मन्त्रपुष्पम्
सस्वरः
ॐ
ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ ।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
यो॑ऽपां पुष्पं॒ वेद॑। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ।
च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ १॥
अ॒ग्निर्वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
यो᳚ऽग्नेरा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वा अ॒ग्नेरा॒यत॑नम् । आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ २॥
वा॒युर्वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
यो वा॒योरा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वै वा॒योरा॒यत॑नम्। आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ३॥
अ॒सौ वै तप॑न्न॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
यो॑ऽमुष्य॒ तप॑त आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वा अ॒मुष्य॒ तप॑त आ॒यत॑नम्। आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ४॥
च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति ।
यश्च॒न्द्रम॑स आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम्। आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ५॥
नक्ष॑त्राणि॒ वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
यो नक्ष॑त्राणामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान् भवति ।
आपो॒ वै नक्ष॑त्राणामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद ॑। आ॒यत॑नवान् भवति ॥ ६॥
प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
यः प॒र्जन्य॑स्या॒ऽऽयत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वै प॒र्जन्य॑स्या॒ऽऽयत॑नम्। आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ७॥
सं॒व॒त्स॒रो वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
यस्सं॑वत्स॒रस्या॒ऽऽयत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
आपो॒ वै सं॑वत्स॒रस्या॒ऽऽयत॑नम् । आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑। यो᳚ऽप्सु नावं॒ प्रति॑ष्ठितां॒ वेद॑ । प्रत्ये॒व ति॑ष्ठति ॥ ८॥
रा॒जा॒धि॒रा॒जाय॑ प्रसह्यसा॒हिने᳚ ।
नमो॑ व॒यं वै᳚श्रव॒णाय॑ कुर्महे ।
स मे॒ कामा॒न्काम॒कामा॑य॒ मह्यम्᳚ ।
का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु ।
कु॒बे॒राय॑ वैश्रव॒णाय॑ । म॒हा॒रा॒जाय॒ नमः॑ ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
तैत्तिरीयारण्यकम् अरुणप्रश्नः ७७-८४
निःस्वरः
ॐ
ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः । व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु॥
ॐ शान्तिः शान्तिः शान्तिः ॥
योऽपां पुष्पं वेद। पुष्पवान् प्रजावान् पशुमान् भवति ।
चन्द्रमा वा अपां पुष्पम्। पुष्पवान् प्रजावान् पशुमान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ॥ १॥
अग्निर्वा अपामायतनम्। आयतनवान् भवति ।
योऽग्नेरायतनं वेद । आयतनवान् भवति ।
आपो वा अग्नेरायतनम् । आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ॥ २॥
वायुर्वा अपामायतनम्। आयतनवान् भवति ।
यो वायोरायतनं वेद । आयतनवान् भवति ।
आपो वै वायोरायतनम्। आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ॥ ३॥
असौ वै तपन्नपामायतनम्। आयतनवान् भवति ।
योऽमुष्य तपत आयतनं वेद । आयतनवान् भवति ।
आपो वा अमुष्य तपत आयतनम्। आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ॥ ४॥
चन्द्रमा वा अपामायतनम् । आयतनवान् भवति ।
यश्चन्द्रमस आयतनं वेद । आयतनवान् भवति ।
आपो वै चन्द्रमस आयतनम्। आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ॥ ५॥
नक्षत्राणि वा अपामायतनम्। आयतनवान् भवति ।
यो नक्षत्राणामायतनं वेद। आयतनवान् भवति ।
आपो वै नक्षत्राणामायतनम्। आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ॥ ६॥
पर्जन्यो वा अपामायतनम्। आयतनवान् भवति ।
यः पर्जन्यस्याऽऽयतनं वेद । आयतनवान् भवति ।
आपो वै पर्जन्यस्याऽऽयतनम्। आयतनवान् भवति ।
य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति ॥ ७॥
संवत्सरो वा अपामायतनम्। आयतनवान् भवति ।
यस्संवत्सरस्याऽऽयतनं वेद । आयतनवान् भवति ।
आपो वै संवत्सरस्याऽऽयतनम् । आयतनवान् भवति ।
य एवं वेद। योऽप्सु नावं प्रतिष्ठितां वेद । प्रत्येव तिष्ठति ॥ ८॥
राजाधिराजाय प्रसह्यसाहिने ।
नमो वयं वैश्रवणाय कुर्महे ।
स मे कामान्कामकामाय मह्यम् ।
कामेश्वरो वैश्रवणो ददातु ।
कुबेराय वैश्रवणाय । महाराजाय नमः ।
ॐ शान्तिः शान्तिः शान्तिः ॥
तैत्तिरीयारण्यकम् अरुणप्रश्नः ७७-८४
तैत्तिरीयारण्यके प्रथमप्रपाठकः द्वाविंशोऽनुवाकः
Encoded with Accents by Rajagopal Iyer