कमलात्मिकोपनिषत्
अथ लोकान् पर्यटन्सनत्कुमारोह वैदेहः पुण्यचित्ताँल्लोकानतीत्य
वैष्णवन्धाम दिव्यगणोपेतं विद्रुमवेदिकामणिमुक्तागणार्च्चितम्प्राप ।
तत्रापश्यन्महामायां परार्द्ध्यवस्त्रीभरणोत्तरीयां पर्यङ्कस्थां पारे
चरन्तीमादिदेवं भगवन्तं परमेश्वरन्दृष्ट्वा च
ताङ्गद्गदवाक्प्रफुल्लरोमा स्तोतुमुपचक्रमे ॥
वाचंमे दिशतु श्रीर्देवी मनो मे दिशतु वैष्णवी ।
ओजस्तेजो बलन्दाक्ष्यम्बुद्धेर्वैभवमस्तु मे ॥
त्वत्प्रसादाद्भगवति प्रज्ञानं मे ध्रुवं भवेत् ।
शन्नो दिशतु श्रीर्दैवी महामाया वैष्णवीशक्तिराद्या
यामासाद्य स्वयमादिदेवो भगवान्परावरज्ञस्त्रिधासम्भिन्नो
लोकांस्त्रीन्सृजत्यवत्यत्ति च ।
यद्भ्रूविक्षेपबलमापन्नो ह्यब्जयोनिस्तदितरे चामरा मुख्याः
सृष्टिचक्रप्रणेतारस्सम्बभूवुः ॥ या वै वरदा स्वोपाया सुप्रसन्ना
सुखयति सहस्रपुरुषान् ये लोकाः सन्ततमानमन्ति शिरसा हृअदये न च
तामेकाँल्लोकपूज्यान्न ते दुर्गतिँय्यान्ति भूताः ।
अथ महत्या संवृद्ध्या साम्राज्येन पुत्रैः पौत्रैरन्वितो भूमिपृष्ठे
शतं समास्त इज्याभिरिष्ट्वा देवान् पितॄन् मनुष्यानथ
भूरिदक्षिणाभिस्त्वत्प्रसादान्महान्तो गच्छन्ति
वैष्णवँल्लोकमपुनर्भवाय ये राजर्षयो ब्रह्मर्षयस्तेपि
चासत्कृत्त्वां प्रागसन्त एव सुखमामनन्ति नान्यः पन्था
विद्यतेऽयनाय किम्पुनरिहादिदेवो
भगवान्नारायणस्त्वामाधिदेवाखिलङ्करोति किंवर्णये त्वां
सहस्रकृत्वो नमस्ते य इमा ऋचः पठन्ति प्रातरुत्थाय
भूरिदानतेषाङ्किञ्चिदिह यावशिष्टंय्यदैश्वर्यन्दुर्ल्लभम्प्राणिनां हि ।
इति कमलात्मिकोपनिषत्समाप्ता ॥