ऋग्वेदीय रुद्रसूक्तम्
सस्वरः - अनुदात्त, स्वरित, दीर्घस्वरित
(ऋषि-देवता-छन्द-स्वरः सहितम्)
॥ ॐ श्रीगुरुभ्यो नमः ॥
॥ हरिः ॐ ॥
(प्रथममण्डले त्रिचत्वारिंशं सूक्तम् १.४३
ऋषिः कण्वो घौरः ।
देवता १, २, ४-६ रुद्रः, ३ मित्रावरुणौ; ७-९ सोमः ।
छन्दः १-४, ७, ८ गायत्री, ५ विराड्गायत्री, ६ पादनिचृद्गायत्री, ९ अनुष्टुप् ।
स्वरः १-८ षड्जः, ९ गान्धारः ॥)
कद्रु॒द्राय॒ प्रचे᳚तसे मी॒ळ्हुष्ट॑माय॒ तव्य॑से ।
वो॒चेम॒ शम्त॑मं हृ॒दे ॥ १.४३.१॥
यथा᳚ नो॒ अदि॑तिः॒ कर॒त्पश्वे॒ नृभ्यो॒ यथा॒ गवे᳚ ।
यथा᳚ तो॒काय॑ रु॒द्रिय᳚म् ॥ १.४३.२॥
यथा᳚ नो मि॒त्रो वरु॑णो॒ यथा᳚ रु॒द्रश्चिके᳚तति ।
यथा॒ विश्वे᳚ स॒जोष॑सः ॥ १.४३.३॥
गा॒थप॑तिं मे॒धप॑तिं रु॒द्रं जला᳚षभेषजम् ।
तच्छं॒योः सु॒म्नमी᳚महे ॥ १.४३.४॥
यः शु॒क्र इ॑व॒ सूर्यो॒ हिर᳚ण्यमिव॒ रोच॑ते ।
श्रेष्ठो᳚ दे॒वानां॒ वसुः॑ ॥ १.४३.५॥
शं नः॑ कर॒त्यर्व॑ते सु॒गं मे॒षाय॑ मे॒ष्ये᳚ ।
नृभ्यो॒ नारि॑भ्यो॒ गवे᳚ ॥ १.४३.६॥
अ॒स्मे सो᳚म॒ श्रिय॒मधि॒ नि धे᳚हि श॒तस्य॑ नृ॒णाम् ।
महि॒ श्रव॑स्तुविनृ॒म्णम् ॥ १.४३.७॥
मा नः॑ सोमपरि॒बाधो॒ मारा᳚तयो जुहुरन्त ।
आ न॑ इन्दो॒ वाजे᳚ भज ॥ १.४३.८॥
यास्ते᳚ प्र॒जा अ॒मृत॑स्य॒ पर॑स्मि॒न्धाम᳚न्नृ॒तस्य॑ ।
मू॒र्धा नाभा᳚ सोम वेन आ॒भूष᳚न्तीः सोम वेदः ॥ १.४३.९॥
(प्रथम मण्डले चतुर्दशोत्तरशततं सूक्तम्
ऋषिः - कुत्स आङ्गिरसः । देवता रुद्रः ।
छन्दः १ जगती, २, ७ निचृज्जगती, ३, ६, ८, ९ विराड्जगती,
४, ५, ११ भुरिक्त्रिष्टुप्, १० निचृत्त्रिष्टुप् ।
स्वरः १-३, ६-९ निषादः, ४, ५, १०, ११ धैवतः ॥)
इ॒मा रु॒द्राय॑ त॒वसे᳚ कप॒र्दिने᳚ क्ष॒यद्वी᳚राय॒ प्र भ॑रामहे म॒तीः ।
यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं᳚ पु॒ष्टं ग्रामे᳚ अ॒स्मिन्न॑नातु॒रम् ॥ १.११४.१॥
मृ॒ळा नो᳚ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी᳚राय॒ नम॑सा विधेम ते ।
यच्छं च॒ योश्च॒ मनु॑राये॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी᳚तिषु ॥ १.११४.२॥
अ॒श्याम॑ ते सुम॒तिं दे᳚वय॒ज्यया᳚ क्ष॒यद्वी᳚रस्य॒ तव॑ रुद्र मीढ्वः ।
सु॒म्ना॒यन्निद्विशो᳚ अ॒स्माक॒मा च॒रारि॑ष्टवीरा जुहवाम ते ह॒विः ॥ १.११४.३॥
त्वे॒षं व॒यं रु॒द्रं य॑ज्ञ॒साधं᳚ व॒ङ्कुं क॒विमव॑से॒ नि ह्व॑यामहे ।
आ॒रे अ॒स्मद्दैव्यं॒ हेळो᳚ अस्यतु सुम॒तिमिद्व॒यम॒स्या वृ॑णीमहे ॥ १.११४.४॥
दि॒वो व॑रा॒हम॑रु॒षं क॑प॒र्दिनं᳚ त्वे॒षं रू॒पं नम॑सा॒ नि ह्व॑यामहे ।
हस्ते॒ बिभ्र॑द्भेष॒जा वार्या᳚णि॒ शर्म॒ वर्म॑ च्छ॒र्दिर॒स्मभ्यं᳚ यंसत् ॥ १.११४.५॥
इ॒दं पि॒त्रे म॒रुता᳚मुच्यते॒ वचः॑ स्वा॒दोः स्वादी᳚यो रु॒द्राय॒ वर्ध॑नम् ।
