वास्तुसूत्रोपनिषत् सव्याख्या

वास्तुसूत्रोपनिषत् सव्याख्या

अथ अथर्ववेदीय वास्तुसूत्रोपनिषद् ।

प्रथमः प्रपाठकः

षट्शिल्पविचारः आथर्वणाङ्गिरस (१) - शिल्पकाश्यपो (२) होवाच पिप्पलादमहामतिम् । षोडशतापिनीमध्ये (३) वास्तुस्थापकविद्येयम् (४) । य एनां वेद । आथर्वणीये होतोद्गातृभिः शिल्पश्रोतृभिः वास्तोष्पतिर्ज्ञेय इति (५) ॥ १॥ स विश्वकर्मा देवता । तस्य विद्या षट्शिल्पविचारः (६) । केषां शिल्पकारा उपपादयन्ति केषां शिल्पकर्मादय उपजायन्ते, कतिविधानीति तान् ह स आङ्गिरसादीन् निरीक्षमाणान् ( निर्यक्ष्यमाणान्) पिप्पलादो वव्रे । स ह कुवित्सोवलभुजोत्तोलकः, (७) शिल्पकाश्यपः प्रणिधाय यथाकामं पृच्छामीति । को वास्तोष्पतिर्विश्वकर्मा (८), तस्मै होवाच, मन्ये वयं वेदसदस्या ज्ञापयिष्यसीति (ज्ञापयिष्यामो) । पिप्पलादो होवाच - ये वै के चास्मिंल्लोके प्रयान्ति ज्ञानमेव ते सर्वे कामयन्ते । षट्शिल्पाङ्गप्रयोगेण प्रजनयन्ति रूपाणि (९) ॥ २॥ रूपं शैलेन (१०) खादिरेण, एवं रूपज्ञानञ्च लोके । वेदे रूपं रूपं प्रतिरूपं भवतीति विशेषः । तज्ज्ञानं दिव्यज्ञानञ्च । यूप (११) इदं ज्योतिः ॥ ३॥ स हि यूपः खादिरेण शैलेन वा वैताने (१२) उक्तम् । वृत्तं हि यूपमूर्धन्यं स विश्वमिति यूपदण्डादौ । कर्माणि समरूपाणि समरेखायां स यूपस्तम्भो यूपदण्डः । तत् संयोगेन यूपो भवति तज्ज्ञानं विज्ञापयति य एवं वेद स हि विश्वकर्मा शिल्पाधिदैवतम् (१३) । य एवं जानाति स पुरश्रेष्ठः । वृत्तज्ञानं रेखाज्ञानं च यो जानाति स स्थापकः ॥ ४॥ खादिरदण्डहस्तो दर्भरज्जुकरः, तद् रज्जुवलयवेष्टितमिदं तस्य रूपं तज्ज्ञानञ्च शिल्पज्ञानम् । तद्ज्ञानात् ( तच्छिल्पज्ञानात्) दिव्यज्ञानं भवति ( प्रभवति), तद्ज्ञानात् मोक्षः, स हि मधुः (१४), य एवं वेद । शिल्पात् प्रतिमा (१५) जायन्ते ॥ ५॥ प्रतिमायाः श्रद्धा सञ्चरति, श्रद्धातो निष्ठा, ततश्च ज्ञानम्, तस्मान्मोक्षो भवतीति पञ्च वास्तुसोपानानि, य एवं वेद । आथर्वणीये सर्वानुभूतिरित्यनुशासनम् । अथ शिल्पकाश्यपाथर्वणाङ्गिरसकुवित्सा (१६) दयो होद्गीथे (१७) कुशला बभूवुः । वास्तुषडङ्गकथां यथामति ब्रूहीति प्रोचुः पिप्पलादमिति । तथेति समुपदिदिक्षुः । स प्रवहणः शिल्पसूत्राध्यायं स्थापकविद्यां चावदत् ॥ ६॥ सा विद्या श्रेष्ठा, प्रजापतेश्चाग्रा । प्रजापतेर्नारदः, नारदान्मयः, मयाद् वैश्रवणः (१८), वैश्रवणात् पिप्पलादः । श्रोष्यामीति । एषामुन्मेषः सत्यम् । होवाचाङ्गिरसस्त्वो पृच्छामीति । पृच्छेति होवाच । केन प्रतिमा सम्भवति । कथं रूपं रूपं प्रतिरूपाणि लोके सम्भवन्ति । नाहं प्रभो पश्यामीति । स प्राजापत्यमार्गेण पिप्पलाद उवाच । भव त्वं शान्तहृदयः आङ्गिरस, मर्त्त्ये वा इदं सदासीत् श्रेष्ठयजने । अपां यो अग्रे प्रतिमा बभूव प्रभूः सर्वस्मै पृथिवीव देवी । पिता वत्सानां पतिरघ्न्यानां साहस्रे पोषे अपि नः कृणोतु ॥ इति मन्त्रेण (१९) तृप्त्यर्थमुपासत इति भावः । यजनोपासने च । शरीरमूर्तिरहिते मन आवेश्य विशेषेण विकल्पिदोषयुक्त्तं भवति ॥ ७॥ इति । रूपात् क्रमेण (प्रतिमा), प्रतिमायास्तत्त्वबोधो जायते । तत्त्वबोधाद् धारणेति । धारणाया गाथा, कथा प्रसरति लोके । गाथाया रूपाण्युत्पादयन्ति स्थापकाः । तस्मै होवाच रूपकलनार्थं कारुसाधनार्थं विशेषः । वास्तु षडङ्गमिति श्रेष्ठम् ॥ ८॥ शैलं खिलपञ्जरं (२०) कीलेन पञ्जराकृतिकोष्ठका रेखावासः (कीर्त्त्यावासः) तदा रूपाङ्गानि मर्माण्याश्रयन्ते तच्छैलभेदनम् । अङ्गप्रयोगः; न्यासभावनासम्बन्धप्रबोधनं इति । होवाच आङ्गिरसः- कथं विकाशेन रूपवास्तुषडङ्गं शिल्पं संसिद्धं भवति । भगवतस्तस्यैव मे कामं ब्रूयात् । श्रुत्वाह, येनैवं मे स्थापकविद्या प्रपातिनी समावर्त्तते (समावर्त्तने) । स हि षडङ्गक्रममाह । (शैलम्) षड्धा शैलं ज्ञेयम् ॥ ९॥ शिला तद्देशे लोकज्ञाने षड्धा प्रथिता । हिरण्यरेखिका, समवर्णा, ताम्रा, धातुपुटिता, बज्रलब्धा, सैकतालिकेति । यदा हिरण्यरेखा कुटिला सोऽवलक्षणः । सा प्रतिमार्थं हीना विरूपं प्रददाति । तद्दर्शनेन विकल्पभावो प्रभवति । दर्शनादेता अर्थहीना उच्यन्ते, वदन्ति, भवन्तीति । एतदर्थं प्रतिमावैलक्षण्यं भवति । यदा पूर्णशैलमेकवर्णं कृष्णं कृष्णपिङ्गलं हारिद्रं वा मुख्य प्रतिमार्थं ध्येयं सा समवर्णा । कठिनतमगाढपिङ्गलशिला न ध्येया । यदा शैलं भित्त्याकृतेरपृथक् प्रतिमाशालार्थं (२१) तद् ध्येयम् । शैलं पृथक्त्वेन हीनं भवति । यत्र केवलं लीलाविग्रहा निवसन्ति भित्त्यङ्गे, इति । शिला धातुपुटिता धूमवर्णा व्रणोपेतारूपार्थं घोरेति । शैलान्तरे स्तराभ्यन्तरे कोमलरसबद्धा रेखाः सन्ति याः पीतप्रभाः सदाऽधमा भवन्ति श्रेष्ठैः शिल्पकारैः । सैकतालिकशिला यूपयोनिमिथुनस्तम्भ (२२) वृषस्तम्भकुण्डार्थं विशिष्टा, न रूपार्थं ग्राह्या, तज्ज्ञानलब्धस्थापकाः समुपतिष्ठन्ति जनलोके सम्पन्ना महीयन्ते । शैलादङ्गरागज्ञानं प्रसरति ॥ १०॥ सर्वेषु लोकेषु कामचारो भवति । इति आथर्वणीये वाक्कायमनोमार्गेण पिप्पलादकल्पे वास्तुसूत्रसम्प्रदानमिति चर्चाक्षेण मुनिहोतारोपनिधानेन शैलषडङ्गज्ञाननाम प्रथमप्रपाठकः ।

द्वितीयः प्रपाठकः

खिलपञ्जरज्ञानम् अथ खिलपञ्जरज्ञानं (२३) घटनमिति ब्रूमः । तेन आचेष्टो भव आङ्गिरस (२४) ग्राभकार इव । निर्दिष्टार्थकप्रतिमा (२५) ग्राह्या ॥ १॥ अनुकूल (प्रतिमानुकूल) शिला अभिजिति (२६) सम्प्राप्ते दर्भेण पातयेत् कारुशालायाम् । ततः उदुम्बरकीलेन शिलां रोधयेत् । पातनं प्रथमा क्रिया ॥ २॥ पातनान्ते उत्ताडनञ्च, पिच्छिलकरणार्थं होताऽध्वर्युः स्थापकैः सह रूपशिलां मर्दयेत् । मर्दनं द्वितीया क्रिया ॥ ३॥ आदौ ॐ- दधिक्रावणो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र ण आयूंषि तारिषत् ॥ (इति) मन्त्रेण (२७) ततः महिलुक (२८) पयसा शिलां क्षालयेत् (मर्दयेत्) , एतत् सर्वं कुम्भीका (२९) मोचनार्थम् (वर्जनार्थम्) । तत आपादशीर्षं शतकेशिवृषं (३०) चिन्तयेत् प्रार्थयेच्च । ॐ शतकेशाय महर्षभाय मे रक्ष रक्ष स्वाहा इति ब्रूयात् । महर्षभ तस्य नव नभस्ततो वाश्रा आपपृथिवी तर्पयतु । एतेन जङ्गिडादयः (३१) पलायन्ते । एवं शुभं भवति, मनः प्रमोदं भवति, सोऽमृतो भवतीति । ततो मण्डलकरणं वलयकीलसंयुतयुजुवदण्डेन (३२) रज्जुसंयोगेन मण्डलैकं रचयन्- पुनन्तु मा देवजनाः पुनन्तु मनवो धिया । पुनन्तु विश्वा भूतानि पवमानः पुनातु मा ॥ (३३) इत्यनेन मन्त्रेण विलं निर्धारयेत् । विलमिति मर्म ज्ञेयम् ॥ ४॥ एषा तृतीया क्रिया (३४)। विलस्योभयपार्श्वगं पृथग्बिन्दुमवलम्ब्य मण्डलद्वयं रचयन्ति स्थापकाः । तद्देशे शिलाक्षेत्रे रेखायां प्रकृतिपुरुषन्यायेन संलग्नेन वृत्तयुग्ममाचरन्ति । तद् यामलमण्डलमिति । एकेन, द्वौ एकरेखायामिति ध्येयम् । शिल्पश्रोतारः श‍ृणुत, केनोपायेन वज्रेण (३५) रेखाः कर्त्तव्याः । ततः कीर्त्त्यावासः (३६) प्रजायते । न कृत्यरूपार्थं (३७) रेखाकरणं कर्त्तव्यम् ॥ ५॥ आदौ वृत्तं वृत्तम् (३८) इति विश्वम् ॥ ६॥ तद्रूपे प्राणः, यथा पुरुषस्य मनः, तद्वृत्तं कालः, एष वास्तुवेदे । वृत्तस्य गतिरवधारिता , यथा चित्तवृत्तिः । वृत्तस्याधारोऽमृतं बिन्दुस्तस्य स्थितिः , यथाऽऽत्मा । बिन्दुं समारभ्य तद्बिन्दुमिलितेन परिभू परिधिः सञ्जायते । तद् हि वृत्तं परमेष्ठी, तद् द्रष्टा, तद् योगः । तत् ऋतुः, तत् सत्यम् । य एवं वेद । एकैकस्य संयोगे एकीभवति इति तस्य भावः वृत्तं हि पूर्णम् ॥ ७॥ बिन्दुस्तस्याधारः, आहुतिरिव जगन्मयः प्राणः । सा स्थितिः, यथा गायत्री वेदपदम् । तस्यैव शैलस्योपरि मण्डलम्, मण्डलकरणे वास्तुगायत्रीम् (३९) अथवा अष्टाक्षरीमन्त्रं (४०) जपेत् । इति कृत्यं वृत्तमभ्यन्तरे क्षेत्रस्याधारं मन्ये, यथा सर्वाणि भूतानि भ्रमन्ति तथा नानारूपाणि जायन्ते । स वै प्राणः क्षेत्रविभाजनं प्रतिमाङ्गोपलब्धये, तस्मात्- रेखान्वये सर्वाङ्गानि न्यासय (आचर) ॥ ८॥ इति भेदनक्रिया । एवं वज्रेण शिलायां रेखाङ्कनकरणं ध्येयम्, न भूमौ न वा इष्टके (४१)। अथासौ आङ्गिरसो होवाच - ब्राह्मणं भगवन्तं पिप्पलादं द्वौ प्रश्नौ पृच्छामि, तौ चेन्मे वक्ष्यति । का रेखा, कस्तस्या भावः, कति भेदाः, ब्रूहि पिप्पलादेति । तान् ह स ऋषिरुवाच -आङ्गिरस, शिल्पकाश्यप श‍ृणु रेखाव्याख्यानम् । तथा तासां भावञ्च । रेखा न्यासस्याधारः सा धारेव । सा कर्मप्रतीतेरधिभूतमधिदैवतञ्च । तेजांसि सरलरेखाः ॥ ९॥ तद्रेखेण मण्डलं भिन्दन्ति, यथा कर्त्तारः कर्मणा विश्वं परिभिन्दन्ति, तेभ्यः तद्रूपेण रूपार्थं चाक्षुषत्वेन (४२) देशकथानुमतं (४३) सर्वाणि रूपाङ्गानि प्रभवन्तीति अङ्गसाम्यं प्रभवतीति । नाभौ रूपकर्म प्रारभ्यते ॥ १०॥ समतार्थं सर्वाण्यङ्गानि निर्णयेत् । एवं ब्रह्मविकल्पः । यथा ब्रह्मविद्या तथा रूपप्रज्ञा । तद् विज्ञाय कारुज्ञा वक्रतः रूपकर्मणि ब्रह्म प्रतिपादयन्ति । रमन्ते यथापूर्वपूर्वप्रज्ञायाम् । यथा ब्रह्मविद्या तथा रेखान्वये रूपाङ्गन्यासो महीयते । यज्ज्ञात्वा स्थापकाः प्राज्ञा महीयन्ते । य एवं वेद । तज्ज्ञानेन स्थापका रूपज्ञा भवन्ति (४४)। ते विद्वांसः, ते विज्ञातारः कारुकर्मणि ब्रह्मानुभूतिं लभन्ते । यथा विश्वसृष्टौ पञ्चमहाभूतानि (४५) प्रजायन्ते, तथा वृत्ताधारे शिल्पकाश्यपादयो वास्तुहोतारो भूत महाभूतलक्षणानि कल्पयन्ति प्रज्ञापनेनेति । प्राजापत्यरीत्या वृत्तं हि तेजस्तदाऽपाम्भासे चतुरस्रम् ॥ ११॥ चतुरेखाबद्धक्षेत्रमिति । यथा सरित्कुण्डे तथा रूपक्षेत्रे चतुरस्रं (४६) सर्वमापादविश्वं प्राजापत्यमार्गेण श्रुतिर्दर्शयति (४७)। तथा हि रूपक्षेत्रे तद्रूपस्याधारः । भूयस्त्वाद् वास्तुश्रोतार एनं गृह्णन्ति भूयो वृत्तमध्ये । कर्णद्वयं मरुद्भावेन आचरन्ति ॥ १२॥ यथा मरुदप्संयोगात् फेनो भवति । पुनः फेनाद् बुद्बुदः सम्भवति, तथा चतुरस्रं कर्णरेखायुग्मसंयोगाद्रूपक्षेत्रं सक्रियं भवतीति । सा मारुतकीलस्य क्रियाप्रतीतिः । धरेव कर्णिकक्षेत्रमाकर्षयन्ति स्थापकाः ॥ १३॥ ततः स्थापका मध्यमारुह्य (४८) कर्णिकक्षेत्रमाचरन्ति । मण्डलमध्ये द्वे मध्यरेखे लिखन्ति मध्यरेखा मध्यप्रस्थरेखा भवति । सममानेन तत्रोपलभन्ते चतुष्खण्डक्षेत्राणि चतुर्द्वीपां पृथिवीमिव, एषा भूमिक्षेत्रस्य भावना । तत्र मध्ये- लब्धबिन्दुः रसायाः प्राणः ॥ १४॥ मर्म वदन्ति शिल्पकाराः । तस्य भावं श‍ृण्वन्तु सर्वेऽमृतस्य पुत्राः शिष्याश्च । अप्पृथिवीसंयोगात् यथा द्यौः (४९) सम्भवति यथा श्रुतौ उक्तं (५०) तदाकाशे सविता द्युरूपेण भ्रमति । स सविता व्योमचरो, यस्य गतिरखण्डा । तथा हि मारुतस्य तिर्यग् गतिः । तत्र खण्डितरेखान् नीत्वा शिल्पसम्बन्धार्थमाकल्प्य लब्धस्थापकाः शिल्पसम्भारेण द्विधा बहुधा बिन्दून् कल्पयन्ति प्रजनयन्ति बिन्दून् । तद्विज्ञातारो वृत्तालये अधोर्ध्वे द्विधाकरणन्यायेन वह्निवत् क्षेत्रमाचरन्ति (५१) कारुकाराः । वृत्तमध्ये कदाचित् सम्प्रतिष्ठति तत् त्रिह्रुतम् (५२)। त्रिहुताग्निः स्मर्यतेऽपि च लोके ॥ १५॥ निम्नगास्त्रिहुता आप इति ॥ १६॥ तदुभयस्य संयोगान् मिथुनभावो भवति । ये जानन्ति ते सम्पन्ना भवन्ति । स उन्मेषभावः । अग्निरापः संयोगाद् दिव्यं (५३) भवतीति । तन्महच्छन्दो होतारो जानन्ति यज्ञे प्रयोजयन्ति कुण्डे स्थण्डिले लिखन्ति, तेन देवलोकाः पितृलोका आहुत्या तृप्यन्ति (५४)। मनुष्याणां तत् सायुज्यं प्रददाति । एवं बहुधा श्रूयते, सर्वे रूपकारा ब्रह्मज्ञा वृत्ताभ्यन्तरेण क्षेत्रमध्ये समान्तरालषड्बिन्दुमारुह्यरेखाः रेखां रोधयन्ति । षट्कोणको हि आकर्षणीविद्या (५५) विशेषः ॥ १७॥ तन्मिथुनच्छन्दोयोगेन यातुधानाः (५६) प्रतिघातयन्ति । माण्डव्यादयो (५७) बहुधा देवान् पूजयन्ति । आकर्षयन्ति रुद्रानादित्यान् वसून् । साऽऽकर्षणी वास्तुवेदीयरेखाङ्कने श्रेयसी भावव्यक्तोपायेति । यथा रूपे तथा यूपेऽनुच्छेदान्ता ग्राह्याः ॥ १८॥ याज्ञिका यूपे स्थापका रूपे समानाश्चरन्ति (५८)। खनित्रप्रकारो ध्येयः ॥ १९॥ एतद् ब्रह्ममण्डले खनित्रकाराणां कलाषोडशीन्यायेन तत्क्षेत्रं षोडशांशेन छेदयन्ति (५९)। सौम्ययूपस्य (६०) दण्डो यदाऽष्टांशः स यजमानाय प्रीतिकामार्थः । कदाचित् तत्कलांशेनांशान् छिन्दन्ति सोऽपराविद्यायां वृषस्तम्भः । अग्निस्तम्भो भवति काम्यानुसारतः शिलायां वा उदुम्बरदारवीयः । शिलायूपो ध्रुवेति शिल्पकाश्यप ज्ञेयम् । यज्ञार्थं सौम्ययूपो, विष्णुयज्ञार्थमष्टांशयूपः, काम्यकर्मार्थं षोडशांश इति ध्येयम् (६१)। सूत्रायने (६२) रेखाः सुभगा भवन्ति ॥ २०॥ भावं प्रददति । एतज्ज्ञानं गुह्यज्ञानम् । एषा खिलविद्या, रेखाकरण तत् । खिलपञ्जरज्ञानं श्रेष्ठम् ॥ २१॥ ये जानन्ति ते रूपज्ञास्तत्त्वरूपाणि घटयन्ति । रूपतत्त्वे विना रेखाकरणं रूपं हीनमिति ध्येयम् । उत्थितरेखा (६३) अग्निरूपाः, पार्श्वगा (६४) अब्‍रूपाः, तिर्यग्रेखा मरुद्‍रूपा इति ॥ २२॥ रेखाप्रभेदे भावभेदा उपजायन्ते । रेखाऽनुसृतं रूपं विभाति । रूपं सुरूपं भवतीति (६५)। तत्त्वरेखावलम्बने रूपात्मप्रत्यक्षं भवति प्रतिरूपे च । यथाऽऽहुत्या वृष्टिर्भवति तथा रूपसौभगाद् ध्यानभावः सम्प्रतिष्ठते । यथा पर्जन्यादन्नं सम्भवति तथा ध्यानाल्लय उपजायते । लयान्मनुजा दिव्या भवन्ति । यथाऽन्नात् प्राणः सञ्चरति तथा लयात्तद्भावमनुभवन्ति, मनो निश्चलं भवति । तेषां न पुनरावृत्तिः, एतदर्थं रूपं कल्पयन्ति ऋषयो लोके । रूपे रेखा आहुतय इव । रूपसौभगाद् ध्यानभावो जायते ॥ २३॥ सा हि वृष्टिः । सा ऋतस्य धारा यथा पर्जन्याद् बहुधाऽन्नानि सम्भवन्ति (६६) तथा रेखाया रूपाणि । अग्निरेखायामुत्तुङ्गरूपाणि जायन्ते ॥ २४॥ तानि सर्वाण्युदारभावप्रदायकानि सौम्योत्थिताकृतीनीति । अब्रेखायामुत्सुकरूपाणि जायन्ते ॥ २५॥ तान्युग्रभावप्रदायकानि । मारुतरेखायां तैजसरूपाणि ॥ २६॥ तीक्ष्णभावप्रदायकानि योधरूपाण्युपजायन्ते । तानि सर्वाणि भीषणरूपार्थम् । कर्णजा रेखा ग्राह्या इत्थं रूपकर्मार्थम् । रेखाज्ञानं सर्वमिति ज्ञेयम् ॥ २७॥ ये जानन्ति सर्वं ते स्थापकोद्गीथरूपेण (६७) ख्याता भवन्ति । इति पैप्पलादीयवास्तुसूत्रे वाक्कायमनोमार्गेण सम्प्रदानमिति चर्चाक्षेण मुनिश्रोतॄणामुपनिधानेन खिलपञ्जराकर्षणज्ञानमिति वास्तुसूत्रस्य द्वितीयप्रपाठकः ।

