पितृसूक्तम्
ऋग्वेदान्तर्गतम् पञ्चदशसूक्तम्
((१-१४) चतुर्दशर्चस्य सूक्तस्य यामायनः शत ऋषिः । पितरो देवताः ।
(१-१०, १२-१४) प्रथमादिदशर्चाम् द्वादश्यादितृचस्य च त्रिष्टुप्,
(११) एकादश्याश्च जगती छन्दसी ॥)
ऋषिः - शङ्खो यामायनः । देवता - पितरः ।
छन्दः - १,२,७,१२,१३,१४ विराट्त्रिष्टुप्; ३,९,१० त्रिष्टुप्; ४,८ पादनिचृत्त्रिष्टुप्;
५ आर्चीभुरिक्त्रिष्टुप्, ६ निचृत्त्रिष्टुप्; ११ निचृज्जगती ।
स्वरः - १-१०, १२-१४ धवतः; ११ निषादः
उदी᳚रता॒मव॑र॒ उत्परा᳚स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ ।
असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो᳚ऽवन्तु पि॒तरो॒ हवे᳚षु ॥ १०.०१५.०१
इ॒दं पि॒तृभ्यो॒ नमो᳚ अस्त्व॒द्य ये पूर्वा᳚सो॒ य उप॑रास ई॒युः ।
ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा᳚ नू॒नं सु॑वृ॒जना᳚सु वि॒क्षु ॥ १०.०१५.०२
आहं पि॒तॄन्सु॑वि॒दत्रा᳚ँ अवित्सि॒ नपा᳚तं च वि॒क्रम॑णं च॒ विष्णोः᳚ ।
ब॒र्हि॒षदो॒ ये स्व॒धया᳚ सु॒तस्य॒ भज᳚न्त पि॒त्वस्त इ॒हाग॑मिष्ठाः ॥ १०.०१५.०३
बर्हि॑षदः पितर ऊ॒त्य१॒॑र्वागि॒मा वो᳚ ह॒व्या च॑कृमा जु॒षध्व᳚म् ।
त आ ग॒ताव॑सा॒ शंत॑मे॒नाथा᳚ नः॒ शं योर॑र॒पो द॑धात ॥ १०.०१५.०४
उप॑हूताः पि॒तरः॑ सो॒म्यासो᳚ बर्हि॒ष्ये॑षु नि॒धिषु॑ प्रि॒येषु॑ ।
त आ ग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते᳚ऽवन्त्व॒स्मान् ॥ १०.०१५.०५
आच्या॒ जानु॑ दक्षिण॒तो नि॒षद्ये॒मं य॒ज्ञम॒भि गृ॑णीत॒ विश्वे᳚ ।
मा हिं॑सिष्ट पितरः॒ केन॑ चिन्नो॒ यद्व॒ आगः॑ पुरु॒षता॒ करा᳚म ॥ १०.०१५.०६
आसी᳚नासो अरु॒णीना᳚मु॒पस्थे᳚ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या᳚य ।
पु॒त्रेभ्यः॑ पितर॒स्तस्य॒ वस्वः॒ प्र य॑च्छत॒ त इ॒होर्जं᳚ दधात ॥ १०.०१५.०७
ये नः॒ पूर्वे᳚ पि॒तरः॑ सो॒म्यासो᳚ऽनूहि॒रे सो᳚मपी॒थं वसि॑ष्ठाः ।
तेभि᳚र्य॒मः सं᳚ररा॒णो ह॒वींष्यु॒शन्नु॒शद्भिः॑ प्रतिका॒मम॑त्तु ॥ १०.०१५.०८
ये ता᳚तृ॒षुर्दे᳚व॒त्रा जेह॑माना होत्रा॒विदः॒ स्तोम॑तष्टासो अ॒र्कैः ।
आग्ने᳚ याहि सुवि॒दत्रे᳚भिर॒र्वाङ्स॒त्यैः क॒व्यैः पि॒तृभि॑र्घर्म॒सद्भिः॑ ॥ १०.०१५.०९
ये स॒त्यासो᳚ हवि॒रदो᳚ हवि॒ष्पा इन्द्रे᳚ण दे॒वैः स॒रथं॒ दधा᳚नाः ।
आग्ने᳚ याहि स॒हस्रं᳚ देवव॒न्दैः परैः॒ पूर्वैः᳚ पि॒तृभि॑र्घर्म॒सद्भिः॑ ॥ १०.०१५.१०
अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः ।
अ॒त्ता ह॒वींषि॒ प्रय॑तानि ब॒र्हिष्यथा᳚ र॒यिं सर्व॑वीरं दधातन ॥ १०.०१५.११
त्वम॑ग्न ईळि॒तो जा᳚तवे॒दोऽवा᳚ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वी ।
प्रादाः᳚ पि॒तृभ्यः॑ स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे᳚व॒ प्रय॑ता ह॒वींषि॑ ॥ १०.०१५.१२
