॥ त्रिपाद्विभूतिमहानारायणोपनिषत् ॥

यत्रापह्नवतां याति स्वाविद्यापदविभ्रमः । तत्त्रिपान्नारायणाख्यं स्वमात्रमवशिष्यते ॥ ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ अथ परमतत्त्वरहस्यं जिज्ञासुः परमेष्ठी देवमानेन सहस्रसंवत्सरं तपश्चचार । सहस्रवर्षेऽतीतेऽत्युग्रतीव्रतपसा प्रसन्नं भगवन्तं महाविष्णुं ब्रह्मा परिपृच्छति भगवन् परमतत्त्वरहस्यं मे ब्रूहीति । परमतत्त्वरहस्यवक्ता त्वमेव नान्यः कश्चिदस्ति तत्कथमिति । तदेवोच्यते । त्वमेव सर्वज्ञः । त्वमेव सर्वशक्तिः । त्वमेव सर्वाधारः । त्वमेव सर्वस्वरूपः । त्वमेव सर्वेश्वरः । त्वमेव सर्वप्रवर्तकः । त्वमेव सर्वपालकः । त्वमेव सर्वनिवर्तकः । त्वमेव सदसदात्मकः । त्वमेव सदसद्विलक्षणः । त्वमेवान्तर्बहिर्व्यापकः । त्वमेवातिसूक्ष्मतरः । त्वमेवातिमहतो महीयान् । त्वमेव सर्वमूलाविद्यानिवर्तकः । त्वमेवाविद्याविहारः । त्वमेवाविद्याधारकः । त्वमेव विद्यावेद्यः । त्वमेव विद्यास्वरूपः । त्वमेव विद्यातीतः । त्वमेव सर्वकारणहेतुः । त्वमेव सर्वकारणसमष्टिः । त्वमेव सर्वकारणव्यष्टिः । त्वमेवाखण्डानन्दः । त्वमेव परिपूर्णानन्दः । त्वमेव निरतिशयानन्दः । त्वमेव तुरीयतुरीयः । त्वमेव तुरीयातीतः । त्वमेव अनन्तोपनिषद्विमृग्यः । त्वमेवाखिलशास्त्रैर्विमृग्यः । त्वमेव ब्रह्मेशानपुरन्दरपुरोगमैरखिलामरैरखिलागमैर्विमृग्यः । त्वमेव सर्वमुमुक्षुभिर्विमृग्यः । त्वमेवामृतमयैर्विमृग्यः । त्वमेवामृतमयस्त्वमेवामृतमयस्त्वमेवामृतमयः । त्वमेव सर्वं त्वमेव सर्वं त्वमेव सर्वम् । त्वमेव मोक्षस्त्वमेव मोक्षदस्त्वमेवाखिलमोक्षसाधनम् । न किञ्चिदस्ति त्वद्व्यतिरिक्तम् । त्वद्व्यतिरिक्तं यत्किंचित्प्रतीयते तत्सर्वं बाधितमिति निश्चयम् । तस्मात्त्वमेव वक्ता त्वमेवगुरुस्त्वमेव पिता त्वमेव सर्वनियन्ता त्वमेव सर्वं त्वमेव सदा ध्येय इति सुनिश्चितः । परमतत्त्वज्ञस्तमुवाच महाविष्णुरतिप्रसन्नो भूत्वा साधुसाध्विति साधुप्रशंसापूर्वं सर्वं परमतत्त्वरहस्यं ते कथयामि । सावधानेन श्रुणु । ब्रह्मन् देवदर्शीत्याख्याथर्वणशाखायां परमतत्त्वरहस्याख्याथर्वणमहानारायणोपनिषदि गुरुशिष्यसंवादः पुरातनः प्रसिद्धतया जागर्ति । पुरा तत्स्वरूपज्ञानेन महान्तः सर्वं ब्रह्मभावं गताः । यस्य श्रवणेन सर्वबन्धः प्रविनश्यन्ति । यस्य ज्ञानेन सर्वरहस्यं विदितं भवति । तत्स्वरूपं कथमिति । शान्तो दान्तोऽतिविरक्तः सुशुद्धो गुरुभक्तस्तपोनिष्ठः शिष्यो ब्रह्मनिष्ठं गुरुमासाद्य प्रदक्षिणपूर्वकं दण्डवत्प्रणम्य प्राञ्जलिर्भूत्वा विनयेनोपसंगम्य भगवन् गुरो मे परमतत्त्वरहस्यं विविच्य वक्तव्यमिति । अत्यादरपूर्वकमिति हर्षेण शिष्यं बहूकृत्य गुरुर्वदति । परमतत्त्वरहस्योपनिषत्क्रमः कथ्यते सवाधानेन श्रूयताम् ।कथं ब्रह्म । कालत्रयाबाधितं ब्रह्म । सर्वकालाबाधितं ब्रह्म । सगुणनिर्गुणस्वरूपं ब्रह्म । आदिमध्यान्तशून्यं ब्रह्म । सर्वं खल्विदं ब्रह्म । मायातीतं गुणातीतं ब्रह्म । अनन्तमप्रमेयाखण्डपरिपूर्णं ब्रह्म । अद्वितीयपरमानन्दशुद्धबुद्धमुक्तसत्यस्वरूपव्यापकाभिन्नापरिच्छिनं ब्रह्म । सच्चिदानन्दस्वप्रकाशं ब्रह्म । मनोवाचामगोचरं ब्रह्म । अमितवेदान्तवेद्यं ब्रह्म । देशतः कालतो वस्तुतः परिच्छेदरहितं ब्रह्म । सर्वपरिपूर्णं ब्रह्म तुरीयं निराकारमेकं ब्रह्म । अद्वैतमनिर्वाच्यं ब्रह्म । प्रणवात्मकं ब्रह्म । प्रणवात्मकत्वेनोक्तं ब्रह्म । प्रणवाद्यखिलमन्त्रात्मकं ब्रह्म । पादचतुष्टयात्मकं ब्रह्म । किं तत्पादचतुष्टयं ब्रह्म भवति । अविद्यापादः सुविद्यापादश्चानन्दपादस्तुरीयपादस्तुरीय इति । तुरीयपादस्तुरीयतुरीयं तुरीयातीतं च । कथं पादचतुष्टयस्य भेदः । अविद्यापदः प्रथमः पादो विद्यापादो द्वितीयः आनन्दपादस्तृतीयस्तुरीयपादस्तुरीय इति । मूलाविद्या प्रथमपादे नान्यत्र । विद्यानन्दतुरीयांशाः सर्वेषु पादेषु व्याप्य तिष्ठन्ति । एवं तर्हि विद्यादीनां भेदः कथमिति । तत्तत्प्राधान्येन तत्तद्व्यपदेशः । वस्तुतस्त्वभेद एव । तत्राधस्तनमेकं पादमविद्याशबलं भवति । उपरितनपादत्रयं शुद्धबोधानन्दलक्षणममृतं भवति । तच्चानिर्वाच्यमनिर्देश्यमखण्डानन्दैकरसात्मकं भवति । तत्र मध्यमपादमध्यप्रदेशेऽमिततेजःप्रवाहाकारतया नित्यवैकुण्ठं विभाति । तच्च निरतिशयानन्दाखण्डब्रह्मानन्दनिजमूर्त्याकारेण ज्वलति । अपरिच्छिन्नमण्डलानि यथा दृश्यन्ते तद्वदखण्डानन्दामितवैष्णवदिव्यतेजोराश्यन्तर्गतविलसन्महाविष्णोः परमं पदं विराजते । दुग्धोदधिमध्यस्थितामृतामृतकलशवद्वैष्णवं धाम परमं संदृश्यते । सुदर्शनदिव्यतेजोऽन्तर्गतः सुदर्शनपुरुषो यथा सूर्यमण्डलान्तर्गतः सूर्यनारायणोऽमितापरिच्छिन्नाद्वैतपरमानन्दलक्षणतेजोराश्यन्तर्गत आदिनारायणस्तथा संदृश्यते । स एव तुरीयं ब्रह्म स एव तुरीयातीतः स एव विष्णुः स एव समस्तब्रह्मवाचकवाच्यः स एव परंज्योतिः स एव मायातीतः स एव गुणातीतः स एव कालातीतः स एव अखिलकर्मातीतः स एव सत्योपाधिरहितः स एव परमेश्वरः स एव चिरन्तनः पुरुषः प्रणवाद्यखिलमन्त्रवाचकवाच्य आद्यन्तशून्य आदिदेशकालवस्तुतुरीयसंज्ञानित्यपरिपूर्णः पूर्णः सत्यसंकल्प आत्मारामः कालत्रयाबाधितनिजस्वरूपः स्वयंज्योतिः स्वयम्प्रकाशमयः स्वसमानाधिकरणशून्यः स्वसमानाधिकशून्यो न दिवारात्रिविभागो न संवत्सरादिकालविभागः स्वानन्दमयानन्ताचिन्त्यविभव आत्मान्तरात्मा परमात्मा ज्ञानात्मा तुरीयात्मेत्यादिवाचकवाच्योऽद्वैतपरमानन्दो विभुर्नित्यो निष्कलङ्को निर्विकल्पो निरञ्जनो निराख्यातः शुद्धो देव एको नारायणो न द्वितीयोऽस्ति कश्चिदिति य एवं वेद स पुरुषस्तदीयोपासनया तस्य सायुज्यमेतीत्यसंशयमित्युपनिषत् ॥ इत्याथर्वणमहानारायणोपनिषदि पादचतुष्टयस्वरूपनिरूपणं नाम प्रथमोऽध्यायः ॥ १॥ अथेति होवाच च्छात्रो गुरुं भगवन्तम् । भगवन्वैकुण्ठस्य नारायणस्य च नित्यत्वमुक्त्वम् । स एव तुरीयमित्युक्तमेव । वैकुण्ठः साकारो नारायणः साकारश्च । तुरीयं तु निराकारम् । साकारः सावयवो निरवयवं निराकारम् । तस्मात्साकारमनित्यं नित्यं निराकारमिति श्रुतेः । यद्यत्सावयवं तत्तदनित्यमित्यनुमानाच्चेति प्रत्यक्षेण दृष्टत्वाच्च । अतस्तयोरनित्यत्वमेव वक्तुमुचितं भवति । कथमुक्तं नित्यत्वमिति । तुरीयमक्षरमिति श्रुतेः । तुरीयस्य नित्यत्वं प्रसिद्धम् । नित्यत्वानित्यत्वे परस्परविरुद्धधर्मौ । तयोरेकस्मिन्ब्रह्मण्यत्यन्तविरुद्धं भवति । तस्माद्वैकुण्ठस्य च नारायणस्य च नित्यत्वमेव वक्तुमुचितं भवति । सत्यमेव भवतीति देशिकं परिहरति । साकारस्तु द्विविधः । सोपाधिको निरुपाधिकश्च । तत्र सोपाधिकः साकारः कथमिति । आविद्यकमखिलकार्यकरणजामविद्यापाद एव नान्यत्र । तस्मात्समस्ताविद्योपाधिः साकारः सावयव एव । सावयवत्वादवश्यमनित्यं भवत्येव । सोपाधिकसाकारो वर्णितः । तर्हि निरुपाधिक साकारः कथमिति । निरुपाधिकसाकारस्त्रिविधः । ब्रह्मविद्यासाकारश्चानन्दसाकारुभयात्मकसाकारश्चेति । ब्रह्मविद्यासाकारश्चानन्दसाकार उभयात्मकसाकारश्चेति । त्रिविधसाकारोऽपि पुनर्द्विविधो भवति । नित्यसाकारो मुक्तसाकारश्चेति । नित्यसाकारस्त्वाद्यन्तशून्यः शाश्वतः । उपासनया ये मुक्तिं गतास्तेषां साकारो मुक्तसाकारः । तस्याखण्डज्ञानेनाविर्भावो भवति । सोऽपि शाश्वतः । मुक्तसाकारस्त्वैच्छिक इति । अन्ये वदन्ति शाश्वतत्वं कथमिति । अद्वैताखण्डपरिपूर्णनिरतिशयपरमानन्द- शुद्धबुद्धमुक्तसत्यात्मकब्रह्म चैतन्यसाकारत्वात् निरुपाधिकसाकारस्य नित्यत्वं सिद्धमेव । तस्मादेव निरुपाधिकसाकारस्य निरवयवत्वात्स्वाधिकमपि दूरतो निरस्तमेव । निरवयवं ब्रह्मचैतन्यमिति सर्वोपनिषत्सु सर्वशास्त्रसिद्धान्तेषु श्रूयते । अथ च विद्यानन्दतुरीयाणामभेद एव श्रूयते । सर्वत्र विद्यादिसाकारभेदः कथमिति । सत्यमेवोक्तमिति देशिकः परिहरति । विद्याप्राधान्येन विद्यासाकारः आनन्दप्राधान्येनानन्दसाकारः उभयप्राधान्येनोभयात्मकसाकारश्चेति । प्राधान्येनात्र भेद एव । स भेदो वस्तुतस्त्वभेद एव । भगवन्नखण्डाद्वैतपरमानन्दलक्षणपरब्रह्मणः