामो यः स निष्काम भवेत्ततः ।
निष्कामत्वादकामः सन् संसारात्प्रविमुच्यते ॥ १८.२५४॥
उत्पन्नतत्त्वज्ञानस्य प्राणा अज्ञानबाधनात् ।
नोत्क्रामन्ति न तिष्ठन्ति न च नश्यन्त्यहेतुतः ॥ १८.२५५॥
बन्धस्य कल्पितत्वेन तन्मुक्तिरपि कल्पिता ।
इत्यभिप्रायमाचष्टे ब्रह्मैवेत्यादिवाक्यतः ॥ १८.२५६॥
अविद्याध्वस्तिमापेक्ष्य सम्यग्धीजन्ममात्रतः ।
आत्मा ब्रह्मैव सन् साक्षाद्ब्रह्माप्येतीति सुस्थितम् ॥ १८.२५७॥
इत्येतत्सर्ववेदान्तसर्वस्वं ब्राह्मणोदितम् ।
अस्यैवार्थस्य दार्ढ्यार्थं मन्त्रोदाहरणं भवेत् ॥ १८.२५८॥
कामिनः सर्वसंसारः पुरा मन्त्रेण वर्णितः ।
अकामस्य विमोक्षोऽत्र तथा मन्त्रेण वर्ण्यते ॥ १८.२५९॥
पुंसो हृदि श्रिताः कामा मुच्यन्ते निखिला यदा ।
तदानीममृतो भूत्वा ब्रह्मैवात्र समश्नुते ॥ १८.२६०॥
ननु ब्रह्माश्नुतेऽत्रेति जीवतो मुक्तिरीरिता ।
जीवत्वे को विशेषोऽस्य बन्धान्मुक्तावितीर्यताम् ॥ १८.२६१॥
अभिमानः पूर्वमासीद्देहादावधुना तथा ।
नास्तीत्यत्रातिविस्पष्टः सर्पदृष्टान्त उच्यते ॥ १८.२६२॥
प्रत्यग्ज्ञानशिखिध्वस्ते मिथ्याज्ञाने सहेतुके ।
नेति नेति स्वरूपत्वादशरीरो भवत्ययम् ॥ १८.२६३॥
स्थूलदेहं परित्यज्य लिङ्गदेहयुतो यदि ।
मृतस्तदा स्यान्न त्वेवममृतोऽसावतो भवेत् ॥ १८.२६४॥
प्रकृष्टचेष्टाहेतुत्वात्साक्ष्युक्तः प्राणशब्दतः ।
को ह्येवान्यादिति प्रोक्तं चेष्टाहेतुत्वमात्मनः ॥ १८.२६५॥
साक्षिणो ब्रह्मरूपत्वं ब्रह्मैवेत्यभिधीयते ।
संसर्गशङ्कानुत्त्यर्थमेवकारः प्रयुज्यते ॥ १८.२६६॥
संयोगः समवायो वा नैव ब्रह्मात्मनोरिह ।
अखण्डैकरसत्वं तु भवतीति विवक्षितम् ॥ १८.२६७॥
तदेव विशदीकर्तुं तेज एवेत्युदीर्यते ।
चैतन्यं तेज इत्युक्तं तच्चैकमुभयोरपि ॥ १८.२६८॥
अविद्यादिनिवृत्तिश्च चैतन्यव्यतिरेकतः ।
नास्तीत्येवमभिप्राय एवकारेण सूच्यते ॥ १८.२६९॥
तत्त्वविद्यारसाकृष्टः श्रोतुं वाञ्छति सङ्ग्रहात् ।
साधनान्यपि विद्यायाः श्रोतुमिच्छति भूपतिः ॥ १८.२७०॥
एतत्सर्वं विवक्षुः सन्मुनिः सङ्ग्रहरूपिणः ।
श्लोकानुदाहरन्तत्र ज्ञानमार्गमिमं जगौ ॥ १८.२७१॥
श्लोकेनाद्येन यः पन्थाः प्रोक्तस्तस्मिन्मतान्तरम् ।
उपन्यस्याथ सिद्धान्तं प्राह श्लोकान्तरेण सः ॥ १८.२७२॥
ब्रह्मविन्मुक्तिमाप्नोति तेन बोधात्मना पथा ।
पुण्यकृत्तैजसश्चादौ भूत्वाऽथ ब्रह्मविद्भवेत् ॥ १८.२७३॥
तेजःशब्देन संशुद्धा बुद्धिरेवाभिधीयते ।
पुण्ये कृते बुद्धिशुद्धौ विद्या स्यात्स्मर्यते तथा ॥ १८.२७४॥
यत्पुण्यं बुद्धिशुद्ध्यर्थं यो योगश्चात्मबोधकृत् ।
श्लोके द्वितीये तौ प्रोक्तौ तृतीये त्वन्यथोच्यते ॥ १८.२७५॥
यत्काम्यं कर्म योगश्च योऽणिमादिप्रदो द्वयम् ।
तत्संसारस्यैव हेतुर्न मुक्तावुपयुज्यते ॥ १८.२७६॥
युज्यते मुक्तभावोऽयं सत्त्वबोधविवर्जनात् ।
जन्मप्रवाह एवातश्चतुर्थे श्लोक ईर्यते ॥ १८.२७७॥
ब्रह्मानुभवयुक्तानां विशेषो दुःखसङ्क्षयः ।
श्लोकेन पञ्चमेनात्र विस्पष्टमभिधीयते ॥ १८.२७८॥
न दुःखक्षय एवास्य किन्तु विश्वस्य कर्तृता ।
सर्वलोकात्मका चेति षष्ठे श्लोक उदीर्यते ॥ १८.२७९॥
शास्त्राधिकारयुक्तेऽस्मिन्देहे विद्यात्परं पदम् ।
अन्यथाऽनर्थ इत्येवं सप्तमे श्लोक ईर्यते ॥ १८.२८०॥
गर्भप्रवेशादिरूपा जुगुप्सा नात्मवेदिनः ।
इत्येषोऽर्थोऽष्टमे श्लोके विस्पष्टमभिधीयते ॥ १८.२८१॥
निःशेष विक्रियाहेतुकालातिक्रमहेतुतः ।
देवैरुपास्य इत्येतन्नवमे श्लोक उच्यते ॥ १८.२८२॥
चेतनाचेतनाधार आत्मास्य ब्रह्मतोचिता ।
इति दर्शंयितुं श्लोकं दशमं श्रुतिरब्रवीत् ॥ १८.२८३॥
प्राणादिसङ्घ आत्मा स्यादेतस्य ब्रह्मता कथम् ।
इत्याशङ्क्योत्तरं श्लोक एकादश उदीर्यते ॥ १८.२८४॥
तस्यास्य दर्शनोपायः कः स्यादित्यभिचोदिते ।
श्लोकेन द्वादशेनाह मनसैवेति निर्णयम् ॥ १८.२८५॥
अत्यन्तभेदाभावेऽपि भेदाभेदौ तयोरिति ।
मतं वारयितुं श्लोकस्त्रयोदश इहोच्यते ॥ १८.२८६॥
बोधादूर्ध्वं च कर्तव्यमस्तीत्याशङ्क्य वार्यते ।
चतुर्दशेन श्लोकेन सङ्ग्रहोऽत्र समाप्यते ॥ १८.२८७॥
मन्त्रब्राह्मणसङ्घेन यत्तत्त्वं प्राङ्निरूपितम् ।
तद्विद्या साधनं सर्वं मुनिरेष विवक्षति ॥ १८.२८८॥
तत्रादौ वेदतत्त्वस्यानुवादेन परिस्फुटम् ।
निरूप्यते स्वरूपं तत्स वा इत्यादिवाक्यतः ॥ १८.२८९॥
ब्रह्मत्वादेव जीवस्य भ्रान्तजीवत्ववारणात् ।
वशित्वाद्या जीवधर्माः शिष्यन्ते सोऽयमीश्वरः ॥ १८.२९०॥
जीवत्ववद्वशित्वाद्या यद्यपि भ्रान्तिकल्पिताः ।
तथाप्येते समीचीना स्वप्ने पुत्रान्वयो यथा ॥ १८.२९१॥
अत एव हि जिज्ञासुं प्ररोचयितुमीरितैः ।
वशित्वाद्यैः प्रेर्यतेऽसौ यज्ञादौ ज्ञानसाधने ॥ १८.२९२॥
जीवधर्माश्चेशधर्माः सन्तीत्येतन्न मे मतम् ।
असतामेव तेषां तु भानं मायिकमिष्यते ॥ १८.२९३॥
कादाचित्की सतोऽसत्तेत्येष नाशो न तेष्वतः ।
कालत्रयासत्त्वबोधरूपो बाधस्तु सम्भवेत् ॥ १८.२९४॥
बाधिता अपि भासन्ते सामग्रीसम्भवे सति ।
आरब्धाशेषसामग्रीविनिवृत्तौ न भासनम् ॥ १८.२९५॥
