माद्ध्यन्दिनानामोषध्यनुवाकः

माद्ध्यन्दिनानामोषध्यनुवाकः

माद्ध्यन्दिनसंहितायां द्वादशेऽद्ध्याये षष्ठोऽनुवाकः । आ पञ्चसप्तताया ऋच आ एकोत्तरशततमाम् (७५-१०१) सप्तविंशत्यृचोऽनुवाकः । काण्वसंहिताया नातिभिन्नमपि माद्ध्यन्दिनानामुच्चारणवैविध्यदर्शनाय पृथक् प्रदर्श्यते - हरिः ओ३म् ॥

सस्वरः

या ओष॑धीः॒ पूर्व्वा॑ जा॒ता दे॒वेब्भ्य॑स्त्रियु॒गं पु॒रा । मनै॒ नु ब॒ब्भ्रुणा॑म॒हꣳ श॒तं धामा॑न स॒प्तच॑ ॥ १॥ श॒तं वो॑ अम्ब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुहः॑ । अधा॑ शतक्रत्त्वो यू॒यमि॒मं मे॑ अग॒दं कृ॑त ॥ २॥ ओष॑धीः प्रति॑ मोदद्ध्वं॒ पुष्प॑वतीः प्र॒सूव॑रीः । अश्श्वा॑ इव सजि॒त्त्वरी॑र्व्वी॒रुधः॑ पारयि॒ष्णवः॑ ॥ ३॥ ओष॑धी॒रिति॑ मातर॒स्तद्द्वो॑ देवी॒रुप॑ ब्ब्रुवे । स॒नेय॒मश्श्वं॒ गां व्वास॑ आ॒त्मानं॒ तव॑ पू॒रुष ॥ ४॥ अ॒श्श्व॒त्थे वो॑ नि॒षद॑नं प॒र्ण्णे वो॑ वस॒तिष्कृ॒ता । गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ॥ ५॥ यत्रौष॑धीः स॒मग्ग्म॑त॒ राजा॑नः॒ समि॑ताविव । व्विप्रः॒ स उ॑च्यते भि॒षग्ग्रक्षो॒हामी॑व॒चात॑नः ॥ ६॥ अ॒श्श्वा॒व॒तीꣳ सो॑माव॒तीमू॒र्ज्जय॑न्ती॒मुदो॑जसम् । आऽवि॑त्सि॒ सर्व्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्ट्टता॑तये ॥ ७॥ उच्छु॒ष्म्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ट्ठादि॑वेरते । धन॑ꣳ सनि॒ष्ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष ॥ ८॥ इष्कृ॑ति॒र्न्ना॑म॑ वो मा॒ताऽथो॑ यू॒यꣳ स्थ॒ निष्कृ॑तीः । सी॒राः प॑त॒त्त्रिणी॑ स्त्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ ॥ ९॥ अति॒ विश्श्वाः॑ परि॒ष्ठा स्त्ते॒न इ॑व व्व्र॒जम॑क्क्रमुः । ओष॑धीः॒ प्प्राचु॑च्च्यवु॒र्य्यत्त्किञ्च॑ त॒न्न्वो॒ रपः॑ ॥ १०॥ यदि॒मा व्वा॒जय॑न्न॒हमोष॑धी॒र्हस्त॑ आ॒दधे । आ॒त्मा यक्ष्म॑स्य नश्श्यति पु॒रा जी॑व॒गृभो॑ यथा ॥ ११॥ यस्यौ॑षधीः प्प्र॒सर्प्प॒थाङ्ग॑म॒ङ्गं॒ परु॑ष्ष्प॒रुः । ततो॒ यक्ष्मं॒ व्विबा॑दध्व उ॒ग्ग्रो म॑द्ध्यम॒शीरि॑व ॥ १२॥ सा॒कँ य्य॑क्ष्म॒ प्प्रप॑त॒ चाषे॑ण किकिदी॒विना॑ । सा॒कं व्वात॑स्य॒ ध्द्रा॒ज्ज्या॑ सा॒कन्न॑श्श्य नि॒हाक॑या ॥ १३॥ अ॒न्न्या वो॑ अ॒न्न्याम॑व॒त्त्वन्न्यान्न्यस्या॒ उपा॑वत । ताः सर्वाः॑ संविदा॒ना इ॒दम्मे॒ प्प्राव॑ता॒ व्वचः॑ ॥ १४॥ याः फ॒लिनी॒र्य्या अ॑फ॒ला अ॑पु॒ष्प्पा याश्च॑ पु॒ष्पिणीः॑ । बृह॒स्प्पति॑प्रसूत्ता॒स्ता नो॑ मुञ्च॒न्त्वꣳह॑सः ॥ १५॥ मु॒ञ्चन्तु॑ मा शप॒त्थ्या॒दथो॑ व्वरु॒ण्या॑दु॒त । अथो॑ य॒मस्य॒ पड्ड्वी॑शा॒त्त्सर्व्व॑स्माद्देवकिल्ब्बि॒षात् ॥ १६॥ अ॒वपत॑न्तीरवदन् दि॒व ओष॑धय॒स्प्परि॑ । य॑ जी॒वम॒श्न्नवा॑महै॒ न स रि॑ष्ष्याति॒ पूरु॑षः ॥ १७॥ या ओष॑धीः॒ सोम॑राज्ञीर्ब्ब॒ह्ह्वीः श॒तवि॑चक्षणाः । तासा॒मसि॒ त्त्वमु॑त्त॒मारं कामा॑य॒ शꣳ हृ॒दे ॥ १८॥ या ओष॑धीः॒ सोम॑राज्ञी॒र्व्विष्ठ्ठि॑ताः पृथि॒वीमनु॑ । बृह॒स्प्पति॑प्प्रसूता अ॒स्यै सन्द॑त्त॒ व्वी॒र्य॑म् ॥ १९॥ याश्श्चे॒दमु॑पश‍ृ॒ण्ण्वन्ति॒ याश्श्च॑ दूरं परा॑गताः । सर्व्वाः॑ स॒ङ्गत्त्य॑ व्वीरुधो॒स्यै सन्द॑त्त व्वी॒र्य्य॑म् ॥ २०॥ मा वो॑ रिषत्त्खनि॒ता यस्म्मै॑ चा॒हं खना॑मि वः । द्वि॒पाच्चतु॑ष्प्पाद॒स्माक॒ꣳ सर्व्व॑मस्त्त्वनातु॒रम् ॥ २१॥ ओष॑धयः॒ सम॑वदन्त॒ सोमे॑न स॒ह राज्ञा । यस्म्मै॑ कृ॒णोति॑ ब्ब्राह्ह्म॒णस्तꣳ रा॑ज॒न्न्पारयामसि ॥ २२॥ ना॒श॒यि॒त्री ब॒लास॒स्यार्श॑स उप॒चिता॑मसि । अथो॑ श॒तस्य॒ यक्ष्मा॑णां पाका॒रोर॑सि॒ नाश॑नी ॥ २३॥ त्वां ग॑न्ध॒र्व्वा अ॑खनँ॒स्त्त्वामिन्द्र॒स्त्त्वां बृह॒स्प्पतिः॑ । त्वामो॑षधे॒ सोमो॒ राजा॑ व्वि॒द्द्वान्न्यक्ष्मा॑दमुच्च्यत ॥ २४॥ सह॑स्व मे॒ अरा॑तीः॒ सह॑स्व पृतनाय॒तः । सह॑स्व॒ सर्व्वं॑ पा॒प्मान॒ꣳ सह॑मानास्योषधे ॥ २५॥ दीर्ग्घा॒यु॑स्त ओषधे खनि॒ता यस्म्मै॑ च त्त्वा॒ खना॑म्म्य॒हम् । अथो॒ त्त्वं दीर्ग्घा॒यु॑र्ब्भूत्त्वा श॒तव॑ल्शा॒ व्विरो॑हतात् ॥ २६॥ त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ व्वृ॒क्षा उप॑स्त्तयः । उप॑स्तिरस्त्तु॒ सो॒स्माकँ॒ य्यो अ॒स्माँ अ॑भि॒दास॑ति ॥ २७॥