तृतीयः प्रपाठकः

शैलभेदनम् शिल्पव्याख्यानं आश‍ृणुतेदम् । वास्तुषडङ्गमध्ये एते शैलभेदनोपायाः तथेति समुपविशन्ति ते । आथर्वणाङ्गिरसशिल्पकाश्यप उवाच भगवन्तं पिप्पलादम्, अस्मान् वदन्तु शिल्पाचारे भेदनार्थं यद् यद् श्रेय इति । यत् कतिधा अलभ्यमुवाच त्वां पृच्छामीति, पृच्छेति होवाच । का शैलभेदनस्य गतिः, के प्रयोजयन्ति । प्रस्तावनाक्रमेण प्रस्तरे खिलपञ्जरार्थं रेखाकरणे किं वा प्रयोजनम्, पिप्पलादो होवाचः- रेखानुक्रमेण रूपाङ्गान्याचरन्ति । रूपस्य भावो मुख्यः ॥ १॥ भावात् प्रेरणा (६८) प्रसरति, प्रेरणया दिव्यबोधः सञ्जायते । तत्क्रिया हि भेदनविद्या । यथा पराविद्याया दिव्यत्वं जायते तथा सुरूपाद् दिव्यत्वमुपलभन्ते मनुष्याः । तेषां मनोवृत्त्यां रूपस्य भावज्ञापनार्थं रूपकर्माणि सावधानेन स्थापका आचरन्ति । रूपमध्ये किञ्चित् सौम्यं किञ्चिदुग्रं च । भावानुसारतो रेखाविधानमिति ज्ञेयम् ॥ २॥ एतद् यो जानाति स मर्मज्ञः (६९)। स लोके मान्यो भवति ग्रामे वास्तूद्गीथरूपेण ख्यातो भवति । नृपे चाक्र (७०) रूपेण । तेषां बहुधाकृत्यं श्रेयः ॥ ३॥ ते शैलं छिन्दन्ति, रूपाण्युत्खोदयन्ति । रूपाङ्गानि रेखानुपाते पातयन्ति । अङ्गयोर्मध्ये क्षीणकूटाङ्गानि भिन्दन्ति । कूटाद् यत्त्यक्तशिला उद्वृत्तास्तच्छिलाः निक्षिपन्ति समन्त्रेणेति त्यागः । अङ्गान्युत्थितकूटानि नीचानि, एतन्न्यासबोधः । न्यासार्थं कालबोधो ध्येय इति ॥ ४॥ न रात्रौ, न दर्शे, न सूर्यसोमयोः सङ्गमे, न सन्ध्यायां व उषायां चरन्ति श्रेष्ठरूपकाराः । तेऽभिधृतार्थमुदुम्बरद्विपक्षान् (७१) निखाय रूपशिलामवरोधयन्ति । तद् रोधनम् । रोधनकाले पर्जन्यपूजने जटावेदं (७२) पठेदिति पठनोपासनेन रसविज्ञातन्यायेन ऋषयः शैलाचार्या भिन्दन्ति शैलम् । तद्भेदनेऽभिमन्त्रयन्ति खनित्राणि ॥ ५॥ ॐ उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितम् । यदि शक्यमशक्यं हूँ (दुर्गे) भगवति शमय स्वाहा ॥ इति खनित्रप्रयोगमन्त्रः । मन्त्रात् कालो विनश्यति, भयं व्यपोहति । एतज्ज्ञानेन अग्निहोत्रं चरन्ति वैश्वानरे जुह्वति । यथाऽङ्गारेषु भस्मार्थं जुहुयात् पापानां तथा शिल्पकारा रूपार्थमग्निहोत्रमाचरन्ति वैश्वानरे जुह्वतीति । वास्तुयज्ञात् खनित्रबाधो व्यपोहति । कुशङ्का विनश्यन्ति । खनित्रप्रयोगे दौर्बल्यबोधे मन्त्रं मनसि ध्यायन्ति । मन्त्रः-ॐ चक्षुरसि चक्षुर्मे दाः स्वाहा । परिपाणमसि परिपाणं मे दाः स्वाहेति ॥ (अथर्ववेद २.१७.६ -७) एषा क्रिया ध्येया, य एवं वेद । अथाङ्गिरसादय उद्गातारः पप्रच्छुः कश्च स्खनित्रप्रकार इति । खनित्रपञ्चकं श्रेष्ठम् ॥ ६॥ श‍ृणुत, केनोपायेन शिल्पोद्गातारो भेदनकर्त्तनाद्याचरन्ति । खनित्रकर्म न वै रूपे सोमशालायां स्थण्डिलकरणे होतारः प्रयोजयन्ति । यथा बृहस्पतेर्गृहशालाप्रकरणे लोकवास्तूपाख्याने पूर्वं वेदे उक्तम् (७३)। खनित्रापप्रयोगे रूपाण्यपरूपाणि भवन्ति । कुक्कुटिका (७४) अपरूपाणि पूजयन्ति न ब्राह्मणाः । तत् खनित्रप्रयोगे श्रेष्ठान् तद्भेदान् वदामि । भेदास्तु लाञ्जी, लाङ्गली, गृध्रदन्ती, सूचीमुखा, वज्रा इति । सर्वे आयसा द्विविधा भवन्ति क्षीणाः प्रशस्ताश्च । मुषलधरुभे मुषलदण्डेन खनित्रं घातयन्ति प्रयोजयन्ति शिलाभेदने तत् । सर्वास्त्राणि तीक्ष्णानि, गवाम्बुपुटितानि । ततः इङ्गिडलेपितानि चर्मशाणितानि च । रूपप्रकर्षार्थं रूपाङ्गं स्निग्धमिति ॥ ७॥ सौम्येन छेदयन्ति ये ते शस्त्रिणः । शस्त्रं द्विमुखी घूर्णिकेति (७५) , अयोमुखास्त्राणि पालाशशलाकां वहन्ति , इदं तेषां रूपम् । अथ, आङ्गिरसः पप्रच्छ भगवन्तं पिप्पलादं, केन वज्रमिव कठिनशिलां खनित्रेण भिन्दन्ति वास्तुकाराः । तं होवाच वक्ता- शिल्पकाराः प्रलेपयन्ति द्रावकरसम् ॥ ८॥ शङ्खद्राव-कुष्ठरस-सैन्धवखर्पर-उकत्सवल्कलचूर्णेन (७६) सहितं शिलाद्रवणार्थमेवं रसचतुष्टयम्, अनेन मन्त्रेण दशाहमर्दनान्ते वैताने खनित्रं प्रयोजयन्ति, खननमाचरन्ति भद्रेण (७७) स्थापकाः । एषा हेतिविद्या श्रेष्ठा ॥ ९॥ रक्षार्थं पर्णमणिः परिधेयः ॥ १०॥ खनित्रकर्मणि रक्षार्थं पाठामूलिकां धारयन्तीति स कवचः । मन्त्रेण सह धारयन्ति पर्णमणिम् । अनेन मन्त्रेण- ॐ शं नो देवी पृश्निपर्ण्यशं निःऋत्या अकः । उग्रा हि कण्वजम्भनी तामभक्षि सहस्वतीम् । (अथर्ववेद २.२५.१) भेदनादङ्गसौभगं (७८) प्रभवति ॥ ११॥ यथा देहे तथा दैवाङ्गे गुल्फवलयकुक्ष्यादयः, उष्णीषमेखलादयः खोदयन्ति सौभगेन, उड्डुपयन्ति कुक्षशिलाः, विसृजन्ति तच्छिलामिति । रेखानुपातेनाङ्गानि निधेयानीति श्रेष्ठकृत्यम् ॥ १२॥ एतेन वास्तुवेदविधानेन रेखानुपातेऽङ्गन्यासो विधेयः । गाथानुप्रासे लक्षणं व्यक्तं भवति ॥ १३॥ यथा गाथायाः कथास्तथा रूपलक्षणान्याचरन्ति रूपकार-रूपज्ञाः, तथा व्यक्तरूपं सम्भवति । यद् रूपस्य हावभावादि प्रत्यक्षं तद् व्यक्तरूपम् । रूपादुपासका भावसिद्धिमुपलब्धयन्ति यज्ञेन ध्यानमिति प्रयोगः (७९) । ध्यानप्रयोगे रूपसौष्ठवं स्पष्टं भवति ॥ १४॥ तथा हि ध्यानरूपं कथयन्ति वास्तुकाराः । यथा प्रकृतिस्तथा रूपलक्षणम् ॥ १५॥ रूपस्य स्वभावानुक्रमेण रूपाणि भवन्ति । तेषां तत्तद्गुणाः प्रभवन्ति कामचारीणां हृदये इति । कामो (८०) जनानां ध्रुवावृत्तिरिति । अङ्गानि अर्धाकले (८१) सुषमं (८२) ध्येयानि ॥ १६॥ अर्चायां श्रेष्ठं पूर्णाकलं वर्त्तुलाङ्गं, न श्रेष्ठमितिभित्ये- हर्सावधि उभयदिशि चोर्ध्वे न वर्धयेत् ॥ १७॥ उष्णीषमेखलादि अपवृजिनेन रेखाकारे उत्थिते दर्शयन्, भेदनकाले रूपशिलोपरि शङ्खद्रावं सिञ्चयन्, अपवेनात् संरक्षयेदिति क्रमः । रक्षाविधानेन विघ्नघातयः ॥ १८॥ रक्षाविधानेन विघ्ना विनश्यन्ति । खोदनारम्भे ``ॐ होजा होजा शतकेशि वृष मे संरक्षय'' इति ब्रूयात् स्थापकः । अविघ्नेन कररेखादि गात्रलक्षणानि दृषदि दैवभावेन कर्तव्यम् । तद्गुणात् सिद्धिं प्राप्नुवन्ति काम्येन वा, अकाम्येन सायुज्यं प्रददाति एतदर्थं भेदनकारुकर्म श्रेष्ठम् । रेखान्वितमङ्गपातनं भेदने मुख्यम् । रेखाक्रमेण भेदनं चतुर्धा ज्ञेयम् ॥ १९॥ न्यासविधानेन तदेकाश्रयि, युगलाश्रयि, खण्डाश्रयि, स्पर्शीतेति । यदा पूर्णरेखायां रूपाङ्गं निपतति तदेकाश्रयि । यदा रूपस्य प्रभवाङ्गं सम्मुखाङ्गं वा भिन्नरेखामाश्रयति तद् युगलाश्रयि । यदा तत् पृथगङ्गं भिन्नरेखायां वा मूलरेखायां केवलमङ्गाङ्गं निपतति, अध ऊर्ध्वे च तत् खण्डाश्रयि । यदाऽङ्गांशः केवलं किञ्चिद् रेखाचुम्बितस्तत् स्पर्शिता हीनम् (८३)। नेम्यवलम्बिताङ्गं कदा श्रेष्ठं भवति । नेम्योत्तरे रूपाङ्गं न वर्धयेत् ॥ २०॥ इति पातनानुशासनम् । भेदनकालेऽवाग् भवेत् । गाथाकथाः सततं स्मरेत् । रूपप्रारम्भे खनित्राणि प्रोक्षयेत् प्रोक्षणमन्त्रेण । तत्प्रभावेन दोषा अरिष्टा विनश्यन्ति । खनित्रचालनविधिर्ध्येयविशेषः ॥ २१॥ वामहस्ते जरठेन खनित्रमवरोधयेत् । कनिष्ठिकायां रोधयेत् खनित्रम् । इति कृत्यम् । दक्षिणकरे कुटुम्भकं धारयेत् भेदनार्थं दैवलक्षणानि रूपकर्मणि वेदयन्ते । इति भेदनविधिव्याख्यानम् । वाक्कायमनोमार्गेण चर्चाक्षेण मुनिश्रोतॄणामुपनिधानेन शैलभेदनभ्रस्कक्रम इति तृतीयप्रपाठकः ।