रास्वा᳚ च नो अमृत मर्त॒भोज॑नं॒ त्मने᳚ तो॒काय॒ तन॑याय मृळ ॥ १.११४.६॥
मा नो᳚ म॒हान्त॑मु॒त मा नो᳚ अर्भ॒कं मा न॒ उक्ष᳚न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो᳚ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा नः॑ प्रि॒यास्त॒न्वो᳚ रुद्र रीरिषः ॥ १.११४.७॥
मा न॑स्तो॒के तन॑ये॒ मा न॑ आ॒यौ मा नो॒ गोषु॒ मा नो॒ अश्वे᳚षु रीरिषः ।
वी॒रान्मा नो᳚ रुद्र भामि॒तो व॑धीर्ह॒विष्म᳚न्तः॒ सद॒मित्त्वा᳚ हवामहे ॥ १.११४.८॥
उप॑ ते॒ स्तोमा᳚न्पशु॒पा इ॒वाक॑रं॒ रास्वा᳚ पितर्मरुतां सु॒म्नम॒स्मे ।
भ॒द्रा हि ते᳚ सुम॒तिर्मृ॑ळ॒यत्त॒माथा᳚ व॒यमव॒ इत्ते᳚ वृणीमहे ॥ १.११४.९॥
आ॒रे ते᳚ गो॒घ्नमु॒त पू᳚रुष॒घ्नं क्षय॑द्वीर सु॒म्नम॒स्मे ते᳚ अस्तु ।
मृ॒ळा च॑ नो॒ अधि॑ च ब्रूहि दे॒वाधा᳚ च नः॒ शर्म॑ यच्छ द्वि॒बर्हाः᳚ ॥ १.११४.१०॥
अवो᳚चाम॒ नमो᳚ अस्मा अव॒स्यवः॑ शृ॒णोतु॑ नो॒ हवं᳚ रु॒द्रो म॒रुत्वा᳚न् ।
तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ १.११४.११॥
(द्वितीयमण्डले त्रयस्त्रिंशं सूक्तम्
ऋषिः गृत्समदः । देवता रुद्रः ।
छन्दः १, ५, ९, १३-१५ निचृत्त्रिष्टुप्, ३, ६, १०, ११, विराट्त्रिष्टुप्,
४, ८ त्रिष्टुप्, २, ७ पङ्क्तिः, १२ भुरिक्पङ्क्तिः ।
स्वरः १, ३-६, ८-११, १३-१५ धैवतः, २, ७, १२ पञ्चमः ॥)
आ ते᳚ पितर्मरुतां सु॒म्नमे᳚तु॒ मा नः॒ सूर्य॑स्य सं॒दृशो᳚ युयोथाः ।
अ॒भि नो᳚ वी॒रो अर्व॑ति क्षमेत॒ प्र जा᳚येमहि रुद्र प्र॒जाभिः॑ ॥ २.३३.१॥
त्वाद॑त्तेभी रुद्र॒ शंत॑मेभिः श॒तं हिमा᳚ अशीय भेष॒जेभिः॑ ।
व्य१॒॑स्मद्द्वेषो᳚ वित॒रं व्यंहो॒ व्यमी᳚वाश्चातयस्वा॒ विषू᳚चीः ॥ २.३३.२॥
श्रेष्ठो᳚ जा॒तस्य॑ रुद्र श्रि॒यासि॑ त॒वस्त॑मस्त॒वसां᳚ वज्रबाहो ।
पर्षि॑ णः पा॒रमंह॑सः स्व॒स्ति विश्वा᳚ अ॒भी᳚ती॒ रप॑सो युयोधि ॥ २.३३.३॥
मा त्वा᳚ रुद्र चुक्रुधामा॒ नमो᳚भि॒र्मा दुष्टु॑ती वृषभ॒ मा सहू᳚ती ।
उन्नो᳚ वी॒राँ अ॑र्पय भेष॒जेभि॑र्भि॒षक्त॑मं त्वा भि॒षजां᳚ शृणोमि ॥ २.३३.४॥
हवी᳚मभि॒र्हव॑ते॒ यो ह॒विर्भि॒रव॒ स्तोमे᳚भी रु॒द्रं दि॑षीय ।
ऋ॒दू॒दरः॑ सु॒हवो॒ मा नो᳚ अ॒स्यै ब॒भ्रुः सु॒शिप्रो᳚ रीरधन्म॒नायै᳚ ॥ २.३३.५॥
उन्मा᳚ ममन्द वृष॒भो म॒रुत्वा॒न्त्वक्षी᳚यसा॒ वय॑सा॒ नाध॑मानम् ।
घृणी᳚व च्छा॒याम॑र॒पा अ॑शी॒या वि॑वासेयं रु॒द्रस्य॑ सु॒म्नम् ॥ २.३३.६॥
क्व१॒॑ ऽस्य ते᳚ रुद्र मृळ॒याकु॒र्हस्तो॒ यो अस्ति॑ भेष॒जो जला᳚षः ।
अ॒प॒भ॒र्ता रप॑सो॒ दैव्य॑स्या॒भी नु मा᳚ वृषभ चक्षमीथाः ॥ २.३३.७॥
प्र ब॒भ्रवे᳚ वृष॒भाय॑ श्विती॒चे म॒हो म॒हीं सु॑ष्टु॒तिमी᳚रयामि ।
न॒म॒स्या क॑ल्मली॒किनं॒ नमो᳚भिर्गृणी॒मसि॑ त्वे॒षं रु॒द्रस्य॒ नाम॑ ॥ २.३३.८॥
स्थि॒रेभि॒रङ्गैः᳚ पुरु॒रूप॑ उ॒ग्रो ब॒भ्रुः शु॒क्रेभिः॑ पिपिशे॒ हिर᳚ण्यैः ।
