काण्वानामोषधिसूक्तम्
काण्वसंहितायां त्रयोदशेऽध्याये षष्ठोऽनुवाकः ।
आ षट्सप्तत्या ऋच आ शततमाम्(७६-१००) पञ्चविंशत्यृचः ।
बहुलं बाहृच्यपाठानुसारी । क्वचित्त्क्वचिदल्पतरः पाठभेदः ।
अधिके च द्वे ऋचौ । तथाहि मन्त्रक्रमः -
हरिः ओ३म् ॥
सस्वरः
या ओष॑धीः॒ पूर्वा॑ जा॒ता दे॒वेभ्य॑स्त्रियु॒गं पु॒रा ।
मनै॒ नु ब॒भ्रुणा॑म॒हं श॒तं धामा॑नि स॒प्त च॑ ॥ १॥
श॒तं वो॑ अम्ब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुहः॑ ।
अधा॑ शतक्रत्वो यू॒यमि॒मं मे॑ अग॒दं कृ॑ता ॥ २॥
ओष॑धीः॒ प्रति॑ गृ॒भ्णीत॒ पुष्प॑वतीः प्र॒सूव॑रीः ।
अश्वा॑ इ॒व स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्णवः॑ ॥ ३॥
ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ब्रुवे ।
स॒नेय॒मश्वं गां वास॑ आ॒त्मानं॒ तव॑ पू॒रुष ॥ ४॥
अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्ण्णे वो॑ वस॒तिष्कृ॒ता ।
गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ॥ ५॥
यत्रौष॑धीः स॒मग्म॑त॒ राजा॑नः॒ समि॑ता इव ।
विप्रः॒ स उ॑च्यते भि॒षग् रक्षो॒हामी॑व॒चात॑नः ॥ ६॥
अ॒श्वा॒व॒तीं सो॑माव॒तीमू॒र्ज्जय॑न्ती॒मुदो॑जसम् ।
आवि॑त्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ॥ ७॥
उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते ।
धनं॑ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष ॥ ८॥
इष्कृ॑ति॒र्न्ना॑म॑ वो मा॒ताथो॑ यू॒यं स्थ॒ निष्कृ॑तीः ।
सी॒राः प॑त॒त्रिणी॑ स्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ ॥ ९॥
अति॒ विश्वाः॑ परि॒ष्ठा स्ते॒न इ॑व व्र॒जम॑क्रमुः ।
ओष॑धीः॒ प्राचु॑च्यवु॒र्य्यत् किं च॑ त॒न्वो॒ रपः॑ ॥ १०॥
यदि॒मा वा॒जय॑न्न॒हमोष॑धी॒र्हस्त॑ आद॒धे ।
आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ॥ ११॥
यस्यौ॑षधीः प्र॒सर्प्प॒थाङ्ग॑मङ्गं॒ परु॑ष्परुः ।
ततो॒ यक्ष्मं॒ विबा॑धध्व उ॒ग्रो म॑द्ध्यम॒शीरिव ॥ १२॥
सा॒कं य॑क्ष्म॒ प्रप॑त॒ चाषेण किकिदी॒विना॑ ।
सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाकया ॥ १३॥
अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वता ।
ताः सर्वाः॑ संविदा॒ना इ॒दं मे॒ प्राव॑ता॒ वचः॑ ॥ १४॥
याः फ॒लिनी॒र्य्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः॑ ।
बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वं ह॑सः ॥ १५॥
मु॒ञ्चन्तु॑ मा शप॒थ्या॒दथो॑ वरु॒ण्या॑दु॒त ।
अथो॑ य॒मस्य॒ पड्वी॑शा॒त् सर्व॑स्माद् देवकिल्बि॒षात् ॥ १६॥
अ॒व॒य॒तीः सम॑वदन्त दि॒व ओष॑धय॒स्परि॑ ।
यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥ १७॥
या ओष॑धीः॒ सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः ।
तासा॑मसि॒ त्वमु॑त्त॒मारं कामा॑य॒ शं हृ॒दे ॥ १८॥
या ओष॑धीः सोम॑राज्ञी॒र्विष्ठि॑ताः पृथि॒वीमनु॑ ।
बृह॒स्पति॑प्रसूता अ॒स्यै सन्द॑त्त॒ वी॒र्य्य॑म् ॥ १९॥
याश्वे॒दमु॑पशृ॒ण्वन्ति॒ याश्च॑ दू॒रं परा॑गताः ।
सर्वाः॑ स॒ङ्गत्य॑ वीरुधो॒स्यै सन्द॑त्त वी॒र्य्यम् ॥ २०॥
ना॒श॒यि॒त्री ब॒लास॒स्यार्श॑स उप॒चिता॑मसि ।
अथो॑ श॒तस्य॒ यक्ष्मा॑णां पाका॒रोर॑सि॒ नाश॑नी ॥ २१॥
मावो॑ रिषत् खनि॒ता यस्मै॑ चा॒हं खना॑मि वः ।
द्वि॒पच्चतु॑ष्पद॒स्माकं सर्व॑मस्त्वनातु॒रम् ॥ २२॥
ओष॑धयः॒ संव॑दन्ते॒ सोमे॑न स॒ह राज्ञा॑ ।