साकारनिराकारौ विरुद्धधर्मौ । विरुद्धोभयात्मकत्वं कथमिति । सत्यमेवेति गुरुः परिहरति । यथा सर्वगतस्य निराकारस्य महावायोश्च तदात्मकस्य त्वक्पतित्वेन प्रसिद्धस्य साकारस्य महावायुदेवस्य चाभेद एव श्रूयते सर्वत्र । यथा पृथीव्यादीनां व्यापकशरीराणां देवविशेषणां च तद्विलक्षणतदभिन्नव्यापका परिच्छिन्ना निजमूर्त्याकारदेवताः श्रूयन्ते सर्वत्र तद्वत्परब्रह्मणः सर्वात्मकस्य साकारनिराकारभेदविरोधो नास्त्येव विविधविचित्रानन्तशक्तेः परब्रह्मणः स्वरूपज्ञानेनविरोधो न विद्यते । तदभावे सत्यनन्तविरोधो भवति । अथ च रामकृष्णाद्यवतारेष्वद्वैतपरमानन्दलक्षणपरब्रह्मणः परमतत्त्वपरमविभवानुसन्धानं स्वीयत्वेन श्रूयते सर्वत्र । सर्वपरिपूर्णस्याद्वैतपरमानन्दलक्षणपरब्रह्मणस्तु किं वक्तव्यम् । अन्यथा सर्वपरिपूर्णस्य परब्रह्मणः परमार्थतः साकारं विना केवल निराकारत्वं यद्यभिमतं तर्हि केवलनिराकारस्य गगनस्येव परब्रह्मणोऽपि जडत्वमापद्येत । तस्मात्परब्रह्मणः परमार्थतः साकारनिराकारौ स्वभावसिद्धौ । तथाविधस्याद्वैतपरमानन्दलक्षणस्यादिनारायणस्योन्मेषनिमेषाभ्यां मूलाविद्योदयस्थितिलया जायन्ते । कदाचिदात्मारामस्याखिलपरिपूर्णस्यादिनारायणस्य स्वेच्छानुसारेणोन्मेषो भवति । अव्यक्तान्मूलाविर्भावो मूलाविद्याविर्भावश्च । तस्मादेव सच्छब्दवाच्यं ब्रह्माविद्याशबलं भवति । ततो महत् । महतोऽहङ्कारः । अहङ्कारात्पञ्चतन्मात्राणि । पञ्चतन्मात्रेभ्यः पञ्चमहाभूतानि । पञ्चमहाभूतेभ्यो ब्रह्मैकपादव्याप्तमेकमविद्याण्डं जायते । तत्र तत्त्वतो गुणातीतशुद्धसत्त्वमयो लीलागृहीतनिरतिशयानन्दलक्षणो मायोपाधिको नारायण आसीत् । स एव नित्यपरिपूर्णः पादविभूतिवैकुण्ठनारायणः । स चानन्तकोटिब्रह्माण्डानामुदयस्थितिलयाद्यखिलकार्यकारणजाल- परमकारणकारणभूतो महामायातीतस्तुरीयः परमेश्वरो जयति । तस्मात्स्थूलविराट्स्वरूपो जायते । ससर्वकारणमूलं विराट्स्वरूपो भवति । स चानन्तशीर्षा पुरुष अनन्ताक्षिपाणिपादो भवति । अनन्तश्रवणः सर्वमावृत्य तिष्ठति । सर्वव्यापको भवति । सगुणनिर्गुणस्वरूपो भवति । ज्ञानबलैश्वर्यशक्तितेजःस्वरूपो भवति । विविधविचित्रानन्तजगदाकारो भवति । निरतिशयनिरङ्कुशसर्वज्ञसर्वशक्तिसर्वनियन्तृत्वा- द्यनन्तकल्याणगुणाकारो भवति । वाचामगोचरानन्तदिव्यतेजोराश्याकारो भवति । समस्ताविद्याण्डव्यापको भवति । स चानन्तमहामायाविलासानामधिष्ठानविशेष- निरतिशयाद्वैतपरमानन्द- लक्षणपरब्रह्मविलासविग्रहो भवति । अस्यैकैकरोमकूपान्तरेष्वनन्तकोटि- ब्रह्माण्डानि स्थावराणि च जायन्ते । तेष्वण्डेषु सर्वेष्वेकैकनारायणावतारो जायते । नारायणाद्धिरण्यगर्भो जायते । नारायणादण्डविराट्स्वरूपो जायते । नारायणादखिललोकस्रष्टृप्रजापतयो जायन्ते । नारायणादेकादशरुद्राश्च जायन्ते । नारायणादखिललोकाश्च जायन्ते । नारायणादिन्द्रो जायते । नारायणात्सर्वेदेवाश्च जायन्ते । नारायणाद्द्वादशादित्याः सर्वे वसवः सर्वे ऋषयः सर्वाणि भूतानि सर्वाणि छन्दांसि नारायणादेव समुत्पद्यन्ते । नारायणात्प्रवर्तन्ते । नारायणे प्रलीयन्ते । अथ नित्योऽक्षरः परमः स्वराट् । ब्रह्मा नारायणः । शिवश्च नारायणः । शक्रश्च नारायणः । दिशश्च नारायणः । विदिशश्च नारायणः । कालश्च नारायणः । कर्माखिलं च नारायणः । मूर्तामूर्तं च नारायणः । कारणात्मकं सर्वं कार्यात्मकं सकलं नारायणः । तदुभयविलक्षणो नारायणः । परंज्योतिः स्वप्रकाशमयो ब्रह्मानन्दमयो नित्यो निर्विकल्पो निरञ्जनो निराख्यातः शुद्धो देव एको नारायणो न द्वितीयोऽस्ति कश्चित् । न स समानाधिक इत्यसंशयं परमार्थतो य एवं वेद । सकलबन्धांश्छित्त्वा मृत्युं तीर्त्वा स मुक्तो भवति स मुक्तो भवति । य एवं विदित्वा सदा तमुपास्ते पुरुषः स नारायणो भवति स नारायणो भवतीत्युपनिषत् ॥ इत्याथर्वणमहानारायणोपनिषदि परब्रह्मणः साकारनिराकारस्वरूपनिरूपणं नाम द्वितीयोऽध्यायः ॥ २॥ अथ छात्रस्तथेतिहोवाच । भगवन्देशिक परमतत्त्वज्ञ सविलासमहामूलाऽविद्योदयक्रमः कथितः । तदु प्रपञ्चोत्पत्तिक्रमः कीदृशो भवति । विशेषेण कथनीयः । तस्य तत्त्वं वेदितुमिच्छामि । तथेत्युक्त्वा गुरुरित्युवाच ।यथानादिसर्वप्रपञ्चो दृश्यते । नित्योऽनित्यो वेति संशय्येते । प्रपञ्चोऽपि द्विविधः । विद्याप्रपञ्चश्चाविद्याप्रपञ्चश्चेति । विद्याप्रपञ्चस्य नित्यत्वं सिद्धमेव नित्यानन्द- चिद्विलासात्मकत्वात् । अथ च शुद्धबुद्धमुक्त- सत्यानन्दस्वरूपत्वाच्च । अविद्याप्रपञ्चस्य नित्यत्वमनित्यत्वं वा कथमिति । प्रवाहतो नित्यत्वं वदन्ति केचन । प्रलयादिकं श्रूयमाणत्वादनित्यत्वं वदन्त्यन्ये । उभयं न भवति । पुनः कथमिति । संकोचविकासात्मकमहामायाविलासात्मक एव सर्वोऽप्यविद्याप्रपञ्चः । परमार्थतो न किंचिदस्ति क्षणशून्यानादिमूलाऽविद्याविलासत्वात् । तत्कथमिति । एकमेवाद्वितीयं ब्रह्म । नेह नानास्ति किंचन । तस्माद्ब्रह्मव्यतिरिक्तं सर्वं बाधितमेव । सत्यमेव परम्ब्रह्म सत्यं ज्ञानमनन्तं ब्रह्म । ततः सविलासमूलाऽविद्योपसंहारक्रमः कथमिति । अत्यादरपूर्वकमतिहर्षेण देशिक उपदिशति । चतुर्युगसहस्राणि ब्रह्मणो दिवा भवति । तावता कालेन पुनस्तस्य रात्रिर्भवति । द्वे अहोरात्रे एकं दिनं भवति । तस्मिन्नेकस्मिन्दिने आसत्यलोकान्तमुदयस्थितिलया जायन्ते । पञ्चदशदिनानि पक्षो भवति । पक्षद्वयं मासो भवति । मासद्वयमृतुर्भवति । ऋतुत्रयमयनं भवति । अयनद्वयं वत्सरो भवति । वत्सरशतं ब्रह्ममानेन ब्रह्मणः परमायुःप्रमाणम् ।तावत्कालस्तस्य स्थितिरुच्यते । स्थित्यन्तेऽण्डविराट्पुरुषः स्वांशं हिरण्यगर्भमभ्येति । हिरण्यगर्भस्य कारणं परमात्मानमण्डपरिपालकनारायणमभ्येति । पुनर्वत्सरशतं तस्य प्रलयो भवति । तदा जीवाः सर्वे प्रकृतौ प्रलीयन्ते । प्रलयं सर्वशून्यं भवति । तस्य ब्रह्मणः स्थितिप्रलयावादिनारायणस्यांशेनावतीर्ण- स्याण्डपरिपालकस्य महाविष्णोरहोरात्रिसंज्ञकौ । ते अहोरात्रे एकं दिनं भवति । एवं दिनपक्षमास- संवत्सरादिभेदाच्च तदीयमानेन शतकोटिवत्सरकालस्तस्य स्थितिरुच्यते । स्थित्यन्ते स्वांशं महाविराट्पुरुषमभ्येति । ततः सावरणं ब्रह्माण्डं विनाशमेति । ब्रह्माण्डावरणं विनश्यति तद्धि विष्णोः स्वरूपम् । तस्य तावत्प्रलयो भवति । प्रलये सर्वशून्यं भवति । अण्डपरिपालकमहाविष्णोः स्थितिप्रलयावादिविराट्पुरुषस्याहोरात्रिसंज्ञकौ ते अहोरात्रे एकं दिनं भवति । एवं दिनपक्षमाससंवत्सरादिभेदाच्च तदीयमानेन शतकोटिवत्सरकालस्तस्य स्थितिरुच्यते । स्थित्यन्ते आदिविराट्पुरुषः स्वांशमायोपाधिकनारायणमभ्येति । तस्य विराट्पुरुषस्य यावत्स्थितिकालस्तावत्प्रलयो भवति । प्रलये सर्वशून्यं भवति । विराट्स्थितिप्रलयौ मूलाविद्याण्डपरिपालक- स्यादिनारायणस्याहोरात्रिसंज्ञकौ । ते अहोरात्रे एकं दिनं भवति । एवं दिनपक्षमाससंवत्सरादिभेदाच्च तदीयमानेन शतकोटिवत्सरकालस्तस्य स्थितिरुच्यते । स्थित्यन्ते त्रिपाद्विभूतिनारायण स्येच्छावशान्निमेषो जायते । तस्मान्मूलाविद्याण्डस्य सावरणस्य विलयो भवति । ततः सविलासमूलविद्या सर्वकार्योपाधिसमन्विता सदसद्विलक्षणानिर्वाच्या लक्षणशून्याविर्भावतिरोभावात्मिकानाद्यखिलकारण- कारणानन्तमहामायाविशेषणविशेषिता परमसूक्ष्ममूलकारणमव्यक्तं विशति । अव्यक्तं विशेद्ब्रह्मणि निरिन्धनो वैश्वानरो यथा । तस्मान्मायोपाधिक आदिनारायणस्तथा स्वस्वरूपं भजति । सर्वे जीवाश्च स्वस्वरूपं भजन्ते । यथा जपाकुसुमसान्निध्याद्रक्तस्फटिक- प्रतीतिस्तदभावे शुद्धस्फटिकप्रतीतिः । ब्रह्मणोपि मायोपाधिवशात्सगुणपरिच्छिन्नादिप्रतीतिरुपाधि- विलयान्निर्गुणनिरवयवादिप्रतीतिरित्युपनिषत् ॥ इत्याथर्वणमहानारायणोपनिषदि मूलाविद्याप्रलयस्वरूपणं नाम तृतीयोऽध्यायः ॥ ३॥ ॐ ततस्तस्मान्निर्विशेषमतिनिर्मलं भवति । अविद्यापादमतिशुद्धं भवति । शुद्धबोधानन्द- लक्षणकैवल्यं भवति । ब्रह्मणः पादचतुष्टयं निर्विशेषं भवति । अखण्डलक्षणाखण्डपरिपूर्ण- सच्चिदानन्दस्वप्रकाशं भवति । अद्वितीयमनीश्वरं भवति । अखिलकार्यकारणस्वरूपमखण्डचिद्घनानन्द- स्वरूपमतिदिव्यमङ्गलाकारं निरतिशयानन्दतेजोराशि- विशेषं सर्वपरिपूर्णानन्तचिन्मयस्तग्भाकारं शुद्धबोधानन्दविशेषाकारमनन्तचिद्विलासविभूति- समष्ट्याकारमद्भुतानन्दाश्चर्यविभूतिविशेषाकारमनन्त- परिपूर्णानन्ददिव्यसौदामिनीनिचयाकारम् । एवमाकारमद्वितीयाखण्डानन्दब्रह्मस्वरूपं निरूपितम् । अथ छात्रो वदति । भगवन्पादभेदादिकं कथं कथमद्वैतस्वरूपमिति निरूपितम् । देशिकः परिहरति । विरोधो न विद्यते ब्रह्माद्वितीयमेव सत्यम् । तथैवोक्तं च । ब्रह्मभेदो न कथितो ब्रह्मव्यतिरिक्तं न किंचिदस्ति । पादभेदादिकथनं तु ब्रह्मस्वरूपकथनमेव । तदेवोच्यते । पादचतुष्टयात्मकं ब्रह्म तत्रैकमविद्यापादम् । पादत्रयममृतं भवति । शाखान्तरोपनिषत्स्वरूपमेव निरूपितम् । तमसस्तु परं ज्योतिः परमानन्दलक्षणम् । पादत्रयात्मकं ब्रह्म कैवल्यं शाश्वतं परमिति । वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । तमेवंविद्वानमृतैह भवति । नान्यः पन्था विद्यतेऽयनाय । सर्वेषां ज्योतिषां ज्योतिस्तमसः परमुच्यते । सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं परंज्योतिस्तमस उपरि विभाति । यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्तात् । तदेवर्तं तदु सत्यमाहुस्तदेव सत्यं तदेव ब्रह्म परमं विशुद्धं कथ्यते । तमश्शब्देनाविद्या । पादोऽस्य विश्वा भूतानि । त्रिपादस्यामृतं दिवि । त्रिपादूर्ध्व उदैत्पुरुषः । पादोऽस्येहाभवत्पुनः । ततो विश्वङ् व्यक्रामत् । साशनाऽनशने अभि । विद्यानन्दतुरीयाख्यपादत्रयममृतं भवति । अवशिष्टमविद्याश्रयमिति । आत्मारामस्यानादिनारायणस्य कीदृशावुन्मेषनिमेषौ तयोः स्वरूपं कथमिति । गुरुर्वदति । पराग्दृष्टिरुन्मेषः । प्रत्यग्दृष्टिर्निमेषः । प्रत्यग्दृष्ट्या स्वस्वरूपचिन्तनमेव निमेषः । पराग्दृष्ट्या स्वस्वरूपचिन्तनमेवोन्मेषः । यावदुन्मेषकालस्तावन्निमेषकालो भवति । अविद्यायाः स्थितिरुन्मेषकाले निमेषकाले तस्याः प्रलयो भवति । यथा उन्मेषो जायते तथा चिरन्तनातिसूक्ष्मवासनाबलात्पुनरविद्याया उदयो भवति । यथापूर्वमविद्याकार्याणि जायन्ते । कार्यकारणोपाधिभेदाज्जीवेश्वरभेदोऽपि दृश्यते । कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः । ईश्वरस्य महामाया तदाज्ञावशवर्तिनी । तत्संकल्पानुसारिणी विविधानन्तमहामाया- शक्तिसंसवेतिनानन्तमहामाया जालजननमन्दिरा महाविष्णोः क्रीडाशरीररूपिणी ब्रह्मादीनामगोचरा । एतां महामायां तरन्त्येव ये विष्णुमेव भजन्ति नान्ये तरन्ति कदाचन । विविधोपयैरपि अविद्याकार्याण्यन्तःकरणान्यतीत्य कालाननु तानि जायन्ते । ब्रह्मचैतन्यं तेषु प्रतिबिम्बितं भवति । प्रतिबिम्बा एव जीवा इति कथ्यन्ते । अन्तःकरणोपाधिकाः सर्वे जीवा इत्येवं वदन्ति । महाभूतोत्थसूक्ष्माङ्गोपाधिकाः सर्वे जीवा इत्येके वदन्ति । बुद्धिप्रतिबिम्बितचैतन्यं जीवा इत्यपरे मन्यन्ते । एतेषामुपाधीनामत्यन्तभेदो न विद्यते । सर्वपरिपूर्णो नारायणस्त्वनया निजया क्रीडति स्वेच्छया सदा । तद्वदविद्यमानफल्गुविषयसुखाशयाः सर्वे जीवाः प्रभावन्त्यसारसंसारचक्रे । एवमनादिपरम्परा वर्ततेऽनादिसंसारविपरीतभ्रमादित्युपनिषत् ॥ इत्यथर्वणशाखायां त्रिपाद्विभूतिमहानारायणोपनिषदि महामायातीताखण्डाद्वैतपरमानन्दलक्षणपरब्रह्मणः परमतत्त्वस्वरूपनिरूपणं नाम चतुर्थोऽध्यायः ॥ ४॥ पूर्वकाण्डः समाप्तः ॥ अथ शिष्यो वदति गुरुं भगवन्तं नमस्कृत्य भगवन् सर्वात्मना नष्टाया अविद्यायाः पुनरुदयः कथम् । सत्यमेवेति गुरुरिति होवाच । प्रावृट्कालप्रारम्भे यथा मण्डूकादीनां प्रादुर्भावस्तद्वत्सर्वात्मना नष्टाया अविद्याया उन्मेषकाले पुनरुदयो भवति । भगवन् कथं जीवानामनादिसंसारभ्रमः । तन्निवृत्तिर्वा कथमिति । कथं मोक्षमार्गस्वरूपं च । मोक्षसाधनं कथमिति । को वा मोक्षोपायः । कीदृशं मोक्षस्वरूपम् । का वा सायुज्यमुक्तिः । एतत्सर्वं तत्त्वतः कथनीयमिति । अत्यादरपूर्वकमतिहर्षेण शिष्यं बहूकृत्य गुरुर्वदति श्रूयतां सावधानेन । कुत्सितानन्तजन्माभ्यस्तात्यन्तोत्कृष्ट- विविधविचित्रानन्तदुष्कर्मवासनाजालविशेषैर्देहात्मविवेको न जायते । तस्मादेव दृढतरदेहात्मभ्रमो भवति । अहमज्ञः किंचिज्ज्ञोऽहमहं जीवोऽहमत्यन्तदुःखाकारो। अहमनादिसंसारीति भ्रमवासनाबलात्संसार एव प्रवृत्तिस्तन्निवृत्त्युपायः कदापि न विद्यते । मिथ्याभूतान्स्वप्नतुल्यान्विषयभोगाननुभूय विविधानसंख्यानतिदुर्लभान्मनोरथाननवरतमाशास्यमानः अतृप्तः सदा परिधावति । विविधविचित्रस्थूलसूक्ष्मोत्कृष्ट- निकृष्टानन्तदेहान्परिगृह्य तत्तदेहविहितविविधविचित्राऽनेक- शुभाशुभप्रारब्धकर्माण्यनुभूय तत्तत्कर्मफल- वासनाजालवासितान्तःकरणानां पुनःपुनस्तत्तत्कर्मफल- विषयप्रवृत्तिरेव जायते । संसारनिवृत्तिमार्गप्रवृत्तिः कदापि न जायते । तस्मादनिष्टमेवेष्टमिव भाति । इष्टमेवाऽनिष्टमिव भात्यनादिसंसारविपरीतभ्रमात् । तस्मात्सर्वेषां जीवानामिष्टविषये बुद्धिः सुखबुद्धिर्दुःखबुद्धिश्च भवति । परमार्थतस्त्वबाधित- ब्रह्मसुखविषये प्रवृत्तिरेव न जायते । तत्स्वरूपज्ञानाभावात् । तत्किमिति न विद्यते । कथं बन्धः कथं मोक्ष इति विचाराभावाच्च । तत्कथमिति । अज्ञानप्राबल्यात् । कस्मादज्ञानप्राबल्यमिति । भक्तिज्ञानवैराग्यवासनाभावाच्च । तदभावः कथमिति । अत्यन्तान्तःकरणमलिनविशेषात् । अतः संसारतरणोपायः कथमिति । देशिकस्तमेव कथयति । सकलवेदशास्त्रसिद्धान्तरहस्य- जन्माभ्यस्तात्यन्तोत्कृष्टसुकृतपरिपाकवशात्सद्भिः सङ्गो जायते । तस्माद्विधिनिषेधविवेको भवति । ततः सदाचारप्रवृत्तिर्जायते । सदाचारादखिलदुरितक्षयो भवति । तस्मादन्तःकरणमतिविमलं भवति । ततः सद्गुरुकटाक्षमन्तःकरणमाकाङ्क्षति । तस्मात्सद्गुरुकटाक्षलेशविशेषेण सर्वसिद्धयः सिद्ध्यन्ति । सर्वबन्धाः प्रविनश्यन्ति । श्रेयोविघ्नाः सर्वे प्रलयं यान्ति । सर्वाणि श्रेयांसि स्वयमेवायान्ति । यथा जात्यन्धस्य रूपज्ञानं न विद्यते तथा गुरूपदेशेन विना कल्पकोटिभिस्तत्त्वज्ञानं न विद्यते । तस्मात्सद्गुरुकटाक्षलेशविशेषेणाचिरादेव तत्त्वज्ञानं भवति । यदा सद्गुरुकटाक्षो भवति तदा भगवत्कथाश्रवणध्यानादौ श्रद्धा जायते । तस्माद्धृदयस्थितानादिदुर्वासनाग्रन्थिविनाशो भवति । ततो हृदयस्थिताः कामाः सर्वे विनश्यन्ति । तस्माद्धृदयपुण्डरीककर्णिकायां परमात्माविर्भावो भवति । ततो दृढतरा वैष्णवी भक्तिर्जायते । ततो वैराग्यमुदेति । वैराग्याद्बुद्धिविज्ञानाविर्भावो भवति । अभ्यासात्तज्ज्ञानं क्रमेण परिपक्वं भवति । पक्वविज्ञानाज्जीवन्मुक्तो भवति । ततः शुभाशुभकर्माणि सर्वाणि सवासनानि नश्यन्ति । ततो दृढतरशुद्धसात्त्विक- वासनया भक्त्यतिशयो भवति । भक्त्यतिशयेन नारायणः सर्वमयः सर्वावस्थासु विभाति । सर्वाणि जगन्ति नारायणमयानि प्रविभान्ति । नारायणव्यतिरिक्तं न किंचिदस्ति । इत्येतद्बुद्ध्वा विहरत्युपासकः सर्वत्र । निरन्तरसमाधिपरम्पराभिर्जगदीश्वराकाराः सर्वत्र सर्वावस्थासु प्रविभान्ति । अस्य महापुरुषस्य क्वचित्क्वचिदीश्वरसाक्षात्कारो भवति । अस्य देहत्यागेच्छा यदा भवति तदा वैकुण्ठपार्षदाः सर्वे समायान्ति । ततो भगवद्ध्यानपूर्वकं हृदयकमले व्यवस्थितमात्मानं संचित्य सम्यगुपचारैरभ्यर्च्य हंसमन्त्रमुच्चरन्त्सर्वाणि द्वाराणि संयम्य सम्यङ्मनो निरुध्य चोर्ध्वगेन वायुना सह प्रणवेन प्रणवानुसन्धानपूर्वकं शनैः शनैराब्रह्मरन्ध्राद्विनिर्गत्य सोऽहमिति मन्त्रेण द्वादशान्तस्थितज्ञानात्मानमेकीकृत्य पञ्चोपचारैरभ्यर्च्य पुनः सोऽहमिति मन्त्रेण षोडशान्तस्थितज्ञानात्मानमेकीकृत्य सम्यगुपचारैरभ्यर्च्य प्राकृतपूर्वदेहं परित्यज्य पुनःकल्पितमन्त्रमयशुद्धब्रह्मतेजोमयनिरतिशयानन्दमय- महाविष्णूसारूप्यविग्रहं परिगृह्य सूर्यमण्डलान्तर्गतानन्त- दिव्यचरणारविन्दाङ्गुष्ठनिर्गतनिरतिशयानन्दमयापरनदी- प्रवाहमाकृष्य भावनयात्र स्नात्वा वस्त्राभरणाद्युपचारैरात्मपूजां विधाय साक्षान्नारायणो भूत्वा ततो गुरुनमस्कारपूर्वकं प्रणवगरुडं ध्यात्वा ध्यानेनाविर्भूत- महाप्रणवगरुडं