ईशा᳚नाद॒स्य भुव॑नस्य॒ भूरे॒र्न वा उ॑ योषद्रु॒द्राद॑सु॒र्य᳚म् ॥ २.३३.९॥
अर्ह᳚न्बिभर्षि॒ साय॑कानि॒ धन्वार्ह᳚न्नि॒ष्कं य॑ज॒तं वि॒श्वरू᳚पम् ।
अर्ह᳚न्नि॒दं द॑यसे॒ विश्व॒मभ्वं॒ न वा ओजी᳚यो रुद्र॒ त्वद॑स्ति ॥ २.३३.१०॥
स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा᳚नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रम् ।
मृ॒ळा ज॑रि॒त्रे रु॑द्र॒ स्तवा᳚नो॒ऽन्यं ते᳚ अ॒स्मन्नि व॑पन्तु॒ सेनाः᳚ ॥ २.३३.११॥
कु॒मा॒रश्चि॑त्पि॒तरं॒ वन्द॑मानं॒ प्रति॑ नानाम रुद्रोप॒यन्त᳚म् ।
भूरे᳚र्दा॒तारं॒ सत्प॑तिं गृणीषे स्तु॒तस्त्वं भे᳚ष॒जा रा᳚स्य॒स्मे ॥ २.३३.१२॥
या वो᳚ भेष॒जा म॑रुतः॒ शुची᳚नि॒ या शंत॑मा वृषणो॒ या म॑यो॒भु ।
यानि॒ मनु॒रवृ॑णीता पि॒ता न॒स्ता शं च॒ योश्च॑ रु॒द्रस्य॑ वश्मि ॥ २.३३.१३॥
परि॑ णो हे॒ती रु॒द्रस्य॑ वृज्याः॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर्म॒ही गा᳚त् ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृळ ॥ २.३३.१४॥
ए॒वा ब॑भ्रो वृषभ चेकितान॒ यथा᳚ देव॒ न हृ॑णी॒षे न हंसि॑ ।
ह॒व॒न॒श्रुन्नो᳚ रुद्रे॒ह बो᳚धि बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ॥ २.३३.१५॥
(षष्ठमण्डले चतुःसप्ततितमं सूक्तम्
ऋषिः भरद्वाजो बार्हस्पत्यः । देवता सोमारुद्रौ ।
छन्दः १, २, ४ त्रिष्टुप्, ३ निचृत्त्रिष्टुप्, स्वरः धैवतः ॥)
सोमा᳚रुद्रा धा॒रये᳚थामसु॒र्यं१॒॑ प्र वा᳚मि॒ष्टयोऽर॑मश्नुवन्तु ।
दमे᳚दमे स॒प्त रत्ना॒ दधा᳚ना॒ शं नो᳚ भूतं द्वि॒पदे॒ शं चतु॑ष्पदे ॥ ६.७४.१॥
सोमा᳚रुद्रा॒ वि वृ॑हतं॒ विषू᳚ची॒ममी᳚वा॒ या नो॒ गय॑मावि॒वेश॑ ।
आ॒रे बा᳚धेथां॒ निरृ॑तिं परा॒चैर॒स्मे भ॒द्रा सौ᳚श्रव॒सानि॑ सन्तु ॥ ६.७४.२॥
सोमा᳚रुद्रा यु॒वमे॒तान्य॒स्मे विश्वा᳚ त॒नूषु॑ भेष॒जानि॑ धत्तम् ।
अव॑ स्यतं मु॒ञ्चतं॒ यन्नो॒ अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो᳚ अ॒स्मत् ॥ ६.७४.३॥
ति॒ग्मायु॑धौ ति॒ग्महे᳚ती सु॒शेवौ॒ सोमा᳚रुद्रावि॒ह सु मृ॑ळतं नः ।
प्र नो᳚ मुञ्चतं॒ वरु॑णस्य॒ पाशा᳚द्गोपा॒यतं᳚ नः सुमन॒स्यमा᳚ना ॥ ६.७४.४॥
(सप्तममण्डले षट्चत्वारिंशं सूक्तम्
ऋषिः वसिष्ठः । देवता रुद्रः ।
छन्दः १ विराड्जगती, २ निचृत्त्रिष्टुप्, ३ निचृत् जगती, ४ स्वराट्पङ्क्तिः ।
स्वरः १, ३, निषदः, २ धैवतः, ४ पञ्चमः ॥)
इ॒मा रु॒द्राय॑ स्थि॒रध᳚न्वने॒ गिरः॑ क्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाव्ने᳚ ।
अषा᳚ळ्हाय॒ सह॑मानाय वे॒धसे᳚ ति॒ग्मायु॑धाय भरता शृ॒णोतु॑ नः ॥ ७.४६.१॥
स हि क्षये᳚ण॒ क्षम्य॑स्य॒ जन्म॑नः॒ साम्रा᳚ज्येन दि॒व्यस्य॒ चेत॑ति ।
अव॒न्नव᳚न्ती॒रुप॑ नो॒ दुर॑श्चरानमी॒वो रु॑द्र॒ जासु॑ नो भव ॥ ७.४६.२॥