चतुर्थः प्रपाठकः

अङ्गप्रयोगः अथ पिप्पलादः प्रहृष्टो होवाच - शिल्पजिज्ञासुत्रय, वाग्रूपाणि च तस्याङ्गज्ञानमाहुः । पुरा ब्रह्मैकं सत्यमस्ति । तज्ज्ञानेन हृदयाकाशे तद् ब्रह्मैव ज्योतिः तस्य ज्ञानविज्ञानं विज्ञाय एवं यत्किञ्च वाचा तद्रूपेण विज्ञानवाचा प्रपन्नेनाचरन्ति । य एवं वेद । यत्र भावना शून्या तन्निर्गुण गुणत्वभावनया सगुणं भवति । सगुणान् मनः स्थूलं भवति । प्रतीतात् प्रतीकः ॥ १॥ प्रतीत-प्रतीक-प्रतिमा-क्रमेण त्रीणि मुख्यानि । यदा ज्योतिर्मण्डलानुभासे ब्रह्म उपलभ्यते तत् प्रतीतम् । यथा विज्ञानमयपुरुषः । यश्चक्षुषा न पश्यति येन चक्षूंषि पश्यन्तीति । यदुपमोपमेयक्रमेण अनुभवभावान् प्रदर्शयति तत् प्रतीकम् । ``अङ्गुष्ठमात्रः पुरुष'' इत्यादि वाक्येन । या सपर्यायामानन्दं प्रददाति सा प्रतिमेति । अव्यक्त-व्यक्त-प्रकट-क्रमेण निर्गुण-सूक्ष्म-स्थूल भावेन जनानां दैवभावाहरणं कुर्वन्ती सा देवयजनविद्या । शतपथे छान्दोग्ये चोक्ता -एष क्रमः, एषा देवयजनविद्या । आत्मानन्देन यजनोपायेन त्रयस्त्रिंशद् देवता तार्क्ष्यो ब्राह्मणे उक्तम् । यथा अङ्गुष्ठमात्रपुरुषस्य भावः प्रभवति विकल्पेन अङ्गुष्ठमिति ज्योतिर्मात्रम् (८४)। स यूपस्य दण्ड इव । रूपादङ्गानि सञ्जायन्ते ॥ २॥ तद्भावाद्रूपं रूपं प्रतिरूपं जायते । यथा पुरुषे । इति ज्ञानं ज्यायम्; यत्रान्यैर्द्विधा भवति तदितरज्ञानं निश्चितं भवति । एतदेव सत्यम् । तदितर इतरं जिघ्रति । तदितर इतरं पश्यति । तदितर इतरं श्रुणोति । तदितर इतरमभिवदति । तदितर इतरं मनुते । तदितर इतरं जानाति । यत्र इतराभावं यः पश्यति तत् केन कं विजानीयादिति याज्ञवल्केन उक्तम् । य एवं वेद । अतो द्विधा ब्रह्म रूपवद् भवति ॥ ३॥ स्थापकाः सपर्यार्थं शैले रूपाणि चरन्ति (८५)। रूपार्थं कोष्ठका मुख्याः ॥ ४॥ यथा शुल्वे तथा च शिल्पे । विना कोष्ठकं रूपस्य भावः सम्यङ् न भवति । सपर्यायां क्षुण्णता जायत इति । ऊर्ध्वग-पार्श्वग क्रमेण चूर्णेन रेखाविभाजनमिति कोष्ठविद्या ग्राभार्थम् । वर्गीकरणं मुख्यकृत्यम् ॥ ५॥ यज्ञार्थमिदं शुल्वं कारुकर्मार्थं शिल्पमिति ज्ञेयम् । इति सुलभक्रिया । एवं वेदे । रज्ज्वास्तावत् प्रसारणे वर्गीकरणमिति तस्य भावः । यावत् प्रमाणं क्षेत्रशैलं, तत्र रेखा अविकृतं प्रकुर्वन्ति मानदण्डैः शिल्पकाराः । तेन बृहद्वर्गा बहुधा भवन्ति क्षीणाकृतौ । एकः द्वौ द्वौ चत्वारः । चत्वारो द्विगुणितेन अष्टौ । एव क्रमेण बहुधा कोष्ठका भवन्ति गुणवर्धनेनेति । यथा शुल्वविभाजने युग्मं अयुग्मं यज्ञमेखलादीनर्धप्रमाणेन चिकीर्षाक्रमेण वर्द्धयन्ति तथा स्थापकाः । कोष्ठकान्तराले रूपस्यावयवो ध्येयः ॥ ६॥ स्थापकाः परिमिताङ्गावयवादि मानन्ति (मीयन्ते) । अयं तालनिर्यासो चिकीर्षाक्रमेण । परिमिताङ्गहाराद् भावलक्षणानि जायन्ते ॥ ७॥ अपरिमिताङ्गानां तेषां भाववैलक्षण्यं भवति, इति दोषः । कुण्डस्य कोष्ठके व्यतिक्रान्ते होतारो मूका भवन्ति, तथा च मूर्त्याम् । कोष्ठके व्यतिक्रान्ते रूपमवद्यं भवति ॥ ८॥ स्थापकाः पैशाचत्वं लभन्ते । अथ शुल्वविद्याशिल्पविद्ययोः को भेदः ? किं तस्य सन्धानमुपलभन्ते, किं पार्थक्यमिति वदन्तु धर्मपुरुषाः पिप्पलादाः । शुल्वं यज्ञस्य साधनं शिल्पं रूपस्य साधनम् ॥ ९॥ इति भेदः । शुल्वकारा दण्डरज्जुसहितं कुण्डस्थण्डिल-शाला-योनि-मेखला यूपादि निर्णयन्ति । शिल्पकाराणां रूपशैले रूपशालादि ध्येयम् ॥ १०॥ इति तेषां पार्थक्यं न मर्मणि भेदो जायते । यूपाद् रूपं रूपाद् यूप इति स्वभावः ॥ ११॥ आहुः श्रोतारः केन रूपेण शुल्वकाराः कारुरीत्या यूपं निर्धारयन्ति यथा पूर्ववेदाचारेण । यूपस्य मानं ध्येयम् ॥ १२॥ श‍ृणुत वास्तुकाराः । यजमानस्य त्रिमुष्टिकमानेन रेखामानय । तद्दैर्घ्येण सह द्विह्रस्वरेखया वामगं त्रिहुतैकं चर, इति त्रिहुतीकरणम् । तत ऊर्ध्वे वामे च सङ्कीर्णत्रिहुतं सृजयन् लम्बमानेन चतुरस्रैकं आचर, इति वर्गीकरणम् । तद् वर्गद्विखण्डेन विभाजितक्षीणैकभागो यूपस्योत्थानं ज्ञेयम् । षड्भागस्य प्रयोगो ध्येयः ॥ १३॥ तत्र पार्श्वक्षेत्रे षडुपक्षेत्रलाभार्थमिदं विभाजनम् (८६) । तद्षड्भागेभ्यो निम्नैकभाग पार्थिवाङ्गं प्रोत्थनार्थं भूमिर्देवता । तदुत्तराद्द्विभागोऽधोऽङ्गं मेखलाबन्धनानन्तरं न्यासार्थं स मैथुनकाण्डः, रुद्रो देवता । तदुत्तरे द्वौ भागावुत्तमाङ्गं प्राणाऽऽवाहनार्थं प्रजापतिर्देवता । तदुत्तरैकभागस्तुङ्गाङ्गन्ध्वजरोपणार्थं सविता देवता । एवं क्रमेण - पुरुषस्य रूपेऽङ्गचत्वारोऽष्टाङ्गक्रमेणोपजायन्ते ॥ १४॥ पार्थिवाङ्गं, कर्माङ्गं, अधोऽङ्गं, प्रजननाङ्गं, उत्तमाङ्गं, प्राणाङ्गं, तुङ्गाङ्ग, ज्योतिरङ्गं, क्रमेण पुरुषाकलेऽष्टाङ्गपुरुषस्य रूपम् । शिल्पकाश्यपधीराः पप्रच्छुः । प्रियधा किं रूपस्य तालम्, कस्तस्य भावो लक्षणञ्च सम्बन्धमिति । तदवगमाय उपज्ञाक्रमेण पिप्पलादो वव्रे । पालाशदण्डरज्जुसंयोगे रेखामानय ॥ १५॥ शैले कोष्ठकानामुत्थितक्रमेण रेखामाचरेत् । पयसा शोणशैलचूर्णसंयोगेन धीराः कोष्ठकान् प्रकुर्वन्ति । कोष्ठमध्ये पादाच्छिरोऽवधि रूपमुपलब्धव्यमिति । निम्नादूर्ध्वावधि सदा रेखादीनाचर ॥ १६॥ सा हि उत्थितक्रिया । स रुद्रपतिः पुरुष एवं वेदे । पुरुषस्तम्भ इव स्तम्भो वै यज्ञस्य रूपम् ॥ १७॥ दशयज्ञस्याधारः (८७) स (८८) वृषस्तम्भः पितृयज्ञार्थम्, रुद्रप्रीतये । प्रजापतिरेव वास्तोष्पतिः स हि प्राणजागृतिरिति । यथा स्तम्भस्य दशाङ्गं तथा पुरुषस्य दशयज्ञप्रज्ञाश्च ॥ १८॥ निम्ने पादः, दर्भमेखला रज्जुन्यायेन निर्मिता । तदुत्तरे दण्डवत् पिप्पले उदुम्बरे वा तत्र मेखला वलयाकृतिः । तदुत्तरे स्तम्भस्य दण्डविलं विष्णुर्देवता, तदुत्तरे स्तम्भस्य कटिरविशदशरावाकृतिः । तत्सम्मुखे मृगपादो यथा पङ्के तथा नाभिः श्रुवस्य गर्भाकृतिः । तदुत्तरे सौम्यस्तम्भाकृतिः, अम्बालिका देवता । तदुत्तरे चतुरस्रकूटशाला, आवास इव स्तम्भस्य हृदयम् । तच्छालायाः रुद्रो देवता । शतकेशी शतशीर्षा वृषः (८९) , स ज्योतिः प्रणवरूपस्तारकः, तदुत्तरे स्तम्भस्य कण्ठः स शरावाकृतिः । स्वाहा देवता । तदुत्तरे स्तम्भस्य मूर्द्धमण्डलम्, सविता देवता, एवं क्रमेण दशयज्ञानुरूपं दशाङ्गस्तम्भं होतारः समुपदिशन्ति । स्थापकाचार्या स्तम्भाद्रूपं बोधयन्ति ॥ १९॥ पुरुषसमरीत्या दशाङ्गमेतदुच्चैः समदशकोष्ठके, आचरन्ति पुरुषाकलं यदेतद् वेदे । स्तम्भः कामचारिणस्त्रिधामानयन्ति ॥ २०॥ याज्ञिका यज्ञे विड्वङ्गं प्रोथयन्ति ऐशान्ये पितृमेधे । दैवयज्ञार्थं यूपः ॥ २१॥ तथा हि अङ्गे शुल्वकारा मूर्द्धानं दण्डं च मानयन्ति । दण्डो भद्रो वा, अष्टांशो विश्वांशो वा यथाकाम्य इति, पार्थिवाः पशुमेधेन अरिमर्दनं कुर्वन्ति कृत्स्नसिद्धिलाभार्थमाहुतयन्ति । तदा पितृमेधार्थं वृषस्तम्भं मिथुनस्तम्भं कामचारा होमे रोपयन्ति ॥ २२॥ प्रशस्तदण्डशिलायामूर्ध्वे शुकरमैथुनरूपम्, एतत्प्रयोगेण अरिः स्थाणुर्भवति स्तम्भ इव । पार्थिवाः पशुमेधिनः भोग्यप्रयोगमाचरन्ति । एवं वेदे प्रयोगे च, यत्किञ्चविजिज्ञास्यो यूपः तद्रूपं केनैतत् पुरुषस्योद्भवं भवति रूपे । पिप्पलाद होवाच आथर्वणाङ्गिरस केन कोष्ठके पुरुषश्चाक्षुषो भवति । तद्बोधे मानुषा रूपज्ञा भवन्ति ॥ २३॥ तं ह वक्ष्यामीति भगवान् पिप्पलादः सुप्रसन्नः तस्मै सौम्यपिप्पलाद होवाच । आहुः शिल्पाचार्यास्तदेतत्सत्यम् । यथाऽऽदित्य उदयन् प्राच्या दिशः प्राणं सञ्चारयति तथा- पुरुषस्य रूपाकले कोष्ठकस्याधो भावरूपं प्रसरति ॥ २४॥ सा हि स्तम्भस्य दशाङ्गोदितक्रिया । यथा दशयज्ञे दशकर्मणि कर्मोन्मेषो भवति (९०)। यथा हि पुरुषः कर्ता, बोधा, रसयिता, मन्ता, स्रष्टा, श्रोता, द्रष्टा, ज्ञाता च विज्ञानात्मा ब्रह्म भवति तथा दशाङ्गे मनुष्या दशकर्माचरन्ति । एतद्भावे दशकोष्ठके पुरुषश्चाक्षुषो भवति । पादः, पादपर्वतः, दण्डः, दण्डगुल्फः, एतान्यङ्गान्यधोऽङ्गानीति । जानुकटिपर्वतान्तद्वयं मध्याङ्गमिति । उदरहृदयद्वयमुत्तमाङ्गमिति । कण्ठमूर्धद्वयं तुङ्गाङ्गमिति, एवं कल्पयन्ति रूपकाराः । इति पुरुषस्य दशाङ्गम् । पुरुषो दशाङ्गुलमिति भावः । पूर्वं वेदेन उक्तम् । स हि ब्रह्मणो विकल्परूपेण प्रत्यक्षं भवति (९१) । दशाङ्गयूपे रूपे इति तस्य भावः समानः ॥ २५॥ एतदर्थं कोष्ठकान् कल्पयन्ति रूपकाराः । ब्रह्मकीलाधारः, ब्रह्मकीलेन (९२) सह क्षेत्रं विभाजय ॥ २६॥ ब्रह्मकीलमध्यगरेखया द्वैतांशे ब्रह्मकीलेन सह क्षेत्रं विभाजयन्ति । यथा धरायां मेरुकीलं, पशौ पृष्ठास्थि, वृक्षे सुषीरं, जीवे जीवात्मा, तथा रेखा हि सत्यम् । रेखा रूपस्य कारणम् । ततो रेखायां दशकोष्ठकान् विभाजय उत्तिष्ठक्रमेण, येन समोपक्षेत्राणि लभेरन् । कति कति खण्डितानि भवन्ति । न्यूनातिरिक्तार्थं कारुज्ञा आद्यत्रिषण्णवक्षेत्राणि विभाजयन्ति । द्वौ द्वाविति क्रमेण दशकोष्ठकेषु चत्वारः खण्डिताः षडखण्डिताश्च । एवं दशकोष्ठका भुवनसङ्ख्यका भवन्ति । यथा पिण्डे ब्रह्माण्डं कल्पयन्ति ऋषयः । यथाऽथर्ववेदिनां श्राद्धे (९३) पितृयज्ञे पिण्डार्थं वज्रेण मण्डलमाचरन्ति । वैश्वदेवे तथा दशकोष्ठकानाचरन्ति (९४)। एवं क्रमेण पादः तदुत्तरे पादपर्वतेऽर्धांशः तदुत्तरे एकांशदण्डाः । तदुत्तरे गुल्फोऽर्धखण्डितांशः । तदुत्तरे जानुद्व्यर्धांशसंयोगः । तदुत्तरे कटिरर्धांशखण्डितांशः । तदुत्तरे द्व्यर्धसंयोगे सम्मुखे मृणालमूलाकृतिर्विलाकारं नाभिः । तदुत्तरे उदरमेकार्धसंयोगे पीनाङ्गमिति । तदुत्तरेऽष्टावधि हृदयम् । तदुत्तरे कण्ठः अर्धखण्डितांशे । तदुत्तर एकार्धसंयोगे मूर्धेत्युत्तमाङ्गम् । इदं दशकोष्ठकेषु रूपं चाक्षुषं भवति । अङ्गादङ्गं सञ्जायते ॥ २७॥ इयं हि रचना । स हि न्यासः । अध ऊर्ध्वावधि गच्छन्ति दिव्यतां क्रमेणोत्थितकरपादादयः प्रविधाङ्गानि । रेखासंयोगे तत्क्षेत्रेऽङ्गानि सौभगानि भवन्ति (९५) ॥ २८॥ अग्निरेखायामुत्थिताङ्गानि । अप्पार्श्वगरेखायां स्थिराङ्गानि । मारुतरेखायां वेगप्रदर्शनाङ्गानि । एतन्निपातनेन रूपाणि मन आकर्षयन्ति । तदुत्तरम्- क्षेत्रनेमिं रोधयेदिति ॥ २९॥ रोधनरेखाचतसृणां मध्ये कोष्ठकानाचरन्ति स्थापकाः । एवं क्रमेण शिल्पकाश्यपाः रूपार्थं खिलपञ्जरं ध्येयमिति व्याख्यानं वास्तूद्गीथत्रय प्रबोधनार्थं भगवान् पिप्पलादो वव्रे । इति वाक्कायमनोमार्गेण पिप्पलादीयवास्तुसूत्रे सम्प्रदानचर्चाक्षेण मुनिश्रोतारमुपनिधानेन अङ्गोत्तिष्ठादिमानबोधनमिति चतुर्थप्रपाठकः ।

