॥ माण्डूक्योपनिषत् कारिकासहिता ॥

। सगौडपादीयकारिकाथर्ववेदीयमाण्डूक्योपनिषत् । ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ भद्रं नो अपि वातय मनः ॥ ॐ शान्तिः शान्तिः शान्तिः । हरिः ॐ । ॐ इत्येतदक्षरं इदꣳ सर्वं तस्योपव्याख्यानं भूतं भवद् भविष्यदिति सर्वमोंकार एव । यच्चान्यत् त्रिकालातीतं तदप्योंकार एव ॥ १॥ सर्वꣳ ह्येतद् ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ २॥ जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ ३॥ स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥ ४॥ यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ ५॥ एष सर्वेश्वरः एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ ६॥ अत्रैते श्लोका भवन्ति बहिष्प्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः । घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः ॥ १॥ दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः । आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ २॥ विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् । आनन्दभुक् तथा प्राज्ञस्त्रिधा भोगं निबोधत ॥ ३॥ स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् । आनन्दश्च तथा प्राज्ञं त्रिधा तृप्तिं निबोधत ॥ ४॥ त्रिषु धामसु यद्भोज्यं भोक्ता यश्च प्रकीर्तितः । वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ॥ ५॥ प्रभवः सर्वभावानां सतामिति विनिश्चयः । सर्वं जनयति प्राणश्चेतोंऽशून्पुरुषः पृथक् ॥ ६॥ विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः । स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता ॥ ७॥ इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः । कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥ ८॥ भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे । देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा ॥ ९॥ ---------------------------------- नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञं । अदृष्टमव्यवहार्यमग्राह्यमलक्षणं अचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥ ७॥ अत्रैते श्लोका भवन्ति निवृत्तेः सर्वदुःखानामीशानः प्रभुरव्ययः । अद्वैतः सर्वभावानां देवस्तुर्यो विभुः स्मृतः ॥ १०॥ कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ । प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्ये न सिध्यतः ॥ ११॥ नऽऽत्मानं न परांश्चैव न सत्यं नापि चानृतम् । प्राज्ञः किञ्चन संवेत्ति तुर्यं तत्सर्वदृक्सदा ॥ १२॥ द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः । बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ॥ १३॥ स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया । न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः ॥ १४॥ अन्यथा गृह्णतः स्वप्नो निद्रा तत्त्वमजानतः । विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ॥ १५॥ अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा ॥ १६॥ प्रपञ्चो यदि विद्येत निवर्तेत न संशयः । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ १७॥ विकल्पो विनिवर्तेत कल्पितो यदि केनचित् । उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥ १८॥ ---------------------------------- सोऽयमात्माऽध्यक्षरमोंकरोऽधिमात्रं पादा मात्रा मात्राश्च पादा अकार उकारो मकार इति ॥ ८॥ जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्राऽऽप्तेरादिमत्त्वाद् वाऽऽप्नोति ह वै सर्वान् कामानादिश्च भवति य एवं वेद ॥ ९॥ स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षाद् उभयत्वाद्वोत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति नास्याब्रह्मवित्कुले भवति य एवं वेद ॥ १०॥ सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा मिनोति ह वा इदꣳ सर्वमपीतिश्च भवति य एवं वेद ॥ ११॥ अत्रैते श्लोका भवन्ति विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम् । मात्रासम्प्रतिपत्तौ स्यादाप्तिसामान्यमेव च ॥ १९॥ तैजसस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम् । मात्रासम्प्रतिपत्तौ स्यादुभयत्वं तथाविधम् ॥ २०॥ मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम् । मात्रासम्प्रतिपत्तौ तु लयसामान्यमेव च ॥ २१॥ त्रिषु धामसु यत्तुल्यं सामान्यं वेत्ति निश्चितः । स पूज्यः सर्वभूतानां वन्द्यश्चैव महामुनिः ॥ २२॥ अकारो नयते विश्वमुकारश्चापि तैजसम् । मकारश्च पुनः प्राज्ञं नामात्रे विद्यते गतिः ॥ २३॥ ---------------------------------- अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोंकार आत्मैव संविशत्यात्मनाऽऽत्मानं य एवं वेद ॥ १२॥ अत्रैते श्लोका भवन्ति ओंकारं पादशो विद्यात्पादा मात्रा न संशयः । ओंकारं पादशो ज्ञात्वा न किञ्चिदपि चिन्तयेत् ॥ २४॥ युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् । प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित् ॥ २५॥ प्रणवो ह्यपरं ब्रह्म प्रणवश्च परः स्मृतः । अपूर्वोऽनन्तरोऽबाह्योऽनपरः प्रणवोऽव्ययः ॥ २६॥ सर्वस्य प्रणवो ह्यादिर्मध्यमन्तस्तथैव च । एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ॥ २७॥ प्रणवं हीश्वरं विद्यात्सर्वस्य हृदि संस्थितम् । सर्वव्यापिनमोङ्कारं मत्वा धीरो न शोचति ॥ २८॥ अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः । ओंकारो विदितो येन स मुनिर्नेतरो जनः ॥ २९॥ इति माण्डूक्योपनिषदर्थाविष्करणपरायांसु गौडपादियकारीकायांसु प्रथममागमप्रकरणम् ॥ १॥ । ॐ तत्सत् । गौडपादीयकारिकासु वैतथ्याख्यं द्वितीयं प्रकरणम् । । हरिः ॐ । वैतथ्यं सर्वभावानां स्वप्न आहुर्मनीषिणः । अन्तःस्थानात्तु भावानां संवृतत्वेन हेतुना ॥ १॥ अदीर्घत्वाच्च कालस्य गत्वा देशान्न पश्यति । प्रतिबुद्धश्च वै सर्वस्तस्मिन्देशे न विद्यते ॥ २॥ अभावश्च रथादिनां श्रूयते न्यायपूर्वकम् । वैतथ्यं तेन वै प्राप्तं स्वप्न आहुः प्रकाशितम् ॥ ३॥ अन्तःस्थानात्तु भेदानां तस्माज्जागरिते स्मृतम् । यथा तत्र तथा स्वप्ने संवृतत्वेन भिद्यते ॥ ४॥ स्वप्नजागरितस्थाने ह्येकमाहुर्मनीषिणः । भेदानां हि समत्वेन प्रसिद्धेनैव हेतुना ॥ ५॥ आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा ॥ वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ॥ ६॥ सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते । तस्मादाद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः ॥ ७॥ अपूर्वं स्थानिधर्मो हि यथा स्वर्गनिवासिनाम् । तान्यं प्रेक्षते गत्वा यथैवेह सुशिक्षितः ॥ ८॥ स्वप्नवृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् । बहिश्चेतोगृहीतं सद्दृष्टं वैतथ्यमेतयोः ॥ ९॥ जाग्रद्वृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् । बहिश्चेतोगृहीतं सद्युक्तं वैतथ्यमेतयोः ॥ १०॥ उभयोरपि वैतथ्यं भेदानां स्थानयोर्यदि । क एतान्बुध्यते भेदान् को वै तेषां विकल्पकः ॥ ११॥ कल्पयत्यात्मनाऽऽत्मानमात्मा देवः स्वमायया स एव बुध्यते भेदानिति वेदान्तनिश्चयः ॥ १२॥ विकरोत्यपरान्भावानन्तश्चित्ते व्यवस्थितान् । नियतांश्च बहिश्चित्त एवं कल्पयते प्रभुः ॥ १३॥ चित्तकाला हि येऽन्तस्तु द्वयकालाश्च ये बहिः ॥ कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः ॥ १४॥ अव्यक्ता एव येऽन्तस्तु स्फुटा एव च ये बहिः । कल्पिता एव ते सर्वे विशेषस्त्विन्द्रियान्तरे ॥ १५॥ जीवं कल्पयते पूर्वं ततो भावान्पृथग्विधान् । बाह्यानाध्यात्मिकांश्चैव यथाविद्यस्तथास्मृतिः ॥ १६॥ अनिश्चिता यथा रज्जुरन्धकारे विकल्पिता । सर्पधारादिभिर्भावैस्तद्वदात्मा विकल्पितः ॥ १७॥ निश्चितायां यथा रज्ज्वां विकल्पो विनिवर्तते । रज्जुरेवेति चाद्वैतं तद्वदात्मविनिश्चयः ॥ १८॥ प्राणादिभिरनन्तैश्च भावैरेतैर्विकल्पितः । मायैषा तस्य देवस्य यया सम्मोहितः स्वयम् ॥ १९॥ प्राण इति प्राणविदो भूतानीति च तद्विदः । गुणा इति गुणविदस्तत्त्वानीति च तद्विदः ॥ २०॥ पादा इति पादविदो विषया इति तद्विदः । लोका इति लोकविदो देवा इति च तद्विदः ॥ २१॥ वेदा इति वेदविदो यज्ञा इति च तद्विदः । भोक्तेति च भोक्तृविदो भोज्यमिति च तद्विदः ॥ २२॥ सूक्ष्म इति सूक्ष्मविदः स्थूल इति च तद्विदः । मूर्त इति मूर्तविदोऽमूर्त इति च तद्विदः ॥ २३॥ काल इति कालविदो दिश इति च तद्विदः । वादा इति वादविदो भुवनानीति तद्विदः ॥ २४॥ मन इति मनोविदो बुद्धिरिति च तद्विदः । चित्तमिति चित्तविदो धर्माधर्मौ च तद्विदः ॥ २५॥ पञ्चविंशक इत्येके षड्विंश चापरे । एकत्रिंशक इत्याहुरनन्त इति चापरे ॥ २६॥ लोकाꣳल्लोकविदः प्राहुराश्रमा इति तद्विदः । स्त्रीपुंनपुंसकं लैङ्गाः परापरमथापरे ॥ २७॥ सृष्टिरिति सृष्टिविदो लय इति च तद्विदः । स्थितिरिति स्थितिविदः सर्वे चेह तु सर्वदा ॥ २८॥ यं भावं दर्शयेद्यस्य तं भावं स तु पश्यति । तं चावति स भूत्वाऽसौ तद्ग्रहः समुपैति तम् ॥ २९॥ एतैरेषोऽपृथग्भावैः पृथगेवेति लक्षितः । एवं यो वेद तत्त्वेन कल्पयेत्सोऽविशङ्कितः ॥ ३०॥ स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा । तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः ॥ ३१॥ न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ३२॥ भावैरसद्भिरेवायमद्वयेन च कल्पितः । भावा अप्यद्वयेनैव तस्मादद्वयता शिवा ॥ ३३॥ नाऽऽत्मभावेन नानेदं न स्वेनापि कथञ्चन । न पृथङ्नापृथक्किञ्चिदिति तत्त्वविदो विदुः ॥ ३४॥ वीतरागभयक्रोधैर्मुनिभिर्वेदपारगैः । निर्विकल्पो ह्ययं दृष्टः प्रपञ्चोपशमोऽद्वयः ॥ ३५॥ तस्मादेवं विदित्वैनमद्वैते योजयेत्स्मृतिम् । अद्वैतं समनुप्राप्य जडवल्लोकमाचरेत् ॥ ३६॥ निस्तुतिर्निर्नमस्कारो निःस्वधाकार एव च । चलाचलनिकेतश्च यतिर्यादृच्छिको भवेत् ॥ ३७॥ तत्त्वमाध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः । तत्त्वीभूतस्तदारामस्तत्त्वादप्रच्युतो भवेत् ॥ ३८॥ इति गौडपादीयकारिकासु वैतथ्याख्यं द्वितीयं प्रकरणम् ॥ २॥ ॐ ॥ उपासानाश्रितो धर्मो जाते ब्रह्मणि वर्तते । प्रागुत्पत्तेरजं सर्वं तेनासौ कृपणः स्मृतः ॥ १॥ अतो वक्ष्याम्यकार्पण्यमजाति समतां गतम् । यथा न जायते किञ्चिज्जायमानं समन्ततः ॥ २॥ आत्मा ह्याकाशवज्जीवैर्घटाकाशैरिवोदितः । घटादिवच्च सङ्घातैर्जातावेतन्निदर्शनम् ॥ ३॥ घटादिषु प्रलीनेषु घटाकाशादयो यथा । आकाशे सम्प्रलीयन्ते तद्वज्जीवा इहाऽऽत्मनि ॥ ४॥ यथैकस्मिन्घटाकाशे रजोधूमादिभिर्युते । न सर्वे सम्प्रयुज्यन्ते तद्वज्जीवाः सुखादिभिः ॥ ५॥ रूपकार्यसमाख्याश्च भिद्यन्ते तत्र तत्र वै । आकाशस्य न भेदोऽस्ति तद्वज्जीवेषु निर्णयः ॥ ६॥ नाऽऽकाशस्य घटाकाशो विकारावयवौ यथा । नैवाऽऽत्मनः सदा जीवो विकारावयवौ तथा ॥ ७॥ यथा भवति बालानां गगनं मलिनं मलैः । तथा भवत्यबुद्धानामात्माऽपि मलिनो मलैः ॥ ८॥ मरणे सम्भवे चैव गत्यागमनयोरपि । स्थितौ सर्वशरीरेषु आकाशेनाविलक्षणः ॥ ९॥ सङ्घाताः स्वप्नवत्सर्वे आत्ममायाविसर्जिताः । आधिक्ये सर्वसाम्ये वा नोपपत्तिर्हि विद्यते ॥ १०॥ रसादयो हि ये कोशा व्याख्यातास्तैत्तिरीयके । तेषामात्मा परो जीवः खं यथा सम्प्रकाशितः ॥ ११॥ द्वयोर्द्वयोर्मधुज्ञाने परं ब्रह्म प्रकाशितम् । पृथिव्यामुदरे चैव यथाऽऽकाशः प्रकाशितः ॥ १२॥ जीवात्मनोरनन्यत्वमभेदेन प्रशस्यते । नानात्वं निन्द्यते यच्च तदेवं हि समञ्जसम् ॥ १३॥ जीवात्मनोः पृथक्त्वं यत्प्रागुत्पत्तेः प्रकीर्तितम् । भविष्यद्वृत्त्या गौणं तन्मुख्यत्वं हि न युज्यते ॥ १४॥ मृल्लोहविस्फुलिङ्गाद्यै सृष्टिर्या चोदिताऽन्यथा । उपायः सोऽवताराय नास्ति भेदः कथञ्चन ॥ १५॥ आश्रमास्त्रिविधा हीनमध्यमोत्कृष्टदृष्टयः । उपासनोपदिष्टेयं तदर्थमनुकम्पया ॥ १६॥ स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृठम् । परस्परं विरुध्यन्ते तैरयं न विरुध्यते ॥ १७॥ अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते । तेषामुभयथा द्वैतं तेनायं न विरुध्यते ॥ १८॥ मायया भिद्यते ह्येतन्नान्यथाऽजं कथञ्चन । तत्त्वतो भिद्यमाने हि मर्त्यताममृतं व्रजेत् ॥ १९॥ अजातस्यैव भावस्य जातिमिच्छन्ति वादिनः । अजातो ह्यमृतो भावो मर्त्यतां कथमेष्यति ॥ २०॥ न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा । प्रकृतेरन्यथाभावो न कथञ्चिद्भविष्यति ॥ २१॥ स्वभावेनामृतो यस्य भावो गच्छति मर्त्यताम् । कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः ॥ २२॥ भूततोऽभूततो वाऽपि सृज्यमाने समा श्रुतिः । निश्चितं युक्तियुक्तिं च यत्तद्भवति नेतरत् ॥ २३॥ नेह नानेति चाऽऽम्नायादिन्द्रो मायाभिरित्यपि ॥ अजायमानो बहुधा मायया जायते तु सः ॥ २४॥ सम्भूतेरपवादाच्च सम्भवः प्रतिषिध्यते । को न्वेनं जनयेदिति कारणं प्रतिषिध्यते ॥ २५॥ स एष नेति नेतीति व्याख्यातं निह्नुते यतः । सर्वमग्राह्यभावेन हेतुनाऽजं प्रकाशते ॥ २६॥ सतो हि मायया जन्म युज्यते न तु तत्त्वतः । तत्त्वतो जायते यस्य जातं तस्य हि जायते ॥ २७॥ असतो मायया जन्म तत्त्वतो नैव युज्यते । वन्ध्यापुत्रो न तत्त्वेन मायया वाऽपि जायते ॥ २८॥ यथा स्वप्ने द्वयाभासं स्पन्दते मायया मनः । तथा जाग्रद्द्वयाभासं स्पन्दते मायया मनः ॥ २९॥ अद्वयं च द्वयाभासं मनः स्वप्ने न संशयः । अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः ॥ ३०॥ मनोदृश्यमिदं द्वैतं यत्किञ्चित्सचराचरम् । मनसो ह्यमनीभावे द्वैतं नैवोपलभ्यते ॥ ३१॥ आत्मसत्यानुबोधेन न सङ्कल्पयते यदा । अमनस्तां तदा याति ग्राह्याभावे तदग्रहम् ॥ ३२॥ अकल्पकमजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते । ब्रह्मज्ञेयमजं नित्यमजेनाजं विबुध्यते ॥ ३३॥ निगृहीतस्य मनसो निर्विकल्पस्य धीमतः । प्रचारः स तु विज्ञेयः सुषुप्तेऽन्यो न तत्समः ॥ ३४॥ लीयते हि सुषुप्ते तन्निगृहीतं न लीयते । तदेव निर्भयं ब्रह्म ज्ञानालोकं समन्ततः ॥ ३५॥ अजमनिद्रमस्वप्नमनामकमरूपकम् । सकृद्विभातं सर्वज्ञं नोपचारः कथञ्चन ॥ ३६॥ सर्वाभिलापविगतः सर्वचिन्तासमुत्थितः । सुप्रशान्तः सकृज्ज्योतिः समाधिरचलोऽभयः ॥ ३७॥ ग्रहो न तत्र नोत्सर्ग्रश्चिन्ता यत्र न विद्यते । आत्मसंस्थं तदा ज्ञानमजाति समतां गतम् ॥ ३८॥ अस्पर्शयोगो वै नाम दुर्दर्शः सर्वयोगिभिः । योगिनो बिभ्यति ह्यस्मादभये भयदर्शिनः ॥ ३९॥ मनसो निग्रहायत्तमभयं सर्वयोगिनाम् । दुःखक्षयः प्रबोधश्चाप्यक्षया शान्तिरेव च ॥ ४०॥ उत्सेक उदधेर्यद्वत्कुशाग्रेणैकबिन्दुना । मनसो निग्रहस्तद्वद्भवेदपरिखेदतः ॥ ४१॥ उपायेन निगृह्णीयाद्विक्षिप्तं कामभोगयोः । सुप्रसन्नं लये चैव यथा कामो लयस्तथा ॥ ४२॥ दुःखं सर्वमनुस्मृत्य कामभोगान्निवर्तयेत् । अजं सर्वमनुस्मृत्य जातं नैव तु पश्यति ॥ ४३॥ लये सम्बोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः । सकषायं विजानीयात्समप्राप्तं न चालयेत् ॥ ४४॥ नाऽऽस्वादयेत्सुखं तत्र निःसङ्गः प्रज्ञया भवेत् । निश्चलं निश्चरच्चित्तमेकी कुर्यात्प्रयत्नतः ॥ ४५॥ यदा न लीयते चित्तं न च विक्षिप्यते पुनः । अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा ॥ ४६॥ स्वस्थं शान्तं सनिर्वाणमकथ्यं सुखमुत्तमम् । अजमजेन ज्ञेयेन सर्वज्ञं परिचक्षते ॥ ४७॥ न कश्चिज्जायते जीवः सम्भवोऽस्य न विद्यते । एतत्तदुत्तमं सत्यं यत्र किञ्चिन्न जायते ॥ ४८॥ इति गौडपादियकारिकायामद्वैताख्यं तृतीयं प्रकरणम् ॥ ३॥ ॐ तत्सत् ॥ ज्ञानेनाऽऽकाशकल्पेन धर्मान्यो गगनोपमान् । ज्ञेयाभिन्नेन सम्बुद्धस्तं वन्दे द्विपदां वरम् ॥ १॥ अस्पर्शयोगो वै नाम सर्वसत्त्वसुखो हितः । अविवादोऽविरुद्धश्च देशितस्तं नमाम्यम् ॥ २॥ भूतस्य जातिमिच्छन्ति वादिनः केचिदेव हि । अभूतस्यापरे धीरा विवदन्तः परस्परम् ॥ ३॥ भूतं न जायते किञ्चिदभूतं नैव जायते । विवदन्तो द्वया ह्येवमजातिं ख्यापयन्ति ते ॥ ४॥ ख्याप्यमानामजातिं तैरनुमोदामहे वयम् । विवदामो न तैः सार्धमविवादं निबोधत ॥ ५॥ अजातस्यैव धर्मस्य जातिमिच्छन्ति वादिनः । अजातो ह्यमृतो धर्मो मर्त्यतां कथमेष्यति ॥ ६॥ न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा । प्रकृतेरन्यथाभावो न कथञ्चिद्भविष्यति ॥ ७॥ स्वभावेनामृतो यस्य धर्मो गच्छति मर्त्यताम् । कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः ॥ ८॥ सांसिद्धिकी स्वाभाविकी सहजा अकृता च या । प्रकृतिः सेति विज्ञेया स्वभावं न जहाति या ॥ ९॥ जरामरणनिर्मुक्ताः सर्वे धर्माः स्वभावतः । जरामरणमिच्छन्तश्च्यवन्ते तन्मनीषया ॥ १०॥ कारणं यस्य वै कार्यं कारणं तस्य जायते । जायमानं कथमजं भिन्नं नित्यं कथं च तत् ॥ ११॥ कारणाद्यद्यनन्यत्वमतः कार्यमजं यदि । जायमानाद्धि वै कार्यात्कारणं ते कथं ध्रुवम् ॥ १२॥ अजाद्वै जायते यस्य दृष्टान्तस्तस्य नास्ति वै । जाताच्च जायमानस्य न व्यवस्था प्रसज्यते ॥ १३॥ हेतोरादिः फलं येषामादिर्हेतुः फलस्य च । हेतोः फलस्य चानादिः कथं तैरूपवर्ण्यते ॥ १४॥ हेतोरादिः फलं येषामादिर्हेतुः फलस्य च । तथा जन्म भवेत्तेषां पुत्राज्जन्म पितुर्यथा ॥ १५॥ सम्भवे हेतुफलयोरेषितव्यः क्रमस्त्वया । युगपत्सम्भवे यस्मादसम्बन्धो विषाणवत् ॥ १६॥ फलादुत्पद्यमानः सन्न ते हेतुः प्रसिध्यति । अप्रसिद्धः कथं हेतुः फलमुत्पादयिष्यति ॥ १७॥ यदि हेतोः फलात्सिद्धिः फलसिद्धिश्च हेतुतः । कतरत्पूर्वनिष्पन्नं यस्य सिद्धिरपेक्षया ॥ १८॥ अशक्तिरपरिज्ञानं क्रमकोपोऽथ वा पुनः । एवं हि सर्वथा बुद्धैरजातिः परिदीपिता ॥ १९॥ बीजाङ्कुराख्यो दृष्टान्तः सदा साध्यसमो हि सः । न हि साध्यसमो हेतुः सिद्धौ साध्यस्य युज्यते ॥ २०॥ पूर्वापरापरिज्ञानमजातेः परिदीपकम् । जायमानाद्धि वै धर्मात्कथं पूर्वं न गृह्यते ॥ २१॥ स्वतो वा परतो वाऽपि न किञ्चिद्वस्तु जायते । सदसत्सदसद्वाऽपि न किञ्चिद्वस्तु जायते ॥ २२॥ हेतुर्न जायतेऽनादेः फलं चापि स्वभावतः । आदिर्न विद्यते यस्य तस्य ह्यादिर्न विद्यते ॥ २३॥ प्रज्ञप्तेः सनिमित्तत्वमन्यथा द्वयनाशतः । सङ्क्लेशस्योपलब्धेश्च परतन्त्रास्तिता मता ॥ २४॥ प्रज्ञप्तेः सनिमित्तत्वमिष्यते युक्तिदर्शनात् । निमित्तस्यानिमित्तत्वमिष्यते भूतदर्शनात् ॥ २५॥ चित्तं न संस्पृशत्यर्थं नार्थाभासं तथैव च । अभूतो हि यतश्चार्थो नार्थाभासस्ततः पृथक् ॥ २६॥ निमित्तं न सदा चित्तं संस्पृशत्यध्वसु त्रिषु । अनिमित्तो विपर्यासः कथं तस्य भविष्यति ॥ २७॥ तस्मान्न जायते चित्तं चित्तदृश्यं न जायते । तस्य पश्यन्ति ये जातिं खे वै पश्यन्ति ते पदम् ॥ २८॥ अजातं जायते यस्मादजातिः प्रकृतिस्ततः । प्रकृतेरन्यथाभावो न कथञ्चिद्भविष्यति ॥ २९॥ अनादेरन्तवत्त्वं च संसारस्य न सेत्स्यति । अनन्तता चाऽऽदिमतो मोक्षस्य न भविष्यति ॥ ३०॥ आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा । वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ॥ ३१॥ सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते । तस्मादाद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः ॥ ३२॥ सर्वे धर्मा स्मृषा स्वप्ने कायस्यान्तर्निदर्शनात् । संवृतेऽस्मिन्प्रदेशे वै भूतानां दर्शनं कुतः ॥ ३३॥ न युक्तं दर्शनं गत्वा कालस्यानियमाद्गतौ । प्रतिबुद्धश्च वै सर्वस्तस्मिन्देशे न विद्यते ॥ ३४॥ मित्राद्यैः सह संमन्त्र्य सम्बुद्धो न प्रपद्यते । गृहीतं चापि यत्किञ्चित्प्रतिबुद्धो न पश्यति ॥ ३५॥ स्वप्ने चावस्तुकः कायः पृथगन्यस्य दर्शनात् । यथा कायस्तथा सर्वं चित्तदृश्यमवस्तुकम् ॥ ३६॥ ग्रहणाज्जागरितवत्तद्धेतुः स्वप्न इष्यते । तद्धेतुत्वात्तु तस्यैव सज्जागरितमिष्यते ॥ ३७॥ उत्पादस्याप्रसिद्धत्वादजं सर्वमुदाहृतम् । न च भूतादभूतस्य सम्भवोऽस्ति कथञ्चन ॥ ३८॥ असज्जागरिते दृष्ट्वा स्वप्ने पश्यति तन्मयः । असत्स्वप्नेऽपि दृष्ट्वा च प्रतिबुद्धो न पश्यति ॥ ३९॥ नास्त्यसद्धेतुकमसत्सदसद्धेतुकं तथा । सच्च सद्धेतुकं नास्ति सद्धेतुकमसत्कुतः ॥ ४०॥ विपर्यासाद्यथा जाग्रदचिन्त्यान्भूतवत्स्पृशेत् । तथा स्वप्ने विपर्यासात् धर्मांस्तत्रैव पश्यति ॥ ४१॥ उपलम्भात्समाचारादस्तिवस्तुत्ववादिनाम् । जातिस्तु देशिता बुद्धैः अजातेस्त्रसतां सदा ॥ ४२॥ अजातेस्त्रसतां तेषामुपलम्भाद्वियन्ति ये । जातिदोषा न सेत्स्यन्ति दोषोऽप्यल्पो भविष्यति ॥ ४३॥ उपलम्भात्समाचारान्मायाहस्ती यथोच्यते । उपलम्भात्समाचारादस्ति वस्तु तथोच्यते ॥ ४४॥ जात्याभासं चलाभासं वस्त्वाभासं तथैव च । अजाचलमवस्तुत्वं विज्ञानं शान्तमद्वयम् ॥ ४५॥ एवं न जायते चित्तमेवंधर्मा अजाः स्मृताः । एवमेव विजानन्तो न पतन्ति विपर्यते ॥ ४६॥ ऋजुवक्रादिकाभासमलातस्पन्दितं यथा । ग्रहणग्राहकाभासं विज्ञानस्पन्दितं तथा ॥ ४७॥ अस्पन्दमानमलातमनाभासमजं यथा । अस्पन्दमानं विज्ञानमनाभासमजं तथा ॥ ४८॥ अलाते स्पन्दमाने वै नाऽऽभासा अन्यतोभुवः । न ततोऽन्यत्र निस्पन्दान्नालातं प्रविशन्ति ते ॥ ४९॥ न निर्गता अलातात्ते द्रव्यत्वाभावयोगतः । विज्ञानेऽपि तथैव स्युराभासस्याविशेशतः ॥ ५०॥ विज्ञाने स्पन्दमाने वै नाऽऽभासा अन्यतोभुवः । न ततोऽन्यत्र निस्पन्दान्न विज्ञानं विशन्ति ते ॥ ५१॥ न निर्गतास्ते विज्ञानाद्द्रव्यत्वाभावयोगतः । कार्यकारणताभावाद्यतोऽचिन्त्याः सदैव ते ॥ ५२॥ द्रव्यं द्रव्यस्य हेतुः स्यादन्यदन्यस्य चैव हि । द्रव्यत्वमन्यभावो वा धर्माणां नोपपद्यते ॥ ५३॥ एवं न चित्तजा धर्माश्चित्तं वाऽपि न धर्मजम् । एवं हेतुफलाजातिं प्रविशन्ति मनीषिणः ॥ ५४॥ यावद्धेतुफलावेशस्तावद्धेतुफलोद्भवः । क्षीणे हेतुफलावेशे नास्ति हेतुफलोद्भवः ॥ ५५॥ यावद्धेतुफलावेशः संसारस्तावदायतः । क्षीणे हेतुफलावेशे संसारं न प्रपद्यते ॥ ५६॥ संवृत्या जायते सर्वं शाश्वतं नास्ति तेन वै । सद्भावेन ह्यजं सर्वमुच्छेदस्तेन नास्ति वै ॥ ५७॥ धर्मा य इति जायन्ते जायन्ते ते न तत्त्वतः । जन्म मायोपमं तेषां सा च माया न विद्यते ॥ ५८॥ यथा मायामयाद्बीजाज्जायते तन्मयोऽङ्कुरः । नासौ नित्यो न चोच्छ्येदी तद्वद्धर्मेषु योजना ॥ ५९॥ नाजेषु सर्वधर्मेषु शाश्वताशाश्वताभिधा । यत्र वर्णा न वर्तन्ते विवेकस्तत्र नोच्यते ॥ ६०॥ यथा स्वप्ने द्वयाभासं चित्तं चलति मायया । तथा जाग्रद्द्वयाभासं चित्तं चलति मायया ॥ ६१॥ अद्वयं च द्वयाभासं चित्तं स्वप्ने न संशयः । अद्वयं च द्वयाभासं तथा जाग्रन्न संशयं ॥ ६२॥ स्वप्नदृक्प्रचरन्स्वप्ने दिक्षु वै दशसु स्थितान् । अण्डजान्स्वेदजान्वाऽपि जीवान्पश्यति यान्सदा ॥ ६३॥ स्वप्नदृक्चित्तदृश्यास्ते न विद्यन्ते ततः पृथक् । तथा तद्दृश्यमेवेदं स्वप्नदृक्चित्तमिष्यते ॥ ६४॥ चरञ्जागरिते जाग्रद्दिक्षु वै दशसु स्थितान् । अण्डजान्स्वेदजान्वाऽपि जीवान्पश्यति यान्सदा ॥ ६५॥ जाग्रच्चितेक्षणीयास्ते न विद्यन्ते ततः पृथक् । तथा तद्दृश्यमेवेदं जाग्रतश्चित्तमिष्यते ॥ ६६॥ उभे ह्यन्योन्यदृश्ये ते किं तदस्तीति नोच्यते । लक्षणाशून्यमुभयं तन्मतेनैव गृह्यते ॥ ६७॥ यथा स्वप्नमयो जीवो जायते म्रियतेऽपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ६८॥ यथा मायामयो जीवो जायते म्रियतेऽपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ६९॥ यथा निर्मितको जीवो जायते म्रियतेऽपि वा । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ७०॥ न कश्चिज्जायते जीवः सम्भवोऽस्य न विद्यते । एतत्तदुत्तमं सत्यं यत्र किञ्चिन्न जायते ॥ ७१॥ चित्तस्पन्दितमेवेदं ग्राह्यग्राहकवद्द्वयम् । चित्तं निर्विषयं नित्यमसङ्गं तेन कीर्तितम् ॥ ७२॥ योऽस्ति कल्पितसंवृत्या परमार्थेन नास्त्यसौ । परतन्त्राभिसंवृत्या स्यान्नास्ति परमार्थतः ॥ ७३॥ अजः कल्पितसंवृत्या परमार्थेन नाप्यजः । परतन्त्राभिनिष्पत्त्या संवृत्या जायते तु सः ॥ ७४॥ अभूताभिनिवेशोऽस्ति द्वयं तत्र न विद्यते । द्वयाभावं स बुद्ध्वैव निर्निमित्तो न जायते ॥ ७५॥ यदा न लभते हेतूनुत्तमाधममध्यमान् । तदा न जायते चित्तं हेत्वभावे फलं कुतः ॥ ७६॥ अनिमित्तस्य चित्तस्य याऽनुत्पत्तिः समाऽद्वया । अजातस्यैव सर्वस्य चित्तदृश्यं हि तद्यतः ॥ ७७॥ बुध्द्वाऽनिमित्ततां सत्यां हेतुं पृथगनाप्नुवन् । वीतशोकं तथा काममभयं पदमश्नुते ॥ ७८॥ अभूताभिनिवेशाद्धि सदृशे तत्प्रवर्तते । वस्त्वभावं स बुद्ध्वैव निःसङ्गं विनिवर्तते ॥ ७९॥ निवृत्तस्याप्रवृत्तस्य निश्चला हि तदा स्थितिः । विषयः स हि बुद्धानां तत्साम्यमजमद्वयम् ॥ ८०॥ अजमनिद्रमस्वप्नं प्रभातं भवति स्वयम् । सकृद्विभातो ह्येवैष धर्मो धातुस्वभावतः ॥ ८१॥ सुखमाव्रियते नित्यं दुःखं विव्रियते सदा । यस्य कस्य च धर्मस्य ग्रहेण भगवानसौ ॥ ८२॥ अस्ति नास्त्यस्ति नास्तीति नास्ति नास्तीति वा पुनः । चलस्थिरोभयाभावैरावृणोत्येव बालिशः ॥ ८३॥ कोट्यश्चतस्र एतास्तु ग्रहैर्यासां सदाऽऽवृतः । भगवानाभिरस्पृष्टो येन दृष्टः स सर्वदृक् ॥ ८४॥ प्राप्य सर्वज्ञतां कृत्स्नां ब्राह्मण्यं पदमद्वयम् । अनापन्नादिमध्यान्तं किमतः परमीहते ॥ ८५॥ विप्राणां विनयो ह्येष शमः प्राकृत उच्यते । दमः प्रकृतिदान्तत्वादेवं विद्वाञ्शमं व्रजेत् ॥ ८६॥ सवस्तु सोपलम्भं च द्वयं लौकिकमिष्यते । अवस्तु सोपलम्भं च शुद्धं लौकिकमिष्यते ॥ ८७॥ अवस्त्वनुपलम्भं च लोकोत्तरमिति स्मृतम् । ज्ञानं ज्ञेयं च विज्ञेयं सदा बुद्धैः प्रकीर्तितम् ॥ ८८॥ ज्ञाने च त्रिविधे ज्ञेये क्रमेण विदिते स्वयम् । सर्वज्ञता हि सर्वत्र भवतीह महाधियः ॥ ८९॥ हेयज्ञेयाप्यपाक्यानि विज्ञेयान्यग्रयाणतः । तेषामन्यत्र विज्ञेयादुपलम्भस्त्रिषु स्मृतः ॥ ९०॥ प्रकृत्याऽऽकाशवज्ज्ञेयाः सर्वे धर्मा अनादयः । विद्यते न हि नानात्वं तेषां क्वचन किञ्चन ॥ ९१॥ आदिबुद्धाः प्रकृत्यैव सर्वे धर्माः सुनिश्चिताः । यस्यैवं भवति क्षान्तिः सोऽमृतत्वाय कल्पते ॥ ९२॥ आदिशान्ता ह्यनुत्पन्नाः प्रकृत्यैव सुनिर्वृताः । सर्वे धर्माः समाभिन्ना अजं साम्यं विशारदम् ॥ ९३॥ वैशारद्यं तु वै नास्ति भेदे विचरतां सदा । भेदनिम्नाः पृथग्वादास्तस्मात्ते कृपणाः स्मृताः ॥ ९४॥ अजे साम्ये तु ये केचिद्भविष्यन्ति सुनिश्चिताः । ते हि लोके महाज्ञानास्तच्च लोको न गाहते ॥ ९५॥ अजेष्वजमसङ्क्रान्तं धर्मेषु ज्ञानमिष्यते । यतो न क्रमते ज्ञानमसङ्गं तेन कीर्तितम् ॥ ९६॥ अणुमात्रेऽपि वैधर्मे जायमानेऽविपश्चितः । असङ्गता सदा नास्ति किमुताऽऽवरणच्युतिः ॥ ९७॥ अलब्धावरणाः सर्वे धर्माः प्रकृतिनिर्मलाः । आदौ बुद्धास्तथा मुक्ता बुध्यन्त इति नायकाः ॥ ९८॥ क्रमते न हि बुद्धस्य ज्ञानं धर्मेषु तायिनः । सर्वे धर्मास्तथा ज्ञानं नैतद्बुद्धेन भाषितम् ॥ ९९॥ दुर्दर्शमतिगम्भीरमजं साम्यं विशारदम् । बुद्ध्वा पदमनानात्वं नमस्कुर्मो यथाबलम् ॥ १००॥ इति गौडपादाचर्यकृता माण्डूक्योपनिषत्कारिकाः सम्पूर्णाः ॥ ॐ तत्सत् ॥ Transliterated by : Anshuman Pandey M. Giridhar Kim Poulsen Proofread by Aikya Param, David Lyttle

% Text title            : maaNDuukyopanishhat.h kaarikaa
% File name             : kaarikaa.itx
% itxtitle              : mANDUkyopaniShat kArikAsahitA
% engtitle              : Mandukyopanishat with Gaudapada's Karika
% Category              : upanishhat, svara, gauDapaada
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Texttype              : svara
% Author                : gauDapaada
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Anshuman Pandey pandey at umich.edu M. Giridhar, Kim Poulsen (poulsen at dk-online.dk).
% Proofread by          : Aikya Param (aikya at ix.netcom.com), David Lyttle dhlyttle at hotmail.com
% Description-comments  : four prakaraNas or treatises explaining  the
% Indexextra            : translation
% Latest update         : July 14, 2006. July 1, 2011
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP