उदकशान्ति मन्त्राः

उदकशान्ति मन्त्राः

सस्वरः

ॐ ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता᳚त् विसी॑म॒तस्सु॒रुचो॑ वे॒न आ॑वः । सबु॒ध्निया॑ उप॒मा॑स्य॒विष्ठः स॒तश्च॒ योनि॒मस॑त्श्च॒विवः॑ ॥ आपो॒ वा इ॒दꣳ सर्वं॒ विश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑ प॒शव॒ आपोऽन्न॒मापोऽमृ॑त॒मापः॑ स॒म्राडापो॑ वि॒राडापः॑ स्व॒राडाप॒श्छन्दा॒ꣳ॒स्यापो॒ ज्योती॒ꣳ॒ष्यापो॒ यजू॒ꣳ॒ष्याप॑स्स॒त्यमाप॒स्सर्वा॑ दे॒वता॒ आपो॒ भूर्भुव॒स्सुव॒राप॒ ॐ ॥ अ॒पः प्रण॑यति । श्र॒द्धावा आपः॑ । श्र॒द्धां ए॒वारभ्य॑ प्र॒णीय॑ प्रच॑रति अ॒पः प्रण॑यति । य॒ज्ञो वै आपः॑ । य॒ज्ञं ए॒वारभ्य॑ प्र॒णीय॑ प्रच॑रति अ॒पः प्रण॑यति । व॒ज्रो वै आपः॑ । वज्र॑मे॒व भ्रातृ॑व्येभ्यः प्रहृत्य॑ प्र॒णीय॑ प्रच॑रति । अ॒पः प्रण॑यति । आपो॒ वै रक्षो॒घ्नीः । रक्ष॑सां अप॑हत्यै । अ॒पः प्रण॑यति । आपो॒ वै दे॒वानां᳚ प्रि॒यंधाम॑ । दे॒वाना॑मे॒व प्रि॒यंधाम॑ प्र॒णीय॒ प्रच॑रति । अ॒पः प्रण॑यति । आपो॒ वै सर्वा॑ दे॒वताः᳚ । दे॒वता॑ ए॒वा॒रभ्य॑ प्र॒णीय॒ प्रच॑रति । आपो॒वैशा॒न्ताः । शा॒न्ताभि॑रे॒वास्य॑ शुचꣳ॑शमयति ॥ दे॒वो व॑स्सवि॒ता उत्पु॑नातु । अच्छि॑द्रेण प॒वित्रे॑ण । वसोः᳚ सूर्य॑स्य र॒श्मिभिः॑ । स हि रत्ना॑नि दा॒शुषै᳚ सु॒वाति सवि॒ता भगः॑ । तं भा॒गं चि॒त्रमी॑महे ॥ ॐ अ॒ग्निमी᳚ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विजम्᳚ । होता᳚रं रत्न॒धात॑मम् ॥ इ॒षेत्वो॒र्जे त्वा॑ वा॒यव॑स्थोपा॒यवस्थ दे॒वो वः॑ सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑णे ॥ अग्न॒ आया॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये । निहोता॑ सत्सि ब॒र्हिषि॑॥ शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚ । शंयोर॒भिस्र॑वन्तु नः ॥ कृ॒णु॒ष्व पाजः॒ प्रसि॑ति॒न्न पृ॒थ्वीं या॒हि राजे॒वाम॑वा॒ꣳ॒ इभे॑न । तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑ऽसि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ॥ तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः । तपूꣳ॑ष्यग्ने जु॒ह्वा॑ पत॒ङ्गानस॑न्दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ॥ प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः । यो नो॑ दू॒रे अ॒घशꣳ॑सो यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒राद॑धर्षीत् ॥ उद॑ग्ने तिष्ठ॒ प्रत्याऽऽत॑नुष्व॒ न्य॑मित्राꣳ॑ ओषतात् तिग्महेते । यो नो॒ अरा॑तिꣳ समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्कम्᳚ ॥ ऊ॒र्ध्वो भ॑व प्रति॑ विध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या᳚न्यग्ने । अव॑ स्थि॒रा त॑नुहि यातु॒जूनां᳚ जा॒मिमजा॑मिं॒ प्र मृ॑णीहि॒ शत्रून्॑ ॥ स ते॑ जानाति सुम॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् । विश्वा᳚न्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒र्यो वि दुरो॑ अ॒भि द्यौ᳚त् ॥ सेद॑ग्ने अस्तु सु॒भग॑स्सु॒दानु॒र्यस्त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः । पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ सास॑दि॒ष्टिः ॥ अर्चा॑मि ते सुम॒तिं घोष्य॒र्वाक् सन्ते॑ वा॒वाता॑ जरतामि॒यं गीः । स्वश्वा᳚स्त्वा सु॒रथा॑ मर्जये मा॒स्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ॥ इ॒ह त्वा॒ भूर्या च॑रे॒ दुप॒त्मन्दोषा॑वस्तर्दी दि॒वाꣳस॒मनु॒ द्यून् । क्रीड॑न्तस्त्वा सु॒मन॑सस्सपेमा॒भि द्यु॒म्ना त॑स्थि॒वाꣳसो॒ जना॑नाम् ॥ यस्त्वा॒ स्वश्व॑स्सु हिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न । तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा॑नु॒षग् जुजो॑षत् ॥ म॒हो रु॑जामि ब॒न्धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒दन्वि॑याय । त्वन्नो॑ अ॒स्य वच॑सश्चिकिद्धि॒ होत॑र्यविष्ठ सुक्रतो॒ दमू॑नाः ॥ अस्व॑प्नजस्त॒रण॑यस्सु॒शेवा॒ अत॑न्द्रासोऽवृ॒का अश्र॑मिष्ठाः । ते पा॒यव॑स्स॒ध्रिय॑ञ्चो नि॒षद्याऽग्ने॒ तव॑ नः पान्त्वमूर ॥ ये पा॒यवो॑ मामते॒यन्ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धन्दु॑रि॒तादर॑क्षन् । र॒रक्ष॒ तान्त्सु॒कृतो॑ वि॒श्ववे॑दा॒ दिप्स॑न्त॒ इद्रि॒पवो॒ नाह॑ दे॒भुः ॥ त्वया॑ व॒यꣳ स॑ध॒न्य॑स्त्वोता॒स्तव॒ प्रणी᳚त्याश्याम॒ वाजान्॑ । उ॒भा शꣳसा॑ सूदय सत्यतातेऽनुष्ठु॒या कृ॑णुह्यह्रयाण ॥ अ॒या ते॑ अग्ने स॒मिधा॑ विधेम॒ प्रति॒ स्तोमꣳ॑ श॒स्यमा॑नं गृभाय । दहा॒शसो॑ र॒क्षसः॑ पा॒ह्य॑स्मान्द्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात् ॥ र॒क्षो॒हणं॑ वा॒जिन॒माऽऽजि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑यामि॒ शर्म॑ । शिशा॑नो अ॒ग्निः क्रतु॑भि॒स्समि॑द्ध॒स्स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्तम्᳚ ॥ विज्योति॑षा बृह॒ता भा᳚त्य॒ग्निरा॒विर्विश्वा॑नि कृणुते महि॒त्वा । प्रादे॑वीर्मा॒यास्स॑हते दु॒रेवाः॒ शिशी॑ते॒ श‍ृङ्गे॒ रक्ष॑से वि॒निक्षे᳚ ॥ उ॒त स्वा॒नासो॑ दि॒विष॑न्त्व॒ग्नेस्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒ वा उ॑ । [मदे॑ चिदस्य॒ प्ररु॑जन्ति॒ भामा॒ न व॑रन्ते परि॒बाधो॒ अदे॑वीः ॥ ] (The line in [ ] is usually not chanted for auspicious occasions and is included for completeness.) इन्द्रं॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने᳚भ्यः । अ॒स्माक॑मस्तु॒ केव॑लः । इन्द्र॒न्नरो॑ ने॒मधि॑ता हवन्ते॒ यत्पार्या॑ यु॒नज॑ते॒ धिय॒स्ताः । शूरो॒ नृषा॑ता॒ शव॑सश्वका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वन्नः॑ । इ॒न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑ । इन्द्र॒ तानि॑ त आ वृ॑णे । अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्यै᳚ । अनु॑ क्ष॒त्रमनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये᳚ । आ यस्मिन्᳚त्स॒प्त वा॑स॒वास्तिष्ठ॑न्ति स्वा॒रुहो॑ यथा । ऋषि॑र्ह दीर्घ॒श्रुत्त॑म॒ इन्द्र॑स्य घ॒र्मो अति॑थिः । आ॒मासु॑ प॒क्वमैर॑य॒ आसूर्यꣳ॑ रोहयो दि॒वि । घ॒र्मन्न साम॑न्तपता सुवृ॒क्तिभि॒र्जुष्टं गिर्व॑णसे॒ गिरः॑ । इन्द्र॒मिद्गा॒थिनो॑ बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किणः॑ । इन्द्रं॒ वाणी॑रनूषत । गाय॑न्ति त्वा गाय॒त्रिणोऽर्च॑न्त्य॒र्कम॒र्किणः॑ । ब्रह्माण॑स्त्वा शतक्रत॒वुद्व॒ꣳ॒ शमि॑व येमिरे । अ॒ꣳ॒हो॒मुचे॒ प्र भ॑रेमा मनी॒षा मो॑षिष्ठ॒दाव्ने॑ सुम॒तिं गृ॑णा॒नाः । इ॒दमि॑न्द्र॒ प्रति॑ ह॒व्यं गृ॑भाय स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः᳚ । वि॒वेष॒ यन्मा॑ धि॒षणा॑ ज॒जान॒ स्तवै॑ पु॒रा पार्या॒दिन्द्र॒मह्नः॑ । अꣳह॑सो॒ यत्र॑ पी॒पर॒द्यथा॑ नो ना॒वेव॒ यान्त॑मु॒भये॑ हवन्ते । प्र स॒म्राजं॑ प्रथ॒मम॑ध्व॒रणा॑म॒ꣳ॒ हो॒ मुचं॑ वृष॒भं य॒ज्ञिया॑नाम् । अ॒पान्नपा॑तमश्विना॒ हय॑न्तम॒स्मिन्न॑र इन्द्रि॒यं ध॑त्त॒मोजः॑ । वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः । अ॒ध॒स्प॒दन्तमीं᳚ कृधि॒ यो अ॒स्माꣳ अ॑भि॒दास॑ति । इन्द्र॑ क्ष॒त्रम॒भि वा॒ममोजोऽजा॑यथा वृषाभ चर्षणी॒नाम् । अपा॑नुदो॒ जन॑ममित्र॒ यन्त॑मु॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कम् । मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वतः॑ आ ज॑गामा॒ पर॑स्याः । सृ॒कꣳ स॒ꣳ॒शाय॑ प॒विमि॑न्द्र ति॒ग्मं विशत्रू᳚न् ताढि॒ विमृधो॑ नुदस्व । वि शत्रू॒न्॒ वि मृधो॑ नुद॒ वि वृ॒त्रस्य॒ हनू॑ रुज । विम॒न्युमि॑न्द्र भामि॒तो॑ऽमित्र॑स्याभि॒दासतः॑ । त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्र॒ꣳ॒ हवे॑ हवे सु॒हव॒ꣳ॒ शूर॒मिन्द्रम्᳚ । हु॒वे नु श॒क्रं पु॑रुहू॒तमिन्द्रꣳ॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑ । मा ते॑ अ॒स्याꣳ स॑हसाव॒न् परि॑ष्टाव॒धाय॑ भूम हरिवः परा॒दै । त्राय॑स्व नोऽवृ॒केभि॒र्वरु॑थै॒स्तव॑ प्रि॒यास॑स्सू॒रिषु॑ स्याम । अन॑वस्ते॒ रथ॒मश्वा॑य तक्ष॒न् त्वष्टा॒ वज्रं॑ पुरुहूत द्यु॒मन्तम्᳚ । ब्र॒ह्माण॒ इन्द्रं॑ म॒हय॑न्तो अ॒र्कैरवर्धय॒न्नह॑ये॒ हन्त॒ वा उ॑ । वृष्णे॒ यत् ते॒ वृष॑णो अ॒र्कमर्चा॒निन्द्र॒ ग्रावा॑णो॒ अदि॑तिस्स॒जोषाः᳚ । अ॒न॒श्वासो॒ ये प॒वयो॑ऽर॒था इन्द्रे॑षिता अ॒भ्यव॑र्तन्त॒ दस्यून्॑ । यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि । मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तये॒ विद्विषो॒ विमृधो॑ जहि । स्व॒स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा विमृधो॑ व॒शी । वृषेन्द्रः॑ पु॒र एतु॑ नः स्वस्ति॒दा अ॒भयंकरः । म॒हाꣳ इन्द्रो॒ वज्र॑बाहुः षोड॒शी शर्म॑ यच्छतु । स्व॒स्ति नो॑ म॒घवा॑ करोतु॒ हन्तु॑ पा॒प्मानं॒ यो᳚ऽस्मान् द्वेष्टि॑ । स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भि॒स्सोमं॑ पिब वृत्रहञ्छूर वि॒द्वान् । ज॒हि शत्रू॒ꣳ॒रप॒मृधो॑नुद॒स्वाथाभ॑यं कृणु हि वि॒श्वतो॑ नः । ये दे॒वाः पु॑र॒स्सदो॒ऽग्नि ने᳚त्रा रक्षो॒हण॒स्तेनः पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्यः॒ स्वाहा॒ ये दे॒वा द॑क्षिण॒सदो॑ य॒मने᳚त्रा रक्षो॒हण॒स्तेनः पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्यः॒ स्वाहा॒ ये दे॒वा प॑श्चा॒त् सद॑सवि॒तृ ने᳚त्रा रक्षो॒हण॒स्तेनः पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्यः॒ स्वाहा॒ ये दे॒वा उ॑त्तर॒सदो॒ वरु॑णनेत्रा रक्षो॒हण॒स्तेनः पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्यः॒ स्वाहा॒ ये दे॒वा उ॑परि॒षदो॒ बृह॒स्पति॑नेत्रा रक्षो॒हण॒स्तेनः पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्यः॒ स्वाहा॒ऽग्नये॑ रक्षो॒घ्ने स्वाहा॑ यमाय॑ रक्षो॒घ्ने स्वाहा॑ सवि॒त्रे रक्षो॒घ्ने स्वाहा॒ वरु॑णाय रक्षो॒घ्ने स्वाहा॒॑ बृह॒स्पत॑ये॒ दुव॑स्पते रक्षो॒घ्ने स्वाहा᳚ । अ॒ग्निरायु॑ष्मा॒न्त्स वन॒स्पति॑भि॒रायु॑ष्मा॒न्तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि॒ । सोम॒ आयु॑ष्मा॒न्त्स ओष॑धीभि॒रायु॑ष्मा॒न्तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि॒ । य॒ज्ञ आयु॑ष्मा॒न्त्स दक्षि॑णाभि॒रायु॑ष्मा॒न्तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि॒ । ब्रह्मायु॑ष्मत्तद् ब्रा᳚ह्म॒णैरायु॑ष्म॒त्तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि॒ । दे॒वा आयु॑ष्मंत॒स्ते॑ऽमृते॒नायु॑ष्मं॒तस्तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि॒ । या वा॑मिन्द्रा वरुणा यत॒व्या॑ त॒नूस्तये॒ममꣳ ह॑सो मुंचतम् । या वा॑मिन्द्रा वरुणा सह॒स्या॑ त॒नूस्तये॒ममꣳ ह॑सो मुंचतम् । या वा॑मिन्द्रा वरुणा रक्ष॒स्या॑ त॒नूस्तये॒ममꣳ ह॑सो मुंचतम् । या वा॑मिन्द्रा वरुणा तेज॒स्या॑ त॒नूस्तये॒ममꣳ ह॑सो मुंचतम् । यो वा॑मिन्द्रा वरुणाव॒ग्नौ स्राम॒स्तं वा॑मे॒तेनाव॑ यजे॒ यो वा॑मिन्द्रा वरुणा द्वि॒पात्सु॑ प॒शुषु॒ स्राम॒स्तं वा॑मे॒तेनाव॑ यजे॒ यो वा॑मिन्द्रा वरुणा॒ चतु॑ष्पत्सु प॒शुषु॒ स्राम॒स्तं वा॑मे॒तेनाव॑ यजे॒ यो वा॑मिन्द्रा वरुणा गो॒ष्ठे स्राम॒स्तं वा॑मे॒तेनाव॑ यजे॒ यो वा॑मिन्द्रा वरुणा गृ॒हेषु॒ स्राम॒स्तं वा॑मे॒तेनाव॑ यजे॒ यो वा॑मिन्द्रा वरुणा॒प्सु स्राम॒स्तं वा॑मे॒तेनाव॑ यजे॒ यो वा॑मिन्द्रा वरु॒णौष॑धीषु॒ स्राम॒स्तं वा॑मे॒तेनाव॑ यजे॒ यो वा॑मिन्द्रा वरुणा॒ वन॒स्पति॑षु॒ स्राम॒स्तं वा॑मे॒तेनाव॑ यजे ॥ अग्ने॑यशस्वि॒न्यश॑से॒ मम॑र्प॒येन्द्रा॑वती॒मप॑चितीमि॒हाव॑ह । अ॒यं मू॒र्धा प॑रमे॒ष्ठी सु॒वर्चा᳚स्समा॒नाना॑मुत्त॒मश्लो॑को अस्तु ॥ भ॒द्रं पश्य॑न्त॒ उप॑सेदु॒रग्रे॒ तपो॑ दी॒क्षामृष॑यः सुव॒र्विदः॑ । ततः॑ क्ष॒त्रं बल॒मोज॑श्च जा॒तं तद॑स्मै दे॒वा अ॒भि सन्न॑मन्तु ॥ धा॒ता वि॑धा॒त प॑र॒मोतसं॒धृक् प्र॒जाप॑तिः परमे॒ष्ठी वि॒राजा᳚ । स्तोमा॒श्छंदा॑ꣳसि नि॒विदो॑म आहुरे॒तस्मै॑ रा॒ष्ट्रम॒भिसन्न॑माम ॥ अ॒भ्याव॑र्तध्व॒मुप॒मेत॑सा॒क म॒यꣳ शा॒स्ताऽधि॑पतिर्वो अस्तु । अ॒स्य वि॒ज्ञान॒मनु॒सꣳर॑भध्वमि॒मं प॒श्चादनु॑ जीवाथ॒ सर्वे᳚॥ ॥ राष्ट्रभृतम् ॥ ऋ॒ता॒षाडृ॒तधा॑मा॒ग्निर्ग॑न्ध॒र्वस्स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु तस्मै॒ स्वाहा॒ । तस्यौष॑धयोऽप्स॒रस॒ ऊर्जो॒ नाम॒ ता इ॒दं ब्रह्म॑क्ष॒त्रं पा᳚न्तु ताभ्यः॒ स्वाहा॑ । सꣳहि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ ग॑न्ध॒र्वः स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु तस्मै॒ स्वाहा॒ । तस्य॒ मरी॑चयोऽप्स॒रस॒ आ॒युवो॒ नाम॒ ता इ॒दं ब्रह्म॑क्ष॒त्रं पा᳚न्तु ताभ्यः॒ स्वाहा॑ । सुषु॒म्नः सूर्य॑रश्मिश्च॒न्द्रमा॑ ग॑न्ध॒र्वः स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु तस्मै॒ स्वाहा॒ । तस्य॒ नक्ष॑त्राण्यऽप्स॒रसो॑ बे॒कुर॑यो॒ नाम॒ ता इ॒दं ब्रह्म॑क्ष॒त्रं पा᳚न्तु ताभ्यः॒ स्वाहा॑ । भु॒ज्युस्सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वः स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु तस्मै॒ स्वाहा॒ । तस्य॒ दक्षि॑णा अप्स॒रस॑स्त॒वा नाम॒ ता इ॒दं ब्रह्म॑क्ष॒त्रं पा᳚न्तु ताभ्यः॒ स्वाहा॑ । प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वः स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु तस्मै॒ स्वाहा॒ । तस्य॑र्क्सा॒मान्यप्स॒रसो॒ वह्ण॑यो॒ नाम॒ ता इ॒दं ब्रह्म॑क्ष॒त्रं पा᳚न्तु ताभ्यः॒ स्वाहा॑ । इषिरो वि॒श्वव्य॑चा॒ वातो॑ ग॑न्ध॒र्वः स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु तस्मै॒ स्वाहा॒ । तस्यापो᳚ऽप्स॒रसो॑ मु॒दा नाम॒ ता इ॒दं ब्रह्म॑क्ष॒त्रं पा᳚न्तु ताभ्यः॒ स्वाहा॑ । भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ । सनो॑रा॒स्वाज्या॑निꣳ रा॒यस्पोषाꣳ॑ सु॒वीर्यꣳ॑ संवत्स॒रीणाꣳ॑ स्व॒स्तिꣳ स्वाहा॑ । प॒र॒मे॒ष्ठयधि॑पतिर्मृ॒त्युर्ग॑न्ध॒र्वः स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु तस्मै॒ स्वाहा॒ । तस्य॒ विश्व॑मप्स॒रसो॒ भुवो॑ नाम॒ ता इ॒दं ब्रह्म॑क्ष॒त्रं पा᳚न्तु ताभ्यः॒ स्वाहा॑ । सुक्षि॒तिस्सुभू॑तिर्भद्र॒कृत्सुव॑र्वान्प॒र्जन्यो॑ ग॑न्ध॒र्वः स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु तस्मै॒ स्वाहा॒ । तस्य॒ वि॒द्युतो᳚ऽप्स॒रसो॒ रुचो॒ नाम॒ ता इ॒दं ब्रह्म॑क्ष॒त्रं पा᳚न्तु ताभ्यः॒ स्वाहा॑ । दू॒रे हे॑तिरमृड॒यो मृ॒त्युर्ग॑न्ध॒र्वः स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु तस्मै॒ स्वाहा॒ । तस्य॒ प्र॒जा अ॑प्स॒रसो॒ भी॒रुवो॒ नाम॒ ता इ॒दं ब्रह्म॑क्ष॒त्रं पा᳚न्तु ताभ्यः॒ स्वाहा॑ । चारुः॑ कृपणका॒शी कामो॑ ग॑न्ध॒र्वः स इ॒दं ब्रह्म॑क्ष॒त्रं पा॑तु तस्मै॒ स्वाहा॒ । तस्या॒धयो᳚ऽप्स॒रस॑श्शो॒चय॑तीर्नाम॒ ता इ॒दं ब्रह्म॑क्ष॒त्रं पा᳚न्तु ताभ्यः॒ स्वाहा॑ । सनो॑ भुवनस्य पते॒ यस्य॑ त उपरि॑ गृ॒हा इ॒ह च॑ । उ॒रुब्रह्म॑णे॒स्मै क्ष॒त्राय॒ महि॒ शर्म॑ यच्छ॒ स्वाहा᳚॥ नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑ । ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥ ये॑ऽदो रो॑चने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ । येषा॑म॒प्सु सदः॑ कृ॒तं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥ या इष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पती॒ꣳ॒रनु॑ । ये वा॑ऽव॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥ ॥ पंचचोडाः ॥ अ॒यम्पु॒रो हरि॑केशः॒ सूर्य॑रश्मि॒स्तस्य॑ रथगृ॒त्सश्च॒ रथौ॑जाश्च सेनानिग्राम॒ण्यौ॑ पुञ्जिकस्थ॒ला च कृतस्थ॒ला चा᳚प्स॒रसौ॑ यातु॒धाना॑ हे॒ति रक्षꣳ॑सि॒ प्रहे॑ति॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधामि । अ॒यं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॑ रथस्व॒नश्च॒ रथे॑ चित्रश्च सेनानिग्राम॒ण्यौ॑ मेन॒का च॑ सहज॒न्या चा᳚प्स॒रसौ᳚ द॒ङ्क्ष्णवः॑ प॒शवो॑ हे॒ति पौरु॑षेयोव॒धः प्रहे॑ति॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधामि । अ॒यं प॒श्चाद्वि॒श्वव्य॑चा॒स्तस्य॒ रथ॑प्रोत॒श्चास॑मरथश्च सेनानिग्राम॒ण्यौ᳚ प्र॒म्लोच॑न्ती चानु॒म्लोच॑न्ती चाप्स॒रसौ᳚ स॒र्पा हे॒तिर्व्या॒घ्राः प्रहे॑ति॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधामि । अ॒यमु॑त्त॒रात्सं॒यद्व॑सु॒स्तस्य॑ सेन॒जिच्च॑ सु॒षेण॑श्च सेनानिग्राम॒ण्यौ॑ वि॒श्वाची॑ च घृ॒ताची॑ चा᳚प्स॒रसा॒वापो॑ हे॒तिर्वातः॒ प्रहे॑ति॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधामि । अ॒यमु॒पर्य॒र्वाग्व॑सु॒स्तस्य॒ तार्क्ष्य॒श्चारि॑ष्टनेमिश्च सेनानिग्राम॒ण्या॑वु॒र्वशी॑ पू॒र्वचि॑त्तिश्चाप्स॒रसौ॑ वि॒द्युद्धे॒तिर॑व॒स्फूर्ज॒न्प्रहे॑ति॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे दधामि । ॥ अप्रतिरथम् ॥ आ॒शुः शिशा॑नो वृष॒भो न यु॒ध्मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् । सं॒क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒तꣳ सेना॑ अजयत्सा॒कामिन्द्रः॑ ॥ सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्य॒वनेन॑ धृ॒ष्णुना᳚ । तदिन्द्रे॑ण जयत॒ तत् स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा᳚॥ स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी सꣳस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ । स॒ꣳ॒सृ॒ष्ट॒जित् सो॑म॒पा बा॑हुश॒र्ध्यू᳚र्ध्वधन्वा॒ प्रति॑हिताभि॒रस्ता᳚॥ बृह॑स्पते॒ परि॑ दीया॒रथे॑न रक्षो॒हाऽमित्राꣳ॑ अप॒बाध॑मानः । प्र॒भ॒ञ्जन्त्सेनाः᳚ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम् ॥ गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा । इ॒मꣳ स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्रꣳ॑ सखा॒योऽनु॒ सꣳ र॑भध्वम् ॥ ब॒ल॒वि॒ज्ञा॒यः स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान् वा॒जी सह॑मान उ॒ग्रः । अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित् ॥ अ॒भिगो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽदा॒यो वी॒रश्श॒तम॑न्यु॒रिन्द्रः॑ । दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑यु॒द्ध्यो᳚ऽस्माक॒ꣳ॒ सेना॑ अवतु॒ प्र यु॒त्सु ॥ इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षिन्॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ । दे॒व॒से॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्रे᳚ ॥ इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां᳚ म॒रुता॒ꣳ॒ शर्ध॑ उ॒ग्रम् । म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥ अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु । अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्मानु॑ देवा अवता॒ हवे॑षु ॥ उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत् सत्व॑नां माम॒कानां॒ महा॑ꣳसि । उद् वृ॑त्रहन् वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तामेतु॒ घोषः॑ ॥ उप॒ प्रेत॒ जय॑ता नरः स्थि॒रा व॑स्सन्तु बा॒हवः॑ । इन्द्रो॑ व॒श्शर्म॑ यच्छत्वनाधृ॒ष्या यथाऽस॑थ ॥ अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑सꣳशिता । गछा॒मित्रा॒न् प्रवि॑श॒ मैषां कं च॒नोच्छि॑षः ॥ मर्मा॑णि ते॒ वर्म॑भिश्छादयामि॒ सोम॑स्त्वा॒ राजा॒ऽमृते॑ना॒भिऽव॑स्ताम् । उ॒रोर्वरी॑यो॒ वरि॑वस्ते अस्तु॒ जय॑न्तं त्वामनु॑ मदन्तु दे॒वाः ॥ यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व । इन्द्रो॑ न॒स्तत्र॑ वृत्र॒हा वि॑श्वा॒हा शर्म॑ यच्छतु ॥ शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च मे य॒न्ता च मे ध॒र्ता च मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे ल॒यश्च॑ म ऋ॒तं च॑ मे॒ऽमृतं॑ च मेऽय॒क्ष्मं च॒ मेऽना॑मयच्च मे जी॒वातुश्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मेऽभ॑यं च मे सु॒गं च॑ मे॒ शय॑नं च मे सू॒षा च॑ मे सु॒दिनं॑ च मे ॥ ॥ विहव्यम् ॥ ममा᳚ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑नास्त॒नुवं॑ पुषेम । मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्र॒स्त्वयाऽध्य॑क्षेण॒ पृत॑ना जयेम ॥ मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्रा॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः । ममा॒न्तरि॑क्षमु॒रु गो॒पम॑स्तु॒ मह्यं॒ वातः॑ पवतां॒ कामे॑ अ॒स्मिन् ॥ मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्तां मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः । दैव्या॒ होता॑रा वनिषन्त पूर्वेऽरि॑ष्टास्स्याम त॒नुवा॑ सु॒वीराः᳚ ॥ मह्यं॑ यजन्तु॒ मम॒ यानि॑ ह॒व्याऽऽकू॑तिः स॒त्या मन॑सो मे अस्तु । एनो॒ मा नि गां᳚ कत॒मच्च॒नाहं विश्वे॑ देवासो॒ अधि॑ वोचता मे ॥ देवी᳚र्ष्षडुर्र्वीरु॒रुणः॑ कृणोत॒ विश्वे॑ देवास इ॒ह वी॑रयध्वम् । मा हा᳚स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म रजन् ॥ अ॒ग्निर्म॒न्युं प्र॑तिनु॒दन् पु॒रस्ता॒दद॑ब्धो गो॒पाः परि॑पाहि न॒स्त्वम् । प्र॒त्यञ्चो॑ यन्तु नि॒गुतः॒ पुन॒स्ते॑ऽमैषां᳚ चि॒त्तं प्र॒बुधा॒ विने॑शत् ॥ धा॒ता धा॑तृ॒णां भुव॑नस्य॒ यस्पति॑र्दे॒वꣳ स॑वितार॑मभिमाति॒षाहम्᳚ । इ॒मं य॒ज्`नम॒श्विनो॒भा बृह॒स्पति॑र्दे॒वाः पा᳚न्तु॒ यज॑मानन्नय॒र्थात् ॥ उ॒रु॒व्यचा॑ नो महि॒षश्शर्म॑ यꣳसद॒स्मिन् हवे॑ पुरुहू॒तः पु॑रु॒क्षु । स नः॑ प्र॒जायै॑ हर्यश्व मृड॒येन्द्र॒ मा नो॑ रीरिषो॒ मा परा॑ दाः ॥ येन॑स्स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् । वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृशं॑ मो॒ग्रं चेत्ता॑रमधिरा॒जम॑क्रन् ॥ अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे॒ यो गो॒जिद्ध॑न॒जिद॑श्व॒जिद्यः । इ॒मं नो॑ य॒ज्ञं वि॑ह॒वे जु॑षस्वा॒स्य कु॑र्मो हरिवो मे॒दिनं॑ त्वा ॥ ॥ मृगारम् ॥ अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसो॒ यं पाञ्च॑जन्यं ब॒हव॑स्समि॒न्धते᳚ । विश्व॑स्यां वि॒शि प्र॑विविशि॒वाꣳ स॑मीमहे॒ स नो मुञ्च॒त्वꣳ ह॑सः ॥ यस्ये॒दं प्रा॒णन्नि॑मि॒षद्यदेज॑ति॒ यस्य॑ जा॒तं जन॑मानं च॒ केव॑लम् । स्तौम्य॒ग्निं ना॑थि॒तो जो॑हवीमि॒ सनो॑ मुञ्च॒त्वꣳ ह॑सः ॥ इन्द्र॑स्य मन्ये प्रथ॒मस्य॒ प्रचे॑तसो वृत्र॒घ्नः स्तोमा॒ उप॒ मामु॒पागुः॑ । यो दा॒शुषः॑ सु॒कृतो॒ हव॒मुप॒ गन्ता॒ स नो॑ मुञ्च॒त्वꣳ ह॑सः ॥ यः सं॑ग्रा॒मं नय॑ति॒ संव॒शी यु॒धे यः पु॒ष्टानि॑ सꣳसृ॒जति॑ त्र॒याणि॑ । स्तौमीन्द्रं॑ नाथि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वꣳ ह॑सः ॥ म॒न्वे वां᳚ मित्रावरुणा॒ तस्य॑ वित्त॒ꣳ॒ सत्यौ॑जसा दृꣳहणा॒ यन्नु॒देथे᳚ । या राजा॑नꣳ स॒रथं॑ या॒थ उ॑ग्रा॒ ता नो॑ मुञ्चत॒माग॑सः ॥ यो वा॒ꣳ॒ रथ॑ ऋजुर॑श्मिः स॒त्यध॑र्मा॒ मिथु॒श्चर॑न्तमुप॒याति॑ दू॒ष्यन्॑ । स्तौमि॑ मि॒त्रावरुणा॒ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुंचत॒माग॑सः । वा॒योस्स॑वि॒तुर्वि॒दथा॑नि मन्महे यावा᳚त्म॒न्वद्बि॑भृ॒तो यौ च॒ रक्ष॑तः । यौ विश्व॑स्य परि॒भू ब॑भूवतुस्तौ नो॑ मुञ्चत॒माग॑सः ॥ उप॒श्रेष्टा॑ न आ॒शिषो॑ दे॒वयो॒र्धर्मे॑ अस्थिरन् । स्तौमि॑ वा॒युꣳ स॑वि॒तारं॑ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुंचत॒माग॑सः ॥ र॒थीत॑मौ रथी॒नाम॑ह्व ऊ॒तये॒ शुभं॒ गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः᳚ । ययो᳚र्वां॒ देवौ दे॒वेष्वनि॑शित॒मोज॒स्तौ नो॑ मुञ्चत॒माग॑सः ॥ यदया॑तं वह॒तुꣳ सू॒र्याया᳚स्त्रिच॒क्रेण॑ स॒ꣳ॒ सद॑मि॒च्छमा॑नौ । स्तौमि॑ दे॒वाव॒श्विनौ॑ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः ॥ म॒रुतां᳚ मन्वे॒ अधि॑ नो ब्रुवन्तु॒ प्रेमां वाचं॒ विश्वा॑मवन्तु॒ विश्वे᳚ । आ॒शून्हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒त्वेन॑सः ॥ ति॒ग्ममायु॑धं वीडि॒तꣳ सह॑स्वद्दि॒व्यꣳ शर्दः॒ पृत॑नासु जि॒ष्णु । स्तौमि॑ दे॒वान्म॒रुतो॑ नाथि॒तो जोह॑वीमि॒ ते नो॑ मुञ्च॒त्वेन॑सः ॥ दे॒वानां᳚ मन्वे॒ अधि॑ नो ब्रुवन्तु॒ प्रेमां वाचं विश्वा॑मवन्तु विश्वे᳚ । आ॒शून् हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒त्वेन॑सः ॥ यदि॒दं मा॑ऽभि॒शोच॑ति॒ पौरु॑षेयेण॒ दैव्ये॑न । स्तौमि॒ विश्वा᳚न्दे॒वान्न॑थि॒तो जोह॑वीमि॒ ते नो॑ मुञ्च॒त्वेन॑सः ॥ अनु॑नो॒ऽद्यानु॑मतिर्य॒ज्ञं दे॒वेषु॑ म् अन्यताम् । अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तांदा॒शुषे॒ मयः॑ ॥ अन्विद॑नुमते॒ त्वं मन्या॑सै॒ शं च॑ नः कृधि । क्रत्वे॒ दक्षा᳚य नो हि नु॒ प्रण॒ आयूꣳ॑षि तारिषः ॥ वै॒श्वा॒न॒रो न॑ ऊ॒त्याऽऽप्र या॑तु परा॒वतः॑ । अ॒ग्निरु॒क्थेन॒ वाह॑सा ॥ पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑दी॒रावि॑वेश । वै॒श्वा॒न॒रसह॑सा पृ॒ष्टो अ॒ग्निस्सनो॒ दिवा॒ सारि॒षः पा॑तु॒ नक्तम्᳚ ॥ ये अप्र॑थेता॒ममि॑तेभि॒रोजो॑भि॒र्ये प्र॑ति॒ष्ठे अभ॑वतां॒ वसू॑नाम् । स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जोह॑वीमि॒ ते नो॑ मुञ्चत॒मꣳह॑सः ॥ उर्वी॑ रोदसी॒ वरि॑वः कृणोतं॒ क्षेत्र॑स्य पत्नी॒ अधि॑ नो ब्रूयतम् । स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जोह॑वीमि॒ ते नो॑ मुञ्चत॒मꣳह॑सः ॥ यत् ते॑ व॒यं पु॑रुष॒त्रा य॑विष्ठाय॑वि॒ष्ठा वि॑द्वाꣳसश्चकृ॒मा कच्च॒नाऽऽगः॑ । कृ॒धी स्व॑स्माꣳ अदि॑ते॒रना॑गा॒ व्येनाꣳ॑सि शिश्रथो॒ विष्व॑गग्ने ॥ यथा॑ह॒ तद्व॑सवो गौ॒र्यं॑ चित् प॒दिषि॒ताममु॑ञ्चता यजत्राः । ए॒वा त्वम॒स्मत् प्र मु॑ञ्चा॒व्यꣳहः॒ प्राता᳚र्यग्ने प्रत॒रान्न॒ आयुः॑ ॥ ॥ सर्पाहुतीः ॥ स॒मीची॒ नामा॑सि॒ प्राची॒दिक्तस्या᳚स्ते॒ऽग्निरधि॑पतिरसि॒तो र॑क्षि॒ता यश्चादि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वां॒ जंभे॑ दधामि । ओ॒ज॒स्विनी॒ नामा॑सि दक्षि॒णा दिक्तस्या᳚स्त॒ इन्द्रोऽधि॑पतिः पृदा॑कू र॑क्षि॒ता यश्चादि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वां॒ जंभे॑ दधामि । प्राची॒ नामा॑सि प्र॒तीची॒ दिक्तस्या᳚स्ते॒ सोमोऽधि॑पतिः स्व॒जो र॑क्षि॒ता यश्चादि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वां॒ जंभे॑ दधामि । अ॒व॒स्थावा॒ नामा॒स्युदी॑ची॒ दिक्तस्या᳚स्ते॒ वरु॑णोऽधि॑पतिस्त॒रश्च॑ राजी र॑क्षि॒ता यश्चादि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वां॒ जंभे॑ दधामि । अधि॑पत्नी॒ नामा॑सि बृह॒ती दिक्तस्या᳚स्ते॒ बृह॒स्पति॒रधि॑पतिः श्वि॒त्रो र॑क्षि॒ता यश्चादि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वां॒ जंभे॑ दधामि । व॒शिनी॒ नामा॑सी॒यं दिक्तस्या᳚स्ते॒ य॒मोऽधि॑पतिः क॒ल्माष॑ग्रीवो र॑क्षि॒ता यश्चादि॑पति॒र्यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वां॒ जंभे॑ दधामि ॥ ॥ गन्धर्वाहुतीः ॥ हे॒तयो॒ नाम॑स्थ॒ तेषां᳚ वः पु॒रो गृ॒हा अ॒ग्निर्व॒ इष॑वः सलि॒लो वा॑तना॒मं तेभ्यो॑ वो॒ नम॒स्तेनो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधमि । नि॒लि॒म्पा नाम॑स्थ॒ तेषां᳚ वो दक्षि॒णा गृ॒हा पि॒तरो॑ व॒इष॑वः॒ सग॑रो वातना॒मं तेभ्यो॑ वो॒ नम॒स्तेनो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधमि । व॒ज्रिणो॒ नाम॑स्थ॒ तेषां᳚ वः प॒श्चाद्गृ॒हा स्वप्नो॑व॒ इष॑वो॒ गह्व॑रो वातना॒मं तेभ्यो॑ वो॒ नम॒स्तेनो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधमि । अ॒वस्थावा॑नो॒ नाम॑स्थ॒ तेषां᳚ व उत्त॒रद्गृ॒हा आपो॑व॒ इषवः॒ समु॒द्रो वा॑तना॒मं तेभ्यो॑ वो॒ नम॒स्तेनो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधमि । अधि॑पतयो॒ नाम॑स्थ॒ तेषां᳚ व उ॒परि॑ गृ॒हा व॒र्षं व॒ इष॒वोऽव॑स्वान् वातना॒मं तेभ्यो॑ वो॒ नम॒स्तेनो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधमि । क्र॒व्या नाम॑स्थ॒ पार्थि॑वा॒तेषां᳚ व इ॒ह गृ॒हा अन्नं॑ व॒ इष॑वोऽनिमि॒षो वा॑तना॒मं तेभ्यो॑ वो॒ नम॒स्तेनो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जंभे॑ दधमि । ॥ अज्यानि ॥ श॒तायु॑धाय श॒तवी᳚र्याय श॒तोत॑येऽभिमाति॒षाहे᳚ । श॒तं यो नः॑ श॒रदो॒ अजी॑ता॒निन्द्रो॑ नेष॒दति॑ दुरि॒तानि॒ विश्वा᳚॥ ये च॒त्वारः॑ प॒थयो॑ देव॒याना॑ अंत॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑ । तेषां॒ यो अज्या॑नि॒ मजी॑ति मा॒हवा॒त्तस्मै॑ नो दे॒वाः परि॑दत्ते॑ह सर्वे᳚॥ ग्री॒ष्मो हे॑म॒न्त उ॒तनो॑ वस॒न्तः श॒रद्व॒र्षाः सु॑वि॒तन्नो॑ अस्तु । तेषा॑मृतू॒नाꣳ श॒तशा॑रदानां निवा॒त ए॑षा॒मभ॑ये स्याम ॥ इ॒दु॒व॒त्स॒राय॑ परिवत्स॒राय॑ संवत्स॒राय॑ कृणुता बृ॒हन्नमः॑ । तेषां᳚ व॒यꣳ सु॑म॒तौ य॒ज्ञिया॑नां ज्योगजी॑ता॒ अह॑ताः स्याम ॥ भ॒द्रान्नः॒ श्रेयः॒ सम॑नैष्ट देवा॒स्त्वया॑ऽव॒सेन॒ सम॑शीमहि त्वा । स नो॑ मयो॒भूः पि॑तो॒ आवि॑शस्व॒ शन्तो॒काय॑ त॒नुवे᳚ स्यो॒ नः ॥ भू॒तं भव्यं॑ भवि॒ष्यद्वष॒ट्स्वाहा॒ नम॒ ऋक्साम॒यजु॒र्वष॒ट्स्वाहा॒ नमो॑ गाय॒त्रीत्रि॒ष्टुप्जग॑ती॒वष॒ट्स्वाहा॒ नमः॑ पृथि॒व्य॑न्तरि॑क्षम् द्यौर्वष॒ट्स्वाहा॒ नमो॒ऽग्निर्वा॒युः सूर्यो॒ वष॒ट्स्वाहा॒ नमः॑ प्रा॒णो व्या॒नो॑ऽपा॒नो वष॒ट्स्वाहा॒ नमोऽन्नं॑ कृ॒षिर्वृष्टि॒र्वष॒ट्स्वाहा॒ नमः॑ पि॒ता पु॒त्रः पौत्रो॒ वष॒ट्स्वाहा॒ नमो॒ भूर्भुवः॒ सुव॒र्वष॒ट्स्वाहा॒ नमः॑ । ॥ अथर्वशिरसम् ॥ इन्द्रो॑दधी॒चो अ॒स्थभिः॑ । वृ॒त्राण्यप्र॑तिष्कुतः । ज॒घान॑ नव॒तीर्नव॑ । इ॒च्छन्नश्व॑स्य॒ यच्छिरः॑ । पर्व॑ते॒ष्वप॑श्रितम् । तद्वि॑दच्छिर्य॒णाव॑ति । अत्राह॒ गोरम॑न्वत । नाम॒ त्वष्टु॑रपी॒च्यम्᳚ । इ॒त्थ च॒न्द्रम॑सो गृ॒हे । इन्द्र॒मिद्गा॒थिनो॑ बृ॒हत् । इन्द्र॑म॒र्केभिर॒र्किणः॑ । इन्द्रं॒ वानी॑रनूषत । इन्द्र॒ इद्धर्योः॒ सचा᳚ । संमि॑श्ल॒ आव॑चो युजा᳚ । इन्द्रो॑ व॒ज्रीहि॑र॒ण्ययः॑ । इन्द्रो॑ दी॒र्घाय॒ चक्ष॑से । आसूर्यꣳ॑ रोहयद्दि॒वि । विगोभि॒रद्रि॑मैरयत् । इन्द्र॒ वाजे॑षु नो अव । स॒हस्र॑प्रधनेषु च । उ॒ग्र उ॒ग्राभि॑रू॒तिभिः॑ । तमिन्द्रं॑ वाजयामसि । म॒हे वृ॒त्राय॒ हन्त॑वे । सा वृषा॑ वृष॒भोऽभु॑वत् । इन्द्रः॒ स दाम॑ने कृ॒तः । ओजि॑ष्ठः॒ सबले॑हि॒तः । द्युम्नी श्लो॒की ससौ॒म्यः॑ । गि॒रा वज्रो॒ न संभृ॑तः । सब॑लो॒ अन॑पच्युतः । व॒व॒क्षुरु॒ग्रो अस्तृ॑तः । ॥ प्रत्यंगिरसम् ॥ चक्षु॑षो हेते॒ मन॑सो हेते । वाचो॑हेते॒ ब्रह्म॑णो हेते । योमा॑ऽघा॒युर॑भिदास॑ति । तम॑ग्ने मे॒न्याऽमे॒निं कृ॑णु । यो मा॒ चक्षु॑षा॒ यो मन॑स । यो वा॒चा ब्रह्म॑णाघा॒युर॑भि॒दास॑ति । तया᳚ऽग्ने॒ त्वं मे॒न्या । अ॒मुम॑मे॒निं कृ॑णु । यत्किञ्चा॒सौ मन॑सा॒ यच्च॑ वा॒चा । य॒ज्ञैर्जु॒होति॒ यजु॑ष ह॒विर्भिः॑ । तन्मृ॒त्युर्निरृ॑त्या संविदा॒नः । पु॒रादि॒ष्टादाहु॑तीरस्य हन्तु । या॒तु॒धाना॒ निरृ॑ति॒रादु॒ रक्षः॑ । ते अ॑स्यघ्न॒न्त्वनृ॑तेन स॒त्यम् । इन्द्रे॑षिता॒ आज्य॑मस्य मथ्नन्तु । मा तत्समृ॑द्धि॒ यद॒सौ क॒रोति॑ । हन्मि॑ ते॒ऽहं कृ॒तꣳह॒विः । यो मे॑ घो॒रमची॑कृतः । अपां᳚ चौत उ॒भौ बा॒हू । अप॑नह्याम्या॒स्यम्᳚ । अप॑नह्यामि ते बा॒हू । अप॑नह्याम्या॒स्यम्᳚ । अ॒ग्नेर्दे॒वस्य॒ ब्रह्म॑णा । सर्वं॑ तेऽवधिषंकृ॒तम् । पु॒राऽमुष्य॑ वषट्का॒रात् । य॒ज्ञं दे॒वेषु॑ नस्कृधि । स्वि॑ष्टम॒स्माकं॑ भ्यूयात् । माऽस्मान् प्राप॒न्नरा॑तयः । अन्ति॑दू॒रे स॒तो अ॒ग्ने । भ्रातृ॑व्यस्याभि॒दास॑तः । व॒ष॒ट्का॒रेण॒ वज्रे॑ण । कृ॒त्याꣳह॑न्मि कृ॒ताम॒हम् । यो मा॒ नक्तं॒ दिवा॑ सा॒यम् । प्रा॒तश्चाह्नो॑ नि॒पीय॑ति । अ॒द्यातमि॑न्द्र॒ वज्रे॑ण । भ्रातृ॑व्यं पादयामसि । प्रा॒णो र॑क्षति॒ विश्व॒मेज॑त् । इर्यो॑ भू॒त्वा बहु॒दा ब॒हूनि॑ । स इत्सर्वं॒ व्या॑नशे । यो दे॒वो दे॒वेषु॑ वि॒भूर॒न्तः । आवृ॑दू॒दात् क्षेत्रिय॑ध्व॒गद्वृषा᳚ । तमित्प्रा॒णं मन॒सोप॑शिक्षत । अग्रं॑ दे॒वाना॑मि॒दम॑त्तु नो ह॒विः । मन॑स॒श्चित्ते॒दम् । भू॒तं भव्यं॑ च गुप्यते । तद्धिदे॒वेष्व॑ग्रि॒यम् । आ न॑ एतुपुरश्च॒रम् । स॒ह दे॒वैरि॒मꣳ हवम्᳚ । मनः॒ श्रेय॑सि श्रेयसि । कर्म॑न्य॒ज्ञप॑तिं॒ दध॑त् । जु॒षतां᳚ मे॒ वागि॒दꣳ ह॒विः । वि॒राड् दे॒वी पु॒रोहि॑ता । ह॒व्य॒वाडन॑पायिनी । यया॑ रू॒पाणि॑ बहु॒दा वद॑न्ति । पेशाꣳ॑सि दे॒वाः प॑र॒मे ज॒नित्रे᳚ । सा नो॑ वि॒राडन॑पस्फुरन्ति । वाग्दे॒वी जु॑षतामि॒दꣳ ह॒विः । चक्षु॑र्दे॒वानां॒ ज्योति॑र॒मृते॒ न्य॑क्तम् । अ॒स्य वि॒ज्ञाना॑य बहु॒धा निधी॑यते । तस्य॑ सु॒म्नम॑शीमहि । मा नो॑ हासीद्विचक्ष॒णम् । आयु॒रिन्नः॒ प्रती᳚र्यताम् । अन॑न्धा॒श्चक्षु॑षाव॒यम् । जी॒वा ज्योति॑रशीमहि । सुव॒र्ज्योति॑रु॒तामृतम्᳚ । श्रोत्रे॑ण भ॒द्रमु॒त श‍ृ॑ण्वन्ति स॒त्यम् । श्रोत्रे॑ण॒ वाचं॑ बहु॒धोद्यमा॑नाम् । श्रोत्रे॑ण॒ मोद॑श्च॒ मह॑श्च श्रूयते । श्रोत्रे॑ण॒ सर्वा॒ दिश॒ आश‍ृ॑णोमि । येन॒ प्राच्या॑ उ॒त द॑क्षि॒णा । प्र॒तीच्यै॑दि॒शः श‍ृ॒ण्वन्त्यु॑त्त॒रात् । तदिच्छ्रोत्रं॑ बहु॒धोद्यमा॑नम् । अ॒रान्नने॒मिः परि॒सर्वं॑ बभूव । सि॒ꣳ॒हे व्या॒घ्र उ॒त या पृदा॑कौ । त्विषि॑र॒ग्नौ ब्रा᳚ह्म॒णे सूर्ये॒या । इन्द्रं या दे॒वी सु॒भगा॑ ज॒जान॑ । सा न आग॒न्वर्च॑सा संविदा॒ना । या रा॑ज॒न्ये॑ दुन्दु॒भावाय॑तायाम् । अश्व॑स्य॒ क्रन्द्ये॒पुरु॑षस्य मा॒यौ । इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॑ । सा न आग॒न्वर्च॑सा संविदा॒ना । या ह॒स्तिनि द्वी॒पिनि॒ या हिर॑ण्ये । त्विषि॒रश्वे॑षु॒ पुरु॑षेषु॒ गोषु॑ । इन्द्रं या दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न्वर्च॑सा संविदा॒ना । रथे॑अ॒क्षेषु॑ वृष॒भस्य॒ वजे᳚ । वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे᳚ । इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॑ । सा न आग॒न्वर्च॑सा संविदा॒ना । राड॑सि वि॒राड॑सि । स॒म्राड॑सि स्व॒राड॑सि । इन्द्रा॑य त्वा॒ तेज॑स्वते॒ तेज॑स्वन्तꣳ श्रीणामि । इन्द्रा॑य॒ त्वौज॑स्वत॒ ओज॑स्वन्तꣳ श्रीणामि । इन्द्रा॑य त्वा॒ पय॑स्वते॒ पय॑स्वन्तꣳ श्रीणामि । इन्द्रा॑य त्वाऽऽयु॑ष्मत॒ आयु॑ष्मन्तꣳ श्रीणामि । तेजो॑ऽसि । तत्ते॒ प्रय॑च्छामि । तेज॑स्वदस्तु मे॒ मुखम्᳚ । तेज॑स्व॒च्छिरो॑ अस्तु मे । तेज॑स्वान् वि॒श्वतः॑ प्र॒त्यङ् । तेज॑सा॒ सम्पि॑पृग्धि मा । ओजो॑ऽसि । तत्ते॒ प्रय॑च्छामि । ओज॑स्वदस्तु मे॒ मुखम्᳚ । ओज॑स्व॒च्छिरो॑ अस्तु मे । ओज॑स्वान् वि॒श्वतः॑ प्र॒त्यङ् । ओज॑सा॒ सम्पि॑पृग्धि मा । पयो॑ऽसि । तत्ते॒ प्रय॑च्छामि । पय॑स्वदस्तु मे॒ मुखम्᳚ । पय॑स्व॒च्छिरो॑ अस्तु मे । पय॑स्वान् वि॒श्वतः॑ प्र॒त्यङ् । पय॑सा॒ सम्पि॑पृग्धि मा । आयु॑रसि । तत्ते॒ प्रय॑च्छामि । आयु॑ष्मदस्तु मे॒ मुखम्᳚ । आयु॑ष्म॒च्छिरो॑ अस्तु मे । आयु॑ष्मान् वि॒श्वतः॑ प्र॒त्यङ् । आयु॑षा॒ सम्पि॑पृग्धि मा । इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि । प्रि॒यꣳरेतो॑ वरुण सोम राजन् । मा॒तेवा᳚स्मा अदिते॒ शर्म॑ यच्छ । विश्वे॑देवा॒ जर॑दष्टि॒र्यथाऽस॑त् । आयु॑रसि वि॒श्वायु॑रसि । स॒र्वायु॑रसि॒ सर्व॒मायु॑रसि । यतो॒ वातो॒ मनो॑जवाः । यतः॒ क्षर॑न्ति॒ सिन्ध॑वः । तासा᳚न्त्वा॒ सर्वा॑साꣳ रु॒चा । अ॒भिषिं॑चामि॒ वर्च॑सा । स॒मु॒द्र इ॑वासि ग॒ह्मना᳚ । सोम॑ इवा॒स्यदा᳚भ्यः । अ॒ग्निरि॑व वि॒श्वतः॑ प्र॒त्यङ् । सूर्य॑ इव॒ ज्योति॑षा वि॒भूः । अ॒पां यो द्रव॑णे॒ रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । तेज॑से ब्रह्मवर्च॒साय॑ गृह्णामि । अ॒पां यो ऊ॒र्मौ रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । ओज॑से वी॒र्या॑य गृह्णामि । अ॒पां यो म॑ध्य॒तो रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । पुष्टै᳚ प्र॒जन॑नाय गृह्णामि । अ॒पां यो य॒ज्ञियो॒ रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । आयु॑षे दीर्घायु॒त्वाय॑ गृह्णामि । अ॒हम॑स्मि प्रथम॒जा ऋ॒तस्य॑ । पूर्वं॑ दे॒वेभ्यो॑ अ॒मृत॑स्य॒ नाभिः॑ । यो मा॒ ददा॑ति॒ स इदे॒व मा वाः᳚ । अ॒हमन्न॒मन्न॑म॒दन्त॑मद्मि । पूर्व॑म॒ग्नेरपि॑ दह॒त्यन्नं᳚ । य॒त्तो हा॑साते अहमुत्त॒रेषु॑ । व्यात्त॑मस्य प॒शव॑स्सु॒जम्भम्᳚ । पश्य॑न्ति॒ धीरा॒ प्रच॑रन्ति॒ पाकाः᳚ । जहा᳚म्य॒न्यन्नज॑हाम्य॒न्यम् । अ॒हमन्नं॒ वश॒मिच्च॑रामि । स॒मा॒नमर्थं॒ पर्ये॑मि भुं॒जत् । को मामन्नं॑ मनु॒ष्यो॑ दयेत । परा॑के॒ अन्नं॒ निहि॑तं लो॒क ए॒तत् । विश्वै᳚र्दे॒वैः पि॒तृभि॑र्गु॒प्तमन्नम्᳚ । यद॒द्यते॑ लु॒प्यते॒ यत्प॑रो॒प्यते᳚ । श॒त॒त॒मी सा त॒नूर्मे॑ बभूव । म॒हान्तौ॑ च॒रू स॑कृद्दु॒ग्धेन॑ पप्रौ । दिवं॑च पृश्ञि पृथि॒वीं च॑ सा॒कम् । तत्स॒म्पिब॑न्तो॒ न मि॑नन्ति वे॒धसः॑ । नैतद्भू॒यो भव॑ति॒ नो कनी॑यः । अन्नं॑ प्रा॒णमन्न॑मपा॒नमा॑हुः । अन्नं॑ मृ॒त्युं तमु॑ जी॒वातु॑माहुः । अन्नं॑ ब्र॒ह्माणो॑ ज॒रसं॑ वदन्ति । अन्न॑माहुः प्र॒जन॑नं प्र॒जाना᳚म् । मोघ॒मन्नं॑ विन्दते॒ अप्र॑चेताः । स॒त्यं ब्र॑वीमि व॒ध इत्स तस्य॑ । नार्य॒मणं॒ पुष्य॑ति॒ नो सखा॑यम् । केव॑लाघो भवति केव॒लादि । अ॒हं मे॒घस्त॒नय॒न्वर्ष॑न्नस्मि । माम॑दन्त्य॒हम॑द्य॒न्यान् । अ॒हꣳसद॒मृतो॑ भवामि । मदा॑दि॒त्या अधि॒ सर्वे॑ तपन्ति । दे॒वीं वाच॑मजनयन्त दे॒वाः । तां वि॒श्वरू॑पाः प॒शवो॑ वदन्ति । सा नो॑ म॒न्द्रेष॒मूर्जं॒ दुहा॑ना । धे॒नुर्वाग॒स्मानुप॒सुष्टु॒तैतु॑ । यद्वाग्वद॑न्त्यविचेत॒नानि॑ । राष्त्री॑ दे॒वाना᳚न्निष॒साद॑म॒न्द्रा । चत॑स्र॒ ऊर्जं॑दुदुहे॒ पयाꣳ॑सि।क्व॑स्विदस्याः पर॒मं ज॑गाम । अ॒न॒न्तामन्ता॒दधि॒ निर्मि॑तां म॒हीम् । यस्यां᳚ दे॒वा अ॒दधु॒र्भोज॑नानि । एका᳚क्षरमां द्वि॒पदा॒ꣳ॒षत्प॑दाञ्च । वाचं॑ दे॒वा उप॑जीवन्ति॒ विश्वे᳚ । वाचं॑ दे॒वा उप॑जीवन्ति॒ विश्वे᳚ । वाचं॑ गन्ध॒र्वाः प॒शवो॑ मनु॒ष्याः᳚ । वा॒चीमाविश्वा॒ भुव॑ना॒न्यर्पि॑ता । सा नो॒ हवं जुषता॒मिन्द्र॑पत्नी । वाग॒क्षरं॑ प्रथम॒जा ऋ॒तस्य॑ । वेदा॑नां मा॒ताऽमृत॑स्य॒ नाभिः॑ । सानो॑ जुषा॒णोप॑ य॒ज्ञमागा᳚त् । अव॑न्ती दे॒वी सु॒हवा॑मे अस्तु । यामृष॑यो मन्त्र॒कृतो॑ मनी॒षिणः॑ । अ॒न्वैच्छ॑न्दे॒वास्तप॑सा॒ श्रमे॑ण । तां दे॒वीं वाचꣳ॑ह॒विषा॑ यजामहे । सा नो॑ दधातु सुकृ॒तस्य॑ लो॒के । च॒त्वारि॒ वाक्परि॑मिता प॒दानि॑ । तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिणः॑ । गुहा॒ त्रीणि॒ निहि॑ता॒ नेंग॑यन्ति । तु॒रीयं॑ वा॒चो म॑नु॒ष्या॑ वदन्ति । श्र॒द्धया॒ग्निः समि॑ध्यते । श्र॒द्धया॑ विन्दते ह॒विः । श्र॒द्धां भग॑स्य मू॒र्धनि॑।वच॒या वे॑दयामसि । प्रि॒यꣳश्र॑द्धे॒ दद॑तः । प्रि॒यꣳश्र॑द्धे॒ दिदा॑सतः । प्रि॒यं भो॒जेषु॒ यज्व॑सु । इ॒दं म॑ उदि॒तं कृ॑धि । यथा॑ दे॒वा असु॑रेषु । श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे । ए॒वं भो॒जेषु॒ यज्व॑सु । अ॒स्माक॑मुदि॒तं कृ॑धि । श्र॒द्धं दे॑वा॒ यज॑मानाः । वा॒युगो॑पा॒ उपा॑सते । श्र॒द्धाꣳ हृ॑द॒य्य॑याऽऽकू᳚त्या । श्र॒द्धया॑ हूयते ह॒विः । श्र॒द्धां प्रा॒तर्हवा॑महे । श्र॒द्धां म॒ध्यंदि॑नं॒ परि॑ । श्र॒द्धाꣳ सूर्य॑स्य नि॒म्रुचि॑ । श्रद्धे॒ श्रद्धा॑पये॒ह मा᳚ । श्र॒द्धा दे॒वानधि॑वस्ते । श्र॒द्ध विश्व॑मि॒दं जग॑त् । श्र॒द्धां काम॑स्य मा॒तरम्᳚ । ह॒विष॑ वर्धयामसि । ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता᳚त् । विसीम॒तस्सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः । स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ । पि॒ता वि॒राजा॑मृष॒भो र॑यी॒णाम् । अन्तरि॑क्षं वि॒श्वरूप॒ आवि॑वेश । तम॒र्कैर॒भ्य॑र्चन्ति व॒त्सम् । ब्रह्म॒ सन्तं॒ ब्रह्म॑णा व॒र्धय॑न्तः । ब्रह्म॑ दे॒वान॑जनयत् । ब्रह्म॒ विश्व॑मि॒दं जग॑त् । ब्रह्म॑णः क्ष॒त्रन्निर्मि॑तम् । ब्रह्म॑ ब्राह्म॒ण आ॒त्मना᳚ । अ॒न्तर॑स्मिन्ने॒मे लो॒काः । अ॒न्तर्विश्व॑मि॒दं जग॑त् । ब्रह्मै॒व भू॒तानां॒ ज्येष्ठम्᳚ । तेन॒ को॑ऽर्हति॒ स्पर्धि॑तुम् । ब्रह्म॑न्दे॒वास्त्रय॑स्त्रिꣳशत् । ब्रह्म॑न्निन्द्रप्रजाप॒ती । ब्रह्म॑न् ह॒ विश्वा॑ भू॒तानि॑ । ना॒वीवा॒न्तः स॒माहि॑ता । चत॑स्र॒ आशाः॒ प्रच॑रन्त्व॒ग्नयः॑ । इ॒मं नो॑ य॒ज्ञं न॑यतु प्रजा॒नन् । घृ॒तं पिन्व॑न्न॒जरꣳ॑ सु॒वीरम्᳚ । ब्रह्म॑स॒मिद्भ॑व॒त्याहु॑तीनाम् । आगावो॑ अग्मन्नु॒त भ॒द्रम॑क्रन् । सी॑दन्तु गो॒ष्ठेर॒णय॑न्त्व॒स्मे । प्र॒जाव॑तीः पुरु॒रूपा॑ इ॒ह स्युः । इन्द्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः । इन्द्रो॒ यज्व॑ने पृण॒ते च॑शिक्षति । उपद्द॑दाति॒ न स्वं मु॑षायति । भूयो॑ भूयो॑ र॒यिमिद॑स्य व॒र्धयन् । अभि॑न्ने खि॒ल्ले निद॒धाति देव॒युम् । न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रः । नैना॑ अमि॒त्रो व्यथि॒रद॑धर्षति । दे॒वाꣳश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च । ज्योगित्ताभि॑स्सचते॒ गोप॑तिः स॒ह । न ता अर्वा॑ रे॒णुक॑ कातो अश्नुते । न स॑ꣳस्कृत॒त्रपुप॑यन्ति॒ ता अ॒भि । उ॒रु॒गा॒यमभ॑य॒न्तस्य॒ ता अनु॑ । गावो॒ मर्त्य॑स्य॒ विचि॑रन्ति॒ यज्व॑नः । गावो॒ भगो॒ गाव॒ इन्द्रो॑ मे अच्छात् । गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः । इ॒मा यागाव॒स्सज॑ना स॒ इन्द्रः॑ । इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्रम्᳚ । यू॒यं गा॑वो मेदयथा कृ॒शंचि॑त् । अ॒श्ली॒लं चि॑त्कृणुथा सु॒प्रती॑कम् । भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचः । बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ । प्र॒जाव॑तीः सू॒यव॑सꣳरि॒शन्तीः᳚ । शु॒द्धा अ॒पस्सु॑ प्रपा॒णे पिब॑न्तीः । माव॑स्ते॒न इ॑शत॒ माघशꣳ॑सः । परि॑वोहे॒ती रु॒द्रस्य॑ वृंज्यात् । उपे॒दमु॑प॒पर्च॑नम् । आ॒सु गोषूप॑ पृच्यताम् । उप॑ष॒भस्य॒ रेत॑सि । उपे᳚न्द्र॒ तव॑ वी॒र्ये᳚ । ता सू᳚र्याचन्द्र॒मसा॑ विश्व॒भृत्त॑माम॒हत् । तेजो॒ वसु॑ मद्राजतो दि॒वि । सामा᳚त्मानाचरतस्साम चा॒रिणा᳚ । ययो᳚र्व्र॒तन्नम॒मे जातु॑दे॒वयोः᳚ । उ॒भावन्तौ॒ परि॑यात॒ अर्म्या᳚ । दि॒वो नर॒श्मीꣳस्त॑नु॒तोव्य॑र्ण॒वे । उ॒भा भु॑व॒न्तीभुव॑ना क॒विक्र॑तू । सूर्या॒ न च॒न्द्रा च॑रतो ह॒ताम॑ती । पती᳚द्यु॒मद्वि॑श्व॒विदा॑ उ॒भा दि॒वः । सूर्या॑ उ॒भा च॒न्द्रम॑सा विचक्ष॒णा । वि॒श्ववा॑रा वरिवो॒ भावरे᳚ण्या । ता नो॑ऽवतं मति॒मन्ता॒ महि॑व्रता । वि॒श्व॒ वप॑रे प्र॒तर॑णा तर॒न्ता । सु॒व॒र्विदा॑ दृशये॒ भूरि॑ रश्मी । सूर्या॒ हि च॒न्द्रा वसु॑त्वे॒ष द॑र्श॒ता । म॒न॒स्विनो॒ भाऽनु॑चर॒तोनु॒संदिवम्᳚ । अ॒स्य श्रवो॑ न॒द्यः॑ स॒प्त बि॑भ्रति । द्यावा॒क्षामा॑ पृथि॒वी द॑र्श॒तं वपुः॑ । अ॒स्मे सू᳚र्यां चन्द्र॒मसा॑ऽभि॒चक्षे᳚ । श्र॒द्धेकमि॑न्द्र चरतो विचर्तु॒रम् । पु॒र्वा॒प॒रंच॑रतोमा॒ययै॒तौ । शिशू॒ क्रीड॑न्तौ॒ परि॑यातो अध्व॒रम् । विश्वा॑न्य॒न्यो भुव॑नाऽभि॒चष्टे᳚ । ऋ॒तून॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ । हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ । अ॒ग्निं या गर्भ॑म् दधि॒रे विरू॑पा॒स्तान॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ॥ यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒म् जना॑नाम् । म॒धु॒श्चुत॒श्शुच॑यो॒ याः पा॑व॒कास्ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ॥ यासा᳚म् दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति । याः पृ॑थि॒वीम् पय॑सो॒न्दन्ति शु॒क्रास्ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ॥ शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापश्शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म् मे । सर्वाꣳ॑ अ॒ग्नीꣳ र॑प्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ निध॑त्त ॥ आपो॑भ॒द्रा गृ॒तमिदाप॑ आसुर॒ग्नीषोमौ॑ बिभ्रा॒त्याप॒ इत्ताः । ती॒व्रो रसो॑ मधु॒पृचा॑मरंग॒म आ मा᳚ प्रा॒णेन॑ स॒ह वर्च॑ सागन् ॥ आदित्प॑श्याम्यु॒त वा॑ श‍ृणो॒म्यामा॒ घोषो॑ गच्छति॒ वाङ् न॑ आसाम् । मन्ये॑भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृपं य॒दावः॑ ॥ नास॑दासी॒न्नो सदा॑सीत्त॒दानी᳚म् । नासी॒द्रजो॒ नो व्यो॑मा प॒रो यत् । किमाव॑रिवः॒ कुह॒ कस्य॒ शर्मन्॑ । अम्भः॒ किमा॑सी॒द्गह॑नं गभी॒रम् । न मृ॒त्युर॒मृतं॒ तर्हि॒ न । रात्रि॑या॒ अह्न॑ आसीत् प्रके॒तः । आनी॑दवा॒तꣳ स्व॒धया॒ तदेक᳚म् । तस्मा॑द्धा॒न्यं न प॒रः किंच॒नास॑ । तम॑ आसी॒त्तम॑सा गू॒ढमग्रे᳚ प्रके॒तम् । स॒लि॒लꣳ सर्व॑ मा इ॒दम् । तु॒च्छेना॒भ्वपि हितं॒ यदासी᳚त् । तम॑स॒स्त॑न्महि॒ना जा॑य॒तैकम्᳚ । काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ । मन॑सो॒ रेतः॑ प्रथ॒मं यदासी᳚त् । स॒ तो बन्धु॒मस॑ति॒ निर॑विन्दन् । हृ॒दिप्र॒तीष्या॑ क॒वयो॑ मनी॒षा । ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम् । अ॒धस्वि॑दा॒सी ३ दु॒परि॑स्विदासी ३ त् । रे॒तो॒धा आ॑सन्महि॒मा न आसन् । स्व॒धा अ॒वस्ता॒त् प्रय॑तिः प॒रस्ता᳚त् । को अ॒द्धा वे॑द॒ क इ॒ह प्रवो॑चत् । कुत॒ आ जा॑ता॒ कुत॒ इ॒यं विसृ॑ष्टिः । अ॒र्वाग्दे॒वा अ॒स्य वि॒सर्ज॑नाय । अथा॒ को वे॑द॒यत॑ आ ब॒भूव॑ । इ॒यं विसृ॑ष्टि॒र्यत॑ आब॒भूव॑ । यदि॑ वा द॒धे यदि॑ वा॒ न । यो अ॒स्याध्य॑क्षः पर॒मे व्यो॑मन् । सो अं॒ग वे॑द॒ यदि॑ वा॒ न वेद॑ । किꣳस्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑सीत् । यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सापृ॒च्छते दुतत् । यद॒ध्यति॑ष्टद्भुव॑नानि धा॒रयन्॑ । ब्रह्म॒ वनं॒ ब्रह्म॒ सवृ॒क्ष आ॑सीत् । यत्तो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा॒ विब्र॑वीमि वः । ब्रह्मा॒ध्यतिष्ट॒द्भुवनानि धा॒रयन्॑ । प्रा॒तर॒ग्निं प्रा॒तरिन्द्रꣳ॑ हवामहे । प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना᳚ । प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिम्᳚ । प्रा॒तः सोम॑मु॒त रु॒द्रꣳ हु॑वेम । प्रा॒त॒र्जितं॒ भग॑मु॒ग्रꣳ हु॑वेम । व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता । आ॒घ्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॑त् । राजा॑चि॒द्यं भगं॑ भ॒क्षीत्याह॑ । भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधः । भगे॒मां धिय॒मुद॑व॒दद॑न्नः । भग॒ प्रणो॑ जनय॒ गोभि॒रश्वैः᳚ । भग॒ प्रनृभि॑र्नृ॒वन्तः॑ स्याम । उ॒तेदानीं॒ भग॑वन्तः स्याम । उ॒त प्रपि॒त्व उ॒त मध्य॒ अह्ना᳚म् । उ॒तोदि॑ता मघव॒न्त्सूर्य॑स्य । व॒यं दे॒वानाꣳ॑ सुम॒तौ स्या॑म । भग॑ ए॒व भग॑वाꣳ अस्तु देवाः । तेन॑ व॒यं भग॑वन्तः स्याम । तन्त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि । सनो भग पुर ए॒ता भ॑वे॒ह । सम॑ध्व॒रायो॒षसो॑नमन्त । द॒धि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ । अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भग॑न्नः । रथ॑मि॒वाश्वा॑ वा॒जिन॒ आव॑हन्तु । अश्वा॑वती॒र्गोम॑तीर्न उ॒षासः॑ । वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः । घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑नाः । यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः । अ॒ग्निर्नः॑ पातु॒ कृत्ति॑काः । नक्ष॑त्रं दे॒वमि॑न्द्रि॒यम् । इ॒दमा॑सां विचक्ष॒णम् । ह॒विरा॒सं जु॑होतन । यस्य॒ भान्ति॑ र॒श्मयो॒ यस्य॑ के॒तवः॑ । यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा᳚ । स कृत्ति॑काभिर॒भिसं॒वसा॑नः । अ॒ग्निर्नो॑ दे॒वस्सु॑वि॒ते द॑धातु ॥ प्र॒जाप॑ते रोहि॒णीवे॑तु॒ पत्नी᳚ । वि॒श्वरू॑पा बृह॒ती चि॒त्रभा॑नुः । सा नो॑ य॒ज्ञस्य॑ सुवि॒ते द॑धातु । यथा॒ जीवे॑म श॒रद॒स्सवीराः॑ । रो॒हि॒णी दे॒व्युद॑गात्पु॒रस्ता᳚त् । विश्वा॑ रू॒पणि॑ प्रति॒मोद॑माना । प्र॒जाप॑तिꣳ ह॒विषा॑ व॒र्धय॑न्ती । प्रि॒या दे॒वाना॒मुप॑यातु य॒ज्ञम् ॥ सोमो॒ राजा॑ मृगशी॒र्॒षेण॒ आगन्न्॑ । शि॒वं नक्ष॑त्रं प्रि॒यम॑स्य॒ धाम॑ । आ॒प्याय॑मानो बहु॒धा जने॑षु । रेतः॑ प्र॒जां यज॑माने दधातु । यत्ते॒ नक्ष॑त्रं मृगशी॒र्॒षमस्ति॑ । प्रि॒यꣳ रा॑जन् प्रि॒यत॑मं प्रि॒याणा᳚म् । तस्मै॑ ते सोम ह॒विषा॑ विधेम । शन्न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे ॥ आ॒र्द्रया॑ रु॒द्रः प्रथ॑मा न एति । श्रेष्ठो॑ दे॒वानां॒ पति॑रघ्नि॒याना᳚म् । नक्ष॑त्रमस्य ह॒विषा॑ विधेम । मा नः॑ प्र॒जाꣳ री॑रिष॒न्मोत वी॒रान् । हे॒ति रु॒द्रस्य॒ परि॑णो वृणक्तु । आ॒र्द्रा नक्ष॑त्रं जुषताꣳ ह॒विर्नः॑ । प्र॒मु॒ञ्चमा॑नौ दुरि॒तानि॒ विश्वा᳚ । अपा॒घशꣳसन्नुदता॒मरा॑तिम् ॥। पुन॑र्नो दे॒व्यदि॑तिस्पृणोतु । पुन॒र्वसूनः॒ पुन॒रेतां᳚ य॒ज्ञम् । पुन॑र्नो दे॒वा अ॒भिय॑न्तु॒ सर्वे᳚ । पुनः॑ पुनर्वो ह॒विषा॑ यजामः । ए॒वा न दे॒व्यदि॑तिरन॒र्वा । विश्व॑स्य भ॒र्त्री जग॑तः प्रति॒ष्ठा । पुन॑र्वसू ह॒विषा॑ व॒र्धय॑न्ती । प्रि॒यम् दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥ बृह॒स्पतिः॑ प्रथ॒मं जाय॑मानः । ति॒ष्य॑म् नक्ष॑त्रम॒भि संब॑भूव । श्रेष्ठो॑ दे॒वानां॒ पृत॑नासुजि॒ष्णुः । दि॒शोऽनु॒ सर्वा॒ अभ॑यन्नो अस्तु । ति॒ष्यः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॑ । बृह॒स्पति॑र्नः॒ परि॑पातु प॒श्चात् । बाधे॑ता॒न्द्वेषो॒ अभ॑यं कृणुताम् । सु॒वीर्य॑स्य॒ पत॑यस्याम ॥ इ॒दꣳ स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्टम्᳚ । आ॒श्रे॒षा येषा॑मनु॒यन्ति॒ चेतः॑ । ये अ॒न्तरि॑क्षं पृथि॒वीं क्षि॒यन्ति॑ । ते न॑स्स॒र्पासो॒ हव॒माग॑मिष्ठाः । ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः । ये दिवं॑ दे॒वीमनु॑स॒ञ्चर॑न्ति । येषा॑मश्रे॒षा अ॑नु॒यन्ति॒ कामम्᳚ । तेभ्य॑स्स॒र्पेभ्यो॒ मधु॑मज्जुहोमि ॥ उप॑हूताः पि॒तरो॒ ये म॒घासु॑ । मनो॑जवसस्सु॒कृत॑स्सुकृ॒त्याः । ते नो॒ नक्ष॑त्रे॒ हव॒माग॑मिष्ठाः । स्व॒धाबि॑र्य॒ज्ञं प्रय॑तं जुषन्ताम् । ये अ॑ग्निद॒ग्धा येऽन॑ग्निदग्धाः । ये॑ऽमुल्लो॒कं पि॒तरः॑ क्षि॒यन्ति॑ । याꣳश्च॑ वि॒द्मयाꣳ उ॑ च॒ न प्र॑वि॒द्म । म॒घासु॑ य॒ज्ञꣳ सुकृ॑तम् जुषन्ताम् ॥ गवां॒ पतिः॒ फल्गु॑नीनामसि॒ त्वम् । तद॑र्यमन् वरुणमित्र॒ चारु॑ । तं त्वा॑ व॒यꣳ स॑नि॒तारꣳ॑ सनी॒नाम् । जी॒वा जीव॑न्त॒मुप॒ संवि॑शेम । येने॒मा विश्वा॒ भुव॑नानि॒ सञ्जि॑ता । यस्य॑ दे॒वा अ॑नुसं॒यन्ति॒ चेतः॑ । अ॒र्य॒मा राजा॒ऽजर॑स्तु वि॑ष्मान् । फल्गु॑नीनामृष॒भो रो॑रवीति ॥ श्रेष्ठो॑ दे॒वाना᳚म् भगवो भगासि । तत्त्वा॑ विधुः॒ फल्गु॑नी॒स्तस्य॒ वित्तात् । अ॒स्मभ्यं॑ क्ष॒त्रम॒जरꣳ॑ सु॒वीर्यम्᳚ । गोम॒दश्व॑व॒दुप॒सन्नु॑दे॒ह । भगो॑ह दा॒ता भग इत्प्र॑दा॒ता । भगो॑ दे॒वीः फल्गु॑नी॒रावि॑वेश । भग॒स्येत्तं प्र॑स॒वं ग॑मेम । यत्र॑ दे॒वैस्स॑ध॒मादं॑ मदेम ॥। आया॒तु दे॒वस्स॑वि॒तोप॑यातु । हि॒र॒ण्यये॑न सु॒वृता॒ रथे॒न । वह॒न्॒ हस्तꣳ॑ सुभꣳ॑ विद्म॒नाप॑सम् । प्रयच्छ॑न्तं॒ पपु॑रिं॒ पुण्य॒मच्छ॑ । हस्तः॒ प्रय॑च्छ त्व॒मृतं॒ वसी॑यः । दक्षि॑णेन॒ प्रति॑गृभ्णीम एनत् । दा॒तार॑म॒द्य स॑वि॑ता वि॑देय । यो नो॒ हस्ता॑य प्रसु॒वाति॑ य॒ज्ञम् ॥ त्वष्टा॒ नक्ष॑त्रम॒भ्ये॑ति चि॒त्राम् । सु॒भꣳ स॑संयुव॒तिꣳ रोच॑मानाम् । नि॒वे॒शय॑न्न॒मृता॒न्मर्त्याꣳ॑श्च । रू॒पाणि॑ पि॒ꣳ॒शन् भुव॑नानि॒ विश्वा᳚ । तन्न॒स्त्वष्टा॒ तदु॑ चि॒त्रा विच॑ष्टाम् । तन्नक्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्यम्᳚ । तन्नः॑ प्र॒जां वी॒रव॑तीꣳ सनोतु । गोभि॑र्नो॒ अश्वै॒स्सम॑नक्तु यज्ञम् ॥ वा॒युर्नक्ष॑त्रम॒भ्ये॑ति॒ निष्ट्या᳚म् । ति॒ग्मश‍ृं॑गो वृष॒भो रोरु॑वाणः । स॒मी॒रय॒न् भुव॑ना मात॒रिश्वा᳚ । अप॒ द्वेषाꣳ॑सि नुदता॒मरा॑तीः । तन्नो॑ वा॒यस्तदु॒ निष्ट्या॑ श‍ृणोतु । तन्नक्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्यम्᳚ । तन्नो॑ दे॒वासो॒ अनु॑जानन्तु॒ कामम्᳚ । यथा॒ तरे॑म दुरि॒तानि॒ विश्वा᳚ ॥ दू॒रम॒स्मच्छत्र॑वो यन्तु भी॒ताः । तदि॑न्द्रा॒ग्नी कृ॑णुता॒म् तद्विशा॑खे । तन्नो᳚ दे॒वा अनु॑मदन्तु य॒ज्ञम् । प॒श्चात् पु॒रस्ता॒दभ॑यन्नो अस्तु । नक्ष॑त्राणा॒मधि॑पत्नी॒ विशा॑खे । श्रेष्ठा॑विन्द्रा॒ग्नी भुव॑नस्य गो॒पौ । विषू॑च॒श्शत्रू॑नप॒बाध॑मानौ । अप॒क्षुध॑न्नुदता॒मरा॑तिम् ॥। पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता᳚त् । उन्म॑ध्य॒तः पौ᳚र्णमा॒सी जि॑गाय । तस्यां᳚ दे॒वा अधि॑सं॒वस॑न्तः । उ॒त्त॒मे नाक॑ इ॒ह मा॑दयन्ताम् । पृ॒थ्वी सु॒वर्चा॑ युव॒तिः स॒जोषाः᳚ । पौ॒र्ण॒मा॒स्युद॑गा॒च्छोभ॑माना । आ॒प्या॒यय॑न्ती दुरि॒तानि॒ विश्वा᳚ । उ॒रुं दुहां॒ यज॑मानाय य॒ज्ञम् । ऋ॒द्ध्यास्म॑ ह॒व्यैर्न॑मसो॒पसद्य॑ । मि॒त्रं दे॒वं मि॑त्र॒धेयं॑ नो अस्तु । अ॒नू॒रा॒धान् ह॒विषा॑ व॒र्धय॑न्तः । श॒तं जी॑वेम॒ श॒रदः॒ सवी॑राः । चि॒त्रम् नक्ष॑त्र॒मुद॑गात्पु॒रस्ता᳚त् । अ॒नू॒रा॒धा स॒ इति॒ यद्वद॑न्ति । तन्मि॒त्र ए॑ति प॒थिभि॑र्देव॒यानैः᳚ । हि॒र॒ण्ययै॒र्वित॑तैर॒न्तरि॑क्षे ॥ इन्द्रो᳚ ज्ये॒ष्ठामनु॒ नक्ष॑त्रमेति । यस्मि॑न् वृ॒त्रं वृ॑त्र॒ तूर्यो॑ त॒तार॑ । तस्मि॑न्व॒यम॒मृतं॒ दुहा॑नाः । क्षुध॑न्तरेम॒ दुरि॑तिं॒ दुरि॑ष्टिम् । पु॒र॒न्द॒राय॑ वृष॒भाय॑ धृ॒ष्णवे᳚ । अषा᳚ढाय॒ सह॑मानाय मी॒ढुषे᳚ । इन्द्रा॑य ज्ये॒ष्ठा मधु॑म॒द्दुहा॑ना।उ॒रुं कृ॑णोतु॒ यज॑मानाय लो॒कम् ॥। मूलं॑ प्र॒जां वी॒रव॑तीं विदेय । परा᳚च्येतु॒ निरृ॑तिः परा॒चा । गोभि॒र्नक्ष॑त्रं प॒शुभि॒स्सम॑क्तम् । अह॑र्भूया॒द्यज॑मानाय॒ मह्यम्᳚ । अह॑र्नो अ॒द्य सु॑वि॒ते द॑दातु । मूलं॒ नक्ष॑त्र॒मिति॒ यद्वद॑न्ति । परा॑चीं वा॒चा निरृ॑तिं नुदामि । शि॒वं प्र॒जयै॑ शि॒वम॑स्तु॒ मह्यम्᳚ ॥ या दि॒व्या आपः॒ पय॑सा सम्बभू॒वुः । या अ॒न्तरि॑क्ष उ॒त पार्थि॑वी॒र्याः । यासा॑मषा॒ढा अ॑नु॒यन्ति॒ कामम्᳚ । ता न॒ आपः॒ शꣳ स्यो॒ना भ॑वन्तु । याश्च॒ कूप्या॒ याश्च॑ ना॒द्या᳚स्समु॒द्रियाः᳚ । याश्च॑ वैश॒न्तीरुत प्रा॑स॒चीर्याः । यासा॑मषा॒ढा मधु॑ भ॒क्षय॑न्ति । ता न॒ आपः॒ शꣳ स्यो॒ना भ॑वन्तु ॥ तन्नो॒ विश्वे॒ उप॑ श‍ृण्वन्तु दे॒वाः । तद॑षा॒ढा अ॒भिसंय॑न्तु य॒ज्ञम् । तन्नक्ष॑त्रं प्रथतां प॒शुभ्यः॑ । कृ॒षिर्वृ॒ष्टिर्यज॑मानाय कल्पताम् । शु॒भ्राः क॒न्या॑ युव॒तय॑स्सु॒पेश॑सः । क॒र्म॒कृत॑स्सु॒कृतो॑ वी॒र्या॑वतीः । विश्वा᳚न् दे॒वान् ह॒विषा॑ व॒र्धय॑न्तीः । अ॒षा॒ढाः काम॒मुपा॑यन्तु य॒ज्ञम् ॥ यस्मि॒न् ब्रह्माऽ॒भ्यज॑य॒त्सर्व॑मे॒तत् । अ॒मुञ्च॑ लो॒कमि॒दमू॑च॒ सर्वम्᳚ । तन्नो॒ नक्ष॑त्रमभि॒जिद्वि॒जित्य॑ । श्रियं॑ दधा॒त्वहृ॑णीयमानम् । उ॒भौ लो॒कौ ब्रह्म॑णा॒ सञ्जि॑ते॒मौ । तन्नो॒ नक्ष॑त्रमभि॒जिद्विच॑ष्टाम् । तस्मि॑न्व॒यं पृत॑ना॒स्सञ्ज॑येम । तन्नो॑ दे॒वासो॒ अनु॑जानन्तु॒ कामम्᳚ ॥ श‍ृ॒ण्वन्ति॑ श्रो॒णाम॒मृत॑स्य गो॒पाम् । पुण्या॑मस्या॒ उप॑श‍ृणोमि॒ वाचम्᳚ । म॒हीं दे॒वीं विष्णु॑पत्नीमजू॒र्याम् । प्र॒तीची॑ मेनाꣳ ह॒विषा॑ यजामः । त्रे॒धा विष्णु॑रुरुगा॒यो विच॑क्रमे । म॒हीं दिवं॑ पृथि॒वीम॒न्तरि॑क्षम् । तच्छ्रो॒णैति॒श्रव॑ इ॒च्छमा॑ना । पुण्य॒ꣳ॒ श्लोकं॒ यज॑मानाय कृण्व॒ती ॥ अ॒ष्टौ दे॒वा वस॑वस्सो॒म्यासः॑ । चत॑स्रो दे॒वीर॒जराः॒ श्रवि॑ष्ठाः । ते य॒ज्ञं पा᳚न्तु॒ रज॑सः पु॒रस्ता᳚त् । सं॒व॒त्स॒रीण॑म॒मृतꣳ॑ स्व॒स्ति । य॒ज्ञं नः॑ पान्तु॒ वस॑वः पु॒रस्ता᳚त् । द॒क्षि॒ण॒तो॑ऽभिय॑न्तु॒ श्रवि॑ष्ठाः । पुण्य॒न्नक्ष॑त्रम॒भि संवि॑शाम । मा नो॒ अरा॑तिर॒घश॒ꣳ॒साऽगन्न्॑ ॥ क्ष॒त्रस्य॒ राजा॒ वरु॑णोऽधिरा॒जः । नक्ष॑त्राणाꣳ श॒तभि॑ष॒ग्वसि॑ष्ठः । तौ दे॒वेभ्यः॑ कृणुति दी॒र्घमायुः॑ । श॒तꣳ स॒हस्रा॑ भेष॒जानि॑ धत्तः । य॒ज्ञन्नो॒ राजा॒ वरु॑ण॒ उप॒यातु । तन्नो॒ विश्वे॑ अ॒भि संय॑न्तु दे॒वाः । तन्नो॒ नक्ष॑त्रꣳ श॒तभि॑षग्जुषा॒णम् । दी॒र्घमायुः॒ प्रति॑रद्भेष॒जानि॑ ॥ अ॒ज एक॑पा॒दुद॑गात्पु॒रस्ता᳚त् । विश्वा॑ भू॒तानि॑ प्रति॒ मोद॑मानः । तस्य॑ दे॒वाः प्र॑स॒वं य॑न्ति॒ सर्वे᳚ । प्रो॒ष्ठ॒प॒दासो॑ अ॒मृत॑स्य गो॒पाः । वि॒भ्राज॑मानस्समिधा॒ न उ॒ग्रः । आऽन्तरि॑क्षमरुह॒दग॒न्द्याम् । तꣳ सूर्यं॑ दे॒वम॒जमेक॑पादम् । प्रो॒ष्ठ॒प॒दासो॒ अनु॑यन्ति॒ सर्वे᳚ ॥ अहि॑र्बु॒ध्नियः॒ प्रथ॑मा न एति । श्रेष्ठो॑ दे॒वाना॑मु॒त मानु॑षाणाम् । तं ब्रा᳚ह्म॒णास्सो॑म॒पास्सो॒म्यासः॑ । प्रो॒ष्ठ॒प॒दासो॑ अ॒भिर॑क्षन्ति॒ सर्वे᳚ । च॒त्वार॒ एक॑म॒भि कर्म॑ दे॒वाः । प्रो॒ष्ठ॒प॒दा स॒ इति॒ यान् वद॑न्ति । ते बु॒ध्नियं॑ परि॒षद्यꣳ॑ स्तु॒वन्तः॑ । अहिꣳ॑ रक्षन्ति॒ नम॑सोप॒सद्य॑ ॥ पू॒षा रे॒वत्यन्वे॑ति॒ पन्था᳚म् । पु॒ष्टि॒पती॑ पशु॒पा वाज॑बस्त्यौ । इ॒मानि॑ ह॒व्या प्रय॑ता जुषा॒णा । सु॒गैर्नो॒ यानै॒रुप॑यातां य॒ज्ञम् । क्षु॒द्रान् प॒शून् र॑क्षतु रे॒वती॑ नः । गावो॑ नो॒ अश्वा॒ꣳ॒ अन्वे॑तु पू॒षा । अन्न॒ꣳ॒ रक्ष॑न्तौ बहु॒दा विरू॑पम् । वाजꣳ॑ सनुतां॒ यज॑मानाय य॒ज्ञम् ॥ तद॒श्विना॑वश्व॒युजोप॑याताम् । शुभ॒ङ्गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः᳚ । स्वं नक्ष॑त्रꣳ ह॒विषा॒ यज॑न्तौ । मध्वा॒सम्पृ॑क्तौ॒ यजु॑षा॒ सम॑क्तौ । यौ दे॒वानां᳚ भि॒षजौ᳚ हव्यवा॒हौ । विश्व॑स्य दू॒तव॒मृत॑स्य गो॒पौ । तौ नक्ष॒त्रं जुजुषा॒णोप॑याताम् । नमो॒ऽश्विभ्यां᳚ कृणुमोऽश्व॒युग्भ्या᳚म् ॥ अप॑ पा॒प्मानं॒ भर॑णीर्भरन्तु । तद्य॒मो राजा॒ भग॑वा॒न्॒ विच॑ष्टाम् । लो॒कस्य॒ राजा॑ मह॒तो म॒हान् हि । सु॒गं नः॒ पन्था॒मभ॑यं कृणोतु । यस्मि॒न्नक्ष॑त्रे य॒म एति॒ राजा᳚ । यस्मि॑न्नेनम॒भ्यषिं॑चन्त दे॒वाः । तद॑स्य चि॒त्रꣳ ह॒विषा॑ यजाम । अप॑ पा॒प्मानं॒ भर॑णीर्भरन्तु ॥ नि॒वेश॑नी स॒ङ्गम॑नी॒ वसू॑नां॒ विश्वा॑ रू॒पाणि॒ वसू᳚न्यावे॒शय॑न्ती । स॒ह॒स्र॒पो॒षꣳ सु॒भगा॒ ररा॑णा॒ सा न॒ आग॒न्वर्च॑सा संविदा॒ना ॥ यत्ते॑ दे॒वा अद॑धुर्भाग॒धेय॒ममा॑वास्ये सं॒वस॑न्तो महि॒त्वा । सा नो॑ य॒ज्ञं पि॑पृहि विश्ववारे र॒यिन्नो॑ धेहि सुभगे सु॒वीरम्᳚॥ नवो॑ नवो भवति॒ जाय॑मा॒नोऽह्नां᳚ के॒तुरु॒षसा॑मे॒त्यग्रे᳚ । भा॒गं दे॒वेभ्यो॒ विद॑धात्या॒यन् प्रच॒न्द्रमा᳚स्तिरिति दी॒र्घमायुः॑ ॥ यमा॑दि॒त्या अ॒ꣳशु॒मा᳚प्या॒यय॑न्ति॒ यमक्षि॑त॒मक्षि॑तयः॒ पिब॑न्ति । तेन॑ नो॒ राजा॒ वरु॑णो॒ बृह॒स्पति॒राप्याययन्तु भुव॑नस्य गो॒पाः ॥ ये विरू॑पे॒ सम॑नसा सं॒व्यय॑न्ती । स॒मा॒नं तन्तुं॑ परितात॒नाते᳚ । वि॒भू प्र॒भू अ॑नु॒भू वि॒श्वतो॑ हुवे । ते नो॒ नक्ष॑त्रे॒ हव॒मग॑मेतम् । व॒यं दे॒वी ब्रह्म॑णा संविदा॒नाः । सु॒रत्ना॑सो दे॒ववी॑तिं॒ दधा॑नाः । अ॒हो॒रा॒त्रे ह॒विषा॑ व॒र्धय॑न्तः । अति॑ पा॒प्मान॒मति॑मुक्त्यागमेम । प्रत्यु॑वदृश्याय॒ती॑ । व्यु॒च्छन्ती॑ दुहि॒ता दि॒वः । अ॒पो म॒ही वृ॑णुते॒ चक्षु॑षा । तमो॒ ज्योतिष्कृणोति सू॒नरी᳚ । उ॑दु॒स्त्रिया᳚स्सचते॒ सूर्यः॑ । स चा॑ उ॒द्यन्नक्ष॑त्रमर्चि॒मत् । तवे॑दुषो॒ व्युषि॒ सूर्य॑स्य च । संभ॒क्तेन गमेमहि । तन्नो॒ नक्ष॑त्रमर्चि॒मत् । भा॒नुमत्तेज॑ उ॒च्चर॑त् । उप॑य॒ज्ञमि॒हाग॑मत् । प्रनक्ष॑त्रायदे॒वाय॑ । इन्द्रा॒येन्दुꣳ॑ हवामहे । स नः॑ सवि॒ता सु॑वत्स॒निम् । पु॒ष्टि॒दां वी॒रव॑त्तमम् । उदु॑त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्यम्᳚ । चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आऽप्रा॒द्यावा॑ पृथि॒वी अ॒न्तरि॑क्ष॒ꣳ॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च । आदि॑तिर्न उरुष्य॒त्वदितिः॒ शर्म॑ यच्छतु । अदि॑तिः पा॒त्वꣳह॑सः । म॒हीमू॒षु मा॒तरꣳ॑सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हुवेम । तु॒वि॒क्ष॒त्राम॒जर॑न्तीमुरू॒चीꣳ सु॒शर्मा॑ण॒मदि॑तिꣳ सु॒प्रणी॑तम् । इ॒दं विष्णु॒र्विच॑क्रमे त्रे॒धा निद॑धे प॒दम् । समू॑ढमस्य पाꣳसु॒रे । प्रतद्विष्णु॑स्स्तवते वी॒र्या॑य । मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः । यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु । अधि॑क्षि॒यन्ति॒ भुव॑नानि॒ विश्वा᳚ । अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् । अ॒पाꣳ रेताꣳ॑सि जिन्वति । भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑नि॒युद्भिः॒ सच॑से शि॒वाभिः॑ । दि॒वि मू॒र्धानं॑ दधिषे सुव॒षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाहम्᳚ । अनु॑नो॒ऽद्यानु॑मतिर्य॒ज्ञं दे॒वेषु॑ मन्यताम् । अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तां दा॒शुषे॒ मयः॑ । अन्विद॑नुमते॒ त्वं मन्या॑सै॒ शंच॑ कृधि । क्रत्वे॒ दक्षा॑य नोहि नु॒ प्रण॒ आयूꣳ॑षि तारिषः । ह॒व्य॒वाह॑मभिमाति॒षाहम्᳚ । र॒क्षो॒हणं॒ पृत॑नासु जि॒ष्णुम् । ज्योति॑ष्मन्तं॒ दीद्य॑तं॒ पुरन्धिम् । अ॒ग्निꣳ स्वि॑ष्ट॒कृत॒ माहु॑वेम । स्वि॑ष्टमग्ने अ॒भितत्पृ॑णाहि । विश्वा॑ देव॒ पृ॑तना अ॒भिष्य । उ॒रुन्नः॒ पन्थां᳚ प्रदि॒शन्विभा॑हि । ज्योति॑ष्मद्धेह्य॒जर॑न्न॒ आयुः॑ ॥ अ॒ग्नये॒ स्वाहा॒ कृत्ति॑काभ्यः॒ स्वाहा᳚ । अ॒म्बायै॒ स्वाहा॑ दु॒लायै॒ स्वाहा᳚ । नि॒त॒न्त्यै स्वाहा॒ऽभ्रय॑न्तै॒ स्वाहा᳚ । मे॒घय॑न्त्यै॒ स्वाहा॑ व॒र्ष॒य॑न्त्यै॒ स्वाहा᳚ । चु॒पु॒णीका॑यै॒ स्वाहा᳚ । प्र॒जाप॑तये॒ स्वाहा॑ रोहि॒ण्यै स्वाहा᳚ । रोच॑मानायै॒ स्वाहा॑ प्र॒जाभ्यः॒ स्वाहा᳚ । सोमा॑य॒ स्वाहा॑ मृगशी॒र्षाय॒ स्वाहा᳚ । इ॒न्व॒काभ्यः॒ स्वाहौष॑धीभ्यः॒ स्वाहा᳚ । रा॒ज्याय॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा᳚ । रु॒द्राय॒ स्वाहा॒ऽऽर्द्रायै॒ स्वहा᳚ । पिन्व॑मानायै॒ स्वाहा॒ प॒शुभ्यः॒ स्वाहा᳚ । अदि॑त्यै॒ स्वाहा॒ पुन॑र्वसुभ्याम् । स्वाहा भू᳚त्यै॒ स्वाहा॒ प्रजा᳚त्यै॒ स्वाहा᳚ । बृह॒स्पत॑ये॒ स्वाहा॑ ति॒ष्या॑य॒ स्वाहा᳚ । ब्र॒ह्म॒व॒र्च॒साय॒ स्वाहा᳚ । स॒र्पेभ्यः॒ स्वाहा᳚ऽऽश्रे॒षाभ्यः॒ स्वाहा᳚ । द॒न्त॒शूके॑भ्यः॒ स्वाहा᳚ । पि॒तृभ्यः॒ स्वाहा॑ म॒घाभ्यः॑ । स्वाहा॑ऽन॒घाभ्यः॒ स्वाहा॑ऽग॒दाभ्यः॑ । स्वाहा॑ऽरुन्ध॒तीभ्यः॒ स्वाहा᳚ । अ॒र्य॒म्णे स्वाहा॒ फल्गु॑नीभ्या॒ꣳ॒ स्वाहा᳚ । प॒शुभ्यः॒ स्वाहा᳚ । भगा॑य॒ स्वाहा॒ फल्गु॑नीभ्या॒ꣳ॒ स्वाहा᳚ । श्रेष्टाया॑य॒ स्वाहा᳚ । स॒वि॒त्रेस्वाहा॒ हस्ता॑य । स्वाहा॑दद॒ते स्वाहा॑ पृण॒ते । स्वाहा᳚ प्र॒यच्छ॑ते॒ स्वाहा᳚ प्रतिगृभ्ण॒ते स्वाहा᳚ । त्वष्ट्रे॒ स्वाहा॑ चि॒त्रायै॒ स्वाहा᳚ । चैत्रा॑य॒ स्वाहा᳚ प्र॒जायै॒ स्वाहा᳚ । वा॒यवे॒ स्वाहा॒ निष्ट्या॑यै॒ स्वाहा᳚ । का॒म॒चारा॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा᳚ । इ॒न्द्रा॒ग्निभ्या॒ꣳ॒ स्वाहा॒ विशा॑खाभ्या॒ꣳ॒ स्वाहा᳚ । स्रेष्टया॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा᳚ । पौ॒र्ण॒मा॒स्यै स्वाहा॒ कामा॑य॒ स्वाहा ग॑त्यै॒ स्वाहा᳚ । मि॒त्राय॒ स्वाहा॑ऽनूरा॒धेभ्यः॒ स्वाहा᳚ । मि॒त्र॒धेया॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा᳚ । इन्द्रा॑य॒स्वाहा᳚ ज्ये॒ष्ठायै॒ स्वाहा᳚ । ज्ये॒ष्ठया॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा᳚ । प्र॒जाप॑तये॒ स्वाहा॒ मूला॑य॒ स्वाहा᳚ । प्र॒जायै॒ स्वाहा᳚ । अ॒द्भ्यः स्वाहा॑ऽषा॒ढाभ्यः॒ स्वाहा᳚ । स॒मु॒द्राय॒ स्वाहा॒ कामा॑य॒ स्वाहा᳚ । अ॒भिजि॑त्यै॒ स्वाहा᳚ । विश्वे᳚भ्यो दे॒वेभ्यः॒ स्वाहा॑ऽषा॒ढाभ्यः॒ स्वाहा᳚ । अ॒न॒प॒ज॒य्याय॒ स्वाहा॒ जित्यै॒ स्वाहा᳚ । ब्रह्म॑णे॒ स्वाहा॑ऽभि॒जिते॒ स्वाहा᳚ । ब्र॒ह्म॒लो॒काय॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा᳚ । विष्ण॑वे॒ स्वाहा᳚ श्रो॒णायै॒ स्वाहा᳚ । श्लोका॑य॒ स्वाहा᳚ श्रु॒ताय॒स्स्वाहा᳚ । वसु॑भ्यः॒ स्वाहा॒ श्रवि॑ष्ठाभ्यः॒ स्वाहा᳚ । अग्रा॑य॒ स्वाहा॒ परी᳚त्यै॒ स्वाहा᳚ । वरु॑णाय॒ स्वाहा॒ श॒तभि॑षजे॒ स्वाहा᳚ । भे॒ष॒जेभ्यः॒ स्वाहा᳚ । अ॒जायैक॑पदे॒ स्वाहा᳚ प्रोष्ठप॒देभ्यः॒ स्वाहा᳚ । तेज॑से॒ स्वाहा᳚ ब्रह्मवर्च॒साय॒ स्वाहा᳚ । अह॑ये बु॒ध्निया॑य॒ स्वाहा᳚ प्रोष्ठप॒देभ्यः॒ स्वाहा᳚ । पू॒ष्णे स्वाहा॑ रे॒वत्यै॒ स्वाहा᳚ । प॒शुभ्यः॒ स्वाहा᳚ । अ॒श्विभ्या॒ꣳ॒ स्वाहा᳚ऽश्व॒युग्भ्या॒ꣳ॒ स्वाहा᳚ । श्रोत्रा॑य॒ स्वाहा॒ श्रुत्यै॒ स्वाहा᳚ । य॒माय॒ स्वाहा॑ऽपभ॒रणीभ्यः॒ स्वाहा᳚ । रा॒ज्याय॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा᳚ । अ॒मा॒वा॒स्या॑यै॒ स्वाहा॒ कामा॑य॒ स्वाहा ग॑त्यै॒ स्वाहा᳚ । च॒न्द्रम॑से॒ स्वाहा᳚ प्रती॒दृश्या॑यै॒ स्वाहा᳚ । अ॒हो॒रा॒त्रेभ्यः॒ स्वाहा᳚ऽर्धमा॒सेभ्यः॒ स्वाहा᳚ । मासे᳚भ्यः॒ स्वाह॒र्तुभ्यः॒ स्वाहा᳚ । सं॒व॒त्स॒राय॒ स्वाहा᳚ । अह्ने॒ स्वाहा॒ रात्रि॑यै॒ स्वाहा᳚ । अति॑मुक्त्यै॒ स्वाहा᳚ । उ॒षसे॒ स्वाहा॒ व्यु॑ष्टयै॒ स्वाहा᳚ । व्यू॒षुष्यै॒ स्वाहा॒ व्यु॒च्छन्त्यै॒ स्वाहा᳚ । व्यु॑ष्टायै॒ स्वाहा᳚ । नक्ष॑त्राय॒ स्वाहो॑देष्य॒ते स्वाहा᳚ । उ॒द्य॒ते स्वाहोदि॑ताय॒ स्वाहा᳚ । हर॑से॒ स्वाहा॒ भर॑से॒ स्वाहा᳚ । भ्राज॑से॒ स्वाहा॒ तेज॑से॒ स्वाहा᳚ । तप॑से॒ स्वाहा॒ ब्रह्मवर्च॒साय॒ स्वाहा᳚ । सूर्या॑य॒ स्वाहा॒ नक्ष॑त्रेभ्यः॒ स्वाहा᳚ । प्र॒ति॒ष्ठायै॒ स्वाहा᳚ । आदि॑त्यै॒ स्वाहा᳚ प्रति॒ष्ठयै॒ स्वाहा᳚ । विष्ण॑वे॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा᳚ । प्र॒ति॒ष्ठायै॒ स्वाहा᳚॥ द॒धि॒क्राविण्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ । सु॒र॒भि नो॒ मुखा॑कर॒त् प्रण॒ आयूꣳ॑षि तारिषत् ॥ आपो॒हिष्ठा म॑यो॒ भुव॒स्तान॑ ऊ॒र्जे द॑धातन । म॒हेरणा॑य चक्ष॑से ॥ योवः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒हनः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ॥ तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥ उदु॑त्त॒मं व॑रुण॒पाश॑म॒स्मदवा॑ध॒मं विम॑ध्य॒मꣳ श्र॑थाय । अथा॑ व॒यमा॑दित्यव्र॒ते तवाना॑गसो॒ अदि॑तये स्याम । अस्त॑भ्ना॒द्॒ द्यामृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माणं॑ पृथि॒व्या आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तनि॒ वरु॑णस्य व्र॒तानि॑ । यत्किञ्चे॒दम् व॑रुण॒दैव्यै॒ जने॑ऽभिद्रो॒हं म॑नु॒ष्या᳚श्चरामसि । अचि॑त्तीयत्तव॒ धर्मा॑ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः ॥ कि॒त॒वासो॒ यद्रि॑रि॒पुर्न दी॒वि यद्वा॑घा स॒त्यमु॒तयन्न वि॒द्म । सर्वा॒ ता विष्य॑ शिथि॒रेव॑ दे॒वथा॑ ते स्याम वरुणप्रि॒यासः॑ ॥ अव॑ ते॒ हेडो॑ वरुण॒ नमो॑भि॒रव॑य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ । क्षय॑न्न॒स्मभ्य॑मसुरप्रचेतो॒ राज॒न्नेनाꣳ॑सिशिश्रथः कृ॒तानि॑॥ तत्त्वा॑यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शꣳस॒ मा न॒ आयुः॒ प्रमो॑षीः ॥ (पवमानम्) हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ । अ॒ग्निं या गर्भ॑म् दधि॒रे विरू॑पा॒स्तान॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ॥ यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒म् जना॑नाम् । म॒धु॒श्चुत॒श्शुच॑यो॒ याः पा॑व॒कास्ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ॥ यासा᳚म् दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति । याः पृ॑थि॒वीम् पय॑सो॒न्दन्ति शु॒क्रास्ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ॥ शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापश्शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म् मे । सर्वाꣳ॑ अ॒ग्नीꣳ र॑प्सु॒षदो॑ हुवो वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ निध॑त्त ॥ पव॑मान॒स्सुव॒र्जनः॑ । प॒वित्रे॑ण॒ विच॑र्षणिः । यः पोता॒ स पु॑नातु मा । पु॒नन्तु॑ मा देवज॒नाः । पु॒नन्तु॒ मन॑वो धि॒या । पु॒नन्तु॒ विश्व॑ आ॒यवः॑ । जात॑वेदः पवित्र॑वत् । प॒वित्रे॑ण पुनाहि मा । शु॒क्रेण॑ देव॒दीद्य॑त् । अग्ने॒ क्रत्वा॒ क्रतू॒ꣳ॒ रनु॑ । यत्ते॑ प॒वित्र॑म॒र्चिषि॑ । अग्ने॒ वित॑तमन्त॒रा । ब्रह्म॒ तेन॑ पुनीमहे । उ॒भाभ्यां᳚ देवसवितः । प॒वित्रे॑ण स॒वेन॑ च । इ॒दं ब्रह्म॑ पुनीमहे । वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा᳚त् । यस्यै॑ ब॒ह्वीस्त॒नुवो॑ वी॒तपृ॑ष्ताः । तया॒ मद॑न्तः सध॒माद्ये॑षु । व॒यꣳ स्या॑म॒ पत॑यो रयी॒णाम् । वै॒श्वा॒न॒रो र॒श्मिभि॑र्मा पुनातु । वातः॑ प्रा॒णेने॑षि॒रो म॑यो॒ भूः । ध्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः । ऋ॒ताव॑री य॒ज्ञिये॑ मा पुनीताम् । बृ॒हद्भिः॑ सवित॒स्तृभिः॑ । वर्षि॑ष्ठैर्देव॒मन्म॑भिः । अग्ने॒ दक्षैः᳚ पुनाहि मा । येन॑ दे॒वा अपु॑नत । येनापो॑ दि॒व्यंकशः॑ । तेन॑ दि॒व्येन॒ ब्रह्म॑णा । इ॒दं ब्रह्म॑ पुनीमहे । यः पा॑वमा॒नीर॒ध्येति॑ । ऋषि॑भि॒स्सम्भृ॑त॒ꣳ॒ रसम्᳚ । सर्व॒ꣳ॒ स पू॒तम॑श्नाति । स्व॒दि॒तम् मा॑त॒रिश्व॑ना । पा॒व॒मानीर्यो अ॒ध्येति॑ । ऋषि॑भि॒स्सम्भृ॑त॒ꣳ॒ रसम्᳚ । तस्मै॒ सर॑स्वती दुहे । क्षी॒रꣳ स॒र्पिर्मधू॑द॒कम् । पा॒व॒मा॒नीस्स्व॒स्तय॑नीः । सु॒दुघा॒हि पय॑स्वतीः । ऋषि॑भि॒स्सम्भृ॑तो॒ रसः॑ । ब्रा॒ह्म॒णेष्व॒मृतꣳ॑ हि॒तम् । पा॒व॒मा॒नीर्दि॑शन्तु नः । इ॒मं लो॒कमथो॑ अ॒मुम् । कामा॒न्थ्सम॑र्धयन्तु नः । दे॒वीर्दे॒वैः स॒माभृ॑ताः । पा॒व॒मा॒नीस्स्व॒स्त्यय॑नीः । सु॒दुघा॒हि घृ॑त॒श्चुतः॑ । ऋषि॑भि॒स्संभृ॑तो॒ रसः॑ । ब्रा॒ह्म॒णेष्व॒मृतꣳ॑ हि॒तम् । येन॑ दे॒वाः प॒वित्रे॑ण । आ॒त्मानं॑ पु॒नते॒ सदा᳚ । तेन॑ स॒हस्र॑धारेण । पा॒व॒मा॒न्यः पु॑नन्तु मा । प्रा॒जा॒प॒त्यम् प॒वित्रम्᳚ । श॒तोध्या॑मꣳ हिर॒ण्मयम्᳚ । तेन॑ ब्रह्म॒ विदो॑ व॒यम् । पू॒तं ब्रह्म॑ पुनीमहे । इन्द्र॑स्सुनी॒ती स॒हमा॑ पुनातु । सोम॑स्स्व॒स्त्या वरु॑णस्स॒मीच्या᳚ । यमो॒ रजा᳚ प्रमृ॒णाभिः॑ पुनातु मा । जा॒तवे॑दा मो॒र्जय॑न्त्या पुनातु । भूर्भुव॒स्सुवः॑ । तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं यज्ञप॑तये । दैवी᳚स्स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे । ॐ शान्ति॒श्शान्ति॒श्शान्तिः॑ । नमो॒ ब्रह्म॑णे॒ नमो॑ अस्त्व॒ग्नये॒ नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः । नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ विष्ण॑वे बृह॒ते क॑रोमि ॥ ॐ शान्ति॒श्शान्ति॒श्शान्तिः॑ । ॥ प्रोक्षण मन्त्राः ॥ आपो॒हिष्ठा म॑यो॒ भुव॒स्तान॑ ऊ॒र्जे द॑धातन । म॒हेरणा॑य चक्ष॑से ॥ योवः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒हनः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ॥ तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚र्बा॒हुभ्या᳚म् । पू॒ष्णो हस्ता᳚भ्याम् । अ॒श्विनो॒र्भैष॑ज्येन । तेज॑से ब्रह्मवर्च॒साया॒भिषि॑ञ्चामि ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚र्बा॒हुभ्या᳚म् । पू॒ष्णो हस्ता᳚भ्याम् । सर॑स्वत्यै॒ भैष॑ज्येन । वी॒र्या॑या॒न्नाद्या॑या॒भिषि॑ञ्चामि ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚र्बा॒हुभ्या᳚म् । पू॒ष्णो हस्ता᳚भ्याम् । इन्द्र॑स्येन्द्रि॒येण॑ । श्रि॒ये यश॑से॒ बला॑या॒भिषि॑ञ्चामि ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्या॒ꣳ॒ सर॑स्वत्यै॒ वा॒चो य॒न्तुर्य॒न्त्रेणा॒ग्नेस्त्वा॒ साम्रा᳚ज्येना॒॒भिषि॑ञ्चामि ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्या॒ꣳ॒ सर॑स्वत्यै॒ वा॒चो य॒न्तुर्य॒न्त्रेण॒ बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒॒भिषि॑ञ्चामि ॥ द्रु॒प॒दादि॑व॒ मुञ्च॑तु । द्रु॒प॒दादि॒वेन्मु॑मुचा॒नः । स्वि॒न्नः स्ना॒त्वी मला॑दिव । पू॒तं प॒वित्रे॑णे॒वाज्यम्᳚ । आप॑श्शुन्धन्तु॒ मैन॑सः । आपो॒ वा इ॒दꣳ सर्वं॒ विश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑ प॒शव॒ आपोऽन्न॒मापोऽमृ॑त॒मापः॑ स॒म्राडापो॑ वि॒राडापः॑ स्व॒राडाप॒श्छन्दा॒ꣳ॒स्यापो॒ ज्योती॒ꣳ॒ष्यापो॒ यजू॒ꣳ॒ष्याप॑स्स॒त्यमाप॒स्सर्वा॑ दे॒वता॒ आपो॒ भूर्भुव॒स्सुव॒राप॒ ॐ ॥ ॥ उदकशान्ति - मन्त्रपाठः समाप्तः ॥

निःस्वरः

ॐ ब्रह्मजज्ञानं प्रथमं पुरस्तात् विसीमतस्सुरुचो वेन आवः । सबुध्निया उपमास्यविष्ठः सतश्च योनिमसत्श्चविवः ॥ आपो वा इदꣳ सर्वं विश्वा भूतान्यापः प्राणा वा आपः पशव आपोऽन्नमापोऽमृतमापः सम्राडापो विराडापः स्वराडापश्छन्दाꣳस्यापो ज्योतीꣳष्यापो यजूꣳष्यापस्सत्यमापस्सर्वा देवता आपो भूर्भुवस्सुवराप ॐ ॥ अपः प्रणयति । श्रद्धावा आपः । श्रद्धां एवारभ्य प्रणीय प्रचरति अपः प्रणयति । यज्ञो वै आपः । यज्ञं एवारभ्य प्रणीय प्रचरति अपः प्रणयति । वज्रो वै आपः । वज्रमेव भ्रातृव्येभ्यः प्रहृत्य प्रणीय प्रचरति । अपः प्रणयति । आपो वै रक्षोघ्नीः । रक्षसां अपहत्यै । अपः प्रणयति । आपो वै देवानां प्रियंधाम । देवानामेव प्रियंधाम प्रणीय प्रचरति । अपः प्रणयति । आपो वै सर्वा देवताः । देवता एवारभ्य प्रणीय प्रचरति । आपोवैशान्ताः । शान्ताभिरेवास्य शुचꣳशमयति ॥ देवो वस्सविता उत्पुनातु । अच्छिद्रेण पवित्रेण । वसोः सूर्यस्य रश्मिभिः । स हि रत्नानि दाशुषै सुवाति सविता भगः । तं भागं चित्रमीमहे ॥ ॐ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ॥ इषेत्वोर्जे त्वा वायवस्थोपायवस्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे ॥ अग्न आयाहि वीतये गृणानो हव्यदातये । निहोता सत्सि बर्हिषि॥ शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शंयोरभिस्रवन्तु नः ॥ कृणुष्व पाजः प्रसितिन्न पृथ्वीं याहि राजेवामवाꣳ इभेन । तृष्वीमनु प्रसितिं द्रूणानोऽस्ताऽसि विध्य रक्षसस्तपिष्ठैः ॥ तव भ्रमास आशुया पतन्त्यनु स्पृश धृषता शोशुचानः । तपूꣳष्यग्ने जुह्वा पतङ्गानसन्दितो वि सृज विष्वगुल्काः ॥ प्रति स्पशो वि सृज तूर्णितमो भवा पायुर्विशो अस्या अदब्धः । यो नो दूरे अघशꣳसो यो अन्त्यग्ने माकिष्टे व्यथिरादधर्षीत् ॥ उदग्ने तिष्ठ प्रत्याऽऽतनुष्व न्यमित्राꣳ ओषतात् तिग्महेते । यो नो अरातिꣳ समिधान चक्रे नीचा तं धक्ष्यतसं न शुष्कम् ॥ ऊर्ध्वो भव प्रति विध्याध्यस्मदाविष्कृणुष्व दैव्यान्यग्ने । अव स्थिरा तनुहि यातुजूनां जामिमजामिं प्र मृणीहि शत्रून् ॥ स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुमैरत् । विश्वान्यस्मै सुदिनानि रायो द्युम्नान्यर्यो वि दुरो अभि द्यौत् ॥ सेदग्ने अस्तु सुभगस्सुदानुर्यस्त्वा नित्येन हविषा य उक्थैः । पिप्रीषति स्व आयुषि दुरोणे विश्वेदस्मै सुदिना सासदिष्टिः ॥ अर्चामि ते सुमतिं घोष्यर्वाक् सन्ते वावाता जरतामियं गीः । स्वश्वास्त्वा सुरथा मर्जये मास्मे क्षत्राणि धारयेरनु द्यून् ॥ इह त्वा भूर्या चरे दुपत्मन्दोषावस्तर्दी दिवाꣳसमनु द्यून् । क्रीडन्तस्त्वा सुमनसस्सपेमाभि द्युम्ना तस्थिवाꣳसो जनानाम् ॥ यस्त्वा स्वश्वस्सु हिरण्यो अग्न उपयाति वसुमता रथेन । तस्य त्राता भवसि तस्य सखा यस्त आतिथ्यमानुषग् जुजोषत् ॥ महो रुजामि बन्धुता वचोभिस्तन्मा पितुर्गोतमादन्वियाय । त्वन्नो अस्य वचसश्चिकिद्धि होतर्यविष्ठ सुक्रतो दमूनाः ॥ अस्वप्नजस्तरणयस्सुशेवा अतन्द्रासोऽवृका अश्रमिष्ठाः । ते पायवस्सध्रियञ्चो निषद्याऽग्ने तव नः पान्त्वमूर ॥ ये पायवो मामतेयन्ते अग्ने पश्यन्तो अन्धन्दुरितादरक्षन् । ररक्ष तान्त्सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह देभुः ॥ त्वया वयꣳ सधन्यस्त्वोतास्तव प्रणीत्याश्याम वाजान् । उभा शꣳसा सूदय सत्यतातेऽनुष्ठुया कृणुह्यह्रयाण ॥ अया ते अग्ने समिधा विधेम प्रति स्तोमꣳ शस्यमानं गृभाय । दहाशसो रक्षसः पाह्यस्मान्द्रुहो निदो मित्रमहो अवद्यात् ॥ रक्षोहणं वाजिनमाऽऽजिघर्मि मित्रं प्रथिष्ठमुपयामि शर्म । शिशानो अग्निः क्रतुभिस्समिद्धस्स नो दिवा स रिषः पातु नक्तम् ॥ विज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा । प्रादेवीर्मायास्सहते दुरेवाः शिशीते श‍ृङ्गे रक्षसे विनिक्षे ॥ उत स्वानासो दिविषन्त्वग्नेस्तिग्मायुधा रक्षसे हन्त वा उ । [मदे चिदस्य प्ररुजन्ति भामा न वरन्ते परिबाधो अदेवीः ॥ ] (The line in [ ] is usually not chanted for auspicious occasions and is included for completeness.) इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । अस्माकमस्तु केवलः । इन्द्रन्नरो नेमधिता हवन्ते यत्पार्या युनजते धियस्ताः । शूरो नृषाता शवसश्वकान आ गोमति व्रजे भजा त्वन्नः । इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु । इन्द्र तानि त आ वृणे । अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वमनु वृत्रहत्यै । अनु क्षत्रमनु सहो यजत्रेन्द्र देवेभिरनु ते नृषह्ये । आ यस्मिन्त्सप्त वासवास्तिष्ठन्ति स्वारुहो यथा । ऋषिर्ह दीर्घश्रुत्तम इन्द्रस्य घर्मो अतिथिः । आमासु पक्वमैरय आसूर्यꣳ रोहयो दिवि । घर्मन्न सामन्तपता सुवृक्तिभिर्जुष्टं गिर्वणसे गिरः । इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः । इन्द्रं वाणीरनूषत । गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः । ब्रह्माणस्त्वा शतक्रतवुद्वꣳ शमिव येमिरे । अꣳहोमुचे प्र भरेमा मनीषा मोषिष्ठदाव्ने सुमतिं गृणानाः । इदमिन्द्र प्रति हव्यं गृभाय सत्याः सन्तु यजमानस्य कामाः । विवेष यन्मा धिषणा जजान स्तवै पुरा पार्यादिन्द्रमह्नः । अꣳहसो यत्र पीपरद्यथा नो नावेव यान्तमुभये हवन्ते । प्र सम्राजं प्रथममध्वरणामꣳ हो मुचं वृषभं यज्ञियानाम् । अपान्नपातमश्विना हयन्तमस्मिन्नर इन्द्रियं धत्तमोजः । वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । अधस्पदन्तमीं कृधि यो अस्माꣳ अभिदासति । इन्द्र क्षत्रमभि वाममोजोऽजायथा वृषाभ चर्षणीनाम् । अपानुदो जनममित्र यन्तमुरुं देवेभ्यो अकृणोरु लोकम् । मृगो न भीमः कुचरो गिरिष्ठाः परावतः आ जगामा परस्याः । सृकꣳ सꣳशाय पविमिन्द्र तिग्मं विशत्रून् ताढि विमृधो नुदस्व । वि शत्रून् वि मृधो नुद वि वृत्रस्य हनू रुज । विमन्युमिन्द्र भामितोऽमित्रस्याभिदासतः । त्रातारमिन्द्रमवितारमिन्द्रꣳ हवे हवे सुहवꣳ शूरमिन्द्रम् । हुवे नु शक्रं पुरुहूतमिन्द्रꣳ स्वस्ति नो मघवा धात्विन्द्रः । मा ते अस्याꣳ सहसावन् परिष्टावधाय भूम हरिवः परादै । त्रायस्व नोऽवृकेभिर्वरुथैस्तव प्रियासस्सूरिषु स्याम । अनवस्ते रथमश्वाय तक्षन् त्वष्टा वज्रं पुरुहूत द्युमन्तम् । ब्रह्माण इन्द्रं महयन्तो अर्कैरवर्धयन्नहये हन्त वा उ । वृष्णे यत् ते वृषणो अर्कमर्चानिन्द्र ग्रावाणो अदितिस्सजोषाः । अनश्वासो ये पवयोऽरथा इन्द्रेषिता अभ्यवर्तन्त दस्यून् । यत इन्द्र भयामहे ततो नो अभयं कृधि । मघवञ्छग्धि तव तन्न ऊतये विद्विषो विमृधो जहि । स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी । वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयंकरः । महाꣳ इन्द्रो वज्रबाहुः षोडशी शर्म यच्छतु । स्वस्ति नो मघवा करोतु हन्तु पाप्मानं योऽस्मान् द्वेष्टि । सजोषा इन्द्र सगणो मरुद्भिस्सोमं पिब वृत्रहञ्छूर विद्वान् । जहि शत्रूꣳरपमृधोनुदस्वाथाभयं कृणु हि विश्वतो नः । ये देवाः पुरस्सदोऽग्नि नेत्रा रक्षोहणस्तेनः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहा ये देवा दक्षिणसदो यमनेत्रा रक्षोहणस्तेनः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहा ये देवा पश्चात् सदसवितृ नेत्रा रक्षोहणस्तेनः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहा ये देवा उत्तरसदो वरुणनेत्रा रक्षोहणस्तेनः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहा ये देवा उपरिषदो बृहस्पतिनेत्रा रक्षोहणस्तेनः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहाऽग्नये रक्षोघ्ने स्वाहा यमाय रक्षोघ्ने स्वाहा सवित्रे रक्षोघ्ने स्वाहा वरुणाय रक्षोघ्ने स्वाहा॒ बृहस्पतये दुवस्पते रक्षोघ्ने स्वाहा । अग्निरायुष्मान्त्स वनस्पतिभिरायुष्मान्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । सोम आयुष्मान्त्स ओषधीभिरायुष्मान्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । यज्ञ आयुष्मान्त्स दक्षिणाभिरायुष्मान्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । ब्रह्मायुष्मत्तद् ब्राह्मणैरायुष्मत्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । देवा आयुष्मंतस्तेऽमृतेनायुष्मंतस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । या वामिन्द्रा वरुणा यतव्या तनूस्तयेममꣳ हसो मुंचतम् । या वामिन्द्रा वरुणा सहस्या तनूस्तयेममꣳ हसो मुंचतम् । या वामिन्द्रा वरुणा रक्षस्या तनूस्तयेममꣳ हसो मुंचतम् । या वामिन्द्रा वरुणा तेजस्या तनूस्तयेममꣳ हसो मुंचतम् । यो वामिन्द्रा वरुणावग्नौ स्रामस्तं वामेतेनाव यजे यो वामिन्द्रा वरुणा द्विपात्सु पशुषु स्रामस्तं वामेतेनाव यजे यो वामिन्द्रा वरुणा चतुष्पत्सु पशुषु स्रामस्तं वामेतेनाव यजे यो वामिन्द्रा वरुणा गोष्ठे स्रामस्तं वामेतेनाव यजे यो वामिन्द्रा वरुणा गृहेषु स्रामस्तं वामेतेनाव यजे यो वामिन्द्रा वरुणाप्सु स्रामस्तं वामेतेनाव यजे यो वामिन्द्रा वरुणौषधीषु स्रामस्तं वामेतेनाव यजे यो वामिन्द्रा वरुणा वनस्पतिषु स्रामस्तं वामेतेनाव यजे ॥ अग्नेयशस्विन्यशसे ममर्पयेन्द्रावतीमपचितीमिहावह । अयं मूर्धा परमेष्ठी सुवर्चास्समानानामुत्तमश्लोको अस्तु ॥ भद्रं पश्यन्त उपसेदुरग्रे तपो दीक्षामृषयः सुवर्विदः । ततः क्षत्रं बलमोजश्च जातं तदस्मै देवा अभि सन्नमन्तु ॥ धाता विधात परमोतसंधृक् प्रजापतिः परमेष्ठी विराजा । स्तोमाश्छंदाꣳसि निविदोम आहुरेतस्मै राष्ट्रमभिसन्नमाम ॥ अभ्यावर्तध्वमुपमेतसाक मयꣳ शास्ताऽधिपतिर्वो अस्तु । अस्य विज्ञानमनुसꣳरभध्वमिमं पश्चादनु जीवाथ सर्वे॥ ॥ राष्ट्रभृतम् ॥ ऋताषाडृतधामाग्निर्गन्धर्वस्स इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा । तस्यौषधयोऽप्सरस ऊर्जो नाम ता इदं ब्रह्मक्षत्रं पान्तु ताभ्यः स्वाहा । सꣳहितो विश्वसामा सूर्यो गन्धर्वः स इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा । तस्य मरीचयोऽप्सरस आयुवो नाम ता इदं ब्रह्मक्षत्रं पान्तु ताभ्यः स्वाहा । सुषुम्नः सूर्यरश्मिश्चन्द्रमा गन्धर्वः स इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा । तस्य नक्षत्राण्यऽप्सरसो बेकुरयो नाम ता इदं ब्रह्मक्षत्रं पान्तु ताभ्यः स्वाहा । भुज्युस्सुपर्णो यज्ञो गन्धर्वः स इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा । तस्य दक्षिणा अप्सरसस्तवा नाम ता इदं ब्रह्मक्षत्रं पान्तु ताभ्यः स्वाहा । प्रजापतिर्विश्वकर्मा मनो गन्धर्वः स इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा । तस्यर्क्सामान्यप्सरसो वह्णयो नाम ता इदं ब्रह्मक्षत्रं पान्तु ताभ्यः स्वाहा । इषिरो विश्वव्यचा वातो गन्धर्वः स इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा । तस्यापोऽप्सरसो मुदा नाम ता इदं ब्रह्मक्षत्रं पान्तु ताभ्यः स्वाहा । भुवनस्य पते यस्य त उपरि गृहा इह च । सनोरास्वाज्यानिꣳ रायस्पोषाꣳ सुवीर्यꣳ संवत्सरीणाꣳ स्वस्तिꣳ स्वाहा । परमेष्ठयधिपतिर्मृत्युर्गन्धर्वः स इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा । तस्य विश्वमप्सरसो भुवो नाम ता इदं ब्रह्मक्षत्रं पान्तु ताभ्यः स्वाहा । सुक्षितिस्सुभूतिर्भद्रकृत्सुवर्वान्पर्जन्यो गन्धर्वः स इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा । तस्य विद्युतोऽप्सरसो रुचो नाम ता इदं ब्रह्मक्षत्रं पान्तु ताभ्यः स्वाहा । दूरे हेतिरमृडयो मृत्युर्गन्धर्वः स इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा । तस्य प्रजा अप्सरसो भीरुवो नाम ता इदं ब्रह्मक्षत्रं पान्तु ताभ्यः स्वाहा । चारुः कृपणकाशी कामो गन्धर्वः स इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा । तस्याधयोऽप्सरसश्शोचयतीर्नाम ता इदं ब्रह्मक्षत्रं पान्तु ताभ्यः स्वाहा । सनो भुवनस्य पते यस्य त उपरि गृहा इह च । उरुब्रह्मणेस्मै क्षत्राय महि शर्म यच्छ स्वाहा॥ नमो अस्तु सर्पेभ्यो ये के च पृथिवीमनु । ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥ येऽदो रोचने दिवो ये वा सूर्यस्य रश्मिषु । येषामप्सु सदः कृतं तेभ्यः सर्पेभ्यो नमः ॥ या इषवो यातुधानानां ये वा वनस्पतीꣳरनु । ये वाऽवटेषु शेरते तेभ्यः सर्पेभ्यो नमः ॥ ॥ पंचचोडाः ॥ अयम्पुरो हरिकेशः सूर्यरश्मिस्तस्य रथगृत्सश्च रथौजाश्च सेनानिग्रामण्यौ पुञ्जिकस्थला च कृतस्थला चाप्सरसौ यातुधाना हेति रक्षꣳसि प्रहेतिस्तेभ्यो नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जंभे दधामि । अयं दक्षिणा विश्वकर्मा तस्य रथस्वनश्च रथे चित्रश्च सेनानिग्रामण्यौ मेनका च सहजन्या चाप्सरसौ दङ्क्ष्णवः पशवो हेति पौरुषेयोवधः प्रहेतिस्तेभ्यो नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जंभे दधामि । अयं पश्चाद्विश्वव्यचास्तस्य रथप्रोतश्चासमरथश्च सेनानिग्रामण्यौ प्रम्लोचन्ती चानुम्लोचन्ती चाप्सरसौ सर्पा हेतिर्व्याघ्राः प्रहेतिस्तेभ्यो नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जंभे दधामि । अयमुत्तरात्संयद्वसुस्तस्य सेनजिच्च सुषेणश्च सेनानिग्रामण्यौ विश्वाची च घृताची चाप्सरसावापो हेतिर्वातः प्रहेतिस्तेभ्यो नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जंभे दधामि । अयमुपर्यर्वाग्वसुस्तस्य तार्क्ष्यश्चारिष्टनेमिश्च सेनानिग्रामण्यावुर्वशी पूर्वचित्तिश्चाप्सरसौ विद्युद्धेतिरवस्फूर्जन्प्रहेतिस्तेभ्यो नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जंभे दधामि । ॥ अप्रतिरथम् ॥ आशुः शिशानो वृषभो न युध्मो घनाघनः क्षोभणश्चर्षणीनाम् । संक्रन्दनोऽनिमिष एकवीरः शतꣳ सेना अजयत्साकामिन्द्रः ॥ संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना । तदिन्द्रेण जयत तत् सहध्वं युधो नर इषुहस्तेन वृष्णा॥ स इषुहस्तैः स निषङ्गिभिर्वशी सꣳस्रष्टा स युध इन्द्रो गणेन । सꣳसृष्टजित् सोमपा बाहुशर्ध्यूर्ध्वधन्वा प्रतिहिताभिरस्ता॥ बृहस्पते परि दीयारथेन रक्षोहाऽमित्राꣳ अपबाधमानः । प्रभञ्जन्त्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानाम् ॥ गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा । इमꣳ सजाता अनु वीरयध्वमिन्द्रꣳ सखायोऽनु सꣳ रभध्वम् ॥ बलविज्ञायः स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः । अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित् ॥ अभिगोत्राणि सहसा गाहमानोऽदायो वीरश्शतमन्युरिन्द्रः । दुश्च्यवनः पृतनाषाडयुद्ध्योऽस्माकꣳ सेना अवतु प्र युत्सु ॥ इन्द्र आसां नेता बृहस्पतिर्दक्षिन्णा यज्ञः पुर एतु सोमः । देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रे ॥ इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुताꣳ शर्ध उग्रम् । महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥ अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु । अस्माकं वीरा उत्तरे भवन्त्वस्मानु देवा अवता हवेषु ॥ उद्धर्षय मघवन्नायुधान्युत् सत्वनां मामकानां महाꣳसि । उद् वृत्रहन् वाजिनां वाजिनान्युद्रथानां जयतामेतु घोषः ॥ उप प्रेत जयता नरः स्थिरा वस्सन्तु बाहवः । इन्द्रो वश्शर्म यच्छत्वनाधृष्या यथाऽसथ ॥ अवसृष्टा परा पत शरव्ये ब्रह्मसꣳशिता । गछामित्रान् प्रविश मैषां कं चनोच्छिषः ॥ मर्माणि ते वर्मभिश्छादयामि सोमस्त्वा राजाऽमृतेनाभिऽवस्ताम् । उरोर्वरीयो वरिवस्ते अस्तु जयन्तं त्वामनु मदन्तु देवाः ॥ यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव । इन्द्रो नस्तत्र वृत्रहा विश्वाहा शर्म यच्छतु ॥ शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सूश्च मे प्रसूश्च मे सीरं च मे लयश्च म ऋतं च मेऽमृतं च मेऽयक्ष्मं च मेऽनामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मे सुगं च मे शयनं च मे सूषा च मे सुदिनं च मे ॥ ॥ विहव्यम् ॥ ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तनुवं पुषेम । मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाऽध्यक्षेण पृतना जयेम ॥ मम देवा विहवे सन्तु सर्व इन्द्रावन्तो मरुतो विष्णुरग्निः । ममान्तरिक्षमुरु गोपमस्तु मह्यं वातः पवतां कामे अस्मिन् ॥ मयि देवा द्रविणमा यजन्तां मय्याशीरस्तु मयि देवहूतिः । दैव्या होतारा वनिषन्त पूर्वेऽरिष्टास्स्याम तनुवा सुवीराः ॥ मह्यं यजन्तु मम यानि हव्याऽऽकूतिः सत्या मनसो मे अस्तु । एनो मा नि गां कतमच्चनाहं विश्वे देवासो अधि वोचता मे ॥ देवीर्ष्षडुर्र्वीरुरुणः कृणोत विश्वे देवास इह वीरयध्वम् । मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम रजन् ॥ अग्निर्मन्युं प्रतिनुदन् पुरस्ताददब्धो गोपाः परिपाहि नस्त्वम् । प्रत्यञ्चो यन्तु निगुतः पुनस्तेऽमैषां चित्तं प्रबुधा विनेशत् ॥ धाता धातृणां भुवनस्य यस्पतिर्देवꣳ सवितारमभिमातिषाहम् । इमं यज्`नमश्विनोभा बृहस्पतिर्देवाः पान्तु यजमानन्नयर्थात् ॥ उरुव्यचा नो महिषश्शर्म यꣳसदस्मिन् हवे पुरुहूतः पुरुक्षु । स नः प्रजायै हर्यश्व मृडयेन्द्र मा नो रीरिषो मा परा दाः ॥ येनस्सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामहे तान् । वसवो रुद्रा आदित्या उपरिस्पृशं मोग्रं चेत्तारमधिराजमक्रन् ॥ अर्वाञ्चमिन्द्रममुतो हवामहे यो गोजिद्धनजिदश्वजिद्यः । इमं नो यज्ञं विहवे जुषस्वास्य कुर्मो हरिवो मेदिनं त्वा ॥ ॥ मृगारम् ॥ अग्नेर्मन्वे प्रथमस्य प्रचेतसो यं पाञ्चजन्यं बहवस्समिन्धते । विश्वस्यां विशि प्रविविशिवाꣳ समीमहे स नो मुञ्चत्वꣳ हसः ॥ यस्येदं प्राणन्निमिषद्यदेजति यस्य जातं जनमानं च केवलम् । स्तौम्यग्निं नाथितो जोहवीमि सनो मुञ्चत्वꣳ हसः ॥ इन्द्रस्य मन्ये प्रथमस्य प्रचेतसो वृत्रघ्नः स्तोमा उप मामुपागुः । यो दाशुषः सुकृतो हवमुप गन्ता स नो मुञ्चत्वꣳ हसः ॥ यः संग्रामं नयति संवशी युधे यः पुष्टानि सꣳसृजति त्रयाणि । स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्वꣳ हसः ॥ मन्वे वां मित्रावरुणा तस्य वित्तꣳ सत्यौजसा दृꣳहणा यन्नुदेथे । या राजानꣳ सरथं याथ उग्रा ता नो मुञ्चतमागसः ॥ यो वाꣳ रथ ऋजुरश्मिः सत्यधर्मा मिथुश्चरन्तमुपयाति दूष्यन् । स्तौमि मित्रावरुणा नाथितो जोहवीमि तौ नो मुंचतमागसः । वायोस्सवितुर्विदथानि मन्महे यावात्मन्वद्बिभृतो यौ च रक्षतः । यौ विश्वस्य परिभू बभूवतुस्तौ नो मुञ्चतमागसः ॥ उपश्रेष्टा न आशिषो देवयोर्धर्मे अस्थिरन् । स्तौमि वायुꣳ सवितारं नाथितो जोहवीमि तौ नो मुंचतमागसः ॥ रथीतमौ रथीनामह्व ऊतये शुभं गमिष्ठौ सुयमेभिरश्वैः । ययोर्वां देवौ देवेष्वनिशितमोजस्तौ नो मुञ्चतमागसः ॥ यदयातं वहतुꣳ सूर्यायास्त्रिचक्रेण सꣳ सदमिच्छमानौ । स्तौमि देवावश्विनौ नाथितो जोहवीमि तौ नो मुञ्चतमागसः ॥ मरुतां मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वामवन्तु विश्वे । आशून्हुवे सुयमानूतये ते नो मुञ्चत्वेनसः ॥ तिग्ममायुधं वीडितꣳ सहस्वद्दिव्यꣳ शर्दः पृतनासु जिष्णु । स्तौमि देवान्मरुतो नाथितो जोहवीमि ते नो मुञ्चत्वेनसः ॥ देवानां मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वामवन्तु विश्वे । आशून् हुवे सुयमानूतये ते नो मुञ्चत्वेनसः ॥ यदिदं माऽभिशोचति पौरुषेयेण दैव्येन । स्तौमि विश्वान्देवान्नथितो जोहवीमि ते नो मुञ्चत्वेनसः ॥ अनुनोऽद्यानुमतिर्यज्ञं देवेषु म् अन्यताम् । अग्निश्च हव्यवाहनो भवतांदाशुषे मयः ॥ अन्विदनुमते त्वं मन्यासै शं च नः कृधि । क्रत्वे दक्षाय नो हि नु प्रण आयूꣳषि तारिषः ॥ वैश्वानरो न ऊत्याऽऽप्र यातु परावतः । अग्निरुक्थेन वाहसा ॥ पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषदीराविवेश । वैश्वानरसहसा पृष्टो अग्निस्सनो दिवा सारिषः पातु नक्तम् ॥ ये अप्रथेताममितेभिरोजोभिर्ये प्रतिष्ठे अभवतां वसूनाम् । स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतमꣳहसः ॥ उर्वी रोदसी वरिवः कृणोतं क्षेत्रस्य पत्नी अधि नो ब्रूयतम् । स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतमꣳहसः ॥ यत् ते वयं पुरुषत्रा यविष्ठायविष्ठा विद्वाꣳसश्चकृमा कच्चनाऽऽगः । कृधी स्वस्माꣳ अदितेरनागा व्येनाꣳसि शिश्रथो विष्वगग्ने ॥ यथाह तद्वसवो गौर्यं चित् पदिषिताममुञ्चता यजत्राः । एवा त्वमस्मत् प्र मुञ्चाव्यꣳहः प्रातार्यग्ने प्रतरान्न आयुः ॥ ॥ सर्पाहुतीः ॥ समीची नामासि प्राचीदिक्तस्यास्तेऽग्निरधिपतिरसितो रक्षिता यश्चादिपतिर्यश्च गोप्ता ताभ्यां नमस्तौ नो मृडयतां ते यं द्विष्मो यश्च नो द्वेष्टि तं वां जंभे दधामि । ओजस्विनी नामासि दक्षिणा दिक्तस्यास्त इन्द्रोऽधिपतिः पृदाकू रक्षिता यश्चादिपतिर्यश्च गोप्ता ताभ्यां नमस्तौ नो मृडयतां ते यं द्विष्मो यश्च नो द्वेष्टि तं वां जंभे दधामि । प्राची नामासि प्रतीची दिक्तस्यास्ते सोमोऽधिपतिः स्वजो रक्षिता यश्चादिपतिर्यश्च गोप्ता ताभ्यां नमस्तौ नो मृडयतां ते यं द्विष्मो यश्च नो द्वेष्टि तं वां जंभे दधामि । अवस्थावा नामास्युदीची दिक्तस्यास्ते वरुणोऽधिपतिस्तरश्च राजी रक्षिता यश्चादिपतिर्यश्च गोप्ता ताभ्यां नमस्तौ नो मृडयतां ते यं द्विष्मो यश्च नो द्वेष्टि तं वां जंभे दधामि । अधिपत्नी नामासि बृहती दिक्तस्यास्ते बृहस्पतिरधिपतिः श्वित्रो रक्षिता यश्चादिपतिर्यश्च गोप्ता ताभ्यां नमस्तौ नो मृडयतां ते यं द्विष्मो यश्च नो द्वेष्टि तं वां जंभे दधामि । वशिनी नामासीयं दिक्तस्यास्ते यमोऽधिपतिः कल्माषग्रीवो रक्षिता यश्चादिपतिर्यश्च गोप्ता ताभ्यां नमस्तौ नो मृडयतां ते यं द्विष्मो यश्च नो द्वेष्टि तं वां जंभे दधामि ॥ ॥ गन्धर्वाहुतीः ॥ हेतयो नामस्थ तेषां वः पुरो गृहा अग्निर्व इषवः सलिलो वातनामं तेभ्यो वो नमस्तेनो मृडयत ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जंभे दधमि । निलिम्पा नामस्थ तेषां वो दक्षिणा गृहा पितरो वैषवः सगरो वातनामं तेभ्यो वो नमस्तेनो मृडयत ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जंभे दधमि । वज्रिणो नामस्थ तेषां वः पश्चाद्गृहा स्वप्नोव इषवो गह्वरो वातनामं तेभ्यो वो नमस्तेनो मृडयत ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जंभे दधमि । अवस्थावानो नामस्थ तेषां व उत्तरद्गृहा आपोव इषवः समुद्रो वातनामं तेभ्यो वो नमस्तेनो मृडयत ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जंभे दधमि । अधिपतयो नामस्थ तेषां व उपरि गृहा वर्षं व इषवोऽवस्वान् वातनामं तेभ्यो वो नमस्तेनो मृडयत ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जंभे दधमि । क्रव्या नामस्थ पार्थिवातेषां व इह गृहा अन्नं व इषवोऽनिमिषो वातनामं तेभ्यो वो नमस्तेनो मृडयत ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जंभे दधमि । ॥ अज्यानि ॥ शतायुधाय शतवीर्याय शतोतयेऽभिमातिषाहे । शतं यो नः शरदो अजीतानिन्द्रो नेषदति दुरितानि विश्वा॥ ये चत्वारः पथयो देवयाना अंतरा द्यावापृथिवी वियन्ति । तेषां यो अज्यानि मजीति माहवात्तस्मै नो देवाः परिदत्तेह सर्वे॥ ग्रीष्मो हेमन्त उतनो वसन्तः शरद्वर्षाः सुवितन्नो अस्तु । तेषामृतूनाꣳ शतशारदानां निवात एषामभये स्याम ॥ इदुवत्सराय परिवत्सराय संवत्सराय कृणुता बृहन्नमः । तेषां वयꣳ सुमतौ यज्ञियानां ज्योगजीता अहताः स्याम ॥ भद्रान्नः श्रेयः समनैष्ट देवास्त्वयाऽवसेन समशीमहि त्वा । स नो मयोभूः पितो आविशस्व शन्तोकाय तनुवे स्यो नः ॥ भूतं भव्यं भविष्यद्वषट्स्वाहा नम ऋक्सामयजुर्वषट्स्वाहा नमो गायत्रीत्रिष्टुप्जगतीवषट्स्वाहा नमः पृथिव्यन्तरिक्षम् द्यौर्वषट्स्वाहा नमोऽग्निर्वायुः सूर्यो वषट्स्वाहा नमः प्राणो व्यानोऽपानो वषट्स्वाहा नमोऽन्नं कृषिर्वृष्टिर्वषट्स्वाहा नमः पिता पुत्रः पौत्रो वषट्स्वाहा नमो भूर्भुवः सुवर्वषट्स्वाहा नमः । ॥ अथर्वशिरसम् ॥ इन्द्रोदधीचो अस्थभिः । वृत्राण्यप्रतिष्कुतः । जघान नवतीर्नव । इच्छन्नश्वस्य यच्छिरः । पर्वतेष्वपश्रितम् । तद्विदच्छिर्यणावति । अत्राह गोरमन्वत । नाम त्वष्टुरपीच्यम् । इत्थ चन्द्रमसो गृहे । इन्द्रमिद्गाथिनो बृहत् । इन्द्रमर्केभिरर्किणः । इन्द्रं वानीरनूषत । इन्द्र इद्धर्योः सचा । संमिश्ल आवचो युजा । इन्द्रो वज्रीहिरण्ययः । इन्द्रो दीर्घाय चक्षसे । आसूर्यꣳ रोहयद्दिवि । विगोभिरद्रिमैरयत् । इन्द्र वाजेषु नो अव । सहस्रप्रधनेषु च । उग्र उग्राभिरूतिभिः । तमिन्द्रं वाजयामसि । महे वृत्राय हन्तवे । सा वृषा वृषभोऽभुवत् । इन्द्रः स दामने कृतः । ओजिष्ठः सबलेहितः । द्युम्नी श्लोकी ससौम्यः । गिरा वज्रो न संभृतः । सबलो अनपच्युतः । ववक्षुरुग्रो अस्तृतः । ॥ प्रत्यंगिरसम् ॥ चक्षुषो हेते मनसो हेते । वाचोहेते ब्रह्मणो हेते । योमाऽघायुरभिदासति । तमग्ने मेन्याऽमेनिं कृणु । यो मा चक्षुषा यो मनस । यो वाचा ब्रह्मणाघायुरभिदासति । तयाऽग्ने त्वं मेन्या । अमुममेनिं कृणु । यत्किञ्चासौ मनसा यच्च वाचा । यज्ञैर्जुहोति यजुष हविर्भिः । तन्मृत्युर्निरृत्या संविदानः । पुरादिष्टादाहुतीरस्य हन्तु । यातुधाना निरृतिरादु रक्षः । ते अस्यघ्नन्त्वनृतेन सत्यम् । इन्द्रेषिता आज्यमस्य मथ्नन्तु । मा तत्समृद्धि यदसौ करोति । हन्मि तेऽहं कृतꣳहविः । यो मे घोरमचीकृतः । अपां चौत उभौ बाहू । अपनह्याम्यास्यम् । अपनह्यामि ते बाहू । अपनह्याम्यास्यम् । अग्नेर्देवस्य ब्रह्मणा । सर्वं तेऽवधिषंकृतम् । पुराऽमुष्य वषट्कारात् । यज्ञं देवेषु नस्कृधि । स्विष्टमस्माकं भ्यूयात् । माऽस्मान् प्रापन्नरातयः । अन्तिदूरे सतो अग्ने । भ्रातृव्यस्याभिदासतः । वषट्कारेण वज्रेण । कृत्याꣳहन्मि कृतामहम् । यो मा नक्तं दिवा सायम् । प्रातश्चाह्नो निपीयति । अद्यातमिन्द्र वज्रेण । भ्रातृव्यं पादयामसि । प्राणो रक्षति विश्वमेजत् । इर्यो भूत्वा बहुदा बहूनि । स इत्सर्वं व्यानशे । यो देवो देवेषु विभूरन्तः । आवृदूदात् क्षेत्रियध्वगद्वृषा । तमित्प्राणं मनसोपशिक्षत । अग्रं देवानामिदमत्तु नो हविः । मनसश्चित्तेदम् । भूतं भव्यं च गुप्यते । तद्धिदेवेष्वग्रियम् । आ न एतुपुरश्चरम् । सह देवैरिमꣳ हवम् । मनः श्रेयसि श्रेयसि । कर्मन्यज्ञपतिं दधत् । जुषतां मे वागिदꣳ हविः । विराड् देवी पुरोहिता । हव्यवाडनपायिनी । यया रूपाणि बहुदा वदन्ति । पेशाꣳसि देवाः परमे जनित्रे । सा नो विराडनपस्फुरन्ति । वाग्देवी जुषतामिदꣳ हविः । चक्षुर्देवानां ज्योतिरमृते न्यक्तम् । अस्य विज्ञानाय बहुधा निधीयते । तस्य सुम्नमशीमहि । मा नो हासीद्विचक्षणम् । आयुरिन्नः प्रतीर्यताम् । अनन्धाश्चक्षुषावयम् । जीवा ज्योतिरशीमहि । सुवर्ज्योतिरुतामृतम् । श्रोत्रेण भद्रमुत श‍ृण्वन्ति सत्यम् । श्रोत्रेण वाचं बहुधोद्यमानाम् । श्रोत्रेण मोदश्च महश्च श्रूयते । श्रोत्रेण सर्वा दिश आश‍ृणोमि । येन प्राच्या उत दक्षिणा । प्रतीच्यैदिशः श‍ृण्वन्त्युत्तरात् । तदिच्छ्रोत्रं बहुधोद्यमानम् । अरान्ननेमिः परिसर्वं बभूव । सिꣳहे व्याघ्र उत या पृदाकौ । त्विषिरग्नौ ब्राह्मणे सूर्येया । इन्द्रं या देवी सुभगा जजान । सा न आगन्वर्चसा संविदाना । या राजन्ये दुन्दुभावायतायाम् । अश्वस्य क्रन्द्येपुरुषस्य मायौ । इन्द्रं या देवी सुभगा जजान । सा न आगन्वर्चसा संविदाना । या हस्तिनि द्वीपिनि या हिरण्ये । त्विषिरश्वेषु पुरुषेषु गोषु । इन्द्रं या देवी सुभगा जजान । सा न आगन्वर्चसा संविदाना । रथेअक्षेषु वृषभस्य वजे । वाते पर्जन्ये वरुणस्य शुष्मे । इन्द्रं या देवी सुभगा जजान । सा न आगन्वर्चसा संविदाना । राडसि विराडसि । सम्राडसि स्वराडसि । इन्द्राय त्वा तेजस्वते तेजस्वन्तꣳ श्रीणामि । इन्द्राय त्वौजस्वत ओजस्वन्तꣳ श्रीणामि । इन्द्राय त्वा पयस्वते पयस्वन्तꣳ श्रीणामि । इन्द्राय त्वाऽऽयुष्मत आयुष्मन्तꣳ श्रीणामि । तेजोऽसि । तत्ते प्रयच्छामि । तेजस्वदस्तु मे मुखम् । तेजस्वच्छिरो अस्तु मे । तेजस्वान् विश्वतः प्रत्यङ् । तेजसा सम्पिपृग्धि मा । ओजोऽसि । तत्ते प्रयच्छामि । ओजस्वदस्तु मे मुखम् । ओजस्वच्छिरो अस्तु मे । ओजस्वान् विश्वतः प्रत्यङ् । ओजसा सम्पिपृग्धि मा । पयोऽसि । तत्ते प्रयच्छामि । पयस्वदस्तु मे मुखम् । पयस्वच्छिरो अस्तु मे । पयस्वान् विश्वतः प्रत्यङ् । पयसा सम्पिपृग्धि मा । आयुरसि । तत्ते प्रयच्छामि । आयुष्मदस्तु मे मुखम् । आयुष्मच्छिरो अस्तु मे । आयुष्मान् विश्वतः प्रत्यङ् । आयुषा सम्पिपृग्धि मा । इममग्न आयुषे वर्चसे कृधि । प्रियꣳरेतो वरुण सोम राजन् । मातेवास्मा अदिते शर्म यच्छ । विश्वेदेवा जरदष्टिर्यथाऽसत् । आयुरसि विश्वायुरसि । सर्वायुरसि सर्वमायुरसि । यतो वातो मनोजवाः । यतः क्षरन्ति सिन्धवः । तासान्त्वा सर्वासाꣳ रुचा । अभिषिंचामि वर्चसा । समुद्र इवासि गह्मना । सोम इवास्यदाभ्यः । अग्निरिव विश्वतः प्रत्यङ् । सूर्य इव ज्योतिषा विभूः । अपां यो द्रवणे रसः । तमहमस्मा आमुष्यायणाय । तेजसे ब्रह्मवर्चसाय गृह्णामि । अपां यो ऊर्मौ रसः । तमहमस्मा आमुष्यायणाय । ओजसे वीर्याय गृह्णामि । अपां यो मध्यतो रसः । तमहमस्मा आमुष्यायणाय । पुष्टै प्रजननाय गृह्णामि । अपां यो यज्ञियो रसः । तमहमस्मा आमुष्यायणाय । आयुषे दीर्घायुत्वाय गृह्णामि । अहमस्मि प्रथमजा ऋतस्य । पूर्वं देवेभ्यो अमृतस्य नाभिः । यो मा ददाति स इदेव मा वाः । अहमन्नमन्नमदन्तमद्मि । पूर्वमग्नेरपि दहत्यन्नं । यत्तो हासाते अहमुत्तरेषु । व्यात्तमस्य पशवस्सुजम्भम् । पश्यन्ति धीरा प्रचरन्ति पाकाः । जहाम्यन्यन्नजहाम्यन्यम् । अहमन्नं वशमिच्चरामि । समानमर्थं पर्येमि भुंजत् । को मामन्नं मनुष्यो दयेत । पराके अन्नं निहितं लोक एतत् । विश्वैर्देवैः पितृभिर्गुप्तमन्नम् । यदद्यते लुप्यते यत्परोप्यते । शततमी सा तनूर्मे बभूव । महान्तौ चरू सकृद्दुग्धेन पप्रौ । दिवंच पृश्ञि पृथिवीं च साकम् । तत्सम्पिबन्तो न मिनन्ति वेधसः । नैतद्भूयो भवति नो कनीयः । अन्नं प्राणमन्नमपानमाहुः । अन्नं मृत्युं तमु जीवातुमाहुः । अन्नं ब्रह्माणो जरसं वदन्ति । अन्नमाहुः प्रजननं प्रजानाम् । मोघमन्नं विन्दते अप्रचेताः । सत्यं ब्रवीमि वध इत्स तस्य । नार्यमणं पुष्यति नो सखायम् । केवलाघो भवति केवलादि । अहं मेघस्तनयन्वर्षन्नस्मि । मामदन्त्यहमद्यन्यान् । अहꣳसदमृतो भवामि । मदादित्या अधि सर्वे तपन्ति । देवीं वाचमजनयन्त देवाः । तां विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषमूर्जं दुहाना । धेनुर्वागस्मानुपसुष्टुतैतु । यद्वाग्वदन्त्यविचेतनानि । राष्त्री देवानान्निषसादमन्द्रा । चतस्र ऊर्जंदुदुहे पयाꣳसि।क्वस्विदस्याः परमं जगाम । अनन्तामन्तादधि निर्मितां महीम् । यस्यां देवा अदधुर्भोजनानि । एकाक्षरमां द्विपदाꣳषत्पदाञ्च । वाचं देवा उपजीवन्ति विश्वे । वाचं देवा उपजीवन्ति विश्वे । वाचं गन्धर्वाः पशवो मनुष्याः । वाचीमाविश्वा भुवनान्यर्पिता । सा नो हवं जुषतामिन्द्रपत्नी । वागक्षरं प्रथमजा ऋतस्य । वेदानां माताऽमृतस्य नाभिः । सानो जुषाणोप यज्ञमागात् । अवन्ती देवी सुहवामे अस्तु । यामृषयो मन्त्रकृतो मनीषिणः । अन्वैच्छन्देवास्तपसा श्रमेण । तां देवीं वाचꣳहविषा यजामहे । सा नो दधातु सुकृतस्य लोके । चत्वारि वाक्परिमिता पदानि । तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेंगयन्ति । तुरीयं वाचो मनुष्या वदन्ति । श्रद्धयाग्निः समिध्यते । श्रद्धया विन्दते हविः । श्रद्धां भगस्य मूर्धनि।वचया वेदयामसि । प्रियꣳश्रद्धे ददतः । प्रियꣳश्रद्धे दिदासतः । प्रियं भोजेषु यज्वसु । इदं म उदितं कृधि । यथा देवा असुरेषु । श्रद्धामुग्रेषु चक्रिरे । एवं भोजेषु यज्वसु । अस्माकमुदितं कृधि । श्रद्धं देवा यजमानाः । वायुगोपा उपासते । श्रद्धाꣳ हृदय्ययाऽऽकूत्या । श्रद्धया हूयते हविः । श्रद्धां प्रातर्हवामहे । श्रद्धां मध्यंदिनं परि । श्रद्धाꣳ सूर्यस्य निम्रुचि । श्रद्धे श्रद्धापयेह मा । श्रद्धा देवानधिवस्ते । श्रद्ध विश्वमिदं जगत् । श्रद्धां कामस्य मातरम् । हविष वर्धयामसि । ब्रह्मजज्ञानं प्रथमं पुरस्तात् । विसीमतस्सुरुचो वेन आवः । स बुध्निया उपमा अस्य विष्ठाः । सतश्च योनिमसतश्च विवः । पिता विराजामृषभो रयीणाम् । अन्तरिक्षं विश्वरूप आविवेश । तमर्कैरभ्यर्चन्ति वत्सम् । ब्रह्म सन्तं ब्रह्मणा वर्धयन्तः । ब्रह्म देवानजनयत् । ब्रह्म विश्वमिदं जगत् । ब्रह्मणः क्षत्रन्निर्मितम् । ब्रह्म ब्राह्मण आत्मना । अन्तरस्मिन्नेमे लोकाः । अन्तर्विश्वमिदं जगत् । ब्रह्मैव भूतानां ज्येष्ठम् । तेन कोऽर्हति स्पर्धितुम् । ब्रह्मन्देवास्त्रयस्त्रिꣳशत् । ब्रह्मन्निन्द्रप्रजापती । ब्रह्मन् ह विश्वा भूतानि । नावीवान्तः समाहिता । चतस्र आशाः प्रचरन्त्वग्नयः । इमं नो यज्ञं नयतु प्रजानन् । घृतं पिन्वन्नजरꣳ सुवीरम् । ब्रह्मसमिद्भवत्याहुतीनाम् । आगावो अग्मन्नुत भद्रमक्रन् । सीदन्तु गोष्ठेरणयन्त्वस्मे । प्रजावतीः पुरुरूपा इह स्युः । इन्द्राय पूर्वीरुषसो दुहानाः । इन्द्रो यज्वने पृणते चशिक्षति । उपद्ददाति न स्वं मुषायति । भूयो भूयो रयिमिदस्य वर्धयन् । अभिन्ने खिल्ले निदधाति देवयुम् । न ता नशन्ति न दभाति तस्करः । नैना अमित्रो व्यथिरदधर्षति । देवाꣳश्च याभिर्यजते ददाति च । ज्योगित्ताभिस्सचते गोपतिः सह । न ता अर्वा रेणुक कातो अश्नुते । न सꣳस्कृतत्रपुपयन्ति ता अभि । उरुगायमभयन्तस्य ता अनु । गावो मर्त्यस्य विचिरन्ति यज्वनः । गावो भगो गाव इन्द्रो मे अच्छात् । गावः सोमस्य प्रथमस्य भक्षः । इमा यागावस्सजना स इन्द्रः । इच्छामीद्धृदा मनसा चिदिन्द्रम् । यूयं गावो मेदयथा कृशंचित् । अश्लीलं चित्कृणुथा सुप्रतीकम् । भद्रं गृहं कृणुथ भद्रवाचः । बृहद्वो वय उच्यते सभासु । प्रजावतीः सूयवसꣳरिशन्तीः । शुद्धा अपस्सु प्रपाणे पिबन्तीः । मावस्तेन इशत माघशꣳसः । परिवोहेती रुद्रस्य वृंज्यात् । उपेदमुपपर्चनम् । आसु गोषूप पृच्यताम् । उपषभस्य रेतसि । उपेन्द्र तव वीर्ये । ता सूर्याचन्द्रमसा विश्वभृत्तमामहत् । तेजो वसु मद्राजतो दिवि । सामात्मानाचरतस्साम चारिणा । ययोर्व्रतन्नममे जातुदेवयोः । उभावन्तौ परियात अर्म्या । दिवो नरश्मीꣳस्तनुतोव्यर्णवे । उभा भुवन्तीभुवना कविक्रतू । सूर्या न चन्द्रा चरतो हतामती । पतीद्युमद्विश्वविदा उभा दिवः । सूर्या उभा चन्द्रमसा विचक्षणा । विश्ववारा वरिवो भावरेण्या । ता नोऽवतं मतिमन्ता महिव्रता । विश्व वपरे प्रतरणा तरन्ता । सुवर्विदा दृशये भूरि रश्मी । सूर्या हि चन्द्रा वसुत्वेष दर्शता । मनस्विनो भाऽनुचरतोनुसंदिवम् । अस्य श्रवो नद्यः सप्त बिभ्रति । द्यावाक्षामा पृथिवी दर्शतं वपुः । अस्मे सूर्यां चन्द्रमसाऽभिचक्षे । श्रद्धेकमिन्द्र चरतो विचर्तुरम् । पुर्वापरंचरतोमाययैतौ । शिशू क्रीडन्तौ परियातो अध्वरम् । विश्वान्यन्यो भुवनाऽभिचष्टे । ऋतूनन्यो विदधज्जायते पुनः । हिरण्यवर्णाः शुचयः पावका यासु जातः कश्यपो यास्विन्द्रः । अग्निं या गर्भम् दधिरे विरूपास्तान आपश्शꣳ स्योना भवन्तु ॥ यासाꣳ राजा वरुणो याति मध्ये सत्यानृते अवपश्यम् जनानाम् । मधुश्चुतश्शुचयो याः पावकास्ता न आपश्शꣳ स्योना भवन्तु ॥ यासाम् देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति । याः पृथिवीम् पयसोन्दन्ति शुक्रास्ता न आपश्शꣳ स्योना भवन्तु ॥ शिवेन मा चक्षुषा पश्यतापश्शिवया तनुवोप स्पृशत त्वचम् मे । सर्वाꣳ अग्नीꣳ रप्सुषदो हुवे वो मयि वर्चो बलमोजो निधत्त ॥ आपोभद्रा गृतमिदाप आसुरग्नीषोमौ बिभ्रात्याप इत्ताः । तीव्रो रसो मधुपृचामरंगम आ मा प्राणेन सह वर्च सागन् ॥ आदित्पश्याम्युत वा श‍ृणोम्यामा घोषो गच्छति वाङ् न आसाम् । मन्येभेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदावः ॥ नासदासीन्नो सदासीत्तदानीम् । नासीद्रजो नो व्योमा परो यत् । किमावरिवः कुह कस्य शर्मन् । अम्भः किमासीद्गहनं गभीरम् । न मृत्युरमृतं तर्हि न । रात्रिया अह्न आसीत् प्रकेतः । आनीदवातꣳ स्वधया तदेकम् । तस्माद्धान्यं न परः किंचनास । तम आसीत्तमसा गूढमग्रे प्रकेतम् । सलिलꣳ सर्व मा इदम् । तुच्छेनाभ्वपि हितं यदासीत् । तमसस्तन्महिना जायतैकम् । कामस्तदग्रे समवर्तताधि । मनसो रेतः प्रथमं यदासीत् । स तो बन्धुमसति निरविन्दन् । हृदिप्रतीष्या कवयो मनीषा । तिरश्चीनो विततो रश्मिरेषाम् । अधस्विदासी ३ दुपरिस्विदासी ३ त् । रेतोधा आसन्महिमा न आसन् । स्वधा अवस्तात् प्रयतिः परस्तात् । को अद्धा वेद क इह प्रवोचत् । कुत आ जाता कुत इयं विसृष्टिः । अर्वाग्देवा अस्य विसर्जनाय । अथा को वेदयत आ बभूव । इयं विसृष्टिर्यत आबभूव । यदि वा दधे यदि वा न । यो अस्याध्यक्षः परमे व्योमन् । सो अंग वेद यदि वा न वेद । किꣳस्विद्वनं क उ स वृक्ष आसीत् । यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसापृच्छते दुतत् । यदध्यतिष्टद्भुवनानि धारयन् । ब्रह्म वनं ब्रह्म सवृक्ष आसीत् । यत्तो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा विब्रवीमि वः । ब्रह्माध्यतिष्टद्भुवनानि धारयन् । प्रातरग्निं प्रातरिन्द्रꣳ हवामहे । प्रातर्मित्रावरुणा प्रातरश्विना । प्रातर्भगं पूषणं ब्रह्मणस्पतिम् । प्रातः सोममुत रुद्रꣳ हुवेम । प्रातर्जितं भगमुग्रꣳ हुवेम । वयं पुत्रमदितेर्यो विधर्ता । आघ्रश्चिद्यं मन्यमानस्तुरश्चित् । राजाचिद्यं भगं भक्षीत्याह । भग प्रणेतर्भग सत्यराधः । भगेमां धियमुदवददन्नः । भग प्रणो जनय गोभिरश्वैः । भग प्रनृभिर्नृवन्तः स्याम । उतेदानीं भगवन्तः स्याम । उत प्रपित्व उत मध्य अह्नाम् । उतोदिता मघवन्त्सूर्यस्य । वयं देवानाꣳ सुमतौ स्याम । भग एव भगवाꣳ अस्तु देवाः । तेन वयं भगवन्तः स्याम । तन्त्वा भग सर्व इज्जोहवीमि । सनो भग पुर एता भवेह । समध्वरायोषसोनमन्त । दधिक्रावेव शुचये पदाय । अर्वाचीनं वसुविदं भगन्नः । रथमिवाश्वा वाजिन आवहन्तु । अश्वावतीर्गोमतीर्न उषासः । वीरवतीः सदमुच्छन्तु भद्राः । घृतं दुहाना विश्वतः प्रपीनाः । यूयं पात स्वस्तिभिः सदा नः । अग्निर्नः पातु कृत्तिकाः । नक्षत्रं देवमिन्द्रियम् । इदमासां विचक्षणम् । हविरासं जुहोतन । यस्य भान्ति रश्मयो यस्य केतवः । यस्येमा विश्वा भुवनानि सर्वा । स कृत्तिकाभिरभिसंवसानः । अग्निर्नो देवस्सुविते दधातु ॥ प्रजापते रोहिणीवेतु पत्नी । विश्वरूपा बृहती चित्रभानुः । सा नो यज्ञस्य सुविते दधातु । यथा जीवेम शरदस्सवीराः । रोहिणी देव्युदगात्पुरस्तात् । विश्वा रूपणि प्रतिमोदमाना । प्रजापतिꣳ हविषा वर्धयन्ती । प्रिया देवानामुपयातु यज्ञम् ॥ सोमो राजा मृगशीर्षेण आगन्न् । शिवं नक्षत्रं प्रियमस्य धाम । आप्यायमानो बहुधा जनेषु । रेतः प्रजां यजमाने दधातु । यत्ते नक्षत्रं मृगशीर्षमस्ति । प्रियꣳ राजन् प्रियतमं प्रियाणाम् । तस्मै ते सोम हविषा विधेम । शन्न एधि द्विपदे शं चतुष्पदे ॥ आर्द्रया रुद्रः प्रथमा न एति । श्रेष्ठो देवानां पतिरघ्नियानाम् । नक्षत्रमस्य हविषा विधेम । मा नः प्रजाꣳ रीरिषन्मोत वीरान् । हेति रुद्रस्य परिणो वृणक्तु । आर्द्रा नक्षत्रं जुषताꣳ हविर्नः । प्रमुञ्चमानौ दुरितानि विश्वा । अपाघशꣳसन्नुदतामरातिम् ॥। पुनर्नो देव्यदितिस्पृणोतु । पुनर्वसूनः पुनरेतां यज्ञम् । पुनर्नो देवा अभियन्तु सर्वे । पुनः पुनर्वो हविषा यजामः । एवा न देव्यदितिरनर्वा । विश्वस्य भर्त्री जगतः प्रतिष्ठा । पुनर्वसू हविषा वर्धयन्ती । प्रियम् देवानामप्येतु पाथः ॥ बृहस्पतिः प्रथमं जायमानः । तिष्यम् नक्षत्रमभि संबभूव । श्रेष्ठो देवानां पृतनासुजिष्णुः । दिशोऽनु सर्वा अभयन्नो अस्तु । तिष्यः पुरस्तादुत मध्यतो नः । बृहस्पतिर्नः परिपातु पश्चात् । बाधेतान्द्वेषो अभयं कृणुताम् । सुवीर्यस्य पतयस्याम ॥ इदꣳ सर्पेभ्यो हविरस्तु जुष्टम् । आश्रेषा येषामनुयन्ति चेतः । ये अन्तरिक्षं पृथिवीं क्षियन्ति । ते नस्सर्पासो हवमागमिष्ठाः । ये रोचने सूर्यस्यापि सर्पाः । ये दिवं देवीमनुसञ्चरन्ति । येषामश्रेषा अनुयन्ति कामम् । तेभ्यस्सर्पेभ्यो मधुमज्जुहोमि ॥ उपहूताः पितरो ये मघासु । मनोजवसस्सुकृतस्सुकृत्याः । ते नो नक्षत्रे हवमागमिष्ठाः । स्वधाबिर्यज्ञं प्रयतं जुषन्ताम् । ये अग्निदग्धा येऽनग्निदग्धाः । येऽमुल्लोकं पितरः क्षियन्ति । याꣳश्च विद्मयाꣳ उ च न प्रविद्म । मघासु यज्ञꣳ सुकृतम् जुषन्ताम् ॥ गवां पतिः फल्गुनीनामसि त्वम् । तदर्यमन् वरुणमित्र चारु । तं त्वा वयꣳ सनितारꣳ सनीनाम् । जीवा जीवन्तमुप संविशेम । येनेमा विश्वा भुवनानि सञ्जिता । यस्य देवा अनुसंयन्ति चेतः । अर्यमा राजाऽजरस्तु विष्मान् । फल्गुनीनामृषभो रोरवीति ॥ श्रेष्ठो देवानाम् भगवो भगासि । तत्त्वा विधुः फल्गुनीस्तस्य वित्तात् । अस्मभ्यं क्षत्रमजरꣳ सुवीर्यम् । गोमदश्ववदुपसन्नुदेह । भगोह दाता भग इत्प्रदाता । भगो देवीः फल्गुनीराविवेश । भगस्येत्तं प्रसवं गमेम । यत्र देवैस्सधमादं मदेम ॥। आयातु देवस्सवितोपयातु । हिरण्ययेन सुवृता रथेन । वहन् हस्तꣳ सुभꣳ विद्मनापसम् । प्रयच्छन्तं पपुरिं पुण्यमच्छ । हस्तः प्रयच्छ त्वमृतं वसीयः । दक्षिणेन प्रतिगृभ्णीम एनत् । दातारमद्य सविता विदेय । यो नो हस्ताय प्रसुवाति यज्ञम् ॥ त्वष्टा नक्षत्रमभ्येति चित्राम् । सुभꣳ ससंयुवतिꣳ रोचमानाम् । निवेशयन्नमृतान्मर्त्याꣳश्च । रूपाणि पिꣳशन् भुवनानि विश्वा । तन्नस्त्वष्टा तदु चित्रा विचष्टाम् । तन्नक्षत्रं भूरिदा अस्तु मह्यम् । तन्नः प्रजां वीरवतीꣳ सनोतु । गोभिर्नो अश्वैस्समनक्तु यज्ञम् ॥ वायुर्नक्षत्रमभ्येति निष्ट्याम् । तिग्मश‍ृंगो वृषभो रोरुवाणः । समीरयन् भुवना मातरिश्वा । अप द्वेषाꣳसि नुदतामरातीः । तन्नो वायस्तदु निष्ट्या श‍ृणोतु । तन्नक्षत्रं भूरिदा अस्तु मह्यम् । तन्नो देवासो अनुजानन्तु कामम् । यथा तरेम दुरितानि विश्वा ॥ दूरमस्मच्छत्रवो यन्तु भीताः । तदिन्द्राग्नी कृणुताम् तद्विशाखे । तन्नो देवा अनुमदन्तु यज्ञम् । पश्चात् पुरस्तादभयन्नो अस्तु । नक्षत्राणामधिपत्नी विशाखे । श्रेष्ठाविन्द्राग्नी भुवनस्य गोपौ । विषूचश्शत्रूनपबाधमानौ । अपक्षुधन्नुदतामरातिम् ॥। पूर्णा पश्चादुत पूर्णा पुरस्तात् । उन्मध्यतः पौर्णमासी जिगाय । तस्यां देवा अधिसंवसन्तः । उत्तमे नाक इह मादयन्ताम् । पृथ्वी सुवर्चा युवतिः सजोषाः । पौर्णमास्युदगाच्छोभमाना । आप्याययन्ती दुरितानि विश्वा । उरुं दुहां यजमानाय यज्ञम् । ऋद्ध्यास्म हव्यैर्नमसोपसद्य । मित्रं देवं मित्रधेयं नो अस्तु । अनूराधान् हविषा वर्धयन्तः । शतं जीवेम शरदः सवीराः । चित्रम् नक्षत्रमुदगात्पुरस्तात् । अनूराधा स इति यद्वदन्ति । तन्मित्र एति पथिभिर्देवयानैः । हिरण्ययैर्विततैरन्तरिक्षे ॥ इन्द्रो ज्येष्ठामनु नक्षत्रमेति । यस्मिन् वृत्रं वृत्र तूर्यो ततार । तस्मिन्वयममृतं दुहानाः । क्षुधन्तरेम दुरितिं दुरिष्टिम् । पुरन्दराय वृषभाय धृष्णवे । अषाढाय सहमानाय मीढुषे । इन्द्राय ज्येष्ठा मधुमद्दुहाना।