निवृत्तत्वाज्जीवधर्मा भासन्ते नैव कस्यचित् ।
अनिवृत्ता ईशधर्मा अकर्मापादितत्वतः ॥ १८.२९६॥
भान्ति ते त्वीश्वरस्यापि बद्धानां च स्वबुद्धितः ।
ईश्वरस्य हि लीला तैर्बद्धानां त्वतिविस्मयः ॥ १८.२९७॥
सर्वेश्वरादिकः पूर्वशेषश्चेदुपसंहृतिः ।
उत्तरस्य तु शेषत्वे बुभुत्साविषयो भवेत् ॥ १८.२९८॥
यः सर्वेशत्वादिलक्ष्यस्तं वेदाध्ययनादिभिः ।
ज्ञातुमिच्छत्यविज्ञातः स एवार्थो यतस्ततः ॥ १८.२९९॥
बहिरङ्गं कर्मजातं संन्यासस्यान्तरङ्गता ।
प्रत्यासन्नतराः शान्तिदान्त्याद्या इत्यसौ क्रमः ॥ १८.३००॥
प्रत्यक् प्रवणतां बुद्धेः कर्माण्युत्पाद्य शुद्धितः ।
कृतार्थान्यस्तमायान्ति प्रावृडन्ते घना इव ॥ १८.३०१॥
सामर्थ्यमीदृक्चेदस्ति कर्मणां तर्हि किं तव ।
ज्ञानेनेति न वक्तव्यं मुनित्वार्थमपेक्षणात् ॥ १८.३०२॥
बुभुत्सतेऽयमात्मानं सर्वैर्यज्ञादिकर्मभिः ।
एतमेव विदित्वासौ मुनिर्भवति नान्यथा ॥ १८.३०३॥
अरुचिप्रतिबन्धस्य कर्मभिः प्रक्षये सति ।
गृहस्थो वा परिव्राड्वा शास्त्रेणात्मानमीक्षते ॥ १८.३०४॥
जनकोषस्तगार्ग्यादेर्न स्याद्वेदनामन्यथा ।
सुलभं तु परिव्राजो बहुविक्षेपवर्जनात् ॥ १८.३०५॥
सोढ्वापि कर्मविक्षेपं चित्तैकाग्र्ये क्षमो यदि ।
तदा वेत्तु गृहस्थोऽपि प्रव्रजत्वन्यथा पुमान् ॥ १८.३०६॥
अतो विदित्वेति वाक्यं सामान्यविषयं भवेत् ।
प्रव्रजन्तीति वाक्यं तु विशेषेण प्रवर्तते ॥ १८.३०७॥
सकृद्बोधो वेदनं स्यान्मुनित्वं ज्ञानशीलता ।
अज्ञानहानिर्बोधात्स्याज्जीवन्मुक्तिर्मुनित्वतः ॥ १८.३०८॥
बुद्धोऽपि न मुनिः स्याच्चेत्विद्वत्संन्यासमाचरेत् ।
एतद्धस्मेति वाक्येन तदेतदभिधीयते ॥ १८.३०९॥
परिव्राड्भिर्बुद्ध आत्मा कीदृगित्यभिशङ्किते ।
स एष नेति नेतीति श्रुतिः प्राहोत्सुका सती ॥ १८.३१०॥
ननु भिक्षादिना देहपोषणादौ समे सति ।
आत्मतत्त्वविदः कोऽतिशयो मूढादितीर्यताम् ॥ १८.३११॥
सर्वेषामपि मूढानां चित्ते स्तः पुण्यपापयोः ।
एतमेवैकमात्मज्ञं चित्ते द्वे प्राप्नुतो न हि ॥ १८.३१२॥
उभे उहेति हेतूक्ते तच्चिन्ताया असम्भवे ।
अतिक्रामति तत्त्वज्ञः पुण्यपापे उभे अपि ॥ १८.१३॥
कृते देहादिभिर्वास्तां द्वे कृते वा द्विधाऽपि च ।
एवं तत्त्वविदं ते द्वे नैव तापयतः क्वचित् ॥ १८.३१४॥
अन्तरङ्गतराः ये ते शान्तिदान्त्यादयोऽखिलाः ।
वक्तव्या इत्यभिप्रेत्य श्रुतिस्तत्र प्रवर्तते ॥ १८.३१५॥
रुचिमान् कर्मसंन्यासी युक्तः शमदमादिभिः ।
मुख्याधिकारी भूत्वासावात्मन्यात्मानमीक्षते ॥ १८.३१६॥
पुण्यं च जन्महेतुत्वादत्र पाप्मेति वर्ण्यते ।
कर्महानिः पूर्वमुक्ता या तस्या उपसंहृतिः ॥ १८.३१७॥
ब्रह्मत्वमेव ब्राह्मण्यमित्यभिप्रायमात्मनः ।
विशदीकर्तुमाहैष ब्रह्मलोक इतीदृशम् ॥ १८.३१८॥
ससाधनाया विद्यायाः सम्पूर्णत्वादयं नृपः ।
स्वदेहसहितं राज्यं गुरवेऽस्मै न्यवेदयेत् ॥ १८.३१९॥
आख्यायिकां परित्यज्य श्रुतिरस्मदनुग्रहात् ।
सगुणं निर्गुणं ब्रह्म सङ्क्षिप्योचे स वा इति ॥ १८.३२०॥
पूजास्वीकारदातृत्वगुणयुक्तं महेश्वरम् ।
य उपास्ते पुमानेष यथेष्टं लभते धनम् ॥ १८.३२१॥
विद्वद्दृष्ट्या स एवात्मा जरामरणवर्जितः ।
आनन्दो भयहीनश्च ब्रह्मैवाजो न चेतरः ॥ १८.३२२॥
य एवं ब्रह्म जानाति तद्ब्रह्मैव भवत्यसौ ।
हिशब्दोऽशेषवेदान्तप्रसिद्धं सूचयेदिह ॥ १८.३२३॥
जनकायात्मविद्यैषा याज्ञवल्क्येन वर्णिता ।
तद्व्याख्यानेनानुगृह्याद्विद्यातीर्थमहेश्वरः ॥ १८.३२४॥
इति श्रीमद्विद्यारण्यमुनिविरचिते अनुभूतिप्रकाशे
जनकविद्याप्रकाशो नामाष्टादशोऽध्यायः ॥ १८॥
१९. तलवकारविद्याप्रकाशो नामैकोनविंशोऽध्यायः ।
शाखा तलवकाराणां सामवेदगताऽस्ति या ।
विद्योक्ता सङ्क्षेपात्तां विस्पष्टमिह ब्रुवे ॥ १९.१॥
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
इत्यर्जुनाय भगवानाह प्रश्नाख्यसाधनम् ॥ १९.२॥
नापृष्टः कस्यचिद्रूयान्न चान्यायेन पृच्छतः ।
जानन्नपि तु मेधावी जडवल्लोकमाचरेत् ॥ १९.३॥
इति शास्त्रमवेक्ष्यात्र कश्चिच्छिष्यगुणान्वितः ।
उपसद्य गुरुं सम्यगप्राक्षीदात्मबुद्धये ॥ १९.४॥
मनः प्राणौ श्रोत्रचक्षुर्वाचश्च वपुषि स्थिताः ।
प्रवर्तन्ते स्वस्वकार्ये विद्यते प्रेरको न वा ॥ १९.५॥
न चेत्तर्हि जडत्वेन प्रवृत्तिर्मन आदिषु ।
न स्याद्विना प्रेरकेण शकटाद्यप्रवृत्तितः ॥ १९.६॥
चैतन्यमिन्द्रियाणां चेद्ब्रह्मासत्वं प्रसज्यते ।
इन्द्रियेभ्यश्चेतनोऽन्यः प्रेरकोऽभ्युपगम्यताम् ॥ १९.७॥
इन्द्रियैः साधनैर्जीवो यः कर्ताऽसौ प्रवर्तकः ।
इति चेन्न यतो जीवे पारतन्त्र्यमवेक्ष्यते ॥ १९.८॥
व्यापारमिन्द्रियोत्थानं न करिष्येऽमुमित्ययम् ।
सङ्कल्प्यापि करोत्येव भूताविष्ट इवातुरः ॥ १९.९॥
इन्द्रियाधिष्ठातृदेवा न स्वतन्त्रा यथा वयम् ।
धर्माधर्मात्मकं कर्म न स्वतन्त्र जडत्वतः ॥ १९.१०॥
तस्मात्केन प्रेरितं सद्विषयान्मनुते मनः ।
कर्तुमुच्छ्वासनिश्वासौ प्राणः केन प्रणीयते ॥ १९.११॥