पञ्चमः प्रपाठकः

रूपभावनाबोधः अथ हैनमाथर्वणाङ्गिरसशिल्पकाश्यपः पप्रच्छ यदि यज्ञार्थं शुल्वं (९६) शिल्पार्थं शिल्पसूत्रञ्च रूपकर्मणि, इत्थं तदिदं ब्रूहीति । पिप्पलादो होवाच । शिल्पमधीयानाः शिल्पोद्गातारः, श‍ृणुत । भावस्यारोपणं रूपकर्मणि विधेयम् ॥ १॥ यज्ञशालास्थण्डिलार्थं शुल्वज्ञानं श्रेष्ठम् । तत्र श्रोणि (९७) साधनमंशादिपातनमिष्टकान्यासप्रयोगो भवतीति ध्येयम् । येन रूपेण यथा रूपकर्मणि त्रिकोणिसाधनं कर्णाकर्षणं कर्णिकाकरणं लब्धक्षेत्रे मुख्यम् । एतदर्थं भाववोधनस्य प्रयोजनं भवति । श‍ृणु, तस्य को भावः, कस्तेषां रूपस्य सन्धाः । देहः कर्माधार इति वदन्ति याज्ञिकाः । कर्म भावस्य प्रदायकम् ॥ २॥ भावं प्रददातीति । भावस्याऽऽधारो रसः ॥ ३॥ स रसः कर्मणश्चोदनेति देहे प्रस्कन्दयति वाङ्मनश्चक्षुः श्रोत्रकरपादादीनां उदयक्रमेण, देहलक्षणं भवति । भावविधानेन देहस्य रसाः प्रसरन्ति । रसात्- मनसि वृत्तिर्बहुधा प्रजायते । तदा भिन्नभिन्नरसाद्रूपं नैकं भवति ॥ ४॥ नवधा रसः ॥ ५॥ नवधा रसार्थं रेखापार्थक्यं जायते । प्रथमरसः श‍ृङ्गारः ॥ ६॥ यथा मोहात् पुरुषस्य नारीं प्रति मैथुनेच्छा प्रभवति तद् जीवमात्रस्य सत्यम् । यत्र मुदभावो विभाति सा श‍ृङ्गारमूर्तिः भवति । तथा द्वौ तनू देवदेव्योश्च क्रीडाङ्गगठनम् । युगलशरीरे क्रीडोपायेति, अक्षक्रीडादि मुदितविग्रहार्थम् । श‍ृङ्गाररूपार्थमब्रेखा ग्राह्याः ॥ ७॥ प्रसन्नाननमिति तेषां लक्षणम् । कामनिवृत्तौ मन उल्लसितं भवति । हास्यं प्रददाति । स हासो द्वितीयरसः ॥ ८॥ हास्यभावप्रदायकविग्रहा जनानां हृदये सुखं सञ्चारयन्ति । कारुप्रयोगे तेषामधर उन्मुक्तः, नेत्रं सौम्यमिति तेषां लक्षणम् । मुखलक्षणाद् रसं जानन्ति सर्वे ईक्षणेन ॥ ९॥ मनुष्यः मनोसुखार्थमुपासते । जनानां जले च रूपे उभय समानः । यदा दुःखं तदा सुखमिति सत्यं, रात्रिन्दिवमिव । सुखस्य परिणामो विषादः, विषादात् सर्वेन्द्रियाणि शिथिलानि भवन्ति । स तृतीयः करुणरस भाव इति ॥ १०॥ नयनमर्धमुक्तं चेति तेषां लक्षणम् । करुणान् मनो निश्चेष्टं भवति । सोऽवसाद इति । अवसादात् पुनः विषादः सञ्जायते । ततः क्रोधो जायते । रौद्रः चतुर्थो रसः ॥ ११॥ स रौद्रभावः रूपे उग्र वदन्ति शिल्पकाराः । मुखं प्रशस्तं नेत्राणि स्फारितानि, हस्ते योधायुधमिति तेषां लक्षणम् । तिर्यग् रेखायां रूपाङ्गभावः प्रकटो भवति ॥ १२॥ इति विशेषः । रौद्रभावात् तनुषि विकारो जायते । स वीरभावः पञ्चमः ॥ १३॥ तेष्वसमानि कायमुखनेत्राणीति लक्षणम् । कौणपलक्षणान्विता द्रुता पादरेखा समसरला देवराक्षसयोर्मध्ये घातकर्मेव । तेषां मुखे वैरभावस्तल्लक्षणं भवति भयङ्करतूर्वयाण इव । वैरभावे उत्कटे भयङ्करो (९८) भवति । स वैलक्षणः षष्ठरसः ॥ १४॥ उभयपार्श्वे रूपस्याङ्गवैषम्यं ध्येयम् । ये वर्धितास्ते बीभत्सा ग्लानियुक्ताः । कुरूपाः क्षिप्ताङ्गाः मारुतरेखायामिति स सप्तमः ॥ १५॥ कामे निवृत्ते दैवभाव उपजायत इति शेषोपायः । अवगत्या विरतो भवतीति । शान्तभावः, सोऽष्टमो रसः ॥ १६॥ एवं जीवस्याष्टविकाररूपेणाष्टभावाः सम्पद्यन्ते (९९)। भावानुगतरूपाणि चतुर्धा मुख्यानि ॥ १७॥ येषां शान्तास्ते सर्वेऽग्निरेखाश्रयिणः । येषां करुणास्ते सर्वेऽब्रेखाश्रयिणः । आलस्यमूर्तिषु सर्वेऽबाश्रयिणः । येषां सर्वाङ्गानि कर्णरेखाश्रयाणि ते रौद्राः । रौद्रा मिश्रा वैरा मारुतरेखाया आधारः । इहानुशासनं ध्येयम् । अथ शिल्पकाश्यपो होवाच । किमर्थं भावप्रबोधनार्थं रूपाणि ? कस्तस्य हेतुः ? भेदाद् दैवज्ञानमुपजायतेऽन्यच्च-भगवन्तः सत्यद्रष्टारो भावबोधार्थं ब्रुवन्तु । पिप्पलादो होवाच लोके भावबोधस्य हेतुर्मनः ॥ १८॥ तद्भेदे भेद उपजायते देवयोन्यः, पितरः, सोमः, आशापालाः, विश्वेदेवाः, राक्षसाः, हि (ड़) ङ्गादयः । सर्वस्य वृत्तिरस्ति । सर्वे पृथक् कति मित्राणि कत्यरयः । अरिभावस्तेषां सन्धाः । होतारो देवान् यजन्ति । पिशाचमोक्षणार्थं तर्दादि (१००) विमोचनार्थं यज्ञमाचरन्ति । एषा जैवसन्धा । यज्ञात् पिशाचा विनश्यन्ति । अरिसाधनार्थं ब्राह्मणाः पर्णमणिं धारयन्ति कवचे । ब्राह्मणा यज्ञबलेन, क्षत्रिया आयुधबलेन, वैश्या भूमिरसज्ञानेन, शूद्राः परिचर्यया दीप्ता भवन्तीति वर्णभेदे क्रियाः । मोक्षार्थं यथा ब्राह्मणा यज्ञमाचरन्ति तथा त्रयो वर्णा रूपसपर्यायां मोक्षं लभन्ते । भावान्मुक्ता भवन्ति । एवमारोपणे रूपं ध्येयम् । एतदर्थं रूपध्यानेन बाधः । मनुष्याणां वृत्तिर्मुख्येति ॥ १९॥ वृत्तेर्निष्कल-सकल-भावा उपजायन्त इति मार्गः क्रियायाः परिणाम इति । तदर्थं शिल्पज्ञानाद्रूपं ध्यायन्ति, स्थापका ब्राह्मणा भवन्ति । सङ्कल्पाद् विकल्पः ॥ २०॥ इति विशेषः । यथा सङ्कल्पाद् विकल्पः तथा भोगेच्छान्ते अरिमर्दनेच्छोपजायते । मर्दनान्तो भोगः । एतदिन्द्रियचक्रम् । विकल्पभावात् श्रद्धा, श्रद्धायाः सत्ताभावः, सत्ताभावाद् भावयजनं प्रसरति । तद्भावेन रूपं रूपं प्रतिरूपाणि जायन्ते । एष भुवनकोषो देहानुभूत्याः क्रमः ॥ २१॥ श‍ृणु तत्क्रमं शिल्पश्रोतारः । ततः श्रोतारः पप्रच्छुः- भगवन् को भुवनकोषः? किं तत्स्वरूपम्? कस्तस्य क्रमभेदः? वदतु धर्मपुरुषपिप्पलादमहामतिः शिल्पकाश्यपाः पृछन्तीति । देहभुवनकोषस्य लक्षणं देहानुभूतिमिति । अथ भगवान् पिप्पलादः प्रवचनेन वव्रे । शिल्पकाराः सर्वकर्मणि शतकेशिवृषं प्रार्थयन्ते- ॐ रुद्रशतकेशाय रुद्र एतद् नाशय भयं रुद्र शतशीर्ष शमय भयं वृषरूपाय शतकेशाय च धर्मरूपाय ते नमः । इति ब्रुवाणान्तरं पिप्पलाद उवाच । श‍ृणुत, भुवनाः(१०१) तरणस्य सन्धाः । होतारो वैश्वानरे प्रजापत्यादिदेवान् यया वाचाऽऽजुह्वति स मन्त्रः (१०२)। स ध्वनिः, ध्वनेर्ब्राह्मणाऽऽत्मज्ञा भवन्ति, ते ध्वनेर्देवलक्षणानि कल्पयन्ति,ऋषीणां तल्लक्षणम् (१०३), तल्लक्षणं हि ऋतम्, तल्लक्षणाद्रूपं वृणुते मनुष्यलोके । यज्ञाद् ध्वनिः, ध्वनेर्लक्षणं, लक्षणादूपं, रूपाद् भावः, भावाद् गुणः, गुणात् क्रिया, क्रियाया आचारः, आचारादुपायः, उपायाच्चेष्टा, चेष्टाया मार्गः, मार्गादूपाणि, रूपात् प्रतिरूपाणि (१०४), रूपविद्याबोधाद् रूपक्रिया, एष सपर्याक्रमः वेदस्यायने भुवनकोषः । अरूपाद्रूपं तस्य फलम् ॥ २२॥ आदित्यो ह वै ब्रह्म, तदर्थं यज्ञः, दिशः पृथिव्याः सम्बन्ध इति मूलम्, आदित्यो ह वै ब्रह्मेति तस्य ध्वनिः । ध्वनेर्लक्षणं सूर्यस्य रश्मेर्या यत्र देवता पतिरेक आसीत् । तल्लक्षणम् । रश्मिभिर्द्विजा यजन्त्यमृतरथेनेति तस्य रूपम् । सूर्यो ज्योतिष्पतिरिति भावः, भावाद् गुण इति, स सूर्यस्तपति विश्वमिति तस्य गुणः, तद्गुणानुसृतौ ब्राह्मणा गायत्रीं जपन्ति, ये च इमे भूम्यामधियजन्ति दिवं प्रयान्तीति तत्क्रियाः, तारकामुपेत्य त उत्तिष्ठन्ते ब्राह्मणा इत्याचारः, त्रिकालेन कालसन्ध्यां प्रयोजयन्ति मन्त्रैः, प्रजायाः संरक्षणे ब्राह्मणा द्रविणं दधति, स उपायः । मन्त्रसङ्ख्यासहितं प्रयोजयन्ति क्रियाः, सा चेष्टा, सा बहुधा श्रूयत इति मार्गः । एवं बहुमत्या दैवत्वे रूपं, रूपेणानेकत्वं जायते । तद्रूपं प्रतिरूपमिति, तज्ज्ञानं रूपविद्या, तच्छिल्पसूत्रमिति । वेदस्यायने रूपभुवनकोष इति, एतदर्थं रूपार्थं दिशः । अरूपाद्रूपं तस्य फलमिति पूर्वं वेदेनोक्तम् (१०५)। दिशानुसृतेर्दिशापालानुपासन्ते (१०६) ॥ २३॥ प्राच्यामादित्यः, दक्षिणे यमः, प्रतीच्यां वरुणः, उदीच्यां सोमः ध्रुवायामग्निः एवमहल्लिकाः (१०७) वदन्ति, एवं पूर्वं वेदेनोक्तम्, तदा दशप्रचेतसः (१०८) आदित्या आशापालाः (१०९) सन्ति, य एवं वेद । एवं दैवभेदान्मार्गभेदा जायन्ते ॥ २४॥ मार्गाद्रूपञ्च, अप्राकृतं नानृतं च । विष्णुदैवताद् वैष्णवाः (११०), रुद्राद् रौद्राः, इडाया ऐड़ाः, अम्बाया अम्बिनः, सवितुः सौरा भवन्तीति । एतेन भेदेन ब्राह्मणाः प्रतिरूपाणि यजन्ति, य एतज्जानाति स रूपज्ञः (१११), ये रूपशैले रूपमाचरन्ति ते रूपकाराः, ते रूपबोधे रूपाण्याचरन्ति । तद्रूपार्थं कामचारा यज्ञं कुर्वन्ति (११२) कामनया य एवं वेद । इति वाक्कायमनोमार्गेण पिप्पलादकल्पे सम्प्रदानं चर्चाक्षेण मुनिश्रोतॄणामुपनिधानेन रूपभावनाबोधाध्याय इति पञ्चमप्रपाठकः ॥