उरुं कृणोतु यजमानाय लोकम् ॥। मूलं प्रजां वीरवतीं विदेय । पराच्येतु निरृतिः पराचा । गोभिर्नक्षत्रं पशुभिस्समक्तम् । अहर्भूयाद्यजमानाय मह्यम् । अहर्नो अद्य सुविते ददातु । मूलं नक्षत्रमिति यद्वदन्ति । पराचीं वाचा निरृतिं नुदामि । शिवं प्रजयै शिवमस्तु मह्यम् ॥ या दिव्या आपः पयसा सम्बभूवुः । या अन्तरिक्ष उत पार्थिवीर्याः । यासामषाढा अनुयन्ति कामम् । ता न आपः शꣳ स्योना भवन्तु । याश्च कूप्या याश्च नाद्यास्समुद्रियाः । याश्च वैशन्तीरुत प्रासचीर्याः । यासामषाढा मधु भक्षयन्ति । ता न आपः शꣳ स्योना भवन्तु ॥ तन्नो विश्वे उप श‍ृण्वन्तु देवाः । तदषाढा अभिसंयन्तु यज्ञम् । तन्नक्षत्रं प्रथतां पशुभ्यः । कृषिर्वृष्टिर्यजमानाय कल्पताम् । शुभ्राः कन्या युवतयस्सुपेशसः । कर्मकृतस्सुकृतो वीर्यावतीः । विश्वान् देवान् हविषा वर्धयन्तीः । अषाढाः काममुपायन्तु यज्ञम् ॥ यस्मिन् ब्रह्माऽभ्यजयत्सर्वमेतत् । अमुञ्च लोकमिदमूच सर्वम् । तन्नो नक्षत्रमभिजिद्विजित्य । श्रियं दधात्वहृणीयमानम् । उभौ लोकौ ब्रह्मणा सञ्जितेमौ । तन्नो नक्षत्रमभिजिद्विचष्टाम् । तस्मिन्वयं पृतनास्सञ्जयेम । तन्नो देवासो अनुजानन्तु कामम् ॥ श‍ृण्वन्ति श्रोणाममृतस्य गोपाम् । पुण्यामस्या उपश‍ृणोमि वाचम् । महीं देवीं विष्णुपत्नीमजूर्याम् । प्रतीची मेनाꣳ हविषा यजामः । त्रेधा विष्णुरुरुगायो विचक्रमे । महीं दिवं पृथिवीमन्तरिक्षम् । तच्छ्रोणैतिश्रव इच्छमाना । पुण्यꣳ श्लोकं यजमानाय कृण्वती ॥ अष्टौ देवा वसवस्सोम्यासः । चतस्रो देवीरजराः श्रविष्ठाः । ते यज्ञं पान्तु रजसः पुरस्तात् । संवत्सरीणममृतꣳ स्वस्ति । यज्ञं नः पान्तु वसवः पुरस्तात् । दक्षिणतोऽभियन्तु श्रविष्ठाः । पुण्यन्नक्षत्रमभि संविशाम । मा नो अरातिरघशꣳसाऽगन्न् ॥ क्षत्रस्य राजा वरुणोऽधिराजः । नक्षत्राणाꣳ शतभिषग्वसिष्ठः । तौ देवेभ्यः कृणुति दीर्घमायुः । शतꣳ सहस्रा भेषजानि धत्तः । यज्ञन्नो राजा वरुण उपयातु । तन्नो विश्वे अभि संयन्तु देवाः । तन्नो नक्षत्रꣳ शतभिषग्जुषाणम् । दीर्घमायुः प्रतिरद्भेषजानि ॥ अज एकपादुदगात्पुरस्तात् । विश्वा भूतानि प्रति मोदमानः । तस्य देवाः प्रसवं यन्ति सर्वे । प्रोष्ठपदासो अमृतस्य गोपाः । विभ्राजमानस्समिधा न उग्रः । आऽन्तरिक्षमरुहदगन्द्याम् । तꣳ सूर्यं देवमजमेकपादम् । प्रोष्ठपदासो अनुयन्ति सर्वे ॥ अहिर्बुध्नियः प्रथमा न एति । श्रेष्ठो देवानामुत मानुषाणाम् । तं ब्राह्मणास्सोमपास्सोम्यासः । प्रोष्ठपदासो अभिरक्षन्ति सर्वे । चत्वार एकमभि कर्म देवाः । प्रोष्ठपदा स इति यान् वदन्ति । ते बुध्नियं परिषद्यꣳ स्तुवन्तः । अहिꣳ रक्षन्ति नमसोपसद्य ॥ पूषा रेवत्यन्वेति पन्थाम् । पुष्टिपती पशुपा वाजबस्त्यौ । इमानि हव्या प्रयता जुषाणा । सुगैर्नो यानैरुपयातां यज्ञम् । क्षुद्रान् पशून् रक्षतु रेवती नः । गावो नो अश्वाꣳ अन्वेतु पूषा । अन्नꣳ रक्षन्तौ बहुदा विरूपम् । वाजꣳ सनुतां यजमानाय यज्ञम् ॥ तदश्विनावश्वयुजोपयाताम् । शुभङ्गमिष्ठौ सुयमेभिरश्वैः । स्वं नक्षत्रꣳ हविषा यजन्तौ । मध्वासम्पृक्तौ यजुषा समक्तौ । यौ देवानां भिषजौ हव्यवाहौ । विश्वस्य दूतवमृतस्य गोपौ । तौ नक्षत्रं जुजुषाणोपयाताम् । नमोऽश्विभ्यां कृणुमोऽश्वयुग्भ्याम् ॥ अप पाप्मानं भरणीर्भरन्तु । तद्यमो राजा भगवान् विचष्टाम् । लोकस्य राजा महतो महान् हि । सुगं नः पन्थामभयं कृणोतु । यस्मिन्नक्षत्रे यम एति राजा । यस्मिन्नेनमभ्यषिंचन्त देवाः । तदस्य चित्रꣳ हविषा यजाम । अप पाप्मानं भरणीर्भरन्तु ॥ निवेशनी सङ्गमनी वसूनां विश्वा रूपाणि वसून्यावेशयन्ती । सहस्रपोषꣳ सुभगा रराणा सा न आगन्वर्चसा संविदाना ॥ यत्ते देवा अदधुर्भागधेयममावास्ये संवसन्तो महित्वा । सा नो यज्ञं पिपृहि विश्ववारे रयिन्नो धेहि सुभगे सुवीरम्॥ नवो नवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रे । भागं देवेभ्यो विदधात्यायन् प्रचन्द्रमास्तिरिति दीर्घमायुः ॥ यमादित्या अꣳशुमाप्याययन्ति यमक्षितमक्षितयः पिबन्ति । तेन नो राजा वरुणो बृहस्पतिराप्याययन्तु भुवनस्य गोपाः ॥ ये विरूपे समनसा संव्ययन्ती । समानं तन्तुं परितातनाते । विभू प्रभू अनुभू विश्वतो हुवे । ते नो नक्षत्रे हवमगमेतम् । वयं देवी ब्रह्मणा संविदानाः । सुरत्नासो देववीतिं दधानाः । अहोरात्रे हविषा वर्धयन्तः । अति पाप्मानमतिमुक्त्यागमेम । प्रत्युवदृश्यायती । व्युच्छन्ती दुहिता दिवः । अपो मही वृणुते चक्षुषा । तमो ज्योतिष्कृणोति सूनरी । उदुस्त्रियास्सचते सूर्यः । स चा उद्यन्नक्षत्रमर्चिमत् । तवेदुषो व्युषि सूर्यस्य च । संभक्तेन गमेमहि । तन्नो नक्षत्रमर्चिमत् । भानुमत्तेज उच्चरत् । उपयज्ञमिहागमत् । प्रनक्षत्रायदेवाय । इन्द्रायेन्दुꣳ हवामहे । स नः सविता सुवत्सनिम् । पुष्टिदां वीरवत्तमम् । उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् । चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आऽप्राद्यावा पृथिवी अन्तरिक्षꣳ सूर्य आत्मा जगतस्तस्थुषश्च । आदितिर्न उरुष्यत्वदितिः शर्म यच्छतु । अदितिः पात्वꣳहसः । महीमूषु मातरꣳसुव्रतानामृतस्य पत्नीमवसे हुवेम । तुविक्षत्रामजरन्तीमुरूचीꣳ सुशर्माणमदितिꣳ सुप्रणीतम् । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पाꣳसुरे । प्रतद्विष्णुस्स्तवते वीर्याय । मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेषु । अधिक्षियन्ति भुवनानि विश्वा । अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपाꣳ रेताꣳसि जिन्वति । भुवो यज्ञस्य रजसश्च नेता यत्रानियुद्भिः सचसे शिवाभिः । दिवि मूर्धानं दधिषे सुवषां जिह्वामग्ने चकृषे हव्यवाहम् । अनुनोऽद्यानुमतिर्यज्ञं देवेषु मन्यताम् । अग्निश्च हव्यवाहनो भवतां दाशुषे मयः । अन्विदनुमते त्वं मन्यासै शंच कृधि । क्रत्वे दक्षाय नोहि नु प्रण आयूꣳषि तारिषः । हव्यवाहमभिमातिषाहम् । रक्षोहणं पृतनासु जिष्णुम् । ज्योतिष्मन्तं दीद्यतं पुरन्धिम् । अग्निꣳ स्विष्टकृत माहुवेम । स्विष्टमग्ने अभितत्पृणाहि । विश्वा देव पृतना अभिष्य । उरुन्नः पन्थां प्रदिशन्विभाहि । ज्योतिष्मद्धेह्यजरन्न आयुः ॥ अग्नये स्वाहा कृत्तिकाभ्यः स्वाहा । अम्बायै स्वाहा दुलायै स्वाहा । नितन्त्यै स्वाहाऽभ्रयन्तै स्वाहा । मेघयन्त्यै स्वाहा वर्षयन्त्यै स्वाहा । चुपुणीकायै स्वाहा । प्रजापतये स्वाहा रोहिण्यै स्वाहा । रोचमानायै स्वाहा प्रजाभ्यः स्वाहा । सोमाय स्वाहा मृगशीर्षाय स्वाहा । इन्वकाभ्यः स्वाहौषधीभ्यः स्वाहा । राज्याय स्वाहाऽभिजित्यै स्वाहा । रुद्राय स्वाहाऽऽर्द्रायै स्वहा । पिन्वमानायै स्वाहा पशुभ्यः स्वाहा । अदित्यै स्वाहा पुनर्वसुभ्याम् । स्वाहा भूत्यै स्वाहा प्रजात्यै स्वाहा । बृहस्पतये स्वाहा तिष्याय स्वाहा । ब्रह्मवर्चसाय स्वाहा । सर्पेभ्यः स्वाहाऽऽश्रेषाभ्यः स्वाहा । दन्तशूकेभ्यः स्वाहा । पितृभ्यः स्वाहा मघाभ्यः । स्वाहाऽनघाभ्यः स्वाहाऽगदाभ्यः । स्वाहाऽरुन्धतीभ्यः स्वाहा । अर्यम्णे स्वाहा फल्गुनीभ्याꣳ स्वाहा । पशुभ्यः स्वाहा । भगाय स्वाहा फल्गुनीभ्याꣳ स्वाहा । श्रेष्टायाय स्वाहा । सवित्रेस्वाहा हस्ताय । स्वाहाददते स्वाहा पृणते । स्वाहा प्रयच्छते स्वाहा प्रतिगृभ्णते स्वाहा । त्वष्ट्रे स्वाहा चित्रायै स्वाहा । चैत्राय स्वाहा प्रजायै स्वाहा । वायवे स्वाहा निष्ट्यायै स्वाहा । कामचाराय स्वाहाऽभिजित्यै स्वाहा । इन्द्राग्निभ्याꣳ स्वाहा विशाखाभ्याꣳ स्वाहा । स्रेष्टयाय स्वाहाऽभिजित्यै स्वाहा । पौर्णमास्यै स्वाहा कामाय स्वाहा गत्यै स्वाहा । मित्राय स्वाहाऽनूराधेभ्यः स्वाहा । मित्रधेयाय स्वाहाऽभिजित्यै स्वाहा । इन्द्रायस्वाहा ज्येष्ठायै स्वाहा । ज्येष्ठयाय स्वाहाऽभिजित्यै स्वाहा । प्रजापतये स्वाहा मूलाय स्वाहा । प्रजायै स्वाहा । अद्भ्यः स्वाहाऽषाढाभ्यः स्वाहा । समुद्राय स्वाहा कामाय स्वाहा । अभिजित्यै स्वाहा । विश्वेभ्यो देवेभ्यः स्वाहाऽषाढाभ्यः स्वाहा । अनपजय्याय स्वाहा जित्यै स्वाहा । ब्रह्मणे स्वाहाऽभिजिते स्वाहा । ब्रह्मलोकाय स्वाहाऽभिजित्यै स्वाहा । विष्णवे स्वाहा श्रोणायै स्वाहा । श्लोकाय स्वाहा श्रुतायस्स्वाहा । वसुभ्यः स्वाहा श्रविष्ठाभ्यः स्वाहा । अग्राय स्वाहा परीत्यै स्वाहा । वरुणाय स्वाहा शतभिषजे स्वाहा । भेषजेभ्यः स्वाहा । अजायैकपदे स्वाहा प्रोष्ठपदेभ्यः स्वाहा । तेजसे स्वाहा ब्रह्मवर्चसाय स्वाहा । अहये बुध्नियाय स्वाहा प्रोष्ठपदेभ्यः स्वाहा । पूष्णे स्वाहा रेवत्यै स्वाहा । पशुभ्यः स्वाहा । अश्विभ्याꣳ स्वाहाऽश्वयुग्भ्याꣳ स्वाहा । श्रोत्राय स्वाहा श्रुत्यै स्वाहा । यमाय स्वाहाऽपभरणीभ्यः स्वाहा । राज्याय स्वाहाऽभिजित्यै स्वाहा । अमावास्यायै स्वाहा कामाय स्वाहा गत्यै स्वाहा । चन्द्रमसे स्वाहा प्रतीदृश्यायै स्वाहा । अहोरात्रेभ्यः स्वाहाऽर्धमासेभ्यः स्वाहा । मासेभ्यः स्वाहर्तुभ्यः स्वाहा । संवत्सराय स्वाहा । अह्ने स्वाहा रात्रियै स्वाहा । अतिमुक्त्यै स्वाहा । उषसे स्वाहा व्युष्टयै स्वाहा । व्यूषुष्यै स्वाहा व्युच्छन्त्यै स्वाहा । व्युष्टायै स्वाहा । नक्षत्राय स्वाहोदेष्यते स्वाहा । उद्यते स्वाहोदिताय स्वाहा । हरसे स्वाहा भरसे स्वाहा । भ्राजसे स्वाहा तेजसे स्वाहा । तपसे स्वाहा ब्रह्मवर्चसाय स्वाहा । सूर्याय स्वाहा नक्षत्रेभ्यः स्वाहा । प्रतिष्ठायै स्वाहा । आदित्यै स्वाहा प्रतिष्ठयै स्वाहा । विष्णवे स्वाहा यज्ञाय स्वाहा । प्रतिष्ठायै स्वाहा॥ दधिक्राविण्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखाकरत् प्रण आयूꣳषि तारिषत् ॥ आपोहिष्ठा मयो भुवस्तान ऊर्जे दधातन । महेरणाय चक्षसे ॥ योवः शिवतमो रसस्तस्य भाजयतेहनः । उशतीरिव मातरः ॥ तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥ उदुत्तमं वरुणपाशमस्मदवाधमं विमध्यमꣳ श्रथाय । अथा वयमादित्यव्रते तवानागसो अदितये स्याम । अस्तभ्नाद् द्यामृषभो अन्तरिक्षममिमीत वरिमाणं पृथिव्या आसीदद्विश्वा भुवनानि सम्राड्विश्वेत्तनि वरुणस्य व्रतानि । यत्किञ्चेदम् वरुणदैव्यै जनेऽभिद्रोहं मनुष्याश्चरामसि । अचित्तीयत्तव धर्मा युयोपिम मा नस्तस्मादेनसो देव रीरिषः ॥ कितवासो यद्रिरिपुर्न दीवि यद्वाघा सत्यमुतयन्न विद्म । सर्वा ता विष्य शिथिरेव देवथा ते स्याम वरुणप्रियासः ॥ अव ते हेडो वरुण नमोभिरवयज्ञेभिरीमहे हविर्भिः । क्षयन्नस्मभ्यमसुरप्रचेतो राजन्नेनाꣳसिशिश्रथः कृतानि॥ तत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुशꣳस मा न आयुः प्रमोषीः ॥ (पवमानम्) हिरण्यवर्णाः शुचयः पावका यासु जातः कश्यपो यास्विन्द्रः । अग्निं या गर्भम् दधिरे विरूपास्तान आपश्शꣳ स्योना भवन्तु ॥ यासाꣳ राजा वरुणो याति मध्ये सत्यानृते अवपश्यम् जनानाम् । मधुश्चुतश्शुचयो याः पावकास्ता न आपश्शꣳ स्योना भवन्तु ॥ यासाम् देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति । याः पृथिवीम् पयसोन्दन्ति शुक्रास्ता न आपश्शꣳ स्योना भवन्तु ॥ शिवेन मा चक्षुषा पश्यतापश्शिवया तनुवोप स्पृशत त्वचम् मे । सर्वाꣳ अग्नीꣳ रप्सुषदो हुवो वो मयि वर्चो बलमोजो निधत्त ॥ पवमानस्सुवर्जनः । पवित्रेण विचर्षणिः । यः पोता स पुनातु मा । पुनन्तु मा देवजनाः । पुनन्तु मनवो धिया । पुनन्तु विश्व आयवः । जातवेदः पवित्रवत् । पवित्रेण पुनाहि मा । शुक्रेण देवदीद्यत् । अग्ने क्रत्वा क्रतूꣳ रनु । यत्ते पवित्रमर्चिषि । अग्ने विततमन्तरा । ब्रह्म तेन पुनीमहे । उभाभ्यां देवसवितः । पवित्रेण सवेन च । इदं ब्रह्म पुनीमहे । वैश्वदेवी पुनती देव्यागात् । यस्यै बह्वीस्तनुवो वीतपृष्ताः । तया मदन्तः सधमाद्येषु । वयꣳ स्याम पतयो रयीणाम् । वैश्वानरो रश्मिभिर्मा पुनातु । वातः प्राणेनेषिरो मयो भूः । ध्यावापृथिवी पयसा पयोभिः । ऋतावरी यज्ञिये मा पुनीताम् । बृहद्भिः सवितस्तृभिः । वर्षिष्ठैर्देवमन्मभिः । अग्ने दक्षैः पुनाहि मा । येन देवा अपुनत । येनापो दिव्यंकशः । तेन दिव्येन ब्रह्मणा । इदं ब्रह्म पुनीमहे । यः पावमानीरध्येति । ऋषिभिस्सम्भृतꣳ रसम् । सर्वꣳ स पूतमश्नाति । स्वदितम् मातरिश्वना । पावमानीर्यो अध्येति । ऋषिभिस्सम्भृतꣳ रसम् । तस्मै सरस्वती दुहे । क्षीरꣳ सर्पिर्मधूदकम् । पावमानीस्स्वस्तयनीः । सुदुघाहि पयस्वतीः । ऋषिभिस्सम्भृतो रसः । ब्राह्मणेष्वमृतꣳ हितम् । पावमानीर्दिशन्तु नः । इमं लोकमथो अमुम् । कामान्थ्समर्धयन्तु नः । देवीर्देवैः समाभृताः । पावमानीस्स्वस्त्ययनीः । सुदुघाहि घृतश्चुतः । ऋषिभिस्संभृतो रसः । ब्राह्मणेष्वमृतꣳ हितम् । येन देवाः पवित्रेण । आत्मानं पुनते सदा । तेन सहस्रधारेण । पावमान्यः पुनन्तु मा । प्राजापत्यम् पवित्रम् । शतोध्यामꣳ हिरण्मयम् । तेन ब्रह्म विदो वयम् । पूतं ब्रह्म पुनीमहे । इन्द्रस्सुनीती सहमा पुनातु । सोमस्स्वस्त्या वरुणस्समीच्या । यमो रजा प्रमृणाभिः पुनातु मा । जातवेदा मोर्जयन्त्या पुनातु । भूर्भुवस्सुवः । तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवीस्स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शन्नो अस्तु द्विपदे । शं चतुष्पदे । ॐ शान्तिश्शान्तिश्शान्तिः । नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः । नमो वाचे नमो वाचस्पतये विष्णवे बृहते करोमि ॥ ॐ शान्तिश्शान्तिश्शान्तिः । ॥ प्रोक्षण मन्त्राः ॥ आपोहिष्ठा मयो भुवस्तान ऊर्जे दधातन । महेरणाय चक्षसे ॥ योवः शिवतमो रसस्तस्य भाजयतेहनः । उशतीरिव मातरः ॥ तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥ देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । पूष्णो हस्ताभ्याम् । अश्विनोर्भैषज्येन । तेजसे ब्रह्मवर्चसायाभिषिञ्चामि ॥ देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । पूष्णो हस्ताभ्याम् । सरस्वत्यै भैषज्येन । वीर्यायान्नाद्यायाभिषिञ्चामि ॥ देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । पूष्णो हस्ताभ्याम् । इन्द्रस्येन्द्रियेण । श्रिये यशसे बलायाभिषिञ्चामि ॥ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याꣳ सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्नेस्त्वा साम्राज्येनाभिषिञ्चामि ॥ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याꣳ सरस्वत्यै वाचो यन्तुर्यन्त्रेण बृहस्पतेस्त्वा साम्राज्येनाभिषिञ्चामि ॥ द्रुपदादिव मुञ्चतु । द्रुपदादिवेन्मुमुचानः । स्विन्नः स्नात्वी मलादिव । पूतं पवित्रेणेवाज्यम् । आपश्शुन्धन्तु मैनसः । आपो वा इदꣳ सर्वं विश्वा भूतान्यापः प्राणा वा आपः पशव आपोऽन्नमापोऽमृतमापः सम्राडापो विराडापः स्वराडापश्छन्दाꣳस्यापो ज्योतीꣳष्यापो यजूꣳष्यापस्सत्यमापस्सर्वा देवता आपो भूर्भुवस्सुवराप ॐ ॥ ॥ उदकशान्ति - मन्त्रपाठः (निःस्वरः) समाप्तः ॥ Encoded with Accents by Rajagopal Iyer Proofread by Rajagopal and Krishnan rkiyengar at gmail.com
% Text title            : Udaka Shanti
% File name             : udakashaanti.itx
% itxtitle              : udakashAnti mantrAH
% engtitle              : UdakashAnti Mantra
% Category              : veda, svara
% Location              : doc_veda
% Sublocation           : veda
% Texttype              : svara
% Author                : Vedic Tradition
% Language              : Sanskrit
% Subject               : philosophy/hinduism  specifies which anuvvaka/panchashati-s are to be chanted and in what sequence
% Transliterated by     : Rajagopal Iyer
% Proofread by          : Rajagopal Iyer, 
% Description-comments  : prescribed in baudhaayana's dharma suutraa which specifies which anuvvaka/panchashati-s are to be chanted and in what sequence
% Source                : Two books of udakashaanti prayoga-- one from Madras, One from gokarNa (Joglekar shastri), Another collated from the Satwalekar's a.nhitaa and anandaashram,pune
% Indexextra            : (Text, audio, alternative text, kannada 1, 2, Telugu, Tamil)
% Latest update         : Aug 03, 2000, July 10, 2022
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org