वाक्चक्षुश्रोत्रमुख्यानि प्रेरयेत्करणानि कः ।
ईश्वरश्चेत्किमेकोऽसौ बहवोऽमीत्युतेर्यताम् ॥ १९.१२॥
प्रवर्त्यानामनन्तत्वाद्वैलक्षण्याच्च नैकता ।
नैकमत्यं बहुत्वे स्याद्बहुराजकदेशवत् ॥ १९.१३॥
उक्तदोषनिवृत्त्यर्थं गुरुर्वचनमब्रवीत् ।
श्रोत्रस्य श्रोत्रमित्यादि तदर्थस्तु विविच्यते ॥ १९.१४॥
अन्तर्याम्येक एवेशः स च सर्वं नियच्छति ।
अधीयन्ते पृथिव्यादौ स्थितं वाजसनेयिनः ॥ १९.१५॥
स्थित्वा मनस्यान्तरोऽस्माज्ज्ञायते मनसा न सः ।
मनस्तस्य शरीरं स्यान्नियच्छत्यान्तरो मनः ॥ १९.१६॥
एवं श्रुतः स सर्वेषु प्राणवागादिवस्तुषु ।
अन्तः प्रविष्टः शास्ताऽयमिति श्रुत्यन्तरं जगौ ॥ १९.१७॥
सत्यं ज्ञानमनन्तं यद्ब्रह्म वेदेषु वर्णितम् ।
तदेव मायासंयोगादीश्वरत्वं प्रपद्यते ॥ १९.१८॥
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।
पराऽस्य शक्तिर्विविधा ता मायाशक्तयोऽखिलाः ॥ १९.१९॥
मायाभिरीशो बहुधा भाति सर्वेषु वस्तुषु ।
श्रोत्रशक्तिमुपादाय श्रोत्रं सृष्ट्वाऽत्र भात्यसौ ॥ १९.२०॥
येन शब्दः श्रूयते तच्छ्रोत्रं श्रोत्रत्वमस्य यत् ।
तस्येशशक्त्या सृष्टत्वाच्छ्रोत्रस्य श्रोत्रमीश्वरः ॥ १९.२१॥
व्याकृताऽव्याकृताकारौ यौ श्रोत्रस्य तयोरिदम् ।
श्रोत्रं व्याकृत आकारः शक्तिरव्याकृतामिधा ॥ १९.२२॥
तच्छक्त्युपहितत्वेन ब्रह्मापि श्रोत्रमुच्यते ।
शृणोत्यकर्ण इत्युक्तं श्रोत्रशक्तियुतत्वतः ॥ १९.२३॥
षष्ठ्यन्तं करणं तस्य प्रथमान्तं प्रवर्तकम् ।
मनसो मन इत्यादावयं न्यायः समीक्ष्यताम् ॥ १९.२४॥
एकत्वेऽपीश्वरस्येत्थं तच्छक्तीनां बहुत्वतः ।
विलक्षणानन्तवस्तुप्रेरणं सम्भविष्यति ॥ १९.२५॥
अक्षाधिष्ठातृदेवेषु जीवेष्वक्षेषु चेश्वरः ।
अन्तर्यामितया स्थित्वा नियच्छति यथातथम् ॥ १९.२६॥
शक्तौ चिदाभासवत्यां स्थिता नियमनक्रिया ।
तदधिष्ठानचैतन्ये नियन्तृत्वं प्रकल्पितम् ॥ १९.२७॥
नियन्तृत्वोपाधिना यः परमात्मोपलक्षितः ।
तमिन्द्रियनिरोधेन धीराः पश्यन्ति योगिनः ॥ १९.२८॥
अदर्शने त्वहङ्कारतादात्म्यं चिति कल्प्यताम् ।
तादात्म्याध्यासतो जीवो भूत्वाऽसौ बन्धमाप्नुयात् ॥ १९.२९॥
अध्यासवारिका बुद्धिर्येषां धीरास्त ईरिताः ।
बन्धान्मुक्त्वा वपुस्त्यक्त्वा ते स्युर्मरणवर्जिताः ॥ १९.३०॥
ऐक्यभ्रातिर्बन्धकृत्स्यादहङ्कारचिदात्मनोः ।
तद्विवेके कुतो बन्धः शरीरं चात्मनः कुतः ॥ १९.३१॥
देहप्राणवियोगः स्यान्मरणं यस्य तौ न हि ।
तद्वियोगः कथं तस्य चिदेकरसवस्तुनः ॥ १९.३२॥
बन्धो देहो मृतिर्बोधमात्राच्चेत्सन्ति नो तदा ।
सर्वे बुध्वा निजात्मानं कृतकृत्याः कुतो नहि ॥ १९.३३॥
गुरूपदेशरहिता आत्मानं बोद्धुमक्षमाः ।
चक्षुर्वागादयो यस्मान्न गच्छति चिदात्मनि ॥ १९.३४॥
चक्षुर्न गच्छेन्नीरूपे वागवाच्यं कथं वदेत् ।
अविकल्पमसङ्कल्प गृहीतुं न मनोऽर्हति ॥ १९.३५॥
एवं सति कथं यूयं जानीथ मनसेति चेत् ।
आचार्यनिरपेक्षेण न विद्मो मनसा वयम् ॥ १९.३६॥
आचार्योऽपि कथं ब्रूयादवाच्यामिति चेद्यथा ।
बोधयेदमिधावृत्त्या तं प्रकारं न वेद्म्यहम् ॥ १९.३७॥
षष्ठीगुणक्रियानातिरूढयः शब्दहेतवः ।
नात्मन्यन्यतमोऽमीषां तेनात्मा नाभिधीयते ॥ १९.३८॥
ईदृशं यूयमाचार्याच्छ्रुतवन्तः कथं त्विति ।
ब्रूषे चेच्छुश्रुमात्मानमतद्व्यावृत्तितो वयम् ॥ १९.३९॥
ज्ञातं चाज्ञातमित्येव जगद्द्वेधावभासते ।
तस्योभयस्य व्यावृत्त्या परमात्मावशिष्यते ॥ १९.४०॥
धीवृत्तिविषयीकृत्य यद्घटाद्यवभासयेत् ।
विदितं तद्यत्र नो धीस्तत्स्यादविदितं खलु ॥ १९.४१॥
ज्ञाताज्ञाते साक्षिभास्ये स साक्षी भासते स्वयम् ।
ज्ञाताज्ञातपरित्यागे साक्षिशेषो ह्यतिस्फुटः ॥ १९.४२॥
वेद्मीति यद्बलादात्थ न वेद्मीत्यपि यद्बलात् ।
तदन्यनिरपेक्षं सद्भातीत्यस्मद्गुरोर्वचः ॥ १९.४३॥
अज्ञातज्ञातयोः साक्षी ब्रह्मेत्येवं विधातु धीः ।
अज्ञानं नाशयत्येव न ब्रह्म स्फोरयत्यसौ ॥ १९.४४॥
स्वतः स्फुरणरूपेऽस्मिन् किमन्यत्स्फुरणं भवेत् ।
स्फोर्यत्वाभावतस्तस्य न मनोगम्यता भवेत् ॥ १९.४५॥
अवाङ्मनसगम्यं तदाचार्येणोपदिश्यते ।
शिष्येण बुध्यते चेत्थं न किञ्चिन्नोपपद्यते ॥ १९.४६॥
यन्नाभिधीयते वाचा वाग्येन प्रेर्यते सदा ।
ब्रह्म विद्धि तदेव त्वं न त्विदं यदुपासते ॥ १९.४७॥
उपासकास्तु सर्वज्ञसर्वशक्त्यादिशब्दतः ।
वाच्यं स्वभिन्नं ध्यायन्ति न मुख्यं ब्रह्मतद्भवेत् ॥ १९.४८॥
स्फोर्यते मनसा यन्न स्फोरकं मनसस्तु यत् ।
तद्ब्रह्म विद्धि न त्वेतद्यत्तु स्फोर्यमुपासते ॥ १९.४९॥
भावनाजन्यवृत्त्यैव स्फोर्यं ध्यायन्त्युपासकाः ।
उपासकेन दृश्यं तद्ब्रह्म मुख्यं कथं भवेत् ॥ १९.५०॥
न दृश्यते चक्षुषा यच्चक्षुषो भासकं तु यत् ।
तद्ब्रह्म विष्णुमूर्त्यादेर्न मुख्यब्रह्मताऽस्ति हि ॥ १९.५१॥
न श्रूयते यच्छ्रोत्रस्य साक्षी यद्ब्रह्म तद्भवेत् ।
श्रुतं प्रणवनामादि न मुख्यब्रह्मतामियात् ॥ १९.५२॥
न प्रेर्यते यत्प्राणेन प्राणस्य प्रेरकं तु यत् ।
तद्ब्रह्म न तु हंसाख्यमन्त्रः प्राणप्रचोदितः ॥ १९.५३॥