निःस्वरः

या ओषधीः पूर्व्वा जाता देवेब्भ्यस्त्रियुगं पुरा । मनै नु बब्भ्रुणामह शतं धामान सप्तच ॥ १॥ शतं वो अम्ब धामानि सहस्रमुत वो रुहः । अधा शतक्रत्त्वो यूयमिमं मे अगदं कृत ॥ २॥ ओषधीः प्रति मोदद्ध्वं पुष्पवतीः प्रसूवरीः । अश्श्वा इव सजित्त्वरीर्व्वीरुधः पारयिष्णवः ॥ ३॥ ओषधीरिति मातरस्तद्द्वो देवीरुप ब्ब्रुवे । सनेयमश्श्वं गां व्वास आत्मानं तव पूरुष ॥ ४॥ अश्श्वत्थे वो निषदनं पर्ण्णे वो वसतिष्कृता । गोभाज इत्किलासथ यत्सनवथ पूरुषम् ॥ ५॥ यत्रौषधीः समग्ग्मत राजानः समिताविव । व्विप्रः स उच्यते भिषग्ग्रक्षोहामीवचातनः ॥ ६॥ अश्श्वावतीं सोमावतीमूर्ज्जयन्तीमुदोजसम् । आऽवित्सि सर्व्वा ओषधीरस्मा अरिष्ट्टतातये ॥ ७॥ उच्छुष्म्मा ओषधीनां गावो गोष्ट्ठादिवेरते । धनं सनिष्ष्यन्तीनामात्मानं तव पूरुष ॥ ८॥ इष्कृतिर्न्नाम वो माताऽथो यूयं स्थ निष्कृतीः । सीराः पतत्त्रिणी स्त्थन यदामयति निष्कृथ ॥ ९॥ अति विश्श्वाः परिष्ठा स्त्तेन इव व्व्रजमक्क्रमुः । ओषधीः प्प्राचुच्च्यवुर्य्यत्त्किञ्च तन्न्वो रपः ॥ १०॥ यदिमा व्वाजयन्नहमोषधीर्हस्त आदधे । आत्मा यक्ष्मस्य नश्श्यति पुरा जीवगृभो यथा ॥ ११॥ यस्यौषधीः प्प्रसर्प्पथाङ्गमङ्गं परुष्ष्परुः । ततो यक्ष्मं व्विबादध्व उग्ग्रो मद्ध्यमशीरिव ॥ १२॥ साकँ य्यक्ष्म प्प्रपत चाषेण किकिदीविना । साकं व्वातस्य ध्द्राज्ज्या साकन्नश्श्य निहाकया ॥ १३॥ अन्न्या वो अन्न्यामवत्त्वन्न्यान्न्यस्या उपावत । ताः सर्वाः संविदाना इदम्मे प्प्रावता व्वचः ॥ १४॥ याः फलिनीर्य्या अफला अपुष्प्पा याश्च पुष्पिणीः । बृहस्प्पतिप्रसूत्तास्ता नो मुञ्चन्त्वं हसः ॥ १५॥ मुञ्चन्तु मा शपत्थ्यादथो व्वरुण्यादुत । अथो यमस्य पड्ड्वीशात्त्सर्व्वस्माद्देवकिल्ब्बिषात् ॥ १६॥ अवपतन्तीरवदन् दिव ओषधयस्प्परि । य जीवमश्न्नवामहै न स रिष्ष्याति पूरुषः ॥ १७॥ या ओषधीः सोमराज्ञीर्ब्बह्ह्वीः शतविचक्षणाः । तासामसि त्त्वमुत्तमारं कामाय शं हृदे ॥ १८॥ या ओषधीः सोमराज्ञीर्व्विष्ठ्ठिताः पृथिवीमनु । बृहस्प्पतिप्प्रसूता अस्यै सन्दत्त व्वीर्यम् ॥ १९॥ याश्श्चेदमुपश‍ृण्ण्वन्ति याश्श्च दूरं परागताः । सर्व्वाः सङ्गत्त्य व्वीरुधोस्यै सन्दत्त व्वीर्य्यम् ॥ २०॥ मा वो रिषत्त्खनिता यस्म्मै चाहं खनामि वः । द्विपाच्चतुष्प्पादस्माकं सर्व्वमस्त्त्वनातुरम् ॥ २१॥ ओषधयः समवदन्त सोमेन सह राज्ञा । यस्म्मै कृणोति ब्ब्राह्ह्मणस्तं राजन्न्पारयामसि ॥ २२॥ नाशयित्री बलासस्यार्शस उपचितामसि । अथो शतस्य यक्ष्माणां पाकारोरसि नाशनी ॥ २३॥ त्वां गन्धर्व्वा अखनँस्त्त्वामिन्द्रस्त्त्वां बृहस्प्पतिः । त्वामोषधे सोमो राजा व्विद्द्वान्न्यक्ष्मादमुच्च्यत ॥ २४॥ सहस्व मे अरातीः सहस्व पृतनायतः । सहस्व सर्व्वं पाप्मानं सहमानास्योषधे ॥ २५॥ दीर्ग्घायुस्त ओषधे खनिता यस्म्मै च त्त्वा खनाम्म्यहम् । अथो त्त्वं दीर्ग्घायुर्ब्भूत्त्वा शतवल्शा व्विरोहतात् ॥ २६॥ त्वमुत्तमास्योषधे तव व्वृक्षा उपस्त्तयः । उपस्तिरस्त्तु सोस्माकँ य्यो अस्माँ अभिदासति ॥ २७॥ Encoded and proofread by Mandar Kulkarni
% Text title            : Oshadhi Sukta mAddhyandinAnAm
% File name             : mAddhyandinAnAmoShadhyanuvAkaH.itx
% itxtitle              : oShadhisUktam mAddhyandinAnAm anuvAkaH (mAdhyandinasaMhitAyAM dvAdashe.adhyAye ShaShThonuvAkaH)
% engtitle              : oShadhisUktam mAddhyandinAnAm
% Category              : veda, svara, sUkta
% Location              : doc_veda
% Sublocation           : veda
% Texttype              : svara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mandar Kulkarni
% Proofread by          : Mandar Kulkarni
% Indexextra            : (mUlam vyAkhyAsahitam)
% Latest update         : March 3, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org