षष्ठः प्रपाठकः

सम्बन्धप्रबोधनं अथाथर्वणाङ्गिरसशिल्पकाश्यपादय उपेत्य पिप्पलादमाश्रमे पप्रच्छुः, भगवन्तः कुतो ह वा रूपे भेदः सञ्जायत इति श्रोष्यामः श्रेयः । तान् ह स पिप्पलादो होवाच, इयं- न्यासधारणा श्रेष्ठा ॥ १॥ सा धारणा सृष्टिः । सौम्यपिप्पलादः सुप्रसन्न इदं वव्रे, यथा प्रजाकामो वै प्रजापतिः स तपोऽतप्यत, स तपस्तप्त्वा मिथुनमुदपादयत्, रयिञ्च प्राणञ्चेति, एतौ मे बहुधा प्रजाः करिष्यत इति पूर्वे प्रश्ने मयोक्तम् । तथा कामचारिणः सुखं कामयन्ते । सुखमसीमं तत् सुखचक्रे - वृत्त्या दैवचिन्तने भेदः सञ्जायते ॥ २॥ स हि द्विधा, तद्भेदात् प्रतिरूपाणि कल्पयन्तीति वादः । अथ हैनमाथर्वणाङ्गिरसादयस्त्रयः श्रोतारः पप्रच्छ्रः, भगवन्तः रूपाकले केनोपायेन ब्राह्मणा दैवेऽन्यसन्धामारोपयन्ति । कथं न्यसन्ति । ततः षोडशकलपिप्पलादपुरुषो होवाच श‍ृणुतामृतस्य पुत्राः । लक्षणप्रकाशार्थं शिल्पविद्या ॥ ३॥ शिल्पोद्गीथाः पुरोहिता क्रमेण बहुधा न्यासमाचरन्ति । स्थापकास्तथा च । न्यासोऽलङ्कारमुद्राऽऽयुधबाध्रकक्ष वाहनोपदेवारिस्तुवक क्रमेण रूपनवाङ्गमिति ध्येयम् ॥ ४॥ स रेखान्यासः, अलङ्करणम्, मुद्रा, बाध्रः, कक्षः, वाहनम्, उपदैवतम्, अरिणः, स्तुवका (इत्येवं) कल्पयन्ति । आश‍ृणुत वत्सास्त्रयः, न्यासनवाङ्गानुशासनमिति पिप्पलादो वव्रे । रेखां रूपाङ्गसौष्ठवप्राप्त्यर्थं शैले लिखन्ति प्राज्ञस्थापका । इति नवाङ्गं न मानुषे, दैवक्षेत्रे मुख्यम् । उष्णीषमस्तकाः कारुकाराः शैलक्षेत्रे दैवभावे रेखाः वज्रचूर्णेन लिखन्ति । तिस्रः रेखाः श्रेष्ठाः ॥ ५॥ ऊर्ध्वरेखा अग्निरेखाः यथा शिखा उत्थिता प्रज्वलति । पार्श्वगा रेखा अपछेदा यथा नदीनां प्रवाहः । कर्णक्षेत्रगा भेनकारेखा मारुतच्छेदा मारुतस्य तिर्यग्गतिरिव, उदाहृतरेखया शैलक्षेत्रे पञ्जराख्यं कोष्ठककर्माऽऽचरेत् । एष कोष्ठकः अग्न्यम्मरुतरेखासमष्ट्या संयोगेन सम्भवति । रूपक्षेत्रे कोष्ठकालिर्मुख्या ॥ ६॥ शैलगुहायां भित्तौ सूक्ष्मकोष्ठकरचने आकलान्युपलभ्यन्ते सुखेन । यथा षोडशकलो (११३) वै पुरुषः षोडशांशैः पूर्णो भवति तथा - षोडशकोष्ठकमध्ये रूपाणि प्रभवन्ति तद्रूपार्थं श्रेष्ठम् ॥ ७॥ वज्रचूर्णेन सह तत्क्षेत्रे शलघूर्णिकया वृत्तमेकं रचय मर्मलाभार्थम् । स नेमिः ब्रह्माभास इति । रूपे तद् विलं प्राणविलम् । विलमिति मर्म, ब्रह्मेव ध्येयम् ॥ ८॥ तन्मर्मणाऽङ्गभावः प्रसरति । षोडशकोष्ठकप्रमाणविभागस्तु ब्राह्मदैवजैवोपदैवयाजकक्रमेण पञ्चधा ध्येयः ॥ ९॥ कोणचतुष्टयावलम्बनेन नेम्या सह कोणवर्गं कर्तय । कर्तितकोष्ठके, ऊर्ध्वदेशस्य क्षेत्रद्वये यक्षगन्धर्वानप्सरसादीन् खोदय । अधःस्थं तदनुपातय । क्षेत्रद्वयं स्तुवकक्षेत्रम् । उभयकोणे मानवोपासकं रचय । अधोमध्यस्थलेकोष्ठकौ द्वौ जीवक्षेत्रं दैववाहनार्थम् । मध्यस्थाश्चत्वारः कोष्ठकाः ब्रह्मक्षेत्रम् । तत्रार्चारूपस्याङ्गनिर्णयः । अधोर्ध्वावधि तुङ्गाङ्गपर्यन्तमापादशीर्षमाचर । ब्रह्मक्षेत्रस्य वामदक्षिणस्थं क्षेत्रचतुष्टयं जायाक्षेत्रम् । रूपाङ्गं चतुर्धेति विशेषः ॥ १०॥ पार्थिवाङ्ग, जैवाङ्गं प्राणाङ्गं देवताङ्गमिति । पादान्ताद् गुल्फपर्यन्तं पार्थिवाङ्गं (११४), गुल्फान्नाभिपर्यन्तं जैवाङ्गम् (११५) , नाभेः कण्ठावधि प्राणाङ्गम् (११६) , कण्ठाद् ब्रह्मरन्ध्रपर्यन्तं द्योताङ्गम् (११७)। तन्मूर्तितारकममूर्तितारकमिव (११८)। यथापूर्वं वेदेनोक्तम् । ऊर्ध्वयुगभागयोः रूपस्याननालङ्कारैः सह दैवतेजोमण्डलम् । अण्डाकारं पिण्डाकारं वा स्यात् । तत्र शुक्लज्योती रसामृतं (११९) विद्यते । एवं रूपेऽङ्गभेदाश्चत्वारः शिलादेवतार्थम् । वामे दक्षिणे क्षेत्रद्वये दिव्यक्षेत्रे देवशक्तिभिरुपदैवतानि तिष्ठन्तीति, उभयदिशि कोष्ठकाश्चत्वारः । एवं षोडशकोष्ठकानां सन्धा इति । महासूत्रं सर्वरूपक्षेत्रे विधेयम् । इति सौम्यः पिप्पलादो वव्रे । अथ शिल्पकाश्यपाङ्गिरसकोशलादयः पप्रच्छुः, भगवन्तो वास्तुकर्माङ्ग-अवतारषोडशकलपुरुषपिप्पलादाः । केनोपदेवता रूपे भावं प्रददाति । काः सन्धाः श्रेष्ठा इति । वरदव्याख्यानकरसंयुतः स्वस्तिमुच्चार्य्य, सौम्यः पिप्पलादो होवाच । आश‍ृणुत शिल्पर्षयो बिन्दुसन्धामादौ । बिन्दुर्ब्रह्मेव ब्रह्मध्रुवम् ॥ ११॥ रूपकोष्ठकान्तराले बिन्दुर्द्विधा । ब्रह्मबिन्दुर्मध्यबिन्दुर्ब्रह्मेव । ऊर्ध्वमध्यगः सत्याख्यबिन्दुः द्वौ विशिष्टौ । ब्रह्म सत्यादौ ॥ १२॥ यथाऽऽदिपुरुषस्य नाभेः प्रजापतिः स्रष्टा सृजति प्रजाः । ब्रह्मजज्ञानं प्रथमं पुरस्तात् यथा जनन्या नाभितन्तोर्नालतन्त्ववधारणे मातृकोषे भ्रूण उपजायते लोकसृष्टौ, तथा रूपे । ब्रह्मबिन्द्ववलम्बनेन रूपाङ्गानि सौभगानि भवन्ति ॥ १३॥ तस्योर्ध्वबिन्दुः सत्यबिन्दुः । भ्रुवोर्मध्ये हिरण्मयेन (१२०) पात्रेण ब्रह्मरसो विद्यते । तद्रसाद् ज्ञानं प्रसरति जीवे । तथा रूपाकले तद् बिन्द्ववलम्बनेन रूपाङ्गवैभवं कल्पयन्ति स्थापका इति । पुरुषीरूपार्थं ब्रह्मकीलस्य त्रिभागानां मध्ये मर्मार्थं बिन्दुं चिन्तयेत्, येनोपायेन रूपाणि सुभगानि भवन्ति, सिद्धिं प्रददति । लोकाः प्रहृष्टा भवन्तीति । अथ श‍ृणुत श्रोतारः अलङ्करणन्यासम् । अलङ्करणं दैवभूषणमिति ॥ १४॥ तद्भूषणात् प्रेक्षाभावः प्रसरति, याजका प्रहसन्ति । बहुधा भूषणं ग्राह्यम् । उष्णीषम्, राज्ञां त्रिवलिकिरीटम्, केशग्रन्थिम्, ऋषीणां जटाम्, कर्णे नागकडारम्, लोलम्, प्रवर्तम्, वलयम्, पैण्डं, कुम्भं च रचय । कण्ठार्थं कुशच्छन्दः, स्वर्णनिस्पम्, रज्जुयुगलमिति, कट्यां मेखलाग्रन्थिम्, वस्त्रमाजानुलुलितम् । ऋषीणां कृष्णसारचर्मसूत्रम्, नारीणामङ्घ्रौ पञ्चवलयम्, करे व्यालच्छदः, करतले रैखादीन, दैवपक्षे शङ्खपद्मादिनिधिलक्षणं निधेहि । इन्द्रार्थं वपूष्णीषम्, पशुपत्यर्थं विष्कचर्म, व्यालोत्तरीयादि दैवभूषणं रचयेति । अलङ्कारदर्शनान्मानुषाः सर्वे प्रमुदिता भवन्ति । प्रतिमुचः रतिः प्रसरति ॥ १५॥ रत्यास्तद्दर्शनं भवति । स एष रूपप्रज्ञया (१२१) ब्रह्मसाक्षात्कार (१२२) आनन्दमिति, एवं वेदे । करमुद्रा रूपस्य भावं ज्ञापयति ॥ १६॥ श‍ृणु रूपबोधे मुद्राङ्गसन्धाः । यज्ञकर्मणि दैवाङ्गे च यथा यज्ञकृत्ये होद्गीथाः करान् गाथाभिः सह प्रदर्शयन्ति प्रसारयन्ति सा मुद्रा । यज्ञस्य साधनमिति । रूपे तां योजयन्ति रूपकाराः रूपेऽत्र न भेदः, यत्क्रिया रूपाङ्गे प्रतिफलिता भवति । मुद्रापञ्चकं श्रेष्ठम् । तर्जनीवराभययोगव्याख्यानमिति । यथोद्गीथाः सदस्या उत्तरारण्यामवरारणिचालने उदूखलप्रोक्षणे करौ प्रसारयन्ति । स्थण्डिलशोधने, कुशाण्डिके, पुरोडाशप्रोक्षणे च तन्मुद्रापञ्चकम् । तस्य प्रयोगं श‍ृणु सौम्येति । अरणिमन्थने, - ॐ अग्नये मथ्यमानायानुब्रूहीत्युच्चार्य अध्वर्युर्मन्त्रेणाङ्गुलिं प्रदर्शयति सा तर्जनिका मुद्रा रूपे सौम्येति । यथा उदूखले हविर्वैतानप्रसारणार्थं करान् प्रसारयन्ति उदूखलोपरि सा ध्वजमुद्रा रूपे सौम्येति । स्थण्डिलवीक्षणे यज्ञगाथागायने- ॐ यज्ञं ब्रूमो यजमानमृचः सामानि भेषजेति वाक्यमुच्चार्य्य ब्राह्मणा यथा वैश्वानरं प्रार्थयन्ति करसम्पुटेन साऽऽवाहनीति वरमुद्रा रूपे सौम्येति । प्रवरकर्मणि कुशाण्डिकाकाले दर्भकङ्कणं करे धृत्वा यथाऽऽचार्या वैश्वानरमुत्थापयन्ति करप्रदर्शनेन सा रूपेऽभयमुद्रा रूपे सौम्येति । एवं च वराभयमुद्रायुग्मं रूपस्य ब्रह्मक्षेत्रे ध्येयं, न जैवक्षेत्रे (प्रवण) आभाति सा कोष्ठके । पुरोडाशाच्छादने यजमानं प्रति, पुरोडाशवत्सा सुदुघा लोकेऽस्मा उपतिष्ठतीत्याद्युच्चार्य्य यथा सदस्या एषां करान् प्रदर्शयन्ति, हविष-इत्यादिवाक्येन पुरोडाशस्विष्टकृते यजन्ति सा योगमुद्रा रूपे, व्याख्यानमुद्रापि रूपे सौम्येति । इति मुद्रापञ्चकं रूपे ध्येयम् । अथ श्रुणुत शिल्पाध्येतारः शिल्पे (१२३) बाध्रसन्धाम् । बाध्रं बलं ज्ञापयति रूपे ॥ १७॥ बाघ्रमित्यायुधं (१२४) । सर्वं तनुवत् । कौणपान् प्रति देवाः क्षिपन्ति । तदाऽऽयुधस्य मन्त्रबीजानि (१२५) ध्येयानि । मन्त्रहीनायुधं लोष्ट्रं भवति । तथा खोदनेऽपि मन्त्रम् (१२६) उच्चारयन्ति स्थापकाः । तथाऽऽयुधस्य द्वादश बीजानि जानन्ति मन्त्रिणः । मन्त्रस्य सूक्ष्मनादो बीजमिति । तद्योगेन मन्त्रक्रिया प्रकटी भवति । इन्द्रस्यायुधं वज्रः । ॐ वं वज्राय, वम्बीजेन प्रोक्षन्ति सा संहारशक्तिरिति (१२७)। मरुतस्यायुधं ध्वजः । ॐ धं ध्वजाय, धम्बीजेन प्रोक्षन्ति । एषा धूनन (१२८) शक्तिरिति । यमस्यायुधं दण्डः । ॐ दुं दण्डाय, दुम्बीजेन प्रोक्षन्ति । सा घातनशक्तिरिति । वरुणस्यायुधं पाशः । ॐ पं पाशाय, पम्बीजेन प्रोक्षन्ति । साऽऽकर्षणी शक्तिरिति । ईशानस्यायुधं शूलम् । ॐ शुं शूलाय, शुम्बीजेन प्रोक्षन्ति । सा भेदनशक्तिरिति । सोमस्यायुधं पात्रम् । ॐ पं पात्राय, पम्बीजेन प्रोक्षन्ति । सा प्राणशक्तिरिति । वैश्वानरस्यायुधं स्रुक् । ॐ स्रुं स्रुवाय, स्रुंबीजेन प्रोक्षन्ति । सा त्यागशक्तिरिति । सूर्यस्यायुधं पद्मम् । ॐ पं पद्माय, पम्बीजेन प्रोक्षन्ति । सा प्रल्हादिनी शक्तिरिति । अम्बाया आयुधं माला । ॐ मं मालायै, मंबीजेन प्रोक्षन्ति । सा ध्यानशक्तिरिति । विष्णोरायुधं चक्रम् । ॐ हुं चक्राय, हूम्बीजेन प्रोक्षन्ति । सा माया (१२९) शक्तिरिति । कुवेरस्यायुधं कुम्भः । ॐ कं कुम्भाय, कंबीजेन प्रोक्षन्ति । सा निधिशक्तिरिति । गणदैवतस्यायुधमङ्कुशः । ॐ अं अङ्कुशाय, अम्बीजेन प्रोक्षन्ति । सा संयमशक्तिरिति । रीत्या नादयुक्तं रचयन्ति कारुकारा आयुधानि । नाद इति मन्त्रस्य रसः । स हि बीजमिति कृत्यं ज्ञेयम् । षोडशकोष्ठकेषु रूपस्य करसंयोगे नेमिस्पर्शनं ध्येयम् । अथ वास्तूद्गीथान् प्रति कक्षासन्धां सौम्याननो वव्रे (पिप्पलादः) । आसनषट्कं मुख्यम् ॥ १८॥ आसनं रूपस्य कृत्यं प्रकाशयति देहस्याकृतिः प्रकेतनमिति । उत्सर्गा चासीन चेति भेदेन द्वे मुख्य इति । रूपाकले या उत्थितास्ता (१३०) उत्सर्गाः । रूपभेदे या आसीनास्ता आसिका इति ज्ञेयम् । यथा यज्ञे यज्ञकर्मणि तथा रूपप्रयोगे ग्राव्णि च । आसनं षड्धा । यथा यजमानाः स्वशालायां दर्भासने उपविशन्ति तत् सुखासनं रूपे । यथाऽरणिमन्थने अग्निध्रा रज्जुं चालयन्ति तद् विषमासनं रूपे । यथा वेद्युपरि आचार्या उपविशन्ति तत् स्वस्तिकासनं रूपे । यथा सूत्रायणकाले रक्षाविधाने पिशङ्के सूत्रश‍ृङ्खले तद्बन्धनकाले ब्राह्मणा वसन्ति तद् योगासनं रूपे । यथा सवित्राराधने द्विजा उपविशन्ति तत् कुक्कुटासनं रूपे । यथा होद्गीथा वाजसनेयसंहितोक्त सन्ध्योपासनकाले करौ प्राचीं प्रति प्रसारयन्ति तत् सौम्यासनं रूपे, इति प्रयोग । इति आसनषट्कं रूपे यज्ञे च । पप्रच्छुराङ्गिरस शिल्पकाश्यपादिश्रोतारो भगवन्तः किमर्थमासने भेदा जायन्ते, कथमुपवेशनार्थमेतद् ध्येयमिति । इत्यगम्यरूपबोधार्थं तेषां काः सन्धा प्रवदन्तु श्रद्धया सौम्याः । आसनाद्रूपस्य कृत्यभावं प्रचक्षते । सुखासनं रूपस्य शान्तभावं प्रददाति । विषमासनं वैरभावं क्षेपण-क्रियादि प्रकटयति । स्वस्तिकासनं प्राज्ञभावं प्रकटयति, योगासनं ब्रह्मानुभूतिमात्मानुभूतिभावं च विज्ञापयति । कुक्कुटासनमुद्ग्रीवभावं प्रकाशयति । सौम्यासनं स्थैर्य प्रददाति । रूपाकलार्थमेतद् ध्येयम् । सर्वे शिल्पाचार्या ब्रह्मक्षेत्रे षोडशकोष्ठकान्तराले नेमिमध्ये रूपान्वये एतदाचरन्ति । श‍ृणुत प्रियङ्करश्रोतारः, रूपाकले दैववाहनस्य (१३१) सन्धाः । वाहनानि रूपस्य गुणान् प्रकाशयन्ति विज्ञापयन्ति । गुणानुसृतं रूपत्रयम् ॥ १९॥ सत्त्वात् सात्त्विकानि रजसो राजसानि तमसस्तामसानीति भेदाः । यानि रूपाणि सायुज्यं प्रददति तानि सात्त्विकरूपाणि । यानि कायसुखप्रदायकानि तानि राजसानि । यानि रूपाण्यरिं प्रति मृत्युप्रदानि तानि तामसानि (१३२) । गुणानुक्रमेण वास्तुवेदस्य रूपविद्या इति व्याख्यानम् । य एनां वेद । श‍ृणु वाहनस्वरूपम्- वाहनं रूपस्य प्रकृतिज्ञापकविशेषः ॥ २०॥ यथा इन्द्रो (१३३) दिग्गजानाकर्षति । पर्जन्यं वर्षयति । तथाऽऽकर्षणात्मकं ऐरावतमारोहति । यथा यमो जीवस्य प्राणानाकर्षति, तथा घोरमहिषम् (१३४) आरोहति । यथा वैश्वानरो याज्ञिकैर्दीप्तो भवति, तथा मेषम् (१३५) आरोहति । यथा एकायने सविता भ्रमति सप्ततन्तुस्तथैकरथाङ्गाढ्यरथम् (१३६) आरोहति । यथा रुद्रो धर्मं सञ्चारयति तथा धर्मवृषभम् (१३७) आरोहति । यथा प्रजापतिर्ज्ञानेन प्रजा आकर्षति तथा हंसं (१३८) आरोहति । यथा विष्णुर्मोक्षं प्रददाति तथा सुपर्णम् (१३९) आरोहति । यथाऽम्बा (रिपु) वर्गं नाशयति तथा द्वीपिनम् (१४०) आरोहति । वाहनानि षोडशकोष्ठके जैवक्षेत्रे ध्येयानि । रूपे ब्रह्मक्षेत्रस्य निम्ने, अधोऽन्यच्च श्रेयः । आश‍ृणु उपदैवतस्य सन्धाः । सौम्य पिप्पलादो वव्रे (१४१)। उपदैवतं प्रतिरूपमिति ॥ २१॥ प्रजापतेरेते सर्वे देवा इमानि पञ्च महाभूतानि तद्गुणा पृथिवीवाय्वाकाशाब्ज्योतिरित्येतानि जायन्त इति । तद्भूत-ज्ञानात् स्वस्वगुणभावरूप इव प्रचक्षते । तद्भूत-ज्ञानादुपदैवतभावाः सन्ति । यथा वैश्वानर (१४२) इति ब्रह्म । स यज्ञः । यज्ञस्य दाहिका (१४३) शक्तिः स्वाहा । पचनात्मिका स्वधा (१४४)। इत्थमुपदैवभावः प्रथितः प्रसरति तत्सपर्यायामिन्द्रस्य प्रजननशक्तिरिन्द्राणी (१४५)। मारुतस्य वेगिनी शक्तिर्वायुनायी सा द्रुता ।यमस्य द्वौ गुणौ, पालिकाऽवनाशिकेति । तस्य पालिका शक्तिराकुतिः (१४६) , अवनाशिका मृत्युरिति (१४७)। वरुणस्य प्रवाहिका शक्तिर्वारुणी (१४८)। सोमस्य धारिका शक्तिरिलेति (१४९) । सूर्यस्य सवितुरवलम्बिनी शक्तिश्छाया (१५०) । साऽऽवेशिनी शक्तिरुषा (१५१)। विष्णोर्मुक्तिप्रदा श्रीशक्तिर्हिरण्यवर्णा हरिणी (१५२) धारिणी शक्तिः पृथिवी (१५३)। शेषस्य सहना शक्तिः धृतिर्व्यापिनी शक्तिः विधृतिः यथा क्षमाऽन्नधृतिरिति । विधृतिः सौख्यमिति । हिरण्यगर्भस्य कालात्मिका शक्तिः । गायत्री (१५४) ज्ञानरूपा, सावित्री (१५५) मेधारूपा, सरस्वती (१५६) प्रज्ञारूपा । देवी विशिष्टा त्रिकालरूपा च । राष्ट्रया (१५७) रुद्रेति । तस्य प्रजननशक्तिरम्बाऽम्बालिका (१५८,१५९) चेति द्वे । दुर्गाया रक्षणशक्तिः सुन्दरी मोहिनी चेति द्वे आकर्षणरूपे । एतत्क्रमे दैवगुणस्यानुक्रमे उपदैवतानि जायाभावेन जायन्ते । तदेतल्लक्षणानि । अथ प्रतिकीर्णमाथर्वणाङ्गिरसशिल्पकाश्यप-कुवित्स-कोशलादयः प्रणम्य पप्रच्छुः, भगवन्तः पिप्पलादा दिव्यपुरुषाः कथं का हेतय इत्यबोध्यमिति विशदेन ब्रुवन्तु सौम्याः । दिव्यपुरुषपिप्पलादो वव्रे । शिल्पोद्गीथाः श‍ृणुत वक्ष्यामो विस्तरेण अपसार्थममुथ उपरूपाकलस्यानुशासनं पूर्वं वेदेन यथोक्तम् । प्रजापतिरसृजत् कालम् । दक्षिणोत्तरौ द्वौ । उत्तराद्देवा दक्षिणात्पितरः । उत्तरात्सविता दक्षिणाञ्चन्द्रमाः । प्रतिकाममृषयो दक्षिणं प्रतिपादयन्ति । तत् पितृयानं रात्रिरिति । ब्रह्मचारिणो मोक्षकामा उत्तरम्प्रतिपादयन्ति । तद्धि देवयानं दिवम् । दक्षिणादर्यमलोकाः पञ्चपादपितरः (१६०)। उत्तराद्द्वादशाकृतिदिवमाहुः । एतन्न्याये गुणेनैकं ब्रह्म द्वादशधा भवति । तथा हि सूर्यो ज्योतिषां पतिरिति गुणानुसृतेर्देवस्तल्लक्षणानुसृते रूपाणि, ततः प्रतिरूपाणि जायन्ते । एतत्सत्यम् । यथा यज्ञात् त्याग (१६१) इति मुख्यम् । दैवभावे तत्स्वाहा (१६२) । त्यागवृत्तिरिति स्वाहा । भोग्यमिति स्वधा, इदं पितृभावः । यथा विष्णुर्मोक्षं ददाति । मोक्ष इति श्रीः । भोग्यरूपेण पृथिवी भोग्या (१६३) । यथा रुद्रस्य मोक्षगुणादम्बा, भोगवृत्त्याऽम्बालिकेति द्वे । यथेन्द्रस्य त्यागवृत्त्या यज्ञाः, भोगवृत्त्येन्द्राणीति । यदा गुणा बहुधा उपवृत्त्या (तदा) बहुधा प्रतिरूपाणि भवन्तीति परिपश्यन्ति धीराः । यथा वैश्वानरस्य सप्त वृत्तय उत्थानाद् विलयान्तं प्रवदन्ते । क्रमेण ताः स्निग्धा, धूम्रा, तप्ता, उत्तप्ता, दाहिका, भस्मा, निर्वाणेति । एतत्क्रमेणाग्निस्तपति । तद्गुणात् सप्त जिह्वा जायन्ते । जिह्वायाः प्रतिरूपाणि कल्पयन्ति । (पूर्वक्रमेण) काली, कराली, मनोजवा, सुलोहिता, सुधूम्रवर्णा, स्फुलिङ्गिनी, विश्वरुची इत्येताः सर्वाः स्त्रीरूपाः रूपभावे ग्राह्याः । यथा श्रुतिरिति महती । सा मेधारूपेण भारती सम्भवति । मेधाया यथा वाणी प्रभवति तथा श्रुतेर्महती महीयसी सरस्वती (१६४) जायते पराविद्याया रूपा । तत्तदाकारात्मिकाः पुष्टिभावेन लक्ष्मीदेवहूत्यादयः । एताः सर्वाः षोडशक्षेत्रस्य द्विपार्श्वे दैवक्षेत्रे तत्तद्रूपस्य जायाभावेनोपदैवतानीति सत्यं ध्येयं -रूपकारा वास्तूद्गीथाः । उपदैवताद्रूपज्ञानं प्रसरति ॥ २२॥ सपर्यया भूतविद्याः (१६५) प्रशम्यन्ति । अरिसन्धा ध्येया ॥ २३॥ रूपधाराया वृत्तिरिति श्रेष्ठा ॥ २४॥ अथ रूपधारायाः श‍ृणु वृत्तिभेदान् । यथा वृत्त्याः परिणामः । प्राजापत्य -प्रथम-वृत्तिर्मनः (१६६)। मनसो वृत्तिः प्राणः (१६७) । प्राणस्य वृत्तिः क्रिया । क्रिया हि विद्या (१६८) । सा द्विविधा कथयन्ति ऋषयः । सदसद्विद्येयम् । या ऋतस्य धारा सा दैवक्रिया । सा परा विद्या । या अनृता सा अक्रिया । सा अदैवा अपरेति । तदपराज्ञानादसुराः । अहर्देवा आश्रयन्ते रात्रिमसुराः (१६९) । येषां भयशोकाः सन्ति, यथा निकन्दिनः, कण्वजम्भाः, यातुधानाः, पृश्निपर्ण्यादयोऽवयोनयो गुणानुभेदेनैते सर्वेऽन्यार्थघातकाः सर्वेऽरिणो देवे च लोके यज्ञं घातयन्ति । एते सर्वे शलभक्षका बीभत्सरूपाः कोकमुखा रुक्षग्रीवाः शिमिजाः (१७०) । सर्वे वैराज्यकिम्पुरुषाः क्रुधा दैवघातकाः । एतानरीन् षोडशकोष्ठकरूपक्षेत्रे मर्दितरूपेण जैवक्षेत्रे आचरन्ति प्रतिरूपचर्यायाम् । एते शलभक्षिणो देवानां भयदा भवन्ति । एतैस्तेषां दुःखम् । यज्ञात् तरन्ति । एतदर्थं केचिद्वा ऋषीन् ध्यायन्ति देवाः । देवयजनान्मुनयो मनस्विनो भवन्ति । दैवभावेन देवार्थं होतारोऽन्नसमिधः क्षिपन्ति वैश्वानरे । ऋषयः स्तोतारो भवन्ति । स्तोतॄणां रूपे सुभगविशेषः (१७१) ॥ २५॥ गाथाः (१७२) पठन्ति । जना यजन्ति बहुधा रूपं सर्वक्रियाधारः मनुष्यलोके रूपविद्या । नादः सत्यमिति ध्येयम् । रूपं चरन्ति वास्तुवेदिनः स्थापका वास्तूद्गीथाः । स्तोतॄणां बहुधा पैला नालन्दिनोऽप्सरसो देवान् मोदयन्ति मोदकाः । कायमनोवाक्येन गायन्ति ते स्तुवका भ्राजिनः । यक्षा गायन्ति गाथाः । गन्धर्वा (१७३) देवानन्दार्थं नृत्यन्ति । सर्वे मिश्रयोनयः षोडशकोष्ठकक्षेत्रे ऊर्ध्वकोणगतक्षेत्रे निधेयाः उपदैवक्षेत्रे । ये नरा दैवभावपरायणास्ते याजका । ध्याने तेषां सत्ता दिव्येव विभाति । तान् जैवक्षेत्रस्य पार्श्वगतक्षेत्रे अधःक्षेत्रद्वये न्यसेत् । एवं दैवरूपं षोडशकोष्ठके ध्येयम् । ते तु धन्या ये क्रतूँश्च यज्ञानाचरन्ति उपासन्ते रूपाणि । रूपज्ञानाद् प्रज्ञा प्रभवति लोके । प्रज्ञार्थमेतद् वास्तूपाख्यानम् ॥ २६॥ एतदर्थं प्रज्ञां व्याख्यापयाम इति । वास्तुसूत्रोपनिषद् भगवतः पिप्पलादस्य भव्यं व्याख्यानम् । यो जानाति स रूपाचार्यो भवतीति वास्तूद्गाता इति ध्येयम् । ये ध्यायन्ति ते मुक्ताः । परमऋषिभ्यो नमः। स्तुता मया वरदा वेदमाता प्र चोदयन्तां पावमानी द्विजानाम् । आयुः प्राणं प्रजां पशुं कीर्ति द्रविणं ब्रह्मवर्चसम् । मह्यं दत्त्वा व्रजत ब्रह्मलोकम् ॥ (अथर्व १९.७१.१) इति ॐ नमो विश्वकर्मणे । ॐ विश्वकर्मा मा सप्तऋषिभिरुदीच्या दिशः पातु तस्मिन् क्रमे तस्मिञ्छ्रये तां पुरं प्रैमि । स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥ इति (अथर्व १९.१७.७) इति षष्ठप्रपाठकः समाप्तः ॥ परमऋषिभ्यो नमः । परमऋषिभ्यो नमः । सम्पूर्णेयं वास्तुकर्मावतारपिप्पलादस्य आथर्वणीय वास्तुसूत्रोपनिषत् । उड्रदेशिकेन आथर्वणोद्गात्रा सोमभट्टेन कृता परिशुद्धिटिप्पणी समाप्ता । इदं आथर्वणीय वास्तुसूत्रोपनिषद् अथर्वणाचार्यसोमभट्टेन कृत विषयबोधिनिटिप्पणी समेत लिखितं मया बाङ्की कुरुमचैनि ग्रामवासिना वास्तुशास्त्रि कामदेव उद्गाथा श्री रामचन्द्रदेव भूपालस्य पञ्चदशाङ्के राजा हरिचन्दन नृपार्थ । ॐ नमो महादेव्यै ॥