अन्यैरपीन्द्रियैर्गम्यं किन्त्वक्षभासकम् ।
ब्रह्मविद्धि तदेव त्वं न त्विदं यदुपासते ॥ १९.५४॥
सर्वप्रत्ययवेद्यं यत्सोपाधि ब्रह्म विद्यते ।
उपासकात्पृथग्भूतं तदेवोपासते जनाः ॥ १९.५५॥
ब्रह्माभासमिदं रूपमुपेक्ष्यानिदमात्मकम् ।
मुख्यब्रह्मैव साक्ष्याख्यं ज्ञात्वा स्वानुभवं वद ॥ १९.५६॥
त्वत्कारुण्यात्सुष्ठु वेद ब्रह्माहमिति वक्षि चेत् ।
अल्पं वेत्सि न सम्पूर्ण ज्ञातृज्ञेयविभेदतः ॥ १९.५७॥
अखण्डैकरसे तत्त्वे ज्ञातृत्वं प्रत्यगात्मनः ।
देवस्य ब्रह्मतेत्येवं खण्डनादल्पवेदनम् ॥ १९.५८॥
मीमांस्यमेव तेऽथापि भेदभ्रमनिवृत्तये ।
मीमांसित्वा निश्चयं ते वदेत्युक्तस्तथाऽकरोत् ॥ १९.५९॥
भेदभ्रमो निवृत्तोऽद्य यथाशास्त्रं विचारतः ।
सुवेदेति न वेदेति द्वाभ्यां हीनं तु शेषितम् ॥ १९.६०॥
स्वप्रकाशं तमात्मानं तथात्वेनैव वेद्म्यहम् ।
नान्यथाऽतो यथाशास्त्रं बुद्धं ब्रह्मेति निश्चयः ॥ १९.६१॥
सुवेदेत्यक्षविषये न वेदेत्यप्यभासिते ।
वक्तुं युक्तं स्वयं भाते कथं तद्युज्यते द्वयम् ॥ १९.६२॥
मध्येऽस्माकं हे सखायो ज्ञाताज्ञातत्ववर्जितम् ।
ब्रह्मेति वेत्ति योऽसौ हि यथाशास्त्रं विबुद्धवान् ॥ १९.६३॥
यल्लौकिकं वस्तु यच्च ब्रह्म तद्धि विलक्षणम् ।
यस्यामतं तस्य मतं मतं यस्य न वेद सः ॥ १९.६४॥
लोके घटो मतो येन स घटज्ञ इतीर्यते ।
येन मन्त्रा मतं ब्रह्म न त्वसौ ब्रह्मविद्भवेत् ॥ १९.६५॥
मन्तृमन्तव्यरूपेण विविधत्वं विजानता ।
अविज्ञातं ब्रह्मतत्त्वमखण्डैकरसात्मकम् ॥ १९.६६॥
विविधत्वमविज्ञाय यदखण्डत्ववेदनम् ।
तद्भवेब्रह्मविज्ञानं धीमद्भिर्बुध्यतां तथा ॥ १९.६७॥
ईदृशः प्रतिबोधो यस्तेन चेद्विदितं तदा ।
मतं ब्रह्म भवेद्विद्वानमृतत्वं हि विन्दते ॥ १९.६८॥
नित्यानित्यविवेकादियुक्ते न मनसा पुमान् ।
वेदितुं लभते वीर्यं विद्यया विन्दतेऽमृतम् ॥ १९.६९॥
देहे प्राणवियोगाख्या मृतिरात्मनि कल्पिता ।
अविद्यया विद्यया तु भ्रान्तिः सा विनिवर्तते ॥ १९.७०॥
नैव जन्मनि सर्वस्मिन् विद्यासौ सुलभाऽपि तु ।
शिष्यलक्षणसम्पूर्णजन्मन्येव हि लक्ष्यते ॥ १९.७१॥
ईश्वरानुग्रहाच्छान्तिदान्त्यादिगुणसंयुतम् ।
जन्म चेल्लभते तस्मिन्विद्यया मोक्षमाप्नुयात् ॥ १९.७२॥
नावेदि चेदिहालस्याद्विनष्टिर्महती भवेत् ।
कदाचिज्जन्म पश्वादिरूपं स्यादिति वेत्ति कः ॥ १९.७३॥
तस्माच्छास्त्राधिकारेण युक्तं विप्रादिजन्म चेत् ।
लभ्यमानस्य रहितो विद्यादात्मानमद्वयम् ॥ १९.७४॥
नानात्मत्वभ्रमोच्छित्त्यै तत्तद्देहेष्ववस्थितम् ।
स्वात्मत्वेनैव निश्चित्य धीरा यान्ति कृतार्थताम् ॥ १९.७५॥
मायया दृश्यते लोको येऽस्मात्प्रेत्य स्थिताः परे ।
न तेषां जन्ममरणे विद्येते कर्हिचित्क्वचित् ॥ १९.७६॥
ईश्वरानुग्रहादेव भवेदद्वैतवासना ।
नान्यथेति विवक्षित्वा काचिदाख्यायिकोच्यते ॥ १९.७७॥
देवार्थमीश्वरो युद्धे विजयं कुरुते सदा ।
अज्ञात्वाऽनुग्रहं देवा जयगर्वं प्रपेदिरे ॥ १९.७८॥
जयः स्वकीय इत्येवं देवाभिप्रायमीश्वरः ।
ज्ञात्वा देवान् बोधयितुं तेषां प्रादुर्बभौ पुरः ॥ १९.७९॥
देवाः सभासदो दृष्ट्वा वपुरैशमलौकिकम् ।
किमेतदिति विज्ञातुं प्रैरयन्ताग्निमन्तिके ॥ १९.८०॥
समागतं वह्निमीशः को भवानिति पृष्टवान् ।
जातवेदोऽग्निनामाहमिति गर्वितवानसौ ॥ १९.८१॥
त्वयि किं वीर्यमित्याह गर्वं भङ्क्तुं परेश्वरः ।
अग्निः सर्व दहामीति वाक्यं गर्वादबोचत ॥ १९.८२॥
स्वदत्तां शक्तिमाहृत्य दहेति तृणमित्यमुम् ।
उवाचेशः सोऽपि दग्धुं न शशाकैव तत्तृणम् ॥ १९.८३॥
अग्निवत्वायुरप्यत्र गर्वे भग्ने निवृत्तवान् ।
निर्गर्वमिन्द्रं दृष्ट्वेशः परीक्षायै तिरोभवत् ॥ १९.८४॥
इन्द्र ईशप्रसादार्थीं तस्थावूर्ध्वं विलोकयन् ।
अनुग्रहीतुमिन्द्रं तमुमारूपोऽभवद्धरः ॥ १९.८५॥
देवि दृष्टं पुरा देवैः किं ब्रूहीति पृष्टवान् ।
तद्ब्रह्मानुग्रहात्तस्य जयोऽभूदित्युवाच सा ॥ १९.८६॥
उत्कृष्टा अभिवाय्विन्द्रा ईषत्सम्भाषणादमी ।
तेषामपीन्द्रः पुण्यात्माऽनुग्रहोऽप्यधिको यतः ॥ १९.८७॥
ईशानुग्रहसिद्ध्यर्थं ब्रह्मोपास्यं मुमुक्षुमिः ।
तच्चाधिदैवमध्यात्ममधिभूतमुपास्यताम् ॥ १९.८८॥
आविर्भावतिरोभावौ विद्युद्वद्बह्मणि स्थितौ ।
ततो विद्युदुपाध्येतद्ब्रह्म स्यादधिदैवतम् ॥ १९.८९॥
मनोऽध्यात्ममुपाधिः स्यात्स्मृतिसङ्कल्पसंयुतम् ।
तद्वनेति ब्रह्म नाम तन्नामकमुपास्यताम् ॥ १९.९०॥
यत्तैः सम्भजनीयं तद्भवेत्तद्वननामकम् ।
तथैवोपासितं ब्रह्म दद्यादाचार्यसम्पदम् ॥ १९.९१॥
तदुपासकमीशानुगृहीतं ब्रह्मवेदिनम् ।
वाञ्छन्ति विद्यां ब्रूहीति भक्तिमन्तोऽखिला जनाः ॥ १९.९२॥
हे शिष्य ब्रह्मविद्या ते कथिताऽत्यन्तविस्तरात् ।
श्रोत्रस्य श्रोत्रमित्यादेस्तद्विद्यासाधनं शृणु ॥ १९.९३॥
वेदाः षडङ्गसहिता अग्निहोत्रादि कर्म च ।
कृच्छ्रादिकं तपो दान्तिस्तैर्विद्या प्रतितिष्ठति ॥ १९.९४॥
यत्सत्यं बाधरहितं तद्विद्यायतनं खलु ।
