संज्ञानसूक्त
॥ ॐ ॥
॥ अथ संज्ञान सूक्तम् ॥
ऋषिः संवननः ॥ देवता १ अग्निः; २४ संज्ञानम् ॥
छन्दः १ विराडनुष्टुप्; २ अनुष्टुप्; ३ त्रिष्टुप्; ४ निचृदनुष्टुप् ॥
स्वरः १, २, ४ गान्धारः; ३ धैवतः ॥
संस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा᳚न्य॒र्य आ ।
इ॒ळस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ॥ १०.१९१.०१
सं ग॑च्छध्वं॒ सं व॑दध्वं॒ सं वो॒ मनां᳚सि जानताम् ।
दे॒वा भा॒गं यथा॒ पूर्वे᳚ संजाना॒ना उ॒पास॑ते ॥ १०.१९१.०२
स॒मा॒नो मन्त्रः॒ समि॑तिः समा॒नी
स॑मा॒नं मनः॑ स॒ह चि॒त्तमे᳚षाम् ।
स॒मा॒नं मन्त्र॑म॒भि म᳚न्त्रये वः
समा॒नेन॑ वो ह॒विषा᳚ जुहोमि ॥ १०.१९१.०३
स॒मा॒नी व॒ आकू᳚तिः समा॒ना हृद॑यानि वः ।
स॒मा॒नम॑स्तु वो॒ मनो॒ यथा᳚ वः॒ सुस॒हास॑ति ॥ १०.१९१.०४
Encoded by Sunder Hattangadi
Proofread by Sunder Hattangadi, Mandar Kulkarni, NA