संज्ञानसूक्त
॥ ॐ ॥
॥ अथ संज्ञान सूक्तम् ॥
सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् ।
देवा भागं यथा पूर्वे संजानाना उपासते ॥
समानो मन्त्रः समितिः समानी
समानं मनः सह चित्तमेषाम् ।
समानं मन्त्रमभिमन्त्रये वः
समानेन वो हविषा जुहोमि ॥
समानी व आकूतिः समाना हृदयानि वः ।
समानमस्तु वो मनो यथा वः सुसहासति ॥
ऋग्वेद मंडल १०: १९१:२-३-४
Encoded and proofread by Sunder Hattangadi