कात्यायनोपनिषत्
अथ प्रणिपत्य कात्यायनो ब्रह्माणमन्वयुङ्क्त । अधीहि भगवः
किं पवित्राणां पवित्रम् । केन वा कर्मणा सफलानि । किं दुष्करं
तपो मर्त्यानाम् । केन सुकरेणामृतत्वमेति । स होवाच । साधु ते
सुयोगः शृणु । भो पवित्रं सुलभं सुकरम् । यद्विष्णुक्षेत्रम् ।
तत्र मृत्स्नां श्वेतां ``उद्धृतासि'' इत्युद्धरेत् ।
अमृतमेव श्वेतमृत्स्ना भवति । तां शुद्धजलेन प्रणवेन
घर्षयेत् । देवपितृकर्माण्यारभमाणस्तया नित्यमूर्ध्वपुण्ड्रं
बिभृयान्मन्त्रैः केशवादीनाम् । तद्रहितं कर्म निष्फलं रक्षांसि
गृह्णीयुः । तदेवमभ्युक्तं भवति । नासादिकेशान्तमूर्ध्वपुण्ड्रं
विष्णोः स्थितस्य चरणद्वयाकृति । एकाङ्गुलं पादतरोरस्य मूलम् ।
तदुत्पन्ने द्वे शाखे । तदेव च मध्याकारोऽङ्गुलादन्यूनः । स श्रीः
प्रतिष्ठायै । श्रीर्हरिद्रा । यतो हरिं द्रावयति तच्छ्रीचूर्णं
श्रियावधृतं आदित्यवर्णं श्रीफले धारयेत् । तज्जलेन
श्रीबीजेन सम्मृज्य तत्सूक्ष्मरेखां धारयेत् । स श्रीमान् भवति ।
ते द्वे शाखे हंसवर्णे गायत्रीत्रिष्टुप्छन्दसी आत्मपरमात्मदैवत्ये
दर्शपूर्णमासिके इष्टापूर्तक्रिये भुक्तिमुक्तिफले । सा रेखा श्रीवर्णा ।
गायत्री छन्दः । आनन्दक्रियामृतत्वफला । अयमूर्ध्वपुण्ड्रविधिः ।
एवं विदित्वा यो धारयति स सर्वकर्मार्हो भवति । कायिकात्पूतो भवति ।
स विष्णुसायुज्यमवाप्नोति स विष्णुसायुज्यमवाप्नोति । य एवं वेद ।
इत्युपनिषत् ॥
(वैष्णव-उपनिषदः)
इति कात्यायनोपनिषत् समाप्त ।
Proofread by Kasturi navya sahiti