टिप्पणी

Footnotes of Vastusutropanishat (१) अथर्व ११.४.१६ मण्डलोक्तऋषिविशेषः । १९ काण्डे पञ्चमानुवाकस्य प्रवर्तक ऋषिः अङ्गिराः । (२) काश्यपशिल्पसूत्रकारः शिल्पकाश्यपनामा ऋषिः । (३) आथर्वणीय- षोडशविध- तापिनीग्रन्थाः-अवधूततापिनी, त्रिपुरातापिनी, नृसिंहतापिनी, पुरुषतापिनी, वृषतापिनी, इत्यादयः सर्वे आथर्वणीयाः । (४) वास्तुविषयकसूत्राणि । (५) वास्तुदैवतं वास्तोष्पतिरित्यर्थः । (६) काश्यपशिल्पसूत्रस्य देवशिल्प-प्रासादशिल्प-नगरशिल्प-दुर्गशिल्प-धातुकरण-लेखविचारादि विषयाः । (७) रूपशिलास्थापनार्थं शुभयोगे दर्भोत्पाटक आथर्वणब्राह्मणविशेषः । (८) शिल्पाधिदैवतम्, अथर्ववेदसंहितायामुक्तम् । विश्वकर्माणं ते सप्तऋषिवन्तमृच्छन्तु, अथर्व० १९.१८.७ । (९) पैप्पलादसंहितायां प्रथमकाण्डे उक्तं - श्यामा सरूपङ्करणी पृथिव्या अध्युद्भृता । इदमू षु प्र साधय पुना रूपाणि कल्पय ॥ १.२६.५ (शौ १.२४.४) (१०) मूर्तिश्चतुर्विधा प्रोक्ता मृण्मयी शैली एव च । धातवी दारवी चैव पूजनार्थे विशेषतः ॥ (११) आदित्यो यूप इति ऐतरेये उक्तं तथा तैत्तिरीये च । (१२) अथर्ववेदे वैतानसूत्रमिति । अथर्ववेदे १३.१.४७ उक्तम् । पुनः यूपमुग्रा मरुतः स्कम्भहिमं घ्रंसं चाधाय यूपान् कृत्वा पर्वतान् । इन्द्रेण मन्त्रे उक्तं पुनः अथर्ववेदे यूप स्कम्भरूपेण उक्तश्च दशमकाण्डे चतुर्थानुवाके दैवतरूपेण । (१३) गृह्यसूत्रे च अथर्ववेदे ७ काण्डे नवमानुवाके ३ सूत्रे उक्तम् । शतपथब्राह्मणे ``वास्तु हि तद् यज्ञस्य यद् घृतेषु हविषु'' इति उक्तम्, तद् देवता वास्तुपुरुषः शिखिन्यादि इति । (१४) ब्रह्मसुखं हि मधु इति अथर्ववेदे १.३४.१ उक्तम्- इयं वीरुन्मधुजाता मधुना त्वा खनामसि । मधोरधि प्रजातासि सा नो मधुमतस्कृधि ॥ (१५) प्रतिमा - अथर्ववेदे ९.४.२ उक्तं - अपां यो अग्रे प्रतिमा बभूव प्रभूः सर्वस्मै पृथिवीव देवी इति । वाजसनेयिसंहितायामुक्तं - असौ वै लोकः प्रतिमेषा ह्यन्तरिक्षलोके प्रतिमा इव इति ॥ (१६) ऋत्विग्विशेषाः आथर्वणपुरोहिताः । (१७) अथर्ववेदे २.८.१ काण्डे उक्तं उदगातां भगवती विचृतौ नाम तारके । इति ॥ (१८) पौलस्त्यस्य अपत्यं विश्रवापुत्रः रावणः । (१९) अथर्व ९.४.२ (२०) प्रयोगात्मकसूत्रमिति खिलम् । (२१) भीत्त्याकारे महाशैले दैवलीलादयो यथा । रूपशाला तपस्विनां मोदार्थमभिखोदिता । इति काश्यपवचनम् । (२२) स्तम्भ इति यूपः यूपः वै स्तम्भ (स्कम्भ) इति अथर्ववेदे १०.७ उक्तम् ॥ प्रयोगभेदे स्कम्भत्रयं ब्रह्मयजने स्कम्भो वै यूपः, पितृयजने वृषस्तम्भः, कामयजने मिथुनस्कम्भ इति भेदः । (२३) यद्गुह्यं अधिकोपायेन विग्रहप्रामाण्यं भवति । सा खिलपञ्जरविद्या, असाधारणी इत्यर्थः, गुह्यं रेखाज्ञानमिति । (२४) उद्गीथमुपासाञ्चक्रे । एतमेवाङ्गिरसं मन्ये । अङ्गानां यद्रसः । आत्मज्ञऋषिविशेषः । (२५) सपर्योपयोगिनी प्रतिमा । (२६) तैत्तिरीयब्राह्मणोक्तः नक्षत्रविशेषः यः शुभदायकः, अभिजिन्नाम नक्षत्रमुपरिष्टादिति वाक्यम् । (२७) अथर्व २०.१३७.३ (२८) एकवर्णा कपिला गौः पुरुरूपा गौरिति भावः । दैवतन्त्रे शक्तिप्राप्ता गाव । अथर्ववेदे १०.१०.६ उक्तं ``स्वधाप्राणा महीलुका'' इति । (२९) कुम्भीकामोचनार्थं अथर्ववेदे १६.६.८ उक्तम्-ॐ कुम्भीका द्वषीकाः पीयकान् । इति । (३०) शतकेशी रुद्ररूपो महावृषः । अथर्ववेदे ५.२२.८ उक्तः । यथा- महावृषान् मूजवतो बन्ध्वद्धि परेत्य । प्रैतानि तक्मने ब्रूमो अन्यक्षेत्राणि वा इमा । इति । (३१) तापवर्गप्रदयोनिविशेषाः तथा च अथर्ववेदे १९.३५.२ उक्तं स नो रक्षतु जङ्गिडो धनपालो धनेव इति । (३२) काश्यपसंहिताशिल्पशास्त्रे प्रथमाध्याये उक्तं -युजुवदण्डसंयुक्तं वलयं वेष्टितं तथा । रज्जुद्विमुष्टि यस्याग्रेऽप्ययः कीलसघूर्णिका इति । (३३) अथर्ववेदे ६.१९.१ अयं मन्त्रः । मर्मनिर्धारणे उपाध्यायाः पवमानसूक्तं पठन्ति इत्याचारः । (३४) पातनं मर्दनं चैवमङ्कनं सा त्रिधा क्रिया । खोदनोत्तरकर्माणि स्थापकः संस्मरेत् सदा ॥ काश्यपसंहिता अ। १, श्लो १४ । (३५) शुक्रशिलाचूर्णमिति वज्ररेखाङ्कनस्योपादानम् । (३६) कीर्त्तिरिति रूपं सा प्रतिमा तस्याऽऽधारः रेखापञ्जर इति । (३७) न मृण्मयप्रतिमार्थं रेखान्यासस्य प्रयोजनम् । (३८) वृत्तबिन्दुविषयाणि विशदरूपेण पिप्पलादीयप्रणवतारके ध्येयानि । (३९) ॐ विश्वकर्माय (विश्वकर्मणे) विद्महे कारुकाराय धीमहि तन्नो शिल्पी प्रचोदयात् । (४०) ॐ विश्वकर्माय (विश्वकर्मणे) नमः, इति तस्याष्टाक्षरो मन्त्र इति । (४१) न यज्ञशुल्वप्रयोगे विश्वज्योतिरित्यादिनिर्माणे प्रयोजनम् । (४२) दृश्यरूपेण शिलोपरि इति भावः । (४३) यस्मिन् देशे यथाकारे देवलीला प्रवर्त्तते । (४४) तालांशज्ञानसम्प्राप्ते शिल्पी स्थापक उच्यते । रेखान्यासं यो जानाति स रूपज्ञो भवेत् तथा । शिल्परहस्यागमे ४, २ उक्तम् । (४५) प्रजापतिरेते सर्वे देवा इमानि च पञ्चमहाभूतानि वायुराकाश आपो ज्योतिरित्येतानीमानि च क्षुद्रमिश्राणि ऐतरेये पञ्चमखण्डे उक्तम्-तथा हि वास्तुवेदे सम्यक् भिन्नता जायते, दृश्यते । (४६) सर्वरूपशैलस्य आधारः चतुरस्रम् । (४७) अश्मना ह्यापः प्रभवन्ति । शतपथब्राह्मणे नवमाध्याये उक्तम् । (४८) मध्यदैर्घ्यमध्यप्रस्थयोर्मध्यबिन्दुमवलम्ब्य । (४९) व्योम इति भावः । (५०) द्यावा-पृथिवीं सञ्जानीथ, अथ वर्षति, शतपथे उक्तम् । अथर्व १२.१ उक्तं अर्णवभूम्यात् परम व्योम जायते इति भावः । (५१) अग्निरूपं त्रिभुजक्षेत्रम् । (५२) हुतमिति रेखा, त्रिरेखेण यत् क्षेत्रं तत् त्रिहुतं भवति । (५३) दिव्यं दैवीभावः । अथर्वसंहितायामुक्तं २.१२.४- पितॄणामामुं ददे हरसा दैव्येन इति । (५४) गुह्योक्तविधिना अग्निस्थापने ब्रह्मोपदेशने स्थण्डिले षट्कोणलिखनानन्तरं विष्टरद्वयं स्थापयन्ति । तदुपरि अग्निं स्थापयन्ति, इति अग्निसन्धानविधिः । (५५) तन्त्रे तथा कालिकोपनिषदि उक्तम्-कूर्चबीजं व्योमषष्ठस्वरा बिन्दुमिलनरूपाः, तद्द्वयं मायाद्वयं दक्षिणे कालिकेति । (५६) यातुधानः निर् ऋतेरादिवाक्यात् तापवर्गप्रदो योनिविशेष इति अथर्ववेदे उक्तम् । (५७) मण्डुवंशजोतः कौत्सस्य शिष्यः ऋषिविशेष इति बृहदारण्यके उक्तम् । (५८) प्रयोगरूपेणैतत् षड्धाङ्कनोपादानम्, व्योमाभासे मण्डलञ्च चतुरस्रोपसञ्ज्ञकः कोणरेखा । वायुश्च कर्णिकापृथिवी तथा त्रिभुजमग्निरूपञ्च षट्कोणं दैवमन्दिरम् । काश्यपवचनम् । (५९) रूपक्षेत्रे खनित्रेणाविशन्ति, सितवज्ररेखायां ततः अयसा खोदयन्ति मूलम् । (६०) वास्तुयागे शिलानिर्मितसौम्ययूपः विष्णुयज्ञे षोडशांशविशिष्टशिलायूपः विधेय । पितृयज्ञे दारवी वृषयूपस्य प्रयोजनं भवति । (६१) इन्द्रे लोका इन्द्रे तप इन्द्रेऽध्यृतमाहितम् । इन्द्रं त्वा वेद प्रत्यक्षं स्कम्भे (यूपे) सर्वं प्रतिष्ठितम् ॥ (१०.७.३०) अथर्ववेदे एवं बहुधा उक्तम् । (६२) सममानेन सूत्रपातनेन रेखाः सौम्या भवन्ति । (६३) दैर्ध्यरेखाः । (६४) प्रस्थरेखाः । (६५) पैप्पलादसंहितायां प्रथमखण्डे रूपस्य स्वरूपविषये उक्तं - रूपं रूपवयोवस्तेन त्वां परिदध्मसि, इति रूपभावस्य धारणा । (६६) अन्नाद् भवन्ति भूतानि पर्जन्यादन्नसम्भवः इति गीतायाः ३.१४, तैत्तिरीयोपनिषदि २.२ अपि च प्रश्नोपनिषदि षष्ठप्रश्ने उक्तम् । (६७) मूर्तिकारा हि स्थापकाः, ते स्थापकोद्गीथा इति । (६८) मूर्तिदर्शनमात्रेण यद्भावो मनसि जायते सा रूपप्रेरणा । (६९) रूपमध्ये यथाकीलं कीलाभासे यदङ्गकः । यो जानाति इमं भावं मर्मज्ञः स इति स्मृतः ॥ शिल्परत्नकोषे द्वितीयसर्गे १८ श्लोके उक्तम् ॥ (७०) चाक्रः स्थपति-श्रेष्ठ इति पाटवचाक्रशतपथे उक्तम् । (७१) दारवी मुष्टिमानेन कीलान् सङ्गृह्य यत्नतः । चतुःपार्श्वे यदा शिला तदा तु अवरोधनम् । इति शिल्परत्नकोषे रोधनक्रिया । (७२) गाथां गायन्ति गाथिनः यथा कुन्तापसूक्तानि अथर्ववेदे (२०.१२७ १) उक्तानि ``इदं जना उप श्रुत नराशंस स्तविष्यते'' इत्यादिजटाक्रमेण पठन्ति गाथिनः । (७३) अथर्वसंहितायां ३.१२ : शालाया ध्रुवा-स्तम्भः; अश्वावती-भित्तिः; स्थूणा-वंशस्तम्भः; कुम्भ-धारककाष्ठानि; निर्माणेऽपि खनित्रप्रयोजनं भवति । (७४) वनवासिनः । (७५) मण्डलकरणार्थं सूचीमुखाकृति (रज्ज्वे) शोणप्रस्तरन्यासितशस्त्रविशेषः । (७६) प्रस्तरभेदिवृक्षस्य वल्कलं माहेन्द्रपर्वतारण्ये उपलब्धं इति । (७७) यथाविहित लक्षणानुपातेन इति भद्रोपायः । (७८) ग्रन्थिरेखा वलिः पर्वाण्यङ्गरागं यथोचितम् । प्रकृत्यानुसृतेः कुर्यात्तदङ्गसौभगं स्मृतम् । शिल्पागमे तृतीयाध्याये १४ श्लोके उक्तम् । (७९) ध्यानानुसृतं यद्रूपं तद्रूपो ध्यानविग्रहः, शिल्परत्नकोशे ४५५ तमे श्लोके । (८०) कामस्तदग्रे समवर्त्तताधि मनसो रेतः प्रथमं यदासीत् । इति नासदीये । (८१) शिलाया अपृथक् संलग्नरूपेण सर्वाङ्गं यत्र सुषमं तदर्धाकलम् । (८२) सदा यौवनसम्पन्नं पेशिग्रन्थिविवर्जितम् । दैवलक्षणसंयुक्तं रूपं सुषममुच्यते । शिल्पागमे । (८३) तथा अङ्गानि केवल रेखाचुम्बित अङ्गस्य तद्रेखा अवलम्बने तद् स्पर्शीतमिति । (८४) ज्योतिः प्रतीकभावनाङ्गुष्ठम् । (८५) तत्त्वज्ञानेन चित्तस्य विक्रियाऽभावावेशेन मनसः विक्रिया इति । तत्त्वबोधात् चित्तं स्थिरं भवति, भावप्रचोदने मनः तत्त्वबोधे प्रविलीयते, विसर्ग इव द्वयोः एका गतिः, अतो द्विधा एकत्वमिति परिणामः । (८६) यूपस्य ध्वजमानार्थं त्रिवृतकरणध्येयं मध्यनिर्धारणार्थं च निम्नोर्ध्वे लघुभागस्य मानसम्प्राप्त्यर्थमिदं मानमिति भावः । (८७) विंशो हि पुरुषो दश द्वादशाङ्गुल्यो दश यो ह्या इति शतपथे उक्तम् । दशेन्द्रियस्याधारः पुरुष इत्यर्थः । यथा पुरुषे दशाङ्गं तथा पिप्पलादीयपितृमेधेन