या ते᳚ दि॒द्युदव॑सृष्टा दि॒वस्परि॑ क्ष्म॒या चर॑ति॒ परि॒ सा वृ॑णक्तु नः ।
स॒हस्रं᳚ ते स्वपिवात भेष॒जा मा न॑स्तो॒केषु॒ तन॑येषु रीरिषः ॥ ७.४६.३॥
मा नो᳚ वधी रुद्र॒ मा परा᳚ दा॒ मा ते᳚ भूम॒ प्रसि॑तौ हीळि॒तस्य॑ ।
आ नो᳚ भज ब॒र्हिषि॑ जीवशं॒से यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ॥ ७.४६.४॥
तमीशा᳚नं॒ जग॑तस्त॒स्थुष॒स्पतिं᳚ धियंजि॒न्वमव॑से हूमहे व॒यम् ।
पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये᳚ ॥ १.८९.५॥
(गोतमो राहुगणपुत्रः, विश्वेदेवाः, निछृज्जगती, निषदः)
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः᳚ ।
यः शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ अ॑वन्तु दे॒वाः ॥ ८.६३.१२॥
(प्रगाथः काण्वः, देवाः, त्रिष्टुप्, गान्धारः)
त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वं शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे ।
त्वं वातै᳚ररु॒णैर्या॑सि शंग॒यस्त्वं पू॒षा वि॑ध॒तः पा᳚सि॒ नु त्मना᳚ ॥ २.१.६॥
(आङ्गिरसः शौनहोत्रो भार्गवो गृत्समदः, अग्निः, भुरिक् त्रिष्टुप्, धैवतः)
आ वो॒ राजा᳚नमध्व॒रस्य॑ रु॒द्रं होता᳚रं सत्य॒यजं॒ रोद॑स्योः ।
अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर᳚ण्यरूप॒मव॑से कृणुध्वम् ॥ ४.३.१॥
(वामदेवः, अग्निः, निचृत्त्रिष्टुप्, धैवतः)
भुव॑नस्य पि॒तरं᳚ गी॒र्भिरा॒भी रु॒द्रं दिवा᳚ व॒र्धया᳚ रु॒द्रम॒क्तौ ।
बृ॒हन्त॑मृ॒ष्वम॒जरं᳚ सुषु॒म्नमृध॑ग्घुवेम क॒विने᳚षि॒तासः॑ ॥ ६.४९.१०॥
(ऋजिश्वाः, विश्वे देवाः, त्रिष्टुप्, धैवतः)
तमु॑ ष्टुहि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ ।
यक्ष्वा᳚ म॒हे सौ᳚मन॒साय॑ रु॒द्रं नमो᳚भिर्दे॒वमसु॑रं दुवस्य ॥ ५.४२.११॥
(अग्निः, विश्वे देवाः, निचृत्त्रिष्टुप्, धैवतः)
अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः ।
अ॒यं मे᳚ वि॒श्वभे᳚षजो॒ऽयं शि॒वाभि॑मर्शनः ॥ १०.६०.१२॥
(बन्ध्वादयो गौपायनाः, हस्तः, निचृदनुष्टुप्, गान्धारः)
त्र्य᳚म्बकं यजामहे सु॒गन्धिं᳚ पुष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता᳚त् ॥ ७.५९.१२॥
(वसिष्ठः, रुद्रः, अनुष्टुप्, गान्धारः)
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
॥ हरिः ॐ ॥
निःस्वरः
॥ ॐ श्रीगुरुभ्यो नमः ॥
॥ हरिः ॐ ॥
(प्रथममण्डले त्रिचत्वारिंशं सूक्तम् १.४३
ऋषिः कण्वो घौरः ।
देवता १, २, ४-६ रुद्रः, ३ मित्रावरुणौ; ७-९ सोमः ।
छन्दः १-४, ७, ८ गायत्री, ५ विराड्गायत्री, ६ पादनिचृद्गायत्री, ९ अनुष्टुप् ।
स्वरः १-८ षड्जः, ९ गान्धारः ॥)
कद्रुद्राय प्रचेतसे मीळ्हुष्टमाय तव्यसे ।
वोचेम शम्तमं हृदे ॥ १.४३.१॥
