कालीमेधादीक्षितोपनिषत्
अथाह वै देवानां पत्नीं भजते । तस्योपासकोऽन्यां गच्छन् ॐ
अथैनां मेधादीक्षितरूपिणीं भावयेत् । स शिवो भवेत् । स कालीरूपो
भवेत् । सोऽयं मेधास्पर्शमणिकालीं दीक्षयेत् । ततश्चिन्तामणिकालीं
दीक्षयेत् । ततः सिद्धकाल्यधिकारी भवेत् । ततो विद्याराज्ञीं जपेत् ।
ततः कामकलाकालीं परारूपिणीं जपेत् । ततश्चरणदीक्षारूपिणीं
हंसकालीं यजेत् । रक्तशुक्लमिश्रनिर्वाणरूपिणीं यजेत् ।
सर्वनिर्वाणदीक्षितो भवेत् । ततः शाम्भवादीक्षितो भवेत् ।
गुह्यकाल्यधिष्ठितो भवेत् । शिवो भवेत् । स परारूपो भवेत् ।
परात् पररूपो भवेत् । परात् परातीतरूपो भवेत् । चित्परारूपो
भवेत् । चित्परात् परारूपो भवेत् । चित्परात् परातीतरूपो भवेत् ।
ब्रह्मविष्णुरुद्रेश्वरसदाशिवमहाकालचित्पराम्बारूपो भवेत् ।
स ब्रह्मत्वं गच्छति । मेधादीक्षां लभेत् । मेधादीक्षातः परा दीक्षा
न विद्यत इत्याह भगवान् शिवः । स्पर्शविद्यया देहशुद्धिर्भवेत् ।
ततश्चिन्तामाणिविद्याधिकारी विद्याराज्ञीं लभेत् । विद्याराज्यधिकारी तु
षोढां जपेत् । तुर्याषोढाधिकारी कामकलां जपेत् । कामकलाधिकारी
चरणरूपिणीं जपेत् । हंसदीक्षितो भवेत् । चरणाधिकारी
षट्छाम्भवसम्पन्नो भवेत् । गुह्यकाल्यधिष्ठितो भवेत् । ततो
मेधां चरेत् । जीवको हि भूङ्गत्वं गच्छति । भूरङ्गीभूत्वा षट्
चक्राणि निर्भिन्द्यात् । ततः परागभुग्भवेत् । परकायप्रवेशवान
वयस्स्थैर्यं चरेत् । कामरूपत्वं गच्छति । षष्टिसिद्धीश्वरो
भवेदिति शिवप्रोक्तं वेद ॥
(शाक्त-उपनिषदः)
इत्याथर्वणे सौभाग्यकाण्डे कालीमेधादीक्षितोपनिषत् समाप्ता ।
Proofread by Kasturi navya sahiti