स्तम्भाकृतियूपे दशाङ्गं कल्पयन्ति ऋषयः । (८८) अष्टारयूपदेवता प्रतिष्ठायां वास्तुकर्मणि प्रयोजनं भवति । षोडशार यूप विष्णुमहायज्ञे प्रयोजनं भवति । वृषस्तम्भो मृताहे पितृयज्ञे वृषोत्सर्गे प्रयोजनमिथुनस्तम्भस्य प्रचलनं नास्ति । (उत्कलभाषायाम्) प्रथम द्वितीय पथररे करिब वृषस्तम्भं वट विल्व उदुम्बररे करिब । (८९) रुद्र वृषरूपेण शुक्लयजुर्वेद उक्तं च धर्मवृषभमिति ``वृष वै धर्मः'' पैप्पलादसंहितायां १ खण्डे ``हिरण्यश‍ृङ्गो वृषभो य समुद्रादुदाचरत्'' । ``स वृष हि इन्द्र सखा शतवालो'' इति अथर्ववेदे उक्तम् । तद्वृष पितृरूपेण पितृयूपस्यावासे उपासयन्ति, पितॄणां रुद्र, इति तस्य भावः । (९०) पञ्च प्रयाजाः दैवपुजने, आज्यभागः, प्रधानयागः, स्विष्टकृत्, प्राशित्रावदानम्, इडावदानम्, भागप्राशनम्, अन्वाहार्य-दक्षिणा अनुयाजत्रयम्, ब्युहनम्, सूक्तवाक्, शंयुवाक्, पत्नीसंयाज इति दशकर्मभेदे दशयज्ञाङ्गसंयोगशीर्षरूपेण विष्णुक्रमः तस्य दशाङ्गस्य भावः । (९१) प्रत्यक्षदर्शनं सम्भवति । (९२) ब्रह्मकील इति मध्यरेखा । (९३) अष्टकाश्राद्धे इन्द्रः विश्वेदेवाः प्रजापतिः, सप्तपुरुषार्थः पिप्पलादीयब्राह्मणाः । (९४) यथा मनुष्यगर्भान्तरे भ्रूणे कृमि -मज्जा-अस्थि-मांस-मेद-स्नायु-रक्त-केशात्मक-शिराछन्दे-चर्मादि दशास्तरणयुक्तं दशकोष्ठकं कल्पयन्ति शिशुवेदोपनिषदि आथर्वणीयाः । (९५) यथा शतपथे स्वर्णपुरुषरूपेण प्रजापतिरूपं कल्पयन्ति होतारः षष्ठाध्याये उक्तम् । (९६) महर्षिकात्यायनस्य शुल्वं भगवतः पिप्पलादस्य शिल्पसूत्रमिति । (९७) रेखाकृतिरिष्टकान्यास इति श्रोणिः । ज्योतिष्टोमे महावेधाः, श्रोणिरित्यादि । (९८) अत्र भयङ्करे अद्भुतभावो विलीयते । शिल्पे अद्भुतभावः ऊहनीयः । (९९) यद् प्रदर्शयन्ति तनुषि तद्भावः यदीक्षणेन हृदये सञ्चारयन्ति स रसः । (१००) तर्दः (खर्वत) अथर्व० ६.५०.१ उक्तः, अन्नहानिकरः पतङ्गविशेषः । (१०१) चतुर्दशसङ्ख्यक इत्यर्थः । (१०२) वाग् वै मन्त्रः शतपथब्राह्मणे उक्तम् । वाक्येन सह यद् प्रकटयन्ति । (१०३) यथा अथर्वसंहितायां लक्षणम्, ६.१४१.३- सहस्रपोषाय कृणुतं लक्ष्माश्विना । इति । (१०४) रूपं रूपं वयो वयः संरभ्यैनं परिष्वजे इत्युक्तं अथर्व १९.१.३.ततः विष्णुरूपं, यदस्ति वचनेऽप्युक्तम्, पैप्पलादसंहितायां स्त्रीणां प्रतिरूपमुपासका तदर्थं प्रतिरूपाणि । (१०५) देवतायतनमिति, तानि न कम्पन्ते, दैवतप्रतिमा हसन्ति रुदन्ति नृत्यन्ति स्फुटन्ति सीदन्ति, उन्मीलन्ति निमीलन्ति, शतपथब्राह्मणे ७.१०.उक्तम् । ऐतरेय ब्राह्मणे ४.५ रूपविद्या छन्दोमय दैवशिल्पम्, रूपेण उक्तम् । तथा शतपथब्राह्मणे ३.२ प्रतिरूपशिल्परूपेण उक्तम् । रूपं वै अर्च्चारूपं, प्रतिरूपाणि उपदेवतानि, अन्या मण्डनमिति । (१०६) यथा जैमिनीयब्राह्मणे (२.४) उक्तं दिश उ एवं विश्वदेवाः दिशो वै प्राणः इति वाक्यम् । (१०७) अहल्लिका भाट इत्यर्थः कुन्तापीय रमणीविशेषः । (१०८) तारादि देवताः । द्यौश्च म इदं पृथिवी च प्रचेतसौ शुक्रो बृहन् दक्षिणया पिपर्तु । अथर्व० ६.५३.१ सूर्य इत्यर्थः । (१०९) आशानामाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः । अथर्ववेदे १.३१.१। (११०) विष्णुयाजकाः । पुरुषो ह नारायणोऽकामयत । यो वैष्णवो वामनः, शतपथे उक्तम् । (१११) यथा ज्योतिष्येवं रूपं दधातीति शतपथे उक्तम् । (११२) यथा पाकयज्ञे औपासने च प्रजापतिः, स्वीष्टकृत् अङ्गदेवता प्रातः सूर्यः प्रधानो भवति तथा विश्वदेवार्थं देवयज्ञः । (११३) षोडशकलं वै ब्रह्म शतपथब्राह्मणे उक्तम् । ``षोडशर्चेभ्यः स्वाहा'' इति षोडशकला उक्ताः । अथर्व १९.२३.१३। (११४) यदङ्गं चरति धरायाम् । (११५) नाभौ जीवसत्ता राजते प्रसरति च । (११६) हृदये प्राणस्तिष्ठति । (११७) ब्रह्मरन्ध्रे तेजो विभाति, आविर्भवति । (११८) तत्तारकं द्विविधं, मूर्तितारकममूर्तितारकञ्चेति । यदिन्द्रियान्तं तन्मूर्तिमत्, यद् भ्रूयुगातीतं तदमूर्तिमत् इति अद्वयतारके उक्तम् । (११९) सर्वान्तरः स्वयञ्ज्योतिः सर्वाधिपतिरस्म्यहं इति स्वराट् योगतत्त्वोपनिषदि उक्तम् । (१२०) हिरण्मये परे कोषे विरजं ब्रह्म निष्कलमिति न्यायेन । (१२१) यथा नारदपरिव्राजकोपनिषदि उक्तम्-चक्षुषा रूपग्रहणं श्रोत्रे शब्दग्रहणमित्यादि । अथर्ववेदे-रूपं रूपं वयोवय इत्याद्युक्तम् । (१२२) तद् वै ब्रह्मणो रूपेऽमृतत्वं चैवामृतं च शतपथब्राह्मणे उक्तम् । (१२३) कौषीतकिब्राह्मणे कलाविद्येत्युक्तम् । पिप्पलादसहिन्तायां १ उक्तम् । (१२४) अथर्ववेदे (६.१३३.२) मेखलाबन्धनप्रसङ्गे उक्तम्-आहुतास्यभिहुत ऋषीणामस्यायुधं इति । परामित्रान्दुन्दुभिना हरिणस्याजिनेन च । सर्वे देवा अतित्रसन्ये सङ्ग्रामस्येशते । अथर्व० ५.२१.७ (१२५) आथर्वणीये आसुरीकल्पे बीजमन्त्रस्य प्रयोग उक्तः । (१२६) वाग् वै मन्त्र इति शतपथे उक्तम् । वाग् वै देवानां मन्त्र इति कौषीतकीये उक्तम् । (१२७) संहारण वं इति पूर्वपाठशब्दस्य शक्तिरित्यर्थः । (१२८) कम्पनमित्यर्थः । (१२९) प्रज्ञा इत्यर्थः । (१३०) दण्डायमान मूर्तिरित्यर्थः । (१३१) ऐतरेये यथोक्तवाहनरूपस्य रूपविशेषः । (१३२) शतपथे छान्दोग्ये चोक्तः एष क्रमः एषा देवयजनविद्या । आत्मानन्देन यजनोपायेन त्रयस्त्रिंशद् देवताः तार्क्ष्ये ब्राह्मणे उक्ताः । (१३३) वृद्धि जालं बृहतः शक्रस्य वाजिनीवत इति अथर्व ८.८.६। (१३४) प्राणो वै महिष इति शतपथे उक्तम् । (१३५) मेष इव वै सं च वि चोर्वच्यसे इति । अथर्व ६.४९.२। (१३६) सूर्यस्य वा एक रश्मिर्वृष्टिद इति शतपथे उक्तम् । स सविता रथेनेति । (१३७) वृषभोऽसि स्वर्ग ऋषीनार्षेयान् गच्छ इति । अथर्व ११.१.३५। (१३८) हंसेति शब्दार्थः सर्वेषु देहेषु व्याप्तो वर्तते इति हंसोपनिषदि उक्तम् । (१३९) द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते इति । ऋ १.१६४.२०; अथर्व ९.९.२०। (१४०) एना व्याघ्रं परिषस्वजानाः सिंहं हिन्वन्ति महते सौभगाय इति । अथर्व ४.८.७। (१४१) वास्तुवेदे इदमुपदैवतं प्रतिरूपमित्यर्थः । प्रतिरूपं शतपथब्राह्मणे एकादशकाण्डे उक्तम् । तेषां चर्य्या जैमिनीयब्राह्मणे -प्रत्यङ्गं ह्येष सर्वाणि रूपाणि य आदित्यः स प्रतिरूपमित्युक्तः । (१४२) वैश्वानरो वै सर्वेऽग्नय इति शतपथे उक्तम् । (१४३) असौ वैश्वानरो योऽसौ तपति (पचति) इति शतपथे । (१४४) पुरुषे येनेदमन्नं पच्यते इति शतपथे उक्तम् । (१४५) सेन्द्रस्य पत्नीति गोभिलगृह्यसूत्रे उक्तम् । (१४६) जीवस्याऽवयवात्मिका । (१४७) अग्निर्वै मृत्युरिति कौषीतकि ब्राह्मणे, मृत्युर्वै तस्य शतपथे च । (१४८) ऐतरेये वारुणी रात्रिरिति उक्तम् । (१४९) इला वै अन्नमिति अथर्ववेदे उक्तम् । (१५०) तमश्छाया । (१५१) उषा देवी वाचा संविदाना वाग्देव्युषसा संविदाना इति अथर्ववेदे उक्तम् । (१५२) द्यौरित्यर्थः । भूतभविष्यदभीष्टवीर्या लक्ष्मीर्वलमिति अथर्ववेदे उक्तम् । (१५३) सेयं देवानां पत्नीति शतपथे उक्तम् । (१५४) तेजसा वै गायत्री प्रथममिति ताण्ड्यब्राह्मणे । (१५५) वाक् सावित्रीति गोपथब्राह्मणे उक्तम् । (१५६) सारस्वतरूपं ऐतरेये उक्तम् । (१५७) सविता राष्ट्रं राष्ट्रपतिरिति शतपथे च ११.४.३.१४। (१५८) अम्बा अथर्ववेदे उक्ता । (१५९) भेषजरूपा अम्बालिकेति वाजसनेये उक्ता । (१६०) ``देवाः पितरः पितरो देवा । यो अस्मि सो अस्मि,'' अथर्व ६.१२३.३ काण्डे । स विश्वेदेवा तथा पितर उपदेवा वसुपितर रुद्रपितामह आदित्य प्रपितामह इति पितृयूप प्रोत्थनमन्त्राणि २४ सूक्तोक्तं च । (१६१) मुञ्चतांहसोअंहस इति वदन्ति । अथर्व । ३१.२.ये दक्षिणतो जुहूति जातवेदो दक्षिणाया दिशोऽभिदासन्त्यस्मान् इति त्यागः । अथर्व ४.४०.२.इन्द्रासोमा तपतं रक्ष इति वदन्ति । अथर्व ८.४.१.विषेण भङ्गुरावतः प्रति स्म रक्षसो जहि इति भोगः अथर्व ८.३.२३ । (१६२) स्वाहा वै सत्यसम्भूता ब्रह्मणो दुहितेति । शतपथे उक्तम् । (१६३) एतेन विष्णोः श्रीदेवी भूदेवीति वृत्तिद्वयं सूचितम् । (१६४) सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने । सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात् ॥ अथर्व १८.४.४५। (१६५) लौकिक सिद्ध्यर्थे या विद्या सा भूतविद्या । (१६६) मन इव हि प्रजापतिः तैत्तिरीयब्राह्मणे उक्तम् । (२.२.१.२) (१६७) प्राणो वै हरिः स हि हरतीति । कौषीतकिब्राह्मणं (१७.१) । (१६८) यद्द्धामं चक्रुर्निखनन्तो अग्रे कार्षीवणा अन्नविदो न विद्यया । (अथर्व ६.११६.१) । (१६९) गोभिलगृह्यसूत्रे उक्तम् । (१७०) शिमि-कर्म, तज्जाताः । (१७१) स्तोतृयोवच श‍ृणु वद्ध च मे इति अथर्वसंहितायाम् । (१७२) कुन्तापसूक्तादयः खिलपाठाः । यथा शुनः शेषस्य शतगाथा इति । (१७३) योषित्कामा गन्धर्वा गन्धेन वै रूपेण चरन्तीति शतपथे उक्तम् । Footnotes are assembled together and marked with number in parenthesis in the text. Proofread and rearranged by K.S. Sheshadri
% Text title            : Vastusutra Upanishad with Commentary
% File name             : vAstusUtropaniShat_savyAkhyA.itx
% itxtitle              : vAstusUtropaniShat savyAkhyA (atharvavedIya)
% engtitle              : vAstusUtropaniShat savyAkhyA
% Category              : upanishhat, vyAkhyA
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : K.S. Sheshadri Sharma
% Description/comments  : Check the text for only the upanishad
% Indexextra            : (Text, Scan, Info 1, 2)
% Latest update         : October 16, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org