साधनैः साधिता विद्या सत्येऽस्मिन् पर्यवस्यति ॥ १९.९५॥
अर्ज्यते सुष्ठु यन्मुक्तिपदं तत्स्वर्ग उच्यते ।
अनन्तो नाशराहित्याज्ज्येष्ठः सर्वोत्तमत्वतः ॥ १९.९६॥
मुख्याधिकारिणः प्रष्टुः शिष्यस्य ब्रह्मबोधनम् ।
ससाधनं सदाचार्यः एवमत्रोपदिष्टवान् ॥ १९.९७॥
विद्यामेतां वेद योऽसौ पाप्मानं प्रतिबन्धकम् ।
अपहत्य विमुक्त्याख्ये स्वर्गेऽस्मिन् प्रतितिष्ठति ॥ १९.९८॥
अवाङ्मनसगम्यत्वमुपदेशश्च वेदनम् ।
अविरोधेन तत्सर्वं विस्पष्टमिह वर्णितम् ॥ १९.९९॥
विद्या तलवकाराणां शाखायां श्रूयते स्फुटम् ।
तद्व्याख्यानेन सन्तुष्याद्विद्यातीर्थमहेश्वरः ॥ १९.१००॥
इति श्रीमद्विद्यारण्यमुनिविरचिते अनुभूतिप्रकाशे
तलवकारविद्याप्रकाशो नामैकोनविंशोऽध्यायः ॥ १९॥
२०. देवविद्याख्यो नृसिंहतापिनीविवरणो नाम विंशोऽध्यायः ।
आथर्वणे तापिनीये उत्तरस्मिन् प्रजापतिः ।
देवानबूबुधन्मन्त्रराजप्रणवमार्गतः ॥ २०.१॥
मन्त्रराजं पूर्वतापनीयं श्रुत्वा तदा धिया ।
ध्यायतः सगुणं ब्रह्म देवा धीशुद्धिमाप्नुवन् ॥ २०.२॥
ततस्ते निर्गुणं ब्रह्म पप्रच्छुः शुद्धबुद्धयः ।
अणोरणीयान्यः प्रत्यङ् प्रणवे तं वद प्रभो ॥ २०.३॥
परमाणोर्योगिनेत्रगम्यं रूपं यदस्ति तत् ।
प्रतीचो नास्त्यतः प्रत्यङ्ङणीयान् परमाणुतः ॥ २०.४॥
ओङ्कारो वाचकस्तस्य प्रतीकं वेति हि श्रुतम् ।
ओङ्कारेणात्मनो ध्यानं वदास्मभ्यं सविस्तरम् ॥ २०.५॥
श्रूयतामयमोङ्कारो निःशेषजगदात्मकः ।
इति ध्यात्वा ब्रह्म सर्वमात्मा ब्रह्मेति वै स्मरेत् ॥ २०.६॥
यदोङ्कारस्य सार्वात्म्यं ध्यानायैतन्न वस्तुतः ।
यद्ब्रह्मणस्तु सार्वात्म्यं वस्तुतोऽप्येतदीक्ष्यताम् ॥ २०.७॥
ब्रह्म स्यात्सचिदानन्दरूपं सर्वेषु वस्तुषु ।
विद्यते सच्चिदानन्दा इति ह्यूर्ध्वं प्रवक्ष्यते ॥ २०.८॥
देहेन्द्रियादिसाक्षी य आत्माऽस्मिन् ब्रह्मरूपताम् ।
सच्चिदानन्दरूपत्वादसंसारिणि युज्यते ॥ २०.९॥
देहाद्युपाधिसम्बन्धात्संसारित्वं चिदात्मनः ।
स्वतः सोऽयमसंसारी ब्रह्मत्वं युज्यते ततः ॥ २०.१०॥
ओमित्युच्चारयन्ध्याता स्वात्मानं ब्रह्मणा सह ।
एकीकृत्य पुनर्ब्रह्माप्येकीकुर्यात्तथात्मना ॥ २०.११॥
तथा हंसः सोऽहमिति व्यतिहारोऽत्र लक्ष्यते ।
विचिन्त्यान्योऽन्यतादात्म्यं तथैवानुभवेदिदम् ॥ २०.१२॥
बुद्धिस्तदाकृतिं कृत्वा यावन्नैश्चल्यमाप्नुयात् ।
तावद्भवेदनुभवो जरामरणवर्जिते ॥ २०.१३॥
चलितानुभवाद्बुद्धिर्बहिश्चेद्गन्तुमुद्यता ।
तदा बाह्यनिवृत्त्यर्थं कुर्यादारोपसंहृती ॥ २०.१४॥
स्थूलं सूक्ष्मं कारणं च शरीरत्रयमात्मनि ।
माययाऽऽरोपितं ध्यात्वा बोधाल्लीनमिति स्मरेत् ॥ २०.१५॥
तदाऽप्योङ्कारमुच्चार्य नादान्ते निर्विकल्पकम् ।
चित्तं कृत्वा यथाशक्ति स्वात्मतत्त्वे स्थिरो भवेत् ॥ २०.१६॥
निर्गते तु पुनश्चित्तेऽधिदैवाध्यात्मभेदतः ।
यद्देहत्रयमस्त्येतदभेदेनैव चिन्तयेत् ॥ २०.१७॥
अण्डसूत्राव्याकृताख्या देहाः स्युरधिदैवतम् ।
पिण्डलिङ्गाज्ञानरूपमध्यात्मं वपुषां त्रयम् ॥ २०.१८॥
स्थूलसूक्ष्मैक्यरूपत्वमुभयत्र क्रमात्रिषु ।
अस्ति साम्यमभेदोऽत उभयोरिह चिन्त्यताम् ॥ २०.१९॥
विराड्ढिरण्यगर्भेशा अधिदैवं हि देहिनः ।
विश्वश्च तैजसः प्राज्ञो ह्यध्यात्ममपि देहिनः ॥ २०.२०॥
स्थूलसूक्ष्मानन्दभुजः क्रमात्ते देहिनस्त्रयः ।
एतत्सर्वं स्फुटीकर्तुं चतुष्पात्प्रविविच्यते ॥ २०.२१॥
इन्द्रयैर्विषयज्ञानं यत्तज्जागरितं भवेत् ।
तत्र स्थित्वा जगत्स्थूलं वेत्त्यात्मा तत्तदिन्द्रियैः ॥ २०.२२॥
शिरश्चक्षुर्मुखं प्राणो मध्यं बस्तिस्ततोऽप्यधः ।
इत्यङ्गसप्तकं वैश्वानरोपास्तिश्रुतौ श्रुतम् ॥ २०.२३॥
ज्ञानकर्मेन्द्रियप्राणभेदाः पञ्चदशेरिताः ।
चतुर्विधान्तःकरणं मुख्यान्येकोनविंशतिः ॥ २०.२४॥
स्थूलमिन्द्रियगम्यं यत्तद्भुङ्क्तेऽसौ चतुर्विधः ।
जागरे जागरस्वप्नसुप्तितुर्याख्यभेदतः ॥ २०.२५॥
जागरो व्यवहारोऽक्षैः स्वप्नो मानसचिन्तनम् ।
तूष्णींस्थितिः सुषुप्तिः स्यात्तृप्तत्वं तुर्यमुच्यते ॥ २०.२६॥
अध्यात्ममधिदैवं च विश्ववैश्वानराभिधः ।
ईदृशः प्रथमः पाद आत्मनः स्याच्चतुष्पदः ॥ २०.२७॥
इन्द्रियाणामुपरमे धिया जागवासनाम् ।
सूक्ष्मां जानन्वासनात्मा सप्ताङ्गादियुतो भवेत् ॥ २०.२८॥
स्पष्टस्मृतिरविस्पष्टस्मृतिरित्यपि ।
स्वप्रभेदाः स्वप्नमध्ये जाग्रत्स्वप्नसुषुप्तयः ॥ २०.२९॥
स्वप्नेऽपि तुर्यं तृप्तत्वं जाग्रतीवानुभूयते ।
हिरण्यगर्भोऽधिदैवमध्यात्मं तैजसाभिधः ॥ २०.३०॥
द्वितीयः पाद एष स्यादात्मनोऽस्य चतुष्पदः ।
धियो लये सुषुप्तिस्थ एकोऽभूद्द्वैतलोपनात् ॥ २०.३१॥
धीवृत्तिरूपाः प्रज्ञास्ता एकीभावमुपागताः ।
दुःखहान्यानन्दमयो भुङ्क्ते ब्रह्मसुखं तदा ॥ २०.३२॥
अविद्यावृत्त्यवच्छिन्नं चैतन्यं भोगसाधनम् ।
सुषुप्तौ चतुरात्मत्वं जागरादिविभेदतः ॥ २०.३३॥
तन्द्र्यामध्यापयेद्वाचा तदा स्यात्सुप्तिजागरः ।
ध्यानाभ्यासस्तु यस्तन्द्र्यां सुप्तिः स्वप्नः स उच्यते ॥ २०.३४॥
गाढनिद्रः सुप्तसुप्तिः सुप्तितुर्यं सुखोद्भवः ।