यस्मै॑ कृ॒णोति॑ ब्राह्म॒णस्तं रा॑जन् पारयामसि ॥ २३॥
त्वां ग॑न्ध॒र्वा अ॑खनं॒ स्त्वामि॑न्द्र॒स्त्वां बृह॒स्पतिः॑ ।
त्वामो॑षधे॒ सोमो॒ राजा॑ वि॒द्वान् यक्ष्मा॑दमुच्यत ॥ २४॥
त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ वृ॒क्षा उप॑स्त॒यः ।
उप॑स्तिरस्तु सो॒ऽस्माकं॒ यो अ॒स्माँ३ अ॑भि॒दास॑ति ॥ २५॥
इत्याचार्यगोविन्दस्य कृतिषु काण्वीयस्य ओषधिसूक्तस्य भाष्यं सम्पूर्णम् ॥
सस्वरः
या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा ।
मनै नु बभ्रुणामहं शतं धामानि सप्त च ॥ १॥
शतं वो अम्ब धामानि सहस्रमुत वो रुहः ।
अधा शतक्रत्वो यूयमिमं मे अगदं कृता ॥ २॥
ओषधीः प्रति गृभ्णीत पुष्पवतीः प्रसूवरीः ।
अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः ॥ ३॥
ओषधीरिति मातरस्तद्वो देवीरुपब्रुवे ।
सनेयमश्वं गां वास आत्मानं तव पूरुष ॥ ४॥
अश्वत्थे वो निषदनं पर्ण्णे वो वसतिष्कृता ।
गोभाज इत्किलासथ यत्सनवथ पूरुषम् ॥ ५॥
यत्रौषधीः समग्मत राजानः समिता इव ।
विप्रः स उच्यते भिषग् रक्षोहामीवचातनः ॥ ६॥
अश्वावतीं सोमावतीमूर्ज्जयन्तीमुदोजसम् ।
आवित्सि सर्वा ओषधीरस्मा अरिष्टतातये ॥ ७॥
उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते ।
धनं सनिष्यन्तीनामात्मानं तव पूरुष ॥ ८॥
इष्कृतिर्न्नाम वो माताथो यूयं स्थ निष्कृतीः ।
सीराः पतत्रिणी स्थन यदामयति निष्कृथ ॥ ९॥
अति विश्वाः परिष्ठा स्तेन इव व्रजमक्रमुः ।
ओषधीः प्राचुच्यवुर्य्यत् किं च तन्वो रपः ॥ १०॥
यदिमा वाजयन्नहमोषधीर्हस्त आदधे ।
आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥ ११॥
यस्यौषधीः प्रसर्प्पथाङ्गमङ्गं परुष्परुः ।
ततो यक्ष्मं विबाधध्व उग्रो मद्ध्यमशीरिव ॥ १२॥
साकं यक्ष्म प्रपत चाषेण किकिदीविना ।
साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥ १३॥
अन्या वो अन्यामवत्वन्यान्यस्या उपावता ।
ताः सर्वाः संविदाना इदं मे प्रावता वचः ॥ १४॥
याः फलिनीर्य्या अफला अपुष्पा याश्च पुष्पिणीः ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वं हसः ॥ १५॥
मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत ।
अथो यमस्य पड्वीशात् सर्वस्माद् देवकिल्बिषात् ॥ १६॥
अवयतीः समवदन्त दिव ओषधयस्परि ।
यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥ १७॥
या ओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः ।
तासामसि त्वमुत्तमारं कामाय शं हृदे ॥ १८॥
या ओषधीः सोमराज्ञीर्विष्ठिताः पृथिवीमनु ।
बृहस्पतिप्रसूता अस्यै सन्दत्त वीर्य्यम् ॥ १९॥
याश्वेदमुपशृण्वन्ति याश्च दूरं परागताः ।
सर्वाः सङ्गत्य वीरुधोस्यै सन्दत्त वीर्य्यम् ॥ २०॥
नाशयित्री बलासस्यार्शस उपचितामसि ।
अथो शतस्य यक्ष्माणां पाकारोरसि नाशनी ॥ २१॥
मावो रिषत् खनिता यस्मै चाहं खनामि वः ।
द्विपच्चतुष्पदस्माकं सर्वमस्त्वनातुरम् ॥ २२॥
ओषधयः संवदन्ते सोमेन सह राज्ञा ।
यस्मै कृणोति ब्राह्मणस्तं राजन् पारयामसि ॥ २३॥
त्वां गन्धर्वा अखनं स्त्वामिन्द्रस्त्वां बृहस्पतिः ।
त्वामोषधे सोमो राजा विद्वान् यक्ष्मादमुच्यत ॥ २४॥
त्वमुत्तमास्योषधे तव वृक्षा उपस्तयः ।
उपस्तिरस्तु सोऽस्माकं यो अस्माँ३ अभिदासति ॥ २५॥
इत्याचार्यगोविन्दस्य कृतिषु काण्वीयस्य ओषधिसूक्तस्य भाष्यं सम्पूर्णम् ॥
Encoded and proofread by Mandar Kulkarni