मेधासूक्तम्
तैत्तिरीयारण्यकम् - ४ प्रपाठकः १० - अनुवाकः ४१-४४
ॐ यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः । छन्दो॒भ्योऽध्य॒मृता᳚थ्संब॒भूव॑ ।
स मेन्द्रो॑ मे॒धया᳚ स्पृणोतु । अ॒मृत॑स्य देव॒धार॑णो भूयासम् ।
शरी॑रं मे॒ विच॑र्षणम् । जि॒ह्वा मे॒ मधु॑मत्तमा ।
कर्णा᳚भ्यां॒ भूरि॒विश्रु॑वम् । ब्रह्म॑णः को॒शो॑ऽसि मे॒धया पि॑हितः ।
श्रु॒तं मे॑ गोपाय । ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
ॐ मे॒धादे॒वी जु॒षमा॑णा न॒ आगा᳚द्वि॒श्वाची॑ भ॒द्रा सु॑मन॒स्यमा॑ना ।
त्वया॒ जुष्टा॑ नु॒दमा॑ना दु॒रुक्ता᳚न् बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः᳚ ।
त्वया॒ जुष्ट॑ ऋ॒षिर्भ॑वति देवि॒ त्वया॒ ब्रह्मा॑ऽऽग॒तश्री॑रु॒त त्वया᳚ ।
त्वया॒ जुष्ट॑श्चि॒त्रं वि॑न्दते वसु॒ सानो॑ जुषस्व॒ द्रवि॑णो न मेधे ॥
मे॒धां म॒ इन्द्रो॑ ददातु मे॒धां दे॒वी सर॑स्वती ।
मे॒धां मे॑ अ॒श्विना॑वु॒भावाध॑त्तां॒ पुष्क॑रस्रजा ।
अ॒प्स॒रासु॑ च॒ या मे॒धा ग॑न्ध॒र्वेषु॑ च॒ यन्मनः॑ ।
दैवीं᳚ मे॒धा सर॑स्वती॒ सा मां᳚ मे॒धा सु॒रभि॑र्जुषता॒ꣳ॒ स्वाहा᳚ ॥
आमां᳚ मे॒धा सु॒रभि॑र्वि॒श्वरू॑पा॒ हिर॑ण्यवर्णा॒ जग॑ती जग॒म्या ।
ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒ सा मां᳚ मे॒धा सु॒प्रती॑का जुषन्ताम् ।
मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु॒
मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रि॒यं द॑धातु॒
मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो॒ भ्राजो॑ दधातु ।
ॐ म॒हा॒दे॒व्यै च॑ वि॒द्महे॑ ब्रह्मप॒त्नी च॑ धीमहि । तन्नो॑ वाणी प्रचो॒दया᳚त् ।
ॐ हं॒स॒ हं॒साय॑ वि॒द्महे॑ परमहं॒साय॑ धीमहि । तन्नो॑ हंसः प्रचो॒दया᳚त् ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
निःस्वराः - मेधासूक्तम्
तैत्तिरीयारण्यकम् - ४ प्रपाठकः १० - अनुवाकः ४१-४४
ॐ यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्योऽध्यमृताथ्संबभूव ।
स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देवधारणो भूयासम् ।
शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा ।
कर्णाभ्यां भूरिविश्रुवम् । ब्रह्मणः कोशोऽसि मेधया पिहितः ।
श्रुतं मे गोपाय । ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ मेधादेवी जुषमाणा न आगाद्विश्वाची भद्रा सुमनस्यमाना ।
त्वया जुष्टा नुदमाना दुरुक्तान् बृहद्वदेम विदथे सुवीराः ।
त्वया जुष्ट ऋषिर्भवति देवि त्वया ब्रह्माऽऽगतश्रीरुत त्वया ।
त्वया जुष्टश्चित्रं विन्दते वसु सानो जुषस्व द्रविणो न मेधे ॥
मेधां म इन्द्रो ददातु मेधां देवी सरस्वती ।
मेधां मे अश्विनावुभावाधत्तां पुष्करस्रजा ।
अप्सरासु च या मेधा गन्धर्वेषु च यन्मनः ।
दैवीं मेधा सरस्वती सा मां मेधा सुरभिर्जुषताꣳ स्वाहा ॥
आमां मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगती जगम्या ।
ऊर्जस्वती पयसा पिन्वमाना सा मां मेधा सुप्रतीका जुषन्ताम् ।
मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु
मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु
मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु ।
ॐ महादेव्यै च विद्महे ब्रह्मपत्नी च धीमहि । तन्नो वाणी प्रचोदयात् ।
ॐ हंस हंसाय विद्महे परमहंसाय धीमहि । तन्नो हंसः प्रचोदयात् ।
ॐ शान्तिः शान्तिः शान्तिः ॥
Encoded with Accents by Rajagopal Iyer