अध्यात्मं प्राज्ञ एवं स्यादधिदैवं तथेश्वरः ॥ २०.३५॥
तृतीयः पाद इत्युक्तः आत्मनोऽस्य चतुष्पदः ।
पादत्रयमिदं मायामात्रं स्यान्न तु तात्त्विकम् ॥ २०.३६॥
सुषुप्तिस्वप्ननामभ्यां तत्त्वविद्वक्ति तत्त्रयम् ।
तत्त्वावृते सुप्तसुप्तं स्वप्नता त्वन्यथेक्षणात् ॥ २०.३७॥
पादत्रयेणावृताऽसौ चिदेकरसताऽऽत्मनः ।
अथ पादश्चतुर्थो यश्चतुरात्मा स पूर्ववत् ॥ २०.३८॥
तुरीयाऽवसितत्वं तु भवेत्पादुचतुष्टये ।
ओताऽनुज्ञात्रनुज्ञाविकल्पशब्दैरुदीरिताः ॥ २०.३९॥
तुरीयपादगा भेदास्तत्स्वरूपं विविच्यते ।
ब्रह्मणो गुरुशास्त्राभ्यां बुद्ध्वा सर्वात्मतां ततः ॥ २०.४०॥
सर्ववस्तुष्वनुस्यूतं पश्यन्नोता भवेदयम् ।
इन्द्रियाणि निरुध्याहं ब्रह्मेति ब्रह्मतात्मनि ॥ २०.४१॥
येनानुज्ञायते सोऽयमनुज्ञातेति कथ्यते ।
ज्ञातृत्वं तु निराकृत्य चिदेकरसशेषता ॥ २०.४२॥
अनुज्ञेत्युच्यते मुक्तिरविकल्प इतीर्यते ।
विद्वज्जागरणस्वप्नसुप्तितुर्याऽभिधा इमाः ॥ २०.४३॥
अवस्थास्तिस्र एतास्तु मायालेशेन संयुताः ।
निःशेषमायाहीनोऽयमविकल्पो भवत्यथ ॥ २०.४४॥
अतद्व्यावृत्तिरूपेण तस्यादेशोऽत्र वर्ण्यते ।
जाग्रत्स्वप्नान्तरालानि विद्याऽविद्ये सुषुप्तकम् ॥ २०.४५॥
न स्थूलप्रज्ञमित्याद्यैः क्रमात्षड्भिर्निवार्य्यते ।
न चक्षुरादिमिर्दृश्यैर्न प्राणैर्व्यवहारभाक् ॥ २०.४६॥
नापि कर्मेन्द्रियैर्गाह्यं नानुमेयं च लक्षणात् ।
न चित्यं मनसा नैव शब्दैश्च व्यपदिश्यते ॥ २०.४७॥
स्वप्रकाशात्मसारत्वान्नापि शक्याऽस्य शून्यता ।
स्थूलप्रज्ञादिरूपो यः प्रपञ्चः स्वात्मनः पृथक् ॥ २०.४८॥
तत्कृतैर्बहुविक्षेपैरात्मनो दुःखितेति चेत् ।
प्रपञ्चः कल्पितस्तत्त्वबोधेनैवोपशाम्यति ॥ २०.४९॥
ततः शिवं दुःखहीनं सर्वविक्षेपशान्तितः ।
पादं चतुर्थं मन्यन्ते वस्त्वद्वैतमिहोच्यते ॥ २०.५०॥
मतिरेव बुभुत्सूनां न त्वद्वैते चतुर्थता ।
यदद्वैतं स एवात्मा ज्ञेयो जिज्ञासुना स हि ॥ २०.५१॥
तुर्यपादे त्रयं त्यक्त्वा तुर्ये तुर्योऽवबुध्यताम् ।
मायित्वादीश्वरोऽप्यत्र ग्रस्तः स्यादुवबोधतः ॥ २०.५२॥
इत्थं योगविवेकौ द्वौ प्रथमे खण्ड ईरितौ ।
चित्तभ्रमणरूपस्य संसारस्य प्रशान्तये ॥ २०.५३॥
योगो विवेक इत्युक्तौ प्रकारौ श्रुतिसम्मतौ ।
असाध्यः कस्यचिद्योगः कस्यचिज्ज्ञाननिश्चयः ॥ २०.५४॥
प्रकारौ द्वौ ततः प्रोक्तौ सर्वानुग्रहकाम्यया ।
आदौ द्वितीयखण्डस्य सच्चिदानन्दतात्मनः ॥ २०.५५॥
विविच्यते नित्यसत्ता गम्यते ह्यनुवृत्तितः ।
व्यभिचारे जागरादेर्यत्सदव्यभिचारि तत् ॥ २०.५६॥
आनन्दैकरसं नित्यमिति सत्त्वं विवेचितम् ।
चक्षुःश्रोत्रादयः सर्वे मदीया इति भासिताः ॥ २०.५७॥
भाताऽसौ चक्षुरादिभ्यो द्रष्टाऽन्यश्चेतनो भवेत् ।
द्रष्टेति दृष्टिकर्तृत्वमहङ्कारेण कल्पितम् ॥ २०.५८॥
दृङ्मात्रत्वेन साक्ष्यात्मा विकाररहितत्वतः ।
आनन्दघन आत्माऽसौ परप्रेमास्पदत्वतः ॥ २०.५९॥
मा न भूवं सदा सम्यग्भूयासमिति हीक्ष्यते ।
सच्चिदानन्दैकरसो भात्यस्माद्दृश्यतः पुरा ॥ २०.६०॥
सर्वेषु व्यवहारेषु निर्विकल्पं स्फुरेत्पुरः ।
तमेव भान्तमन्वेति तद्भासा भास्यते जगत् ॥ २०.६१॥
इति श्रुत्यन्तरे प्रोक्तः परमात्मा परिस्फुरन् (पुरा स्फुरन्) ।
अखण्डैकरसः सोऽयं जरामरणवर्जितः ॥ २०.६२॥
इत्यात्मानं विविच्याथ युञ्जीत प्रणवेन तम् ।
चतुर्ण्णां जागरादीनां प्रत्येकं चतुरात्मता ॥ २०.६३॥
पूर्वमुक्ता यथा तद्वदकारादिषु कल्पयेत् ।
आधारादुत्थितो वायुर्नाभिहृत्कण्ठगो बहिः ॥ २०.६४॥
निर्गच्छन् जनयेच्छब्दं सोऽपि स्थानैश्चतुर्विधः ।
संज्ञाः परेति पश्यन्ती मध्यमा वैखरीति च ॥ २०.६५॥
आगमोक्ता वैखरी तु श्रूयते मुखनिर्गता ।
वाचः पदानि चत्वारि त्रीणि गूढानि विग्रहे ॥ २०.६६॥
तुर्यं मर्त्या वदन्तीति प्राह मन्त्रोऽप्यतिस्फुटम् ।
वैखर्याद्याः परान्तास्तु शब्दभेदाः क्रमादमी ॥ २०.६७॥
स्थूलसूक्ष्मौ बीजसाक्षिणावित्येव श्रुतीरिताः ।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च वै कलाः ॥ २०.६८॥
अकारेऽस्मिँश्चतुर्भेदे जागरं तु चतुर्विधम् ।
ध्यायेत्साम्यं तयोराप्तिरादित्वं चेति चिन्तयेत् ॥ २०.६९॥
जागरेऽक्षैर्व्याप्तिरस्ति व्याप्तोऽकारः कखादिषु ।
आदित्वं लोकतः सिद्धं जागराकारयोर्द्वयोः ॥ २०.७०॥
स्थूलसूक्ष्मत्वादिसाम्यं तद्भेदानां क्रमाद्भवेत् ।
फलं यथागुणं ध्याने भवेत्सर्वत्र कामिनः ॥ २०.७१॥
अकारं जागरोऽप्येतमुकारे संहरेत्तथा ।
उकारं च मकारे तमोङ्कारे नादरूपिणि ॥ २०.७२॥
अथ तुर्यं चतुर्भेदमीशग्रासादिनामकम् ।
ध्यायेन्महेश्वरोऽमायी यस्तमोंऽतो ग्रसत्ययम् ॥ २०.७३॥
कालाग्निसूर्यः संहारकाले स्वैस्तीव्ररश्मिभिः ।
तिरस्कुर्याज्जगत्तत्तु लेशाद्भाति यथा तथा ॥ २०.७४॥
ओतोऽयं सच्चिदानन्दैर्नामरूपे जगद्गते ।
तिरस्कुर्यात्ते तु लेशमात्रे भातः क्वचित्क्वचित् ॥ २०.७५॥
यथा सूर्यस्तमः सर्वं प्रकाशीकुरुते तथा ।
अनुज्ञाता जगत्सर्वं स्वात्ममात्रं करोति हि ॥ २०.७६॥