यथा नो अदितिः करत्पश्वे नृभ्यो यथा गवे ।
यथा तोकाय रुद्रियम् ॥ १.४३.२॥
यथा नो मित्रो वरुणो यथा रुद्रश्चिकेतति ।
यथा विश्वे सजोषसः ॥ १.४३.३॥
गाथपतिं मेधपतिं रुद्रं जलाषभेषजम् ।
तच्छंयोः सुम्नमीमहे ॥ १.४३.४॥
यः शुक्र इव सूर्यो हिरण्यमिव रोचते ।
श्रेष्ठो देवानां वसुः ॥ १.४३.५॥
शं नः करत्यर्वते सुगं मेषाय मेष्ये ।
नृभ्यो नारिभ्यो गवे ॥ १.४३.६॥
अस्मे सोम श्रियमधि नि धेहि शतस्य नृणाम् ।
महि श्रवस्तुविनृम्णम् ॥ १.४३.७॥
मा नः सोमपरिबाधो मारातयो जुहुरन्त ।
आ न इन्दो वाजे भज ॥ १.४३.८॥
यास्ते प्रजा अमृतस्य परस्मिन्धामन्नृतस्य ।
मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः ॥ १.४३.९॥
(प्रथम मण्डले चतुर्दशोत्तरशततं सूक्तम्
ऋषिः - कुत्स आङ्गिरसः । देवता रुद्रः ।
छन्दः १ जगती, २, ७ निचृज्जगती, ३, ६, ८, ९ विराड्जगती,
४, ५, ११ भुरिक्त्रिष्टुप्, १० निचृत्त्रिष्टुप् ।
स्वरः १-३, ६-९ निषादः, ४, ५, १०, ११ धैवतः ॥)
इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः ।
यथा शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् ॥ १.११४.१॥
मृळा नो रुद्रोत नो मयस्कृधि क्षयद्वीराय नमसा विधेम ते ।
यच्छं च योश्च मनुरायेजे पिता तदश्याम तव रुद्र प्रणीतिषु ॥ १.११४.२॥
अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः ।
सुम्नायन्निद्विशो अस्माकमा चरारिष्टवीरा जुहवाम ते हविः ॥ १.११४.३॥
त्वेषं वयं रुद्रं यज्ञसाधं वङ्कुं कविमवसे नि ह्वयामहे ।
आरे अस्मद्दैव्यं हेळो अस्यतु सुमतिमिद्वयमस्या वृणीमहे ॥ १.११४.४॥
दिवो वराहमरुषं कपर्दिनं त्वेषं रूपं नमसा नि ह्वयामहे ।
हस्ते बिभ्रद्भेषजा वार्याणि शर्म वर्म च्छर्दिरस्मभ्यं यंसत् ॥ १.११४.५॥
इदं पित्रे मरुतामुच्यते वचः स्वादोः स्वादीयो रुद्राय वर्धनम् ।
रास्वा च नो अमृत मर्तभोजनं त्मने तोकाय तनयाय मृळ ॥ १.११४.६॥
मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् ।
मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ॥ १.११४.७॥
मा नस्तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषु रीरिषः ।
वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तः सदमित्त्वा हवामहे ॥ १.११४.८॥
उप ते स्तोमान्पशुपा इवाकरं रास्वा पितर्मरुतां सुम्नमस्मे ।
भद्रा हि ते सुमतिर्मृळयत्तमाथा वयमव इत्ते वृणीमहे ॥ १.११४.९॥
आरे ते गोघ्नमुत पूरुषघ्नं क्षयद्वीर सुम्नमस्मे ते अस्तु ।
मृळा च नो अधि च ब्रूहि देवाधा च नः शर्म यच्छ द्विबर्हाः ॥ १.११४.१०॥
अवोचाम नमो अस्मा अवस्यवः शृणोतु नो हवं रुद्रो मरुत्वान् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥ १.११४.११॥
(द्वितीयमण्डले त्रयस्त्रिंशं सूक्तम्
ऋषिः गृत्समदः । देवता रुद्रः ।
छन्दः १, ५, ९, १३.१५ निचृत्त्रिष्टुप्, ३, ६, १०, ११, विराट्त्रिष्टुप्,
४, ८ त्रिष्टुप्, २, ७ पङ्क्तिः, १२ भुरिक्पङ्क्तिः ।
स्वरः १, ३-६, ८-११, १३.१५ धैवतः, २, ७, १२ पञ्चमः ॥)
आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य संदृशो युयोथाः ।
अभि नो वीरो अर्वति क्षमेत प्र जायेमहि रुद्र प्रजाभिः ॥ २.३३.१॥
त्वादत्तेभी रुद्र शंतमेभिः शतं हिमा अशीय भेषजेभिः ।
व्य१स्मद्द्वेषो वितरं व्यंहो व्यमीवाश्चातयस्वा विषूचीः ॥ २.३३.२॥
श्रेष्ठो जातस्य रुद्र श्रियासि तवस्तमस्तवसां वज्रबाहो ।
पर्षि णः पारमंहसः स्वस्ति विश्वा अभीती रपसो युयोधि ॥ २.३३.३॥
मा त्वा रुद्र चुक्रुधामा नमोभिर्मा दुष्टुती वृषभ मा सहूती ।
उन्नो वीराँ अर्पय भेषजेभिर्भिषक्तमं त्वा भिषजां शृणोमि ॥ २.३३.४॥
हवीमभिर्हवते यो हविर्भिरव स्तोमेभी रुद्रं दिषीय ।
ऋदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन्मनायै ॥ २.३३.५॥
उन्मा ममन्द वृषभो मरुत्वान्त्वक्षीयसा वयसा नाधमानम् ।
घृणीव च्छायामरपा अशीया विवासेयं रुद्रस्य सुम्नम् ॥ २.३३.६॥
क्व१ स्य ते रुद्र मृळयाकुर्हस्तो यो अस्ति भेषजो जलाषः ।
अपभर्ता रपसो दैव्यस्याभी नु मा वृषभ चक्षमीथाः ॥ २.३३.७॥
प्र बभ्रवे वृषभाय श्वितीचे महो महीं सुष्टुतिमीरयामि ।
नमस्या कल्मलीकिनं नमोभिर्गृणीमसि त्वेषं रुद्रस्य नाम ॥ २.३३.८॥
स्थिरेभिरङ्गैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशे हिरण्यैः ।
ईशानादस्य भुवनस्य भूरेर्न वा उ योषद्रुद्रादसुर्यम् ॥ २.३३.९॥
अर्हन्बिभर्षि सायकानि धन्वार्हन्निष्कं यजतं विश्वरूपम् ।
अर्हन्निदं दयसे विश्वमभ्वं न वा ओजीयो रुद्र त्वदस्ति ॥ २.३३.१०॥
स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम् ।
मृळा जरित्रे रुद्र स्तवानोऽन्यं ते अस्मन्नि वपन्तु सेनाः ॥ २.३३.११॥
कुमारश्चित्पितरं वन्दमानं प्रति नानाम रुद्रोपयन्तम् ।
भूरेर्दातारं सत्पतिं गृणीषे स्तुतस्त्वं भेषजा रास्यस्मे ॥ २.३३.१२॥
या वो भेषजा मरुतः शुचीनि या शंतमा वृषणो या मयोभु ।
यानि मनुरवृणीता पिता नस्ता शं च योश्च रुद्रस्य वश्मि ॥ २.३३.१३॥
परि णो हेती रुद्रस्य वृज्याः परि त्वेषस्य दुर्मतिर्मही गात् ।
अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृळ ॥ २.३३.१४॥
एवा बभ्रो वृषभ चेकितान यथा देव न हृणीषे न हंसि ।
हवनश्रुन्नो रुद्रेह बोधि बृहद्वदेम विदथे सुवीराः ॥ २.३३.१५॥
(षष्ठमण्डले चतुःसप्ततितमं सूक्तम्
ऋषिः भरद्वाजो बार्हस्पत्यः ।देवता सोमारुद्रौ ।