पञ्चोपचारैराराध्य गुर्वनुज्ञया प्रदक्षिणनमस्कारपूर्वकं प्रणवगरुडमारुह्य महाविष्णोः समस्तासाधारणचिह्नचिह्नितो महाविष्णोः समस्तासाधारणदिव्यभूषणैर्भूषितः सुदर्शनपुरुषं पुरस्कृत्य विष्वक्सेनपरिपालितो वैकुण्ठपार्षदैः परिवेष्टितो नभोमार्गमाविश्य पार्श्वद्वयस्थितानेकपुण्यलोकानतिक्रम्य तत्रत्यैः पुण्यपुरुषैरभिपूजितः सत्यलोकमाविश्य ब्रह्माणमभ्यर्च्य ब्रह्मणा च सत्यलोकवासिभिः सर्वैरभिपूजितः शैवमीशानकैवल्यमासाद्य शिवं ध्यात्वा शिवमभ्यर्च्य शिवगणैः सर्वैः शिवेन चाभिपूजितो महर्षिमण्डलान्यतिक्रम्य सूर्यसोममण्डले भित्त्वा कीलकनारायणं ध्यात्वा ध्रुवमण्डलस्य दर्शनं कृत्वा भगवन्तं ध्रुवमभिपूज्य ततः शिंशुमारचक्रं विभिद्य शिंशुमारप्रजापतिमभ्यर्च्य चक्रमध्यगतं सर्वाधारं सनातनं महाविष्णुमाराध्य तेन पूजितस्तत उपर्युपरि गत्वा परमानन्दं प्राप्य प्रकाशते । ततो वैकुण्ठवासिनः सर्वे समायान्ति तान्त्सर्वान्सुसम्पूज्य तैः सर्वैरभिपूजित- श्चोपर्युपरि गत्वा विरजानदीं प्राप्य तत्र स्नात्वा भगवद्ध्यानपूर्वकं पुनर्निमज्ज्य तत्रापञ्चीकृतभूतोत्थं सूक्ष्माङ्गभोग- साधनं सूक्ष्मशरीरमुत्सृज्य केवलमन्त्रमयदिव्यतेजोमय- निरतिशयानन्दमयमहाविष्णुसारूप्यविग्रहं परिगृह्य तत उन्मज्यात्मपूजां विधाय प्रदक्षिणनमस्कारपूर्वकं ब्रह्ममयवैकुण्ठमाविश्य तत्रत्यान्विशेषेण सम्पूज्य तन्मध्ये च ब्रह्मानन्दमयानन्तप्राकारप्रासादतोरण- विमानोपवनावलिभिर्ज्वलच्छिखरैरुपलक्षितो निरुपमनित्यनिरवद्यनिरतिशयनिरवधिक- ब्रह्मानन्दाचलो विराजते । तदुपरि ज्वलति निरतिशयानन्ददिव्यतेजोराशिः । तदभ्यन्तरसंस्थाने शुद्धबोधानन्दलक्षणं विभाति । तदन्तराले चिन्मयवेदिका आनन्दवेदिकानन्दवनविभूषिता । तदभ्यन्तरे अमिततेजोराशिस्तदुपरिज्वलति । परममङ्गलासनं विराजते । तत्पद्मकर्णिकायां शुद्धशेषभोगासनं विराजते । तस्योपरि समासीनमानन्दपरिपालकमादिनारायणं ध्यात्वा तमीश्वरं विविधोपचारैराराध्य प्रदक्षिणनमस्कारान्विधाय तदनुज्ञातश्चोपर्युपरि गत्वा पञ्चवैकुण्ठानतीत्याण्डविराट्कैवल्यं प्राप्य तं समाराधोपासकः परमानन्दं प्रापेत्युपनिषत् ॥ इत्याथर्वणमहानारायणोपनिषदि संसारतरणोपायकथनद्वारा परममोक्षमार्गस्वरूपनिरूपणं नाम पञ्चमोऽध्यायः ॥ ५॥ यत उपासकः परमानन्दं प्राप सावरणं ब्रह्माण्डं च भित्त्वा परितः समवलोक्य ब्रह्माण्डस्वरूपं निरीक्ष्य परमार्थतस्तत्स्वरूपं ब्रह्मज्ञानेनावबुध्य समस्तवेदशास्त्रेतिहासपुराणानि समस्तविद्याजालानि ब्रह्मादयः सुराः सर्वे समस्ताः परमर्षयश्चाण्डाभ्यन्तरप्रपञ्चैकदेशमेव वर्णयन्ति । अण्डस्वरूपं न जानन्ति । ब्रह्माण्डाद्बहिः प्रपञ्चज्ञानं न जानत्येव । कुतोऽण्डान्तरान्तरर्बहिः प्रपञ्चज्ञानं दूरतो मोक्षप्रपञ्चज्ञानमविद्या चेति कथं ब्रह्माण्डस्वरूपमिति । कुक्कुटाण्डाकारं महदादिसमष्ट्याकारणमण्डं तपनीयमयं तप्तजाम्बूनदप्रभमुद्यत्कोटिदिवाकराभं चतुर्विधसृष्ट्युपलक्षितं महाभूतैः पञ्चभिरावृतं महदहङ्कृतितमोभिश्च मूलप्रकृत्या परिवेष्टितम् । अण्डभीतिविशालं सपादकोटियोजनप्रमाणम् । एकैकावरणं तथैव । अण्डप्रमाणं परितोऽयुतद्वयकोटियोजनप्रमाणं महामण्डूकाद्यनन्तशक्तिभिरधिष्ठितं नारायणक्रीडाकन्तुकं परमाणुवद्विष्णुलोकसुसंलग्न- मदृष्टश्रुतविविधविचित्रानन्तविशेषैरुपलक्षितम् । अस्य ब्रह्माण्डस्य समन्ततः स्थितान्येतादृशान्यनन्त- कोटिब्रह्माण्डानि सावरणानि ज्वलन्ति । चतुर्मुखपञ्चमुखषण्मुखसप्तमुख- अष्टमुखादिसंख्याक्रमेण सहस्रावधिमुखा- न्तैर्नारायणांशै रजोगुणप्रधानैरेकैकसृष्टि- कर्तृभिरधिष्ठितानि विष्णुमहेश्वराख्यैर्नारायणांशैः सत्त्वतमोगुणप्रधानैरेकैकस्थितिसंहारकर्तृभिरधिष्ठितानि महाजलौघमत्स्यबुद्बुदानन्तसङ्घवद्भ्रमन्ति । क्रीडासक्तजालककरतलामलकवृन्दवन्महाविष्णोः करतले विलसन्त्यनन्तकोटिब्रह्माण्डानि । जलयन्त्रस्थघटमालिका- जालवन्महाविष्णोरेकैकरोमकूपान्तरेष्वनन्तकोटिब्रह्माण्डानि सावरणानि भ्रमन्ति । समस्तब्रह्माण्डान्तर्बहिः प्रपञ्चरहस्यं ब्रह्मज्ञानेनावबुध्य विविधविचित्रानन्तपरमविभूतिसमष्टि- विशेषन्त्समवलोक्यात्याश्चर्यामृतसागरे निमज्ज्य निरतिशयानन्दपारावारो भूत्वा समस्तब्रह्माण्डजालानि समुल्लङ्घ्यामितापरिच्छिन्नानन्ततमः सागरमृत्तीर्य मूलाविद्यापुरं दृष्ट्वा विविधविचित्रानन्तमहामाया- विशेषैः परिवेष्टितामनन्तमहामायाशक्तिसमष्ट्याकारामनन्तदिव्य- तेजोज्वालाजालैरलङ्कृतामनन्तमहामायाविलसानां परमाधिष्ठानविशेषाकारां शश्वदमितानन्दाचलोपरि विहारिणीं मूलप्रकृतिजननीमविद्यालक्ष्मीमेवं ध्यात्वा विविधोपचारैराराध्य समस्तब्रह्माण्डसमष्टिजननीं वैष्णवीं महामायां नमस्कृत्य तया चानुज्ञातश्चोपर्युपरि गत्वा महाविराट्पदं प्राप ॥ महाविराट्स्वरूपं कथमिति । समस्ताविद्यापादको विराट् । विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात् । सम्बाहुभ्यां नमति सम्पतत्रैर्द्यावापृथिवी जनयन्देव एकः । न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा मनीषा मनसाभिक्लृप्तो य एनं विदुरमृतास्ते भवन्ति । मनोवाचामगोचरमादिविराट्स्वरूपं ध्यात्वा विविधोपचारैराराध्य तदनुज्ञातश्चोपर्युपरि गत्वा विविधविचित्रानन्तमूलाविद्याविलासानवलोक्योपासकः परमकौतुकं प्राप । अखण्डपरिपूर्णपरमानन्दलक्षण- परब्रह्मणः समस्तस्वरूपविरोधकारिण्यपरिच्छिन्न- तिरस्करिण्याकारा वैष्णवी महायोगमाया मूर्तिमद्भिरनन्त- महामायाजालविशेषैः परिषेविता तस्याः पुरमतिकौतुक- मत्याश्चर्यसागरानन्दलक्षणममृतं भवति । अविद्यासागरप्रतिबिम्बितनित्यवैकुण्ठप्रतिवैकुण्ठमिव विभाति । उपासकस्तत्पुरं प्राप्य योगलक्ष्मीमंगमायां ध्यात्वा विविधोपचारैराराध्य तया सम्पूजितश्चानुज्ञात- श्चोपर्युपरि गत्वानन्तमायाविलासानवलोक्योपासकः परमकौतुकं प्राप ॥ तत उपरि पादविभूतिवैकुण्ठपुरमाभाति । अत्याश्चर्यानन्तविभूतिसमष्ट्याकार- मानन्दरसप्रवाहैरलङ्कृतमभितस्तरङ्गिण्याः प्रवाहैरतिमङ्गलं ब्रह्मतेजोविशेषाकारैरनन्त- ब्रह्मवनैरभितस्ततमनन्तनित्यमुक्तैरभिव्याप्तमनन्त- चिन्मयप्रासादजालसंकुलमनादिपादविभूतिवैकुण्ठ- मेवमाभाति । तन्मध्ये च चिदानन्दाचलो विभाति ॥ तदुपरि ज्वलति निरतिशयानन्ददिव्यतेजोराशिः । तदभ्यन्तरे परमानन्दविमानं विभाति । तदभ्यन्तरसंस्थाने चिन्मयासनं विराजते । तत्पद्मकर्णिकायां निरतिशयदिव्यतेजोराश्यन्तर- समासीनमादिनारायणं ध्यात्वा विविधोपचारैस्तं समाराध्य तेनाभिपूजितस्तदनुज्ञातश्चोपर्युपरिगत्वा सावरणमविद्याण्डं च भित्त्वा विद्यापादमुल्लङ्घ्य विद्याविद्ययोः सन्धौ विश्वक्सेनवैकुण्ठपुरमाभाति ॥ अनन्तदिव्यतेजोज्वालाजालैरभितोऽनीकं प्रज्वलन्तमनन्त- बोधानन्तबोधानन्दव्यूहैरभितस्ततं शुद्धबोध- विमानावलिभिर्विराजितमनन्तानन्दपर्वतैः परमकौतुक- माभाति । तन्मध्ये च कल्याणाचलोपरि शुद्धानन्द- विमानं विभाति । तदभ्यन्तरे दिव्यमङ्गलासनं विराजते । तत्पद्मकर्णिकायां ब्रह्मतेजोराश्यभ्यन्तरसमासीनं भगवदनन्तविभूतिविधिनिषेधपरिपालकं सर्वप्रवृत्ति- सर्वहेतुनिमित्तिकं निरतिशयलक्षणमहाविष्णूस्वरूप- मखिलापवर्गपरिपालकममितविक्रममेवंविधं विश्वक्सेनं ध्यात्वा प्रदक्षिणनमस्कारान्विधाय विविधोपचारैराराध्य तदनुज्ञातश्चोपर्युपरि गत्वा विद्याविभूतिं प्राप्य विद्यामयानन्तवैकुण्ठान्परितोऽवस्थितान्ब्रह्मतेजोमया- नवलोक्योपासकः परमानन्दं प्राप ॥ विद्यामयाननन्तसमुद्रानतिक्रम्य ब्रह्मविद्या- तरङ्गिणीमासाद्य तत्र स्नात्वा भगवद्ध्यानपूर्वकं पुनर्निमज्ज्य मन्त्रमयशरीरमुत्सृज्य विद्यानन्द- मयामृतदिव्यशरीरं परिगृह्य नारायणसारूप्यं प्राप्यात्मपूजां विधाय ब्रह्ममयवैकुण्ठवासिभिः सर्वैर्नित्यमुक्तैः सुपूजितस्ततो ब्रह्मविद्याप्रवाहैरानन्द- रसनिर्भरैः क्रीडानन्तपर्वतैरनन्तैरभिव्याप्तं ब्रह्मविद्यामहैः सहस्रप्राकारैरानन्दामृतमयै- र्दिव्यगन्धस्वभावैश्चिन्मयैरनन्तब्रह्मवनैरतिशोभित- मुपासकस्त्वेवंविधं ब्रह्मविद्यावैकुण्ठमाविश्य तदभ्यन्तरस्थितात्यन्तोन्नतबोधानन्दप्रासादाग्रस्थित- प्रणवविमानोपरिस्थितामपारब्रह्मविद्यासाम्राज्याधिदेवता- ममोघनिजमन्दकटाक्षेणानादिमूलाविद्याप्रलयकरीमद्वितीया- मेकामनन्तमोक्षसाम्राज्यक्ष्मीमेवं ध्यात्वा प्रदक्षिणनमस्कारान्विधाय विविधोपचारैराराध्य पुष्पाञ्जलिं समर्प्य स्तुत्वा स्तोत्रविशेषैस्तयाभिपूजित- स्तदनुगतश्चोपर्युपरि गत्वा ब्रह्मविद्यातीरे गत्वा बोधानन्दमयाननन्तवैकुण्ठानवलोक्य निरतिशयानन्दं प्राप्य बोधानन्दमयाननन्तसमुद्रानतिक्रम्य गत्वागत्वा ब्रह्मवनेषु परममङ्गलाचलश्रोणीषु ततो बोधानन्दविमानपरम्परा- सूपासकः परमानन्दं प्राप ॥ ततः श्रीतुलसीवैकुण्ठपुरमाभाति परमकल्याणमनन्त- विभवममिततेजोराश्याकारमनन्तब्रह्मतेजोराशि- समष्ट्याकारं चिदानन्दमयानेकप्राकारविशेषैः परिवेष्टितममितबोधानन्दाचलोपरिस्थितं बोधानन्द- तरङ्गिण्याः प्रवाहैरतिमङ्गलं निरतिशयानन्दैरनन्त- वृन्दावनैरतिशोभितमखिलपवित्राणां परमपवित्रं चिद्रूपैरनन्तनित्यमुक्तैरभिव्याप्तमानन्दमयानन्त- विमानजलैरलङ्कृतममिततेजोराश्यन्तर्गतदिव्यतेजोराशि- विशेषमुपासकस्त्वेवमाकारं तुलसीवैकुण्ठं प्रविश्य तदन्तर्गतदिव्यविमानोपरिस्थितां सर्वपरिपूर्णस्य महाविष्णोः सर्वाङ्गेषु विहारिणीं निरतिशयसौन्दर्यलावण्याधिदेवतां बोधानन्दमयैरनन्तनित्यपरिजनैः परिषेवितां श्रीसखीं तुलसीमेवं लक्ष्मीं ध्यात्वा प्रदक्षिणनमस्कारान्विधाय विविधोपचारैराराध्य स्तुत्वा स्तोत्रविशेषैस्तयाभिपूजित- स्तदनुज्ञातश्चोपर्युपरिगत्वा परमानन्दतरङ्गिण्यास्तीरे गत्वा तत्र परितोऽवस्थिताञ्छुद्धबोधानन्दमयाननन्त- वैकुण्ठानवलोक्य निरतिशयानन्दं प्राप्य तत्रैत्यैश्चिद्रूपैः पुराणपुरुषैश्चाभिपूजितस्ततो गत्वागत्वा ब्रह्मवनेषु दिव्यगन्धानन्दपुष्पवृष्टिभिः समन्वितेषु दिव्य- मङ्गलालयेषु निरतिशयानन्दामृतसागरेष्वमिततेजो- राश्याकारेषु कल्लोलवनसंकुलेषु ततोऽनन्तशुद्धबोध- विमानजालसंकुलानन्दाचलश्रोणीषूपासकस्तत उपर्युपरि गत्वा विमानपरम्परास्वनन्ततेजःपर्वतराजिष्वेवं क्रमेण प्राप्य विद्यानन्दमयोः सन्धिं तत्रानदतरङ्गिण्याः प्रवाहेषु स्नात्वा बोधानन्दवनं प्राप्य शुद्धबोधपरमानन्दानन्दाकारवनं सन्ततामृतपुष्पवृष्टिभिः परिवेष्टितं परमानन्दप्रवाहैरभिव्याप्तं मूर्तिमद्भिः परममङ्गलैः परमकौतुकमपरिच्छिन्नानन्द- सागराकारं क्रीडानन्दपर्वतैरभिशोभितं तन्मध्ये च शुद्धबोधानन्दवैकुण्ठं यदेव ब्रह्मविद्यापादवैकुण्ठं सहस्रानन्दप्राकारैः समुज्ज्वलति । अनन्तानन्दविमानजालसंकुलमनन्तबोधसौध- विशेषैरभितोऽनिशं प्रज्वलन्तं क्रीडानन्तमण्डप- विशेषैर्विशेषितं बोधानन्दमयानन्तपरमच्छत्र- ध्वजचामरवितानतोरणैरलङ्कृतं परमानन्दव्यूहैर्नित्यमुक्तैरभितस्ततमनन्तदिव्यतेजःपर्वत- समष्ट्याकारमपरिच्छिन्नानन्तशुद्धबोधानन्तमण्डलं वाचामगोचरानन्दब्रह्मतेजोराशिमण्डलमाखण्डलविशेषं शुद्धानन्दसमष्टिमण्डलविशेषमखण्डचिद्घनानन्द- विशेषमेवं तेजोमण्डलविधं बोधानन्दवैकुण्ठमुपासकः प्रविश्य तत्रत्यैः सर्वैरभिपूजितः परमानन्दाचलोपर्यखण्ड- बोधविमानं प्रज्वलति । तदभ्यन्तरे चिन्मयासनं विराजते । तदुपरि विभात्यखण्डानन्दतेजोमण्डलम् । तदभ्यन्तरे समासीन- मादिनारायणं ध्यात्वा प्रदक्षिणनमस्कारान्विधाय विविधोपचारैः सुसम्पूज्य पुष्पाञ्जलिं समर्प्य स्तुत्वा स्तोत्रविशेषैः स्वरूपेणावस्थितमुपासकमवलोक्य तमुपासक- मादिनारायणः स्वसिंहासने सुसंस्थाप्य तद्वैकुण्ठवासिभिः सर्वैः समन्वितः समस्तमोक्षसाम्राज्यपट्टाभिषेकमुद्दिश्य मन्त्रपूतैरपासकमानन्दकलशैरभिषिच्य दिव्यमङ्गल- महावाद्यपुरःसरं विविधोपचारैरभ्यर्च्य मूर्तिमद्भिः सर्वैः स्वचिह्नैरलङ्कृत्य प्रदक्षिणनमस्कारान्विधाय त्वं ब्रह्मासि अहं ब्रह्मास्मि आवयोरन्तरं न विद्यते त्वमेवाहं अहमेवत्वं इत्यभिधायेत्युक्त्वादिनारायणस्तिरोदधे तदेत्युपनिषत् ॥ इत्याथर्वणमहानारायणोपनिषदि परममोक्षमार्गस्वरूपनिरूपणं नाम षष्ठोध्यायः ॥ ६॥ अथोपासकस्तदाज्ञया नित्यं गरुडमारुह्य वैकुण्ठवासिभिः सर्वैः परिवेष्टितो महासुदर्शनं पुरस्कृत्य विश्वक्सेनपरिपालितश्चोपर्युपरि गत्वा ब्रह्मानन्दविभूतिं प्राप्य सर्वत्रावस्थिताब्रह्मानन्द- मयाननन्तवैकुण्ठानवलोक्य निरतिशयानन्दसागरो भूत्वात्मारामानन्दविभूतिपुरुषाननन्तानवलोक्य तान्सर्वानुपचारैः समभ्यर्च्य तैः सर्वैरभिपूजित- श्चोपासकस्तत उपर्युपरि गत्वा ब्रह्मानन्दविभूतिं प्राप्यानन्तदिव्यतेजःपर्वतैरलङ्कृतान्परमानन्द- लहरीवनशोभितानसंख्याकानानन्दसमुद्रानतिक्रम्य विविधविचित्रानन्तपरमतत्त्वविभूतिसमष्टिविशेषा- न्परमकौतुकान्ब्रह्मानन्दविभूतिविशेषनतिक्रम्योपासकः परमकौतुकं प्राप । ततः सुदर्शनवैकुण्ठपुरमाभाति नित्यमङ्गलमनन्तविभवं सहस्रानन्दप्रकारपरिवेष्टितमयुतकुक्ष्युपलक्षित- मनन्तोत्कटज्वलदरमण्डलं निरतिशयदिव्यतेजोमण्डलं वृन्दारकपरमानन्दं शुद्धबुद्धस्वरूपमनन्तानन्द- सौदामिनीपरमविलासं निरतिशयपरमानन्दपारावार- मनन्तैरानन्दपुरुषैश्चिद्रूपैरधिष्ठितम् । तन्मध्ये च सुदर्शनं महाचक्रम् । चरणं पवित्रं विततं पुराणं येन पूतस्तरति दुष्कृतानि । तेन पवित्रेण शुद्धेन पूता अतिपाप्मानमरातिं तरेम । लोकस्य द्वारमर्चिमत्पवित्रम् । ज्योतिष्मद्भ्राजमानं महस्वत् । अमृतस्य धारा बहुधा दोहमानम् । चरणं नो लोके सुधितां दधातु । अयुतारं ज्वलन्तमयुतारसमष्ट्याकरं निरतिशयविक्रमविलासमनन्त- दिव्यायुधदिव्यशक्तिसमष्टिरूपं महाविष्णोरनर्गलप्रताप- विग्रहमयुतायुतकोटियोजनविशालमनन्तज्वालजालैरलङ्कृतं समस्तदिव्यमङ्गलनिदानमनन्तदिव्यतीर्थानां निजमन्दिरमेवं सुदर्शनं महाचक्रं प्रज्वलति । तस्य नाभिमण्डलसंस्थाने उपलक्ष्यते निरतिशयानन्द- दिव्यतेजोराशिः । तन्मध्ये च सहस्रारचक्रं प्रज्वलति । तदखण्डदिव्यतेजोमण्डलाकारं परमानन्दसौदामिनी- निचयोज्ज्वलम् । तदभ्यन्तरसंस्थाने षट्शतारचक्रं प्रज्वलति । तस्यामितपरमतेजः परमविहारसंस्थानविशेषं विज्ञानघनस्वरूपम् । तदन्तराले त्रिशतारचक्रं विभाति । तच्च परमकल्याणविलासविशेषमनन्तचिदादित्यसमष्ट्याकरम् । तदभ्यन्तरे शतारचक्रमाभाति । तच्च परमतेजोमण्डल- विशेषम् । तन्मध्ये षष्ट्यरचक्रमाभाति । तच्च ब्रह्मतेजःपरमविलासविशेषम् । तदभ्यन्तरसंस्थाने षट्कोणचक्रं प्रज्वलति । तच्चापरिच्छिन्नानन्तदिव्यतेजोराश्याकरम् । तदभ्यन्तरे महानन्दपदं विभाति । तत्कर्णिकायां सूर्येन्दुवह्निमण्डलानि चिन्मयानि ज्वलन्ति । तत्रोपलक्ष्यते निरतिशयदिव्यतेजोराशिः । तदभ्यन्तरसंस्थाने युअगपदुदिता- नन्तकोटिरविप्रकाशः सुदर्शनपुरुषो विराजते । सुदर्शनपुरुषो महाविष्णुरेव । महविष्णोः समस्तासाधारणचिह्नचिह्नितः । एवमुपासकः सुदर्शनपुरुष ध्यात्वा विविधोपचारैराराध्य प्रदक्षिणनमस्कारान्विधायोपासकस्तेनाभिपूजितस्तदनुज्ञात- श्चोपर्युपरि गत्वा परमानन्दमयानन्तवैकुण्ठानवलोक्योपासकः परमानन्दं प्राप । तत उपरि विविधविचित्रानन्तचिद्विलासविभूति- विशेषानतिक्रम्यानन्तपरमानन्दविभूतिसमष्टिविशेषानन्त- निरतिशयानन्तसमुद्रानतीत्योपासकः क्रमेणाद्वैतसंस्थानं प्राप ॥ कथमद्वैतसंस्थानम् । अखण्डानन्दस्वरूप- मनिर्वाच्यमतिबोधसागरममितानन्दसमुद्रं विजातीयविशेषविवर्जितं सजातीयविशेषविशेषितं निरवयवं निराधारं निर्विकारं निरञ्जनमनन्त- ब्रह्मानन्दसमष्टिकन्दं परमचिद्विलास- समष्ट्याकारं निर्मलं निरवद्यं निराश्रय- मतिनिर्मलानन्तकोटिरविप्रकाशैकस्फुलिङ्गमन- न्तोपनिषदर्थस्वरूपमखिलप्रमाणातीतं मनोवाचामगोचरं नित्यमुक्तस्वरूपमनाधार- मादिमध्यान्तशून्यं कैवल्यं परमं शान्तं सूक्ष्मतरं महतो महत्तरमपरिमितानन्दविशेषं शुद्धबोधानन्दविभूतिविशेषमनन्तानन्दविभूति- विशेषसमष्टिरूपमक्षरमनिर्देश्यं कूटस्थ- मचलं ध्रुवमदिग्देशकालमन्तर्बहिश्च तत्सर्वं व्याप्य परिपूर्णं परमयोगिभिर्विमृग्यं देशतः कालतो वस्तुतः परिच्छेदरहितं निरन्तराभिनवं नित्यपरिपूर्णमखण्डानन्दामृतविशेषं शाश्वतं परमं पदं निरतिशयानन्दानन्ततटित्पर्वताकार- मद्वितीयं स्वयम्प्रकाशमनिशं ज्वलति । परमानन्द- लक्षणापरिच्छिन्नानन्तपरंज्योतिः शाश्वतं शश्वद्विभाति । तदभ्यन्तरसंस्थानेऽमितानन्दचिद्रूपाचल- मखण्डपरमानन्दविशेषं बोधानन्दमहोज्ज्वलं नित्यमङ्गलमन्दिरं चिन्मथनाविर्भूतं चित्सारमनन्ताश्चर्यसागरममिततेजोराश्यन्तर्गत- तेजोविशेषमनन्तानन्दप्रवाहैरलङ्कृतं निरतिशयानन्दपारावाराकारं निरुपमनित्यनिरवद्य- निरतिशयनिरवधिकतेजोराशिविशेषं निरतिशयानन्द- सहस्रप्राकारैरलङ्कृतं शुद्धबोधसौधावलि- विशेषैरलङ्कृतं चिदानन्दमयानन्तदिव्यारामैः सुशोभितं शश्वदमितपुष्पवृष्टिभिः समन्ततः सन्ततम् । तदेव त्रिपाद्विभूति वैकुण्ठस्थानं तदेव परमकैवल्यम् । तदेवाबाधितपरमतत्त्वम् । तदेवानन्तो- पनिषद्विमृग्यम् । तदेव परमयोगिभिर्मुमुक्षिभिः सर्वैराशास्यमानम् । तदेव सद्घनम् । तदेव चिद्घनम् । तदेवानन्दघनम् । तदेव शुद्धबोधघनविशेष- मखण्डानन्दब्रह्मचैतन्याधिदेवतास्वरूपम् । सर्वाधिष्ठानमद्वयपरब्रह्मविहारमण्डलं निरतिशयानन्दतेजोमण्डलमद्वैतपरमानन्दलक्षण- परब्रह्मणः परमाधिष्ठानमण्डलं निरतिशय- परमानन्दपरममूर्तिविशेषमण्डलमनन्तपरम- मूर्तिसमष्टिमण्डलं निरतिशयपरमानन्दलक्षण- परब्रह्मणः परममूर्तिपरमतत्त्वविलासविशेषमण्डलं बोधानन्दमयानन्तपरमविलासविभूतिविशेषसमष्टि- मण्डलमनन्तचिद्विलासविभूतिविशेषसमष्टिमण्डल- मखण्डशुद्धचैतन्यनिजमूर्तिविशेषविग्रहं वाचामगोचरानन्तशुद्धबोधविशेषविग्रहमनन्तानन्द- समुद्रसमष्ट्याकारमनन्तबोधाचलैरधिष्ठितं निरतिशयानन्दपरममङ्गलविशेषसमष्ट्याकार- मखण्डाद्वैतपरमानन्दलक्षणपरब्रह्मणः परममूर्ति- परमतेजःपुञ्जपिण्डविशेषं चिद्रूपादित्यमण्डलं द्वात्रिंशद्व्यूहभेदैरधिष्ठितम् । व्यूहभेदाश्च केशवादिचतुर्विंशतिः । सुदर्शनादिन्यासमन्त्राः । सुदर्शनादि यन्त्रोद्धारः । अनन्तगरुडविश्वक्सेनाश्च निरतिशयानन्दाश्च । आनन्दव्यूहमध्ये सहस्रकोटियोजनायतोन्नत- चिन्मयप्रासादं ब्रह्मानन्दमयविमानकोटिभि- रतिमङ्गलमनन्तोपनिषदर्थारामजालसंकुलं सामहंसकूजितैरतिशोभितमानन्दमयानन्तशिखरै- रलङ्कृतं चिदानन्दरसनिर्झरैरभिव्याप्तमखण्डा- नन्दतेजोराश्यन्तरस्थितमनन्तानन्दाश्चर्यसागरं तदभ्यन्तरसंस्थानेऽनन्तकोटिरविप्रकाशातिशय- प्राकारं निरतिशयानन्दलक्षणं प्रणवाख्यं विमानं विराजते । शतकोटिशिखरैरानन्दमयैः समुज्ज्वलति । तदन्तराले बोधानन्दाचलोपर्यष्टाक्षरी- मण्टपो विभाति । तन्मध्ये च चिदानन्दमयवेदिकानन्द- वनविभूषिता । तदुपरि ज्वलति निरतिशयानन्दतेजोराशिः । तदभ्यन्तरसंस्थानेऽष्टाक्षरीपद्मविभूषितं चिन्मयासनं विराजते । प्रणवकर्णिकायां सूर्येन्दु- वह्निमण्डलानि चिन्मयानि ज्वलन्ति । तत्राखण्डानन्द- तेजोराश्यन्तर्गतं परममङ्गलाकारमनन्तासनं विराजते । तस्योपरि च महायन्त्रं प्रज्वलति । निरतिशय- ब्रह्मानन्दपरममूर्तिमहायन्त्रं समस्तब्रह्म- तेजोराशिसमष्टिरूपं चित्स्वरूपं निरञ्जनं परब्रह्म- स्वरूपं परब्रह्मणः परमरहस्यकैवल्यं महायन्त्रमय- परमवैकुण्ठनारायणयन्त्रं विजयते । तत्स्वरूपं कथमिति । देशिकस्तथेति होवाच । आदौ षट्कोणचक्रम् । तन्मध्ये षट्दलपद्मम् । तत्कर्णिकायां प्रणव ॐइति । प्रणवमध्ये नारायणबीजमिति । तत्साध्यगर्भितं मम सर्वाभीष्टसिद्धिं कुरुकुरु स्वाहेति । तत्पद्मदलेषु विष्णुनृसिंहषडक्षर- मन्त्रौ ॐ नमो विष्णवे ऐं क्लीं श्रीं ह्रीं क्ष्मौं फट् । तद्दलकपोलेषु रामकृष्णषडक्षरमन्त्रौ । रां रामाय नमः । क्लीं कृष्णाय नमः । षट्कोणेषु सुदर्शनषडक्षरमन्त्रः । सहस्रार हुं फडिति । षट्कोण- कपोलेषु प्रणवयुक्तशिवपञ्चाक्षरमन्त्रः । ॐ नमः शिवायेति । तद्बहिः प्रणवमालायुक्तं वृत्तम् । वृत्ताद्बहि- रष्टदलपद्मम् । तेषु दलेषु नारायणनृसिंह- अष्टाक्षरमन्त्रौ । ॐ नमो नारायणाय । जयजय नरसिंह । तद्दलसन्धिषु रामकृष्णश्रीकराष्टाक्षरमन्त्राः । ॐ रामाय हुं फट् स्वाहा । क्लीं दामोदराय नमः । उत्तिष्ठ श्रीकरस्वाहा । तद्बहिः प्रणवमालायुक्तं वृत्तम् । वृत्तद्बहिर्नवदलपद्मम् । तेषु दलेषु रामकृष्ण- हयग्रीवनवाक्षरमन्त्राः । ॐ रामचन्द्राय नमॐ । क्लीं कृष्णाय गोविन्दाय क्लीम् । ह्लौं हयग्रीवाय नमो ह्लौं । तद्दलकपोलेषु दक्षिणामूर्तिरीश्वरम् । तद्बहि- र्नारायणबीजयुक्तं वृत्तम् । वृत्तद्बहिर्दशदलपद्मम् । तेषु दलेषु रामकृष्णदशाक्षरमन्त्रौ । हुं जानकी- वल्लभाय स्वाहा । गोपीजनवल्लभाय स्वाहा । तद्दलसन्धिषु नृसिंहमालामन्त्रः । ॐ नमो भगवते श्रीमहानृसिंहाय करालदंष्ट्रवदनाय मम विघ्नात्पचपच स्वाहा । तद्बहिर्नृसिंहैकाक्षरयुक्तं वृत्तम् । क्ष्मौं इत्येकाक्षरम् । वृत्ताद्बहिर्द्वादशदलपद्मम् । तेषु दलेषु नारायण- वासुदेवद्वादशाक्षरमन्त्रौ । ॐ नमो भगवते नारायणाय । ॐ नमो भगवते वासुदेवाय । तद्दलकपोलेषु महाविष्णु- रामकृष्णद्वादशाक्षरमन्त्राश्च । ॐ नमो भगवते महाविष्णवे । ॐ ह्रीं भरताग्रज राम क्लीं स्वाहा । श्रीं ह्रीं क्लीं कृष्णाय गोविन्दाय नमः । तद्बहिर्जगन्मोहन- बीजयुक्तं वृत्तं क्लीं इति । वृत्तद्बहिश्चतुर्दशदलपद्मम् । तेषु दलेषु लक्ष्मीनारायणहयग्रीवगोपालदधिवामन- मन्त्राश्च । ॐ ह्रीं ह्रीं श्रीं श्रीं लक्ष्मीवासुदेवाय नमः । ॐ नमः सर्वकोटिसर्वविद्याराजाय क्लीं कृष्णाय गोपालचूडामणये स्वाहा । ॐ नमो भगवते दधिवामनाय ॐ । तद्दलसन्धिष्वन्नपूर्णेश्वरीमन्त्रः । ह्रीं पद्मावत्यन्नपूर्णे माहेश्वरी स्वाहा । तद्बहिः प्रणवमालायुक्तं वृत्तम् । वृत्ताद्बहिः षोडशदलपद्मम् । तेषु दलेषु श्रीकृष्ण- सुदर्शनषोडशाक्षरमन्त्रौ च । ॐ नमो भगवते रुक्मिणीवल्लभाय स्वाहा । ॐ नमो भगवते महासुदर्शनाय हुं फट् । तद्दलसन्धिषु स्वराः सुदर्शनमालामन्त्राश्च । अ आ इ ई उ ऊ ऋ ॠ लृ लॄ ए ऐ ओ औ अं अः । सुदर्शनमहाचक्राय दीप्तरूपाय सर्वतो मां रक्षरक्ष सहस्रार हुं फट् स्वाहा । तद्बहिर्वराहबीजयुक्तं वृत्तम् । तद्धुमिति । वृत्तद्बहिरष्टादशदलपद्मम् । तेषु दलेषु श्रीकृष्णवामनाष्टादशाक्षरमन्त्रौ । क्लीं कृष्णाय गोविन्दाय गोपीजनवल्लभाय स्वाहा । ॐ नमो विष्णवे सुरपतये महाबलाय स्वाहा । तद्दलकपोलेषु गरुडपञ्चाक्षरीमन्त्रो गरुडमालामन्त्रश्च । क्षिप ॐ स्वाहा । ॐ नमः पक्षिराजाय सर्वविषभूतरक्षः- कृत्यादिभेदनाय सर्वेष्टसाधकाय स्वाहा । तद्बहिर्मायाबीजयुक्तं वृत्तम् । वृत्तद्बहिः पुनरष्टदलपद्मम् । तेषु दलेषु श्रीकृष्णवामनाष्टाक्षरमन्त्रौ । ॐ नमो दामोदराय । ॐ वामनाय नमः ॐ । तद्दलकपोलेषु नीलकण्ठत्र्यक्षरीगरुडपञ्चाक्षरीमन्त्रौ च । प्रें रीं ठः । नमोऽण्डजाय । तद्बहिर्मन्मथबीजयुक्तं वृत्तम् । वृत्तद्बहिश्चतुर्विंशतिदलपद्मम् । तेषु दलेषु शरणागत- नारायणमन्त्रौ नारायणहयग्रीवगायत्री मन्त्रौ च । श्रीमन्नारायणचरणौ शरणं प्रपद्ये श्रीमते नारायणाय नमः । नारायाणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् । वागीश्वराय विद्महे हयग्रीवाय धीमहि । तन्नो हंसः प्रचोदयात् । तद्दलकपोलेषु नृसिंहसुदर्शनगायत्रीमन्त्राश्च । वज्रनखाय विद्महे तीक्ष्णदंष्ट्राय धीमहि । तन्नो नृसिंहः प्रचोदयात् । सुदर्शनाय विद्महे हेतिराजाय धीमहि । तन्नश्चक्रः प्रचोदयात् । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । तद्बहिर्हयग्रीवैकाक्षरयुक्तं वृत्तं ह्लोह्सौमिति । वृत्ताद्बहिर्द्वात्रिंशद्दलपद्मम् । तेषु दलेषु नृसिंहहयग्रीवानुष्टुभमन्त्रौ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् । ऋग्यजुःसामरूपाय वेदाहरणकर्मणे । प्रणवोद्गीथवपुषे महाश्वशिरसे नमः । तद्दलकपोलेषु रामकृष्णानुष्टुभमन्त्रौ । रामभद्र महेश्वास रघुवीर नृपोत्तम । भो दशास्यान्तकास्माकं रक्षां देहि श्रियं च मे । देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः । तद्बहिः प्रणवसम्पुटिताग्निबीजयुक्तं वृत्तम् । ॐ रमोमिति । वृत्तद्बहिः षट्त्रिंशद्दलपद्मम् । तेषु दलेषु हयग्रीवषट्त्रिंशदक्षरमन्त्रः पुनरष्टत्रिंशदक्षर मन्त्रश्च । हंसः । विश्वोत्तीर्णस्वरूपाय चिन्मयानन्दरूपिणे । तुभ्यं नमो हयग्रीव विद्याराजाय विष्णवे । सोऽहम् । ह्लौं ॐ नमो भगवते हयग्रीवाय सर्ववागीश्वरेश्वराय सर्ववेदमयाय सर्वविद्यां मे देहि स्वाहा । तद्दलकपोलेषु प्रणवादिनमोन्ताश्च तुर्थ्यन्ताः केशवादिचतुर्विंशतिमन्त्राश्च । अवशिष्टद्वादशस्थानेषु रामकृष्णगायत्रीद्वयवर्णचतुष्टयमेकैकस्थले । ॐ केशवाय नमः । ॐ नारायणाय नमः । ॐ माधवाय नमः । ॐ गोविन्दाय नमः । ॐ विष्णवे नमः । ॐ मधुसूदनाय नमः । ॐ त्रिविक्रमाय नमः । ॐ वामनाय नमः । ॐ श्रीधराय नमः । ॐ हृषीकेशाय नमः । ॐ पद्मनाभाय नमः । ॐ दामोदराय नमः । ॐ सङ्कर्षणाय नमः । ॐ वासुदेवाय नमः । ॐ प्रद्युम्नाय नमः । ॐ अनिरुद्धाय नमः । ॐ पुरुषोत्तमाय नमः । ॐ अधोक्षजाय नमः । ॐ नारसिंहाय नमः । ॐ अच्युताय नमः । ॐ जनार्दनाय नमः । ॐ उपेन्द्राय नमः । ॐ हरये नमः । ॐ श्रीकृष्णाय नमः । दाशरथाय विद्महे सीतावल्लभाय धीमहि । तन्नो रामः प्रचोदयात् । दामोदराय विद्महे वासुदेवाय धीमहि । तन्नः कृष्णः प्रचोदयात् । तद्बहिः प्रणवसम्पुटिताङ्कुशबीजयुक्तं वृत्तम् । ॐ क्रोमिति । तद्बहिः पुनर्वृत्तं तन्मध्ये द्वादशकुक्षिस्थानानि सान्तरालानि । तेषु कौस्तुभवनमालाश्रीवत्ससुदर्शनगरुडपद्म- ध्वजानन्तशार्ङ्गगदाशङ्खनन्दकमन्त्राः प्रणवादि- नमओन्ताश्चतुर्थ्यन्ताः क्रमेण । ॐ कौस्तुभाय नमः । ॐ वनमालाय नमः । ॐ श्रीवत्साय नमः । ॐ सुदर्शनाय नमः । ॐ गरुडाय नमः । ॐ पद्माय नमः । ॐ ध्वजाय नमः । ॐ अनन्ताय नमः । ॐ शार्ङ्गाय नमः । ॐ गदायै नमः । ॐ शङ्खाय नमः । ॐ नन्दकाय नमः । तदन्तरालेषु----ॐ विश्वक्सेनाय नमः । ॐआचक्राय स्वाहा । ॐ विचक्राय स्वाहा । ॐ सुचक्राय स्वाहा । ॐ धीचक्राय स्वाहा । ॐ संचक्राय स्वाहा । ॐ ज्वालचक्राय स्वाहा । ॐ क्रुद्धोल्काय स्वाहा । ॐ महोत्काय स्वाहा । ॐ वीर्योल्काय स्वाहा । ॐ द्युल्काय स्वाहा । ॐ सहस्रोल्काय स्वाहा । इति प्रणवादि मन्त्राः । तद्बहिः प्रणवसम्पुटितगरुडपञ्चाक्षरयुक्तं वृत्तम् । ॐ क्षिप ॐ स्वाहाम् । ॐ तच्च द्वादशवज्रैः सान्तरालैरलङ्कृतम् । तेषु वज्रेषु ॐ पद्मनिधये नमः । ॐ महापद्मनिधये नमः । ॐ गरुडनिधये नमः । शङ्खनिधये नमः । ॐ मकरनिधये नमः । ॐ कच्छपनिधये नमः । ॐ विद्यानिधये नमः । ॐ परमानन्दनिधये नमः । ॐ मोक्षनिधये नमः । ॐ लक्ष्मीनिधये नमः । ॐ ब्रह्मनिधये नमः । ॐ श्रीमुकुन्दनिधये नमः । ॐ वैकुण्ठनिधये नमः । तत्सन्धिस्थानेषु---- ॐ विद्याकल्पकतरवे नमः । ॐ मुक्तिकल्पकतरवे नमः । ॐ आनन्दकल्पकतरवे नमः । ॐ ब्रह्मकल्पकतरवे नमः । ॐ मुक्तिकल्पकतरवे नमः । ॐ अमृतकल्पकतरवे नमः । ॐ बोधकल्पकतरवे नमः । ॐ विभूतिकल्पकतरवे नमः । ॐ वैकुण्ठकल्पकतरवे नमः । ॐ वेदकल्पकतरवे नमः । ॐ योगकल्पकतरवे नमः । ॐ यज्ञकल्पकतरवे नमः । ॐ पद्मकल्पकतरवे नमः । तच्च शिवगायत्रीपरब्रह्ममन्त्राणां वर्णैर्वृत्ताकारेण संवेष्ट्य । तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् । श्रिअमन्नारायणो ज्योतिरात्मा नारायणः परः । नारायणपरं ब्रह्म नारायण नमोस्तु ते । तद्बहिः प्रणवसम्पुटितश्रीबीजयुक्तं वृत्तम् । ॐ श्रीमोमिति । वृत्ताद्बहिश्चत्वारिंशद्दलपद्मम् । तेषु दलेषु व्याहृतिशिरःसम्पुटितवेदगायत्री- पादचतुष्टयसूर्याष्टाक्षरमन्त्रौ । ॐ भूः । ॐ भुवः । ॐ सुवः । ॐ महः । ॐ जनः । ॐ तपः । ॐ सत्यम् । ॐ तत्सवितुर्वरेण्यम् । ॐ भर्गो देवस्य धीमहि । ॐ धियो यो नः प्रचोदयात् । ॐ परोरजसे सावदोम् । ॐ आपोज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोम् । ॐ घृणिः सूर्य आदित्यः । तद्दलसन्धिषु प्रणवश्रीबीजसम्पुटितनारायणबीजं सर्वत्र । ॐ श्रीमं श्रीमोम् । तद्बहिरष्टशूलाङ्कितभूचक्रम् । चक्रान्तश्चक्षुर्दिक्षु हंसःसोहम्मन्त्रौ प्रणवसम्पुटिता नारायणास्त्रमन्त्राश्च । ॐ हंसः सोहम् । ॐ नमो नारायणाय हुं फट् । तद्बहिः प्रणवमालासंयुक्तं वृत्तम् । वृत्ताद्बहिः पञ्चाशद्दलपद्मम् । तेषु दलेषु मातृका पञ्चाशदक्षरमाला लकारवर्ज्या । तद्दलसन्धिषु प्रणवश्रीबीजसम्पुटितरामकृष्णमालामन्त्रौ । ॐ श्रीमों नमो भगवते रघुनन्दनाय रक्षोघ्नविशदाय मधुरप्रसन्नवदनायामिततेजसे बलाय रामाय विष्णवे नमः । श्रीमों नमः कृष्णाय देवकीपुत्राय वासुदेवाय निर्गलच्छेदनाय सर्वलोकाधिपतये सर्वजगन्मोहनाय विष्णवे कामितार्थदाय स्वाहा श्रीमोम् । तद्बहिरष्टशूलाङ्कितभूचक्रम् । तेषु प्रणवसम्पुटितमहानीलकण्ठमन्त्रवर्णानि । आऊम्मों नमो नीलकण्ठाय । ॐ शूलाग्रेषु लोकपालमन्त्राः प्रणवादिनमोन्ताश्चतुर्थ्यन्ताः क्रमेण । ॐ इन्द्राय नमः । ॐ अग्नये नमः । ॐ यमाय नमः । ॐ निरृतये नमः । ॐ वरुणाय नमः । ॐ वायवे नमः । ॐ सोमाय नमः । ॐ ईशानाय नमः । तद्बहिः प्रणवमालायुक्तं वृत्तत्रयम् । तद्बहिर्भूपुरचतुष्टयं चतुर्द्वारयुतं चक्रकोणचतुष्टयमहावज्रविभूषितं तेषु वज्रेषु प्रणवश्रीबीजसम्पुटितामृतबीजद्वयम् । ॐ श्रीं ठं वं श्रीमोमिति । बहिर्भूपुरवीथ्याम् ---- ॐ आधारशक्त्यै नमः । ॐ मूलप्रकृत्यै नमः । ॐ आदिकूर्माय नमः । ॐ अनन्ताय नमः । ॐ पृथिव्यै नमः । मध्यभूपुरवीथ्याम् ---- ॐ क्षीरसमुद्राय नमः । ॐ रत्नद्वीपाय नमः । ॐ मणिमण्डपाय नमः । ॐ श्वेतच्छत्राय नमः । ॐ कल्पकवृक्षाय नमः । ॐ रत्नसिंहासनाय नमः । प्रथमभूपुरवीथ्यामों धर्मज्ञानवैराग्यैश्व- र्याधर्माज्ञानावैराग्यानैश्वर्यसत्वरजस्तमोमाया- विद्यानन्तपद्माः प्रणवादिनमोन्ताश्चतुर्थ्यन्ताः क्रमेण । अन्तवृत्तवीथ्यामोमनुग्रहायै नमः । ॐ नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाय सर्वात्मसंयोग- योगपीठात्मने नमः । वृत्तवकाशेषु----बीजं प्राणं च शक्तिं च दृष्टिं वश्यादिकं तथा । मन्त्रयन्त्राख्यगायत्रीप्राणस्थापनमेव च । भूतदिक्पालबीजानि यन्त्रस्याङ्गानि वै दश । मूलमन्त्रमालामन्त्रकवचदिग्बन्धनमन्त्राश्च । एवंविधमेतद्यन्त्रं महामन्त्रमयं योगधीरान्तैः परमन्त्रैरलङ्कृतं षोडशोपचारैरभ्यर्चितं जपहोमादिना साधितमेतद्यन्त्रं शुद्धब्रह्मतेजोमयं सर्वाभयङ्करं समस्तदुरितक्षयकरं सर्वाभीष्ट- सम्पादकं सायुज्यमुक्तिप्रदमेतत्परमवैकुण्ठ- महानारायणयन्त्रं प्रज्वलति । तस्योपरि च निरतिशयानन्द- तेजोराश्यभ्यन्तरसमासीनं वाचामगोचरानन्द- तेजोराश्याकारं चित्साराविर्भूतानन्दविग्रहं बोधानन्द- स्वरूपं निरतिशयसौन्दर्यपारावारं तुरीयस्वरूपं तुरीयातीतं चाद्वैतपरमानन्दनिरन्तरातितुरीयनिरतिशय- सौन्दर्यानन्दपारावारं लावण्यवाहिनीकल्लोलतटिद्भासुरं दिव्यमङ्गलविग्रहं मूर्तिमद्भिः परममङ्गलैरुपसेव्यमानं चिदानन्दमयैरनन्तकोटिरविप्रकाशैरनन्तभूषणैरलङ्कृतं सुदर्शनपाञ्चजन्यपद्मगदासिशार्ङ्गमुसलपरिघाद्यै- श्चिन्मयैरनेकायुधगणैर्मूर्तिमद्भिः सुसेवितम् । बाह्यवृत्तवीथ्यां विमलोत्कर्षिणी ज्ञान क्रिया योग प्रह्वी सत्येशाना प्रणवादिनमोन्ताश्चतुर्थ्यन्ताः क्रमेण । श्रीवत्सकौस्तुभवनमालाङ्कितवक्षसं ब्रह्मकल्पवनामृत- पुष्पवृष्टिभिः सन्ततमानन्दं ब्रह्मानन्दरसनिर्भरै- रसंख्यैरतिमङ्गलं शेषायुतफणाजालविपुलच्छत्रशोभितं तत्फणामण्डलोदर्चिर्मणिद्योतितविग्रहं तदङ्गकान्तिनिर्झरैस्ततं निरतिशयब्रह्मगन्धस्वरूपं निरतिशयानन्दब्रह्मगन्ध- विशेषकारमनन्तब्रह्मगन्धाकारसमष्टिविशेषमन्तानन्द- तुलसीमाल्यैरभिनवं चिदानन्दमयानन्तपुष्पमाल्यैर्विराजमानं तेजःप्रवाहतरङ्गतत्परम्पराभिर्ज्वलन्तं निरतिशयानन्दं कान्तिविशेषावर्तैरभितोऽनिशं प्रज्वलन्तं बोधानन्दमयानन्त- धूपदीपावलिनिरतिशोभितं निरतिशयानन्दचामरविशेषैः परिसेवितं निरन्तरनिरुपमनिरतिशयोत्कटज्ञानानन्दानन्तगुच्छ- फलैरलङ्कृतं चिन्मयानन्ददिव्यविमानच्छत्रध्वजराजिभि- र्विराजमानं परममङ्गलानन्तदिव्यतेजोभिर्ज्वलन्तमनिशं वाचामगोचरमनन्ततेजोराश्यन्तर्गतमर्धमात्रात्मकं तुर्यं ध्वन्यात्मकं तुरीयातीतमवाच्यं नादबिन्दुकलाध्यात्म- स्वरूपं चेत्याद्यनन्ताकारेणावस्थितं निर्गुणं निष्क्रियं निर्मलं निरवद्यं निरञ्जनं निराकारं निराश्रयं निरतिशयाद्वैत- परमानन्दलक्षणमादिनारायणं ध्यायेदित्युपनिषत् ॥ इत्याथर्वणमहानारायणोपनिषदि परममोक्षस्वरूप- निरूपणद्वारा त्रिपाद्विभूतिपरमवैकुण्ठमहानारायण- यन्त्रस्वरूपनिरूपणं नाम सप्तमोऽध्यायः ॥ ७॥ ततः पितामहः परिपृच्छति भगवन्तं महाविष्णुं भगवञ्छुद्धाद्वैतपरमानन्दलक्षणपरब्रह्मणस्तव कथं विरुद्धवैकुण्ठप्रासादप्राकारविमानाद्यनन्तवस्तुभेदः । सत्यमेवोक्तमिति भगवान्महाविष्णुः परिहरति । यथा शुद्धसुवर्णस्य कटकमुकुटाङ्गदादिभेदः । यथा समुद्रसलिलस्य स्थूलसूक्ष्मतरङ्गफेनबुद्बुअदकरलवण- पाषाणाद्यनन्तवस्तुभेदः । यथा भूमेः पर्वतवृक्ष- तृणगुल्मलताद्यनन्तवस्तुभेदः । तथैवाद्वैतपरमानन्द- लक्षणपरब्रह्मणो मम सर्वाद्वैतमुपपन्नं भवत्येव । मत्स्वरूपमेव सर्वं मद्व्यतिरिक्तमणुमात्रं न विद्यते । पुनः पितामहः परिपृच्छति । भगवन् परमवैकुण्ठ एव परममोक्षः । परममोक्षस्त्वेक एव श्रूयते सर्वत्र । कथमनन्तवैकुण्ठाश्चानन्तानन्दसमुद्रादयश्चानन्त- मूर्तयः सन्तीति । तथेति होवाच भगवान्महाविष्णुः । एकस्मिन्नविद्यापादेऽनन्तकोटिब्रह्माण्डानि सावरणानि श्रूयन्ते । तस्मिन्नेकस्मिन्नण्डे बहवो लोकाश्च बहवो वैकुण्ठाश्चानन्त- विभूतयश्च सन्त्येव । सर्वाण्डेष्वानन्तलोकाश्चानन्त- वैकुण्ठाः सन्तीति सर्वेषां खल्वभिमतम् । पादत्रयेऽपि किं वक्तव्यं निरतिशयानन्दाविर्भावो मोक्ष इति मोक्षलक्षणं पादत्रये वर्तते । तस्मात्पादत्रयं परममोक्षः । पादत्रयं परमवैकुण्ठः । पादत्रयं परमकैवल्यमिति । ततः शुद्धचिदानन्दब्रह्मविलासानन्दाश्चानन्तपरमानन्द- विभूतयश्चानन्तवैकुण्ठाश्चानन्तपरमानन्दसमुद्रादयः सन्त्येव । उपासकस्ततोऽभ्येत्यैवंविधं नारायणं ध्यात्वा प्रदक्षिणनमस्कारान्विधाय विविधोपचारैरभ्यर्च्य निरतिशयाद्वैतपरमानन्दलक्षणो भूत्वा तदग्रे सावधानेनो- पविश्याद्वैतयोगमास्थाय सर्वाद्वैतपरमानन्दलक्षणा- खण्डामिततेजोराश्याकारं विभाव्योपासकः स्वयं शुद्ध- बोधानन्दमयामृतनिरतिशयानन्दतेजोराश्याकारो भूत्वा महावाक्यार्थमनुस्मरन् ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि योऽहमस्मि ब्रह्माहमस्मि अहमेवाहं मां जुहोमि स्वाहा । अहं ब्रह्मेति भावनया यथा परमतेजोमहानदी- प्रवाहपरमतेजःपारावाए प्रविशति । यथा परमतेजःपारावार- तरङ्गाः परमतेजःपारावारे प्रविशन्ति । तथैव सच्चिदान- न्दात्मोपासकः सर्वपरिपूर्णाद्वैतपरमानन्दलक्षणे परब्रह्मणि नारायणे मयि सच्चिदात्मकोऽहमजोऽहं परिपूर्णोऽहमस्मीति प्रविवेश । तत उपासको निस्तरङ्गाद्वैतापारनिरतिशयसच्चिदानन्द समुद्रो बभूव । यस्त्वनेन मार्गेण सम्यगाचरति स नारायणो भवत्यसंशयमेव । अनेन मार्गेण सर्वे मुनयः सिद्धिं गताः । असंख्याताः परमयोगिनश्च सिद्धिं गताः । ततः शिष्यो गुरुं परिपृच्छति । भगवन्त्सालम्ब- निरालम्बयोगौ कथमिति ब्रूहीति । सालम्बस्तु समस्तकर्माति- दूरतया करचरणादिमूर्तिविशिष्टं मण्डलाद्यालम्बनं सालम्बयोगः । निरालम्बस्तु समस्तनामरूपकर्मातिदूरतया सर्वकामाद्यन्तःकरणवृत्तिसाक्षितया तदालम्बनशून्यतया च भावनं निरालम्बयोगः । अथ च निरालम्बयोगाधिकारी कीदृशो भवति । अमानित्वादिलक्षणोपलक्षितो वः पुरुषः स एव निरालम्बयोगाधिकारी कार्यः कश्चिदस्ति । तस्मात्सर्वेषा- मधिकारिणामनधिकारिणां भक्तियोग एव प्रशस्यते । भक्तियोगो निरुपद्रवः । भक्तियोगान्मुक्तिः । बुद्धिमतामनायासेनाचिरादेव तत्त्वज्ञानं भवति । तत्कथमिति । भक्तवत्सलः स्वयमेव सर्वेभ्यो मोक्षविघ्नेभ्यो भक्तिनिष्ठान्सर्वान्परिपालयति । सर्वाभीष्टा- न्प्रयच्छति । मोक्षं दापयति । चतुर्मुखादीनां सर्वेषामपि विना विष्णुभक्त्या कल्पकोटिभिर्मोक्षो न विद्यते । कारणेन विना कार्यं नोदेति । भक्त्या विना ब्रह्मज्ञानं कदापि न जायते । तस्मात्त्वमपि सर्वोपायान्परित्यज्य भक्तिमाश्रय । भक्तिनिष्ठो भव । भक्तिनिष्ठो भव । भक्त्या सर्वसिद्धयः सिध्यन्ति । भक्त्याऽसाध्यं न किंचिदस्ति । एवंविधं गुरूपदेशमाकर्ण्य सर्वं परमतत्त्वरहस्यमवबुध्य सर्वसंशयान्विधूय क्षिप्रमेव मोक्षं साधयामीति निश्चित्य ततः शिष्यः समुत्थाय प्रदक्षिणनमस्कारं कृत्वा गुरुभ्यो गुरुपूजां विधाय गुर्वनुज्ञया क्रमेण भक्तिनिष्ठो भूत्वा भक्त्यतिशयेन पक्वं विज्ञानं प्राप्य तस्मादनायासेन शिष्यः क्षिप्रमेव साक्षान्नारायणो बभूवेत्युपनिषत् ॥ ततः प्रोवाचत् भगवान् महाविष्णुश्चतुर्मुखमवलोक्य ब्रह्मन् परमतत्त्वरहस्यं ते सर्वं कथितम् । तत्स्मरण- मात्रेण मोक्षो भवति । तदनुष्ठानेन सर्वमविदितं विदितं भवति । यत्स्वरूपज्ञानिनः सर्वमविदितं विदितं भवति । तत्सर्वं परमरहस्यं कथितम् । गुरुः क इति । गुरुः साक्षादादिनारायणः पुरुषः । स आदिनारायणोऽहमेव । तस्मान्मामेकं शरणं व्रज । मद्भक्तिनिष्ठो भव । मदीयोपासनां कुरु । मामेव प्राप्स्यसि । मद्व्यतिरिक्तं सर्वं बाधितम् । मद्व्यतिरिक्तमबाधितं न किंचिदस्ति । निरतिशयानन्दाद्वितीयोऽहमेव । सर्वपरिपूर्णोऽहमेव । सर्वाश्रयोऽहमेव । वाचामगोचरनिराकारपरब्रह्मस्वरूपोऽहमेव । मद्व्यतिरिक्तमणुमात्रं न विद्यते । इत्येवं महाविष्णोः परमिममुपदेशं लब्ध्वा पितामहः परमानन्दं प्राप । विष्णोः कराभिमर्शनेन दिव्यज्ञानं प्राप्य पितामहस्ततः समुत्थाय प्रदक्षिणनमस्कारा- न्विधाय विविधोपचारैर्महाविष्णुं प्रपूज्य प्राञ्जलिर्भूत्वा विनयेनोपसंगम्य भगवन् भक्तिनिष्ठां मे प्रयच्छ । त्वदभिन्नं मां परिपालय कृपालय । तथैव साधुसाध्विति साधुप्रशंसापूर्वकं महाविष्णुः प्रोवाच । मदुपासकः सर्वोत्कृष्टः स भवति । मदुपासनया सर्वमङ्गलानि भवन्ति । मदुपासनया सर्वं जयति । मदुपासकः सर्ववन्द्यो भवति । मदीयोपासकस्यासाध्यं न किंचिदस्ति । सर्वे बन्धाः प्रविनश्यन्ति । सद्वृत्तमिव सर्वे देवास्तं सेवन्ते । महाश्रेयांसि च सेवन्ते । मदुपासकस्तस्मान्निरतिशया- द्वैतपरमानन्दलक्षणपरब्रह्म भवति । यस्तु परमतत्त्व- रहस्याथर्वणमहानारायणोपनिषदमधीते सर्वेभ्यः पापेभ्यो मुक्तो भवति । ज्ञानाज्ञानकृतेभ्यः पातकेभ्यो मुक्तो भवति । महापातकेभ्यः पूतो भवति । रहस्यकृत- प्रकाशकृतचिरकालात्यन्तकृतेभ्यस्तेभ्यः सर्वेभ्यः पापेभ्यो मुक्तो भवति । स सकललोकाञ्जयति । स सकलमन्त्र- जपनिष्ठो भवति । स सकलवेदान्तरहस्याधिगतपरमार्थज्ञो भवति । स सकलभोगभुग्भवति । स सकलयोगविद्भवति । स सकल- जगत्परिपालको भवति । सोऽद्वैतपरमानन्दलक्षणं परब्रह्म भवति । इदं परमतत्त्वरहस्यं न वाच्यं गुरुभक्तिविहीनाय । न चाशुश्रूषवे वाच्यम् । न तपोविहीनाय नास्तिकाय । न दाम्भिकाय मद्भक्तिविहीनाय । मात्सर्याङ्किततनवे न वाच्यम् । न वाच्यं मदसूयापराय कृतघ्नाय । इदं परमरहस्यं यो मद्भक्तेष्वभिधास्यति । मद्भक्तिनिष्ठो भूत्वा मामेव प्राप्स्यति । आवयोर्य इमं संवादमध्येष्यति । स नरो ब्रह्मनिष्ठो भवति । श्रद्धावाननसूयुः श्रुणुया- त्पठति वा य इमं संवादमावयोः स पुरुषो मत्सायुज्यमेति । ततो महाविष्णुस्तिरोदधे । ततो ब्रह्मा स्वस्थानं जगामेत्युपनिषत् ॥ इत्याथर्वणमहानारायणोपनिषदि परमसायुज्यमुक्ति- स्वरूपनिरूपणं नामाष्टमोऽध्यायः ॥ ८॥ इति त्रिपाद्विभूतिमहानारायणोपनिषत्समाप्ता ॥ Encoded by Sunder Hattangadi (sunderh at hotmail.com)
% Text title            : TripadvibhuMahanarayana Upanishad
% File name             : tripadvibhu.itx
% itxtitle              : tripAdvibhUtimahAnArAyaNopaniShat
% engtitle              : Tripad-Vibhuti-MahanArayana Upanishad
% Category              : upanishhat, svara
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Texttype              : svara
% Author                : Vedic tradition
% Language              : Sanskrit
% Subject               : philosophy/hinduism/
% Transliterated by     : Sunder Hattangadi (sunderh at hotmail.com)
% Proofread by          : Sunder Hattangadi (sunderh at hotmail.com)
% Description-comments  :  52 / 108; Atharva Veda - Vaishnava upanishad
% Latest update         : May  09, 2000, November 9, 2014
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Home Home Sitemap Sanskrit Links Blog Contributors Support GuestBook FAQ Search

BACK TO TOP