दाह्यं दग्ध्वा यथा वह्निर्निर्व्यापारोऽवशिष्यते ।
अनुज्ञैकरसस्तद्वच्चिन्मात्रः परिशिष्यते ॥ २०.७७॥
अवाङ्मनसगम्योऽयमविकल्पश्चतुर्विधः ।
तुर्यपादं चतुर्भेदे नादे सञ्चिन्तयेत्क्रमात् ॥ २०.७८॥
सर्वस्य जगतो वस्तुतत्त्वं यन्निर्विकल्पकम् ।
तदात्मेति समाधाय चित्तं तस्मिन् भवेद्धि तत् ॥ २०.७९॥
अथवा मन्त्रराजे धीः समाधेयात्मवाचिनि ।
सर्वसंहारशक्त्याद्या अर्था उग्रादिशब्दगाः ॥ २०.८०॥
आत्मानं मन्त्रराजेन ध्यायन् ब्रह्मतया पुमान् ।
ब्रह्मरूपो नृसिंहः स्याद्योगः शुद्धधियो ह्ययम् ॥ २०.८१॥
विवेकयोगौ सम्प्रोक्तौ द्वितीये खण्ड आत्मनः ।
प्रणवे मन्त्रराजे च द्विविधो योग ईरितः ॥ २०.८२॥
तृतीयमन्त्रराजस्य प्रणवस्यात्मनोऽपि च ।
एकीकारेण यद्ध्यानं तत्सम्यगभिधीयते ॥ २०.८३॥
पृथिव्याद्यात्मकोङ्कारः पाद उग्रादिकोऽपि च ।
परापश्यन्त्यादिरूपः सोऽयं विश्वश्चतुर्विधः ॥ २०.८४॥
तैजसप्राज्ञतुर्याश्च तथा ध्यात्वोपसंहरेत् ।
असौ प्रपञ्चहीनः स्यादविकल्पे स्थिरः पुमान् ॥ २०.८५॥
ज्ञश्चिन्मात्रोऽमृतो नित्यो हुतसंविदवृत्तिकः ।
शुद्धो भ्रान्तिविहीनत्वात्संविष्टोऽयमविक्रियः ॥ २०.८६॥
प्राणायामेन निर्विघ्नोऽनुभवेदीदृशात्मताम् ।
प्राणाधीनां मनोवृत्तिः प्राणरोधेन शाम्यति ॥ २०.८७॥
निर्विकल्पधिया पश्येज्जगत्स्वात्मतया ता ।
याने प्रपञ्चं सन्त्यज्य ब्रह्मरूपेण तिष्ठति ॥ २०.८८॥
अन्यो दंवोऽहमप्यन्य इति द्वैतस्य वासना ।
दृढा चेत्तादृशी देवपूजोपास्तिरथोच्यते ॥ २०.८९॥
योऽस्मिन् खण्डे वर्णितोऽसौ सङ्कल्पः पूज्य इष्यते ।
षट् तु स्थानानि देहेऽस्मिन् पूजाधाराः प्रकीर्तिताः ॥ २०.९०॥
आधारनाभिहृदयभ्रूमध्यद्वादशान्तकाः ।
षोडशान्तश्च तेष्वग्निब्रह्माद्यानर्चयेत्क्रमात् ॥ २०.९१॥
यश्चतुर्भेद ओताद्यैः सोऽमृतो निरुपाधिकः ।
उपाधीनां बोधबाधादविकल्पोऽवशेषणात् ॥ २०.९२॥
सोऽविकल्पः सर्वमयस्तस्मिन्सर्वाधिरोपणात् ।
ये जागरादयो भेदाश्चत्वारस्तेऽत्र कल्पिताः ॥ २०.९३॥
परिवारा मन्त्रराजे माहाचक्रे प्रकीर्तिताः ।
पृथिव्याद्याः सप्त सप्त भेदा मात्रास्त्विह श्रुताः ॥ २०.९४॥
परिवारेण संयुक्तं चतुः सप्तात्मकं प्रभुम् ।
नृसिंहमग्निरूपं तं मूलाधारे विचिन्तयेत् ॥ २०.९५॥
भूम्यादिमिः सप्तविधं स्थूलाद्यैश्च चतुर्विधम् ।
अकाररूपं ब्रह्माणमेतं नाभौ विचिन्तयेत् ॥ २०.९६॥
हृदि विष्णुमुकारेण भ्रूमध्ये च मकारतः ।
रुद्रं नादेन सर्वेशं द्वादशान्तेऽग्निवत्स्मरेत् ॥ २०.९७॥
चतुःसप्तात्मकोऽमायी सर्वेशो ह्यनुपाधिकः ।
षोडशान्ते सुखं ध्यायेच्चतुःसप्तात्मलक्षितम् ॥ २०.९८॥
तेनानन्दामृतेनाधःस्थितास्ताः पञ्चदेवताः ।
व्याप्ताश्चतुर्विधाः स्थूलादिभिरित्येव चिन्तयेत् ॥ २०.९९॥
उपचारैरागमोक्तैर्देवांस्तान्मनसार्चयेत् ।
ब्रह्मादिमूर्तिभेदेन तथैक्येनापि पूजयेत् ॥ २०.१००॥
भक्ष्यभोज्यैर्लेह्यचोष्यैरित्येतैरुपहारयेत् ।
गुरुश्रुत्युक्तमार्गेण पूजयित्वा यथाविधि ॥ २०.१०१॥
मूर्तिं तेजसि संहृत्य तेजश्चात्मनि संहरेत् ।
सूत्रे विराजं संहृत्य सूत्रमव्याकृते च तत् ॥ २०.१०२॥
अविकल्पे तत्र चित्तं समाधाय स्थिरो भवेत् ।
पूज्यपूजकयोर्भेदवासना यस्य हीयते ॥ २०.१०३॥
चतुर्थखण्डे योगोऽस्य धीविश्रान्त्यै निगद्यते ।
नादस्तुरीय ओङ्कारस्तस्यान्ते स्फुरदद्वयम् ॥ २०.१०४॥
मन्त्रराजेन साम्यं तैः पादैर्नत्वा प्रसादयेत् ।
प्रणवात्मतया ध्यात्वाऽहमित्यात्मतया स्मरेत् ॥ २०.१०५॥
यावन्निश्चलता तावत्स्थित्वोर्ध्वं चिन्तयेत्पुनः ।
कृत्स्नमन्त्रेण नत्वोमित्युच्चार्यान्ते स्थिरो भवेत् ॥ २०.१०६॥
ध्यात्वोङ्कारं पुनर्मन्त्रान्महावाक्यादनुस्मरेत् ।
मन्त्रेण वा केवलेन नृसिंहेति पदेन वा ॥ २०.१०७॥
संस्मृत्याखण्डवाक्यार्थं युञ्जीतोङ्कारमन्त्रयोः ।
संस्तभ्य चित्ते स्वात्मानं गुणत्रयविवर्जितम् ॥ २०.१०८॥
ब्रह्मादिकानकाराद्यैः संयोज्यात्मनि संहरेत् ।
तेषां तु कारणाविद्यां बाघित्वा वस्तुतोऽसतीम् ॥ २०.१०९॥
कृत्वा चिद्भक्षितां वीरः संस्मरन्निर्भयो भवेत् ।
ब्रह्मादीन्मन्त्रराजस्य पादैश्चिद्रूपतां नयेत् ॥ २०.११०॥
अविद्यां विनिवृत्त्यैष नृसिंहः स्वयमुद्बभौ ।
योगान्तरं पञ्चमेऽस्मिन् खण्डे स्पष्टमुदीर्यते ॥ २०.१११॥
अकारार्थं मन्त्रराजपदार्थैर्योजयेत्क्रमात् ।
चतुर्मूर्त्यात्मकैर्योगैरविकल्पान्तकैरपि ॥ २०.११२॥
चतुर्दशभिरेकेनाप्यजस्रं प्रयतो वसेत् ।
उग्रे वीरे महाविष्णावुज्ज्वले सर्वतोमुखे ॥ २०.११३॥
नृसिंहे भीषणे भद्रे मृत्युमृत्यौ न मय्यजा ।
भाति हिंसाकरी माया न मय्यस्ति चिदात्मनि ॥ २०.११४॥
नमामीति पदाद्ब्रह्माभिन्नतामनुचिन्तयेत् ।
ईदृग्योगी स्यादकामः काम्यमस्य न सम्भवेत् ॥ २०.११५॥
निष्कामोऽसौ लौकिकानां कामानां विनिवृत्तितः ।
काम्य आत्माऽपि बोधाप्तः किमन्यत्काम्यते पुनः ॥ २०.११६॥
उत्क्रामति न तत्प्राणा लीयन्ते तु परात्मनि ।
ब्रह्मैव सन् पुराप्येष ब्रह्माप्नोत्यवबोधतः ॥ २०.११७॥