छन्दः १, २, ४ त्रिष्टुप्, ३ निचृत्त्रिष्टुप्, स्वरः धैवतः ॥)
सोमारुद्रा धारयेथामसुर्यं१ प्र वामिष्टयोऽरमश्नुवन्तु ।
दमेदमे सप्त रत्ना दधाना शं नो भूतं द्विपदे शं चतुष्पदे ॥ ६.७४.१॥
सोमारुद्रा वि वृहतं विषूचीममीवा या नो गयमाविवेश ।
आरे बाधेथां निरृतिं पराचैरस्मे भद्रा सौश्रवसानि सन्तु ॥ ६.७४.२॥
सोमारुद्रा युवमेतान्यस्मे विश्वा तनूषु भेषजानि धत्तम् ।
अव स्यतं मुञ्चतं यन्नो अस्ति तनूषु बद्धं कृतमेनो अस्मत् ॥ ६.७४.३॥
तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृळतं नः ।
प्र नो मुञ्चतं वरुणस्य पाशाद्गोपायतं नः सुमनस्यमाना ॥ ६.७४.४॥
(सप्तममण्डले षट्चत्वारिंशं सूक्तम्
ऋषिः वसिष्ठः । देवता रुद्रः ।
छन्दः १ विराड्जगती, २ निचृत्त्रिष्टुप्, ३ निचृत् जगती, ४ स्वराट्पङ्क्तिः ।
स्वरः १, ३, निषदः, २ धैवतः, ४ पञ्चमः ॥)
इमा रुद्राय स्थिरधन्वने गिरः क्षिप्रेषवे देवाय स्वधाव्ने ।
अषाळ्हाय सहमानाय वेधसे तिग्मायुधाय भरता शृणोतु नः ॥ ७.४६.१॥
स हि क्षयेण क्षम्यस्य जन्मनः साम्राज्येन दिव्यस्य चेतति ।
अवन्नवन्तीरुप नो दुरश्चरानमीवो रुद्र जासु नो भव ॥ ७.४६.२॥
या ते दिद्युदवसृष्टा दिवस्परि क्ष्मया चरति परि सा वृणक्तु नः ।
सहस्रं ते स्वपिवात भेषजा मा नस्तोकेषु तनयेषु रीरिषः ॥ ७.४६.३॥
मा नो वधी रुद्र मा परा दा मा ते भूम प्रसितौ हीळितस्य ।
आ नो भज बर्हिषि जीवशंसे यूयं पात स्वस्तिभिः सदा नः ॥ ७.४६.४॥
तमीशानं जगतस्तस्थुषस्पतिं धियंजिन्वमवसे हूमहे वयम् ।
पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये ॥ १.८९.५॥
(गोतमो राहुगणपुत्रः, विश्वेदेवाः, निछृज्जगती, निषदः)
अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः ।
यः शंसते स्तुवते धायि पज्र इन्द्रज्येष्ठा अस्माँ अवन्तु देवाः ॥ ८.६३.१२॥
(प्रगाथः काण्वः, देवाः, त्रिष्टुप्, गान्धारः)
त्वमग्ने रुद्रो असुरो महो दिवस्त्वं शर्धो मारुतं पृक्ष ईशिषे ।
त्वं वातैररुणैर्यासि शंगयस्त्वं पूषा विधतः पासि नु त्मना ॥ २.१.६॥
(आङ्गिरसः शौनहोत्रो भार्गवो गृत्समदः, अग्निः, भुरिक् त्रिष्टुप्, धैवतः)
आ वो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः ।
अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् ॥ ४.३.१॥
(वामदेवः, अग्निः, निचृत्त्रिष्टुप्, धैवतः)
भुवनस्य पितरं गीर्भिराभी रुद्रं दिवा वर्धया रुद्रमक्तौ ।
बृहन्तमृष्वमजरं सुषुम्नमृधग्घुवेम कविनेषितासः ॥ ६.४९.१०॥
(ऋजिश्वाः, विश्वे देवाः, त्रिष्टुप्, धैवतः)
तमु ष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य ।
यक्ष्वा महे सौमनसाय रुद्रं नमोभिर्देवमसुरं दुवस्य ॥ ५.४२.११॥