ये चे॒ह पि॒तरो॒ ये च॒ नेह याँश्च॑ वि॒द्म याँ उ॑ च॒ न प्र॑वि॒द्म ।
त्वं वे᳚त्थ॒ यति॒ ते जा᳚तवेदः स्व॒धाभि᳚र्य॒ज्ञं सुकृ॑तं जुषस्व ॥ १०.०१५.१३
ये अ॑ग्निद॒ग्धा ये अन॑ग्निदग्धा॒ मध्ये᳚ दि॒वः स्व॒धया᳚ मा॒दय᳚न्ते ।
तेभिः॑ स्व॒राळसु॑नीतिमे॒तां य॑थाव॒शं त॒न्वं᳚ कल्पयस्व ॥ १०.०१५.१४
॥निस्वरः ॥
पितृसूक्तं स्वररहितम्
उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः ।
असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥ १०.०१५.०१
इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः ।
ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुवृजनासु विक्षु ॥ १०.०१५.०२
आहं पितॄन्सुविदत्राँ अवित्सि नपातं च विक्रमणं च विष्णोः ।
बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥ १०.०१५.०३
बर्हिषदः पितर ऊत्य१र्वागिमा वो हव्या चकृमा जुषध्वम् ।
त आ गतावसा शंतमेनाथा नः शं योररपो दधात ॥ १०.०१५.०४
उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु ।
त आ गमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु तेऽवन्त्वस्मान् ॥ १०.०१५.०५
आच्या जानु दक्षिणतो निषद्येमं यज्ञमभि गृणीत विश्वे ।
मा हिंसिष्ट पितरः केन चिन्नो यद्व आगः पुरुषता कराम ॥ १०.०१५.०६
आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय ।
पुत्रेभ्यः पितरस्तस्य वस्वः प्र यच्छत त इहोर्जं दधात ॥ १०.०१५.०७
ये नः पूर्वे पितरः सोम्यासोऽनूहिरे सोमपीथं वसिष्ठाः ।
तेभिर्यमः संरराणो हवींष्युशन्नुशद्भिः प्रतिकाममत्तु ॥ १०.०१५.०८
ये तातृषुर्देवत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कैः ।
आग्ने याहि सुविदत्रेभिरर्वाङ्सत्यैः कव्यैः पितृभिर्घर्मसद्भिः ॥ १०.०१५.०९
ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं दधानाः ।
आग्ने याहि सहस्रं देववन्दैः परैः पूर्वैः पितृभिर्घर्मसद्भिः ॥ १०.०१५.१०
अग्निष्वात्ताः पितर एह गच्छत सदःसदः सदत सुप्रणीतयः ।
अत्ता हवींषि प्रयतानि बर्हिष्यथा रयिं सर्ववीरं दधातन ॥ १०.०१५.११
त्वमग्न ईळितो जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वी ।
प्रादाः पितृभ्यः स्वधया ते अक्षन्नद्धि त्वं देव प्रयता हवींषि ॥ १०.०१५.१२
ये चेह पितरो ये च नेह याँश्च विद्म याँ उ च न प्रविद्म ।
त्वं वेत्थ यति ते जातवेदः स्वधाभिर्यज्ञं सुकृतं जुषस्व ॥ १०.०१५.१३
ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते ।
तेभिः स्वराळसुनीतिमेतां यथावशं तन्वं कल्पयस्व ॥ १०.०१५.१४
maNDala 10 sUkta 15
Proofread by Mandar Kulkarni