तथोकारमकारौ च योज्यौ मन्त्रपदेष्वतः ।
अस्मिन् खण्डे त्रयो योगा धीविश्रान्त्यै प्रकीर्तिताः ॥ २०.११८॥
षष्ठे खण्डेऽथ विद्यायाः साधनान्यखिलान्यपि ।
जीवन्मुक्त्यवसायीनि सङ्गृह्यन्ते ह्यतिस्फुटम् ॥ २०.११९॥
विषयासङ्गरूपो यः पाप्मासावासुरत्वतः ।
विद्येच्छां प्रतिबध्नाति सोऽयमादौ निवर्त्यताम् ॥ २०.१२०॥
रजस्तमो वृत्तयो या लोभमोहादयो हृदि ।
क्रूरत्वादसुरास्ते स्युर्देवाः स्युः सत्त्ववृत्तयः ॥ २०.१२१॥
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ २०.१२२॥
अर्थावुग्रादिशब्दानां यौ प्रोकौ तापनीययोः ।
सगुणागुणभेदेन तद्ध्यानादसुरान् जयेत् ॥ २०.१२३॥
त्यक्त्वा रजस्तमोवृत्ती सात्त्विकीं वृत्तिमाश्रिता ।
धीश्चिदानन्दमात्मानं ध्यायन्ती तन्मयी भवेत् ॥ २०.१२४॥
ततो ध्यातृध्येयभेदनिवृत्त्यै मन्त्रराजतः ।
तुर्यातुर्यमनुस्मृत्य समाधिः प्रणवे भवेत् ॥ २०.१२५॥
मन्त्रार्थे प्रणवं दीर्घमुक्त्वा चित्तं विलापयेत् ।
अमूर्तमद्वयं ब्रह्मानुभवन् वर्तते तदा ॥ २०.१२६॥
ईदृक् समाधिविघ्नानां शान्त्यै पुत्रैषणादिकम् ।
त्यक्त्वा चित्तं समाधाय जीवन्मुक्तः सुखी भवेत् ॥ २०.१२७॥
अकारादिषडङ्गेषु संयोज्यासङ्गमद्वयम् ।
मन्त्रार्थमपि संयोज्य ह्यकारादीनुपेक्षते ॥ २०.१२८॥
खण्डेऽथ सप्तमे योगाः प्रवक्ष्यन्ते पुनस्त्रयः ।
तेषामन्यतमेनाऽसौ विद्वान् कालं नयेत्पुमान् ॥ २०.१२९॥
अकारार्थमजत्वाद्यैश्चिन्तयेद्बुद्धिसाक्षिणम् ॥ ।
उत्कर्षाद्यैरुकारार्थं मन्त्रदेवं विचितयेत् ॥ २०.१३०॥
अनूद्य साक्षिणं प्रोक्तं मन्त्रदेवत्वमस्य तत् ।
उत्कृष्टत्वादिभिः शब्दः पञ्चभिश्चिन्तयेत्तथा ॥ २०.१३१॥
उत्तरैः पञ्चभिर्देवमनूद्य परमात्मताम् ।
महत्वाद्यैर्मकारार्थरूपं तस्य विचिन्तयेत् ॥ २०.१३२॥
शरीरत्रयहीनो यः सच्चिदानन्दलक्षणः ।
स एव भवति ध्यानाद्योगोऽयं प्रथमो भवेत् ॥ २०.१३३॥
अन्येन कस्त्वमित्येवं पृष्टाः सर्वेऽपि मानवाः ।
अहमित्याहुरेतेषामहमित्यभिधानतः ॥ २०.१३४॥
अहंशब्दे प्रत्यगात्मवाचिन्यादेरकारतः ।
प्रथमे प्रथमाद्वर्णादात्मानमनुचिन्तयेत् ॥ २०.१३५॥
ब्रह्मणः सच्चिदानन्दा वीक्ष्यन्ते सर्ववस्तुषु ।
तस्मात्सर्वात्मकं ब्रह्म मकारो ब्रह्मशब्दगः ॥ २०.१३६॥
मकारः प्रणवस्यान्ते यस्तेन ब्रह्म चिन्तयेत् ।
आत्मनो ब्रह्मणैकत्वमुकारेण विचिन्तयेत् ॥ २०.१३७॥
आत्मा ब्रह्मेति वाक्यार्थे योगोऽयं प्रणवे श्रुतः ।
अर्थे तत्त्वमसीत्यस्य योगोऽथ प्रणवे भवेत् ॥ २०.१३८॥
सर्वात्मकम्ब्रह्म यत्स्यादुग्रादिपदभाषितम् ।
संहारे जगदत्तृत्वात्तस्योकारार्थतोचिता ॥ २०.१३९॥
संहृते जगति ब्रह्म सततं ह्यवतिष्ठते ।
पुनरुग्रादिशब्दैस्तदखण्डत्वेन संस्मरेत् ॥ २०.१४०॥
साक्षिणं मन आदीनामात्मानं तु मकारतः ।
ध्यात्वा ब्रह्मत्वसम्पत्त्यै दृष्टिसृष्टिमनुस्मरेत् ॥ २०.१४१॥
ब्रह्मात्मनोस्तु समयोरैक्यं ध्यायेदुकारतः ।
फलं तु पूर्ववद्विद्यात्रयो योगा इतीरिताः ॥ २०.१४२॥
चत्वारो ह्यष्टमे खण्डे योगास्तुर्यस्य भासकाः ।
ओङ्कारनामा प्रणवे नादो यस्तत्र वर्णितः ॥ २०.१४३॥
ओतानुज्ञात्रनुज्ञातैरविकल्प इतीरितैः ।
भेदैर्योगा विभिन्नाः स्युरभयं ब्रह्म तैर्भवेत् ॥ २०.१४४॥
ओङ्कारमन्त्रयोर्ध्येयं वस्तु यद्बहुधेरितम् ।
तत्तत्त्वं नवमे खण्डे विस्पष्टं प्रविविच्यते ॥ २०.१४५॥
य आत्मा ध्यातृदेहेषु यश्च ध्येयेषु भासते ।
एक एष स चिद्रूपो मायया भात्यनेकवत् ॥ २०.१४६॥
सुषुप्तौ जीवचैतन्यमद्वैतं ब्रह्मतां व्रजेत् ।
जगत्सर्वमविद्येति सर्वैरप्यनुभूयते ॥ २०.१४७॥
सृष्टेः प्रागप्येवमासीत्सा माया वटबीजवत् ।
अनेकरूपतां प्राप्य जीवेशावपि निर्ममे ॥ २०.१४८॥
कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः ।
उपाध्योर्यौ चिदाभासौ तौ जीवेशावुदीरितौ ॥ २०.१४९॥
नियन्तेशोऽनुमन्ता तु जीवः सोऽपि द्विधा भवेत् ।
समष्टिव्यष्टिरित्याद्यैस्तयोः सर्वाभिमानवान् ॥ २०.१५०॥
हिरण्यगर्भः सूत्रात्मा त्रिमूर्तिश्चेत्युदीर्यते ।
ब्रह्मा विष्णुश्च रुद्रश्च मूर्तयो गुणभेदतः ॥ २०.१५१॥
लिङ्गोपाधित्वतो जीवा अपीशाः सर्ववित्त्वतः ।
समष्टिः समुदायात्मा व्यष्टिस्तु पृथगात्मवान् ॥ २०.१५२॥
समष्टिः सूत्रवज्ज्ञेयो ब्रह्माण्डाख्यवपुर्विराट् ।
देवतिर्यङ्मनुष्यादिदेहो व्यष्टिरितीर्यते ॥ २०.१५३॥
परः प्रविश्यं देहेषु मायया गूढवत्स्थितः ।
द्वैतस्य मायिकत्वेन तत्त्वमद्वैतमिष्यताम् ॥ २०.१५४॥
सन्मात्रो नित्य इत्यादि श्रुत्या तत्तु स्फुटीकृतम् ।
आथर्वणे तु कैवल्यप्रमुखाः श्रुतयः स्फुटाः ॥ २०.१५५॥
श्रुतिस्मृतीतिहासानामभिप्रायविदव्ययः ।
श्रुतिव्याख्यानतस्तुष्याद्विद्यातीर्थमहेश्वरः ॥ २०.१५६॥
इति श्रीमद्विद्यारण्यमुनिविरचिते अनुभूतिप्रकाशे
देवविद्याख्यो नृसिंहतापिनीविवरणो नाम विंशोऽध्यायः ॥ २०॥
॥ ॐतत्सद्ब्रह्मार्पणमस्तु । श्रीरस्तु ॥
Proofread by Rama Sivaraman, Suvarna Sudagoni, Preeti Bhandare