(अग्निः, विश्वे देवाः, निचृत्त्रिष्टुप्, धैवतः)
अयं मे हस्तो भगवानयं मे भगवत्तरः ।
अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः ॥ १०.६०.१२॥
(बन्ध्वादयो गौपायनाः, हस्तः, निचृदनुष्टुप्, गान्धारः)
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥ ७.५९.१२॥
(वसिष्ठः, रुद्रः, अनुष्टुप्, गान्धारः)
॥ ॐ शान्तिः शान्तिः शान्तिः ॥
॥ हरिः ॐ ॥
Notes:
RudraSūktam रुद्रसूक्तम् is a compilation from The ṚgVeda Samhitā ऋग्वेद संहिता of Ṛcā-s ऋचा dedicated to Rudra रुद्र.
The compilations of Ṛcā-s ऋचा in RudraSūktam रुद्रसूक्तम् and PañcaRudram पञ्चरुद्रम् are almost similar for the most part. Each comprises of the Sūktāni सूक्तानि 1.43 १।४३ , 1.114 १।११४ , 2.33 २।३३ , 6.74 ६।७४ and 7.46 ७।०४६ in a sequence, followed by some assorted Ṛcā-s ऋचा that have minor differences between the two with respect to content and order.
Vedic Accents/Svara were referenced mainly from the source texts given in the links below. The dIrghasvarita svaras (double lines over) are confirmed with the audio chanting of the well-known Challakere Brothers. Most of the printed texts in books do not include the dIrghasvarita, however, they help in read-along or chanting practice where a qualified teacher is not available.
The text is prepared for devotees learning to chant and for reference.
The intonation of Sound of the Vedic Accents/Svara and recitation of Vedic Texts needs to be learned from experts of the related traditions to which they are specific.
The markings/symbols of Vedic Accents/Svara may be found to vary amongst publications and individual compilations based on Veda, tradition/branch, publication etc. and need to be learned from subject experts.
For reference, the Rishi, Devata, Chanda, Svara are taken from the well prepared Rigvedasamhita publication from aryamantavya.in Aryasamaj of Swami Dayanand Saraswati and a newer publication edited by Dr. Dharmendrakumara and Pradyumnachandra published by Delhi Sanskrit Academy (2013-2014). There may be slight differences in the specifications of Chanda (especially ignoring the refined naming of triShTup, jagatI, gAyatrI Chandas), however, the Rishi and Devata are consistently given the same across different references.
Encoded and proofread by Ruma Dewan