यज्ञोपवीतोपनिषत्
यज्ञोपवीती धृतचक्रधारी यो ब्रह्मविद्ब्रह्मविदां मनीषी
हिरण्यमादाय सुदर्शनं कृत्वा वह्निसंयुक्तं स्त्री शूद्रो बाहुभ्यां
धारयेत् । तस्माद्गर्भेण जायते । ब्राह्मणस्य शरीरं जायते ।
श्रीविष्णुं सर्वेश्वरं भजन्ति ॥
नासादिकेशपर्यन्तमूर्ध्वपुण्ड्रं तु धारयेत् ।
उद्धृतासि वराहेण कृष्णेन शतबाहुनाम् ॥
भूमिर्धेनुर्धरणी लोकधारिणी ॥
मृत्तिके हन मे पापं त्वयि सर्वं प्रतिष्ठितम् ॥
तस्माद्द्विरेखं भवति तं देवकीपुत्रं समाश्रये । अग्निना वै होत्रा
चक्रं पाञ्चजन्यं प्रतप्तं द्वयोर्भुजयोर्धारयेत् । आत्मकृतमाचरेत् ।
आचार्यस्य सम्मुखं प्रपद्येत । तस्माद्वैकुण्ठं न पुनरागमनं
सालोक्यसामीप्यसारूप्यसायुज्यं गच्छति । य एवं वेद । इत्युपनिषत् ॥
(वैष्णव-उपनिषदः)
इति यज्ञोपवीतोपनिषत् समाप्ता ।
Proofread by Kasturi navya sahiti