नारदोपनिषत्
अथ प्रणिपत्य नारदो ब्रह्माणं प्रायुङ्क्त । अधीहि भगवन्मे
किं पवित्राणां पवित्रं केन सुकरेणामृतत्वमेति ।
स होवाच साधुत्वे नियोगं सुलभं पवित्रं सुलभं सुकरं
तद्विष्णुक्षेत्रं तत्र मृदं श्वेतं ``उद्धृतासि''
इप्युद्धरेत् । अमृतमेव श्वेतमृद्भवति । मूलमन्त्रद्वयं च
``विष्णोर्नुकम्,'' ``गन्धद्वाराम्'' इत्येताभिरभिमन्त्रयेत् ।
देवपितृकमाण्यारभमाणस्त्रयी नित्यमूर्ध्वपुण्ड्रं च कुर्यान्मन्त्रैः
केशवादीनाम् । तत्कर्म सफलं च भवति । न रक्षांसि गृह्णीयुः ।
तदेवमभ्युक्तं भवति । नासादिकेशान्तमूर्ध्वपुण्ड्रं विष्णोः
स्थितस्य चरणद्वयाकृति । आयतमेकाङ्गुलं पादतरोरस्य मूलम् ।
तदुत्पन्ने द्वे रेखे । तथैव च धृतं विष्णुना वा ``आदित्यवर्णे
तपसः'' इति हरिद्रां श्रीफले धारयेत् । तज्जलेन श्रीबीजेन
सम्मृज्य तत्सूक्ष्मरेखां धारयेत् । ते द्वे शाखे हंसवर्णे
गायत्रीत्रिष्टुब्दैवत्ये आत्मपरमात्मदैवत्ये लक्ष्मीनारायणदैवत्ये
दर्शपूर्णमासेष्टके इष्टापूर्तक्रिये मातृकायामेतावदेवोपलब्धम् ॥
(वैष्णव-उपनिषदः)
इति नारदोपनिषत् समाप्त ।
Proofread by Kasturi navya sahiti