छन्दोऽष्टादशकम्

छन्दोऽष्टादशकम्

वर्णनीयप्रतिज्ञा । नमः श्रीकृष्णाय । जीयान्नाम मुरारेः प्रेममरन्दस्य नव्यमरविन्दम् । भवति मदाभासोऽपि स्वातिजलं मुक्तिमुक्तायाः ॥ १॥ नन्दोत्सवादयस्ताः कंसवधान्ता हरेर्महालीलाः । छन्दोभिर्ललिताङ्गैरष्टादशभिर्निरूप्यन्ते ॥ २॥ दनुजतृणकदम्बोद्दामदावाग्निराशे कुसुमितरविकन्यातीरवन्याकरीन्द्र । मदकलपशुपालीलोचनेन्दीवरेन्दो भवतु तव चरित्रं मद्गिरां मण्डनाय ॥ ३॥ मूलोत्खातविधायिनी भवतरोः कृष्णान्यतृष्णाक्षयात् खेलद्भिर्मुनिचक्रवाकनिचयैराचम्यमाना मुहुः । कर्णानन्दिकलस्वना वहतु मे जिह्वातटीप्राङ्गणे घूर्णत्तुङ्गरसावलिस्तव कथापीयूषकल्लोलिनी ॥ ४॥

अथ श्रीनन्दोत्सवादिचरितं निजमहिममण्डलीव्रजवसतिरोचनं वदनविधुमाधुरीरमितपितृलोचनम् । श्रुतिनिपुणभूसुरव्रजविहितजातकं तनुजलदतर्पितस्वजनगणचातकम् ॥ सुबहुविधदानकृज्जनककृतकौतुकं निखिलपशुपावलीसमुपहृतयौतुकम् । जनिसमयमण्डितीकृतपुरुषयोषितं रजनिरसगोरसक्षपणजनतोषितम् ॥ बहुलदधिपङ्किलीकृतविलसदङ्गनं प्रमदभरलोलितप्रकटनटदङ्गनम् । जनकपरितोषितस्फुरदखिलवल्लवं व्रजजनितपद्मजाविभवभरपल्लवम् ॥ कपटपटुपूतनाकटुनयनवीक्षितं व्रजभयदनुर्जनव्रजनिधनदीक्षितम् । विषमबकपूर्वजाकुचसविधशायिनं तदसुपरिमिश्रितस्तनजरसपायिनम् ॥ तदरुतरविग्रहद्रुमनिवहपातनं पृथुकरिपुराक्षसीविविधभवशातनम् । निपुणपशुपाङ्गनाकुलकलितरक्षणं प्रणयकृतगोरजःशकृदमललक्षणम् ॥ स्पुटनिखिलवल्लवीहृदयनवचन्दनं भज चपलमानस व्रजनृपतिनन्दनम् ॥ गुच्छकाख्यमिदं छन्दः । तव जयति नन्दनन्दन पदारविन्दोरुभक्तिमकरन्दः । यन् माधुरीलवाग्रे मुक्तिसुखं शुक्तितामेति ॥ ५॥

अथ शकटतृणावर्तभङ्गादि मम मतिरुच्चलचरणे भगवति पर्यङ्किकाशयिते । कपटक्रन्दितकुशले शकटविघट्टिनि परिस्फुरतु ॥ ६॥ अथ शकटारिष्टदैत्यवधः औत्थानिकमहसङ्कुलिताम्बक शकटाधस्तनशयनालम्बक कुचरसतृष्णाविरचितरोदन चञ्चलपदकृतशकटविनोदन विस्मितपशुपसुदुर्गमचेष्टित कथितनिजेहितशावकवेष्टित कातरजननीजनकगतान्तिक मान्त्रिकधरणीसुरकृतशान्तिक ॥ अथ तृणावर्तवधः जननीदुर्वहगौरवविग्रह सपदि विधित्सितदनुजविनिग्रह दनुतनयेन क्षणमपवाहित कण्ठतटीग्रहनिर्मथिताहित । विक्लवजननीनिर्भरशोचित विरुदद्गोपीकुलपरिलोचित निर्मितजननीबन्धुमहोदय मामपि गोकुलमङ्गल मोदय ॥ अथ नामकरणसंस्कारः नवशिशुलीलालङ्घितहायन गर्गाविष्कृतनामरसायन । रिङ्गनमण्डितनन्दनिकेतन मुधुरिमतर्पितगोकुलचेतन । चलतरतर्णकपुच्छविकर्षण विस्मृतगृहकृतिरमणीहर्षण । कुतुकिन्नसमयवत्सविमोचन चौर्यविशङ्कितचञ्चललोचन । आक्रोशनकृतहसिताडम्बर मुखपाटवकृतलुञ्चनसंवर । रचितोलूखलपृष्ठविराजन रन्ध्रितशिक्यस्थितवरभाजन । गव्यनिर्मितकपिकुलरञ्जन कल्पितनवदधिहण्डीभञ्जन । जननीवीक्षितसभयविलोचन जय जय गोकुलपद्मविरोचन ॥ अथ मृद्भक्षणलीला रामप्रकटीकृतमृद्भक्षण जननीसम्मुखधृतभयलक्षण । मुखपुटदर्शितनिखिलचराचर गोपेश्वरसुत मयि मुदमाचर ॥ कोरकाख्यमिदं छन्दः । अथ दधिहरणं गृहं सखि करालिके प्रविशति स्म नीलः शिशु- र्दृढीकुरु कवाटिकां दधिहरं दधाम्युद्धुरम् । इति प्रकटमीरिते मुखरया महाशङ्कटं विलोक्य तनुकङ्कटीकृततमा हरिः पातु वः ॥ ७॥

अथ यमलार्जुनभञ्जनं इन्द्रनीलमधुरप्रभं जनं हासयन्तमनसः प्रभञ्जनम् । बिभ्रतं पुरटपिङ्गलं पटं धेहि चित्त नवनीतलम्पटम् ॥ ८॥ धृतदधिमन्थनदण्ड जननीचुम्बितगण्ड पीतसवित्रदुग्ध कलभाषितकुलमुग्ध । जननीपयसातृप्त भाजनभञ्जनदृप्त कृतहैयङ्गवमोष मातृविनिर्मितरोष । जनयित्रीकृतधाव मुनिगणदुर्लभभाव विदितसावित्रीपील परिहृतधावनलील । धृतहैयङ्गवगन्ध कलितोलूखलबन्ध दृष्टार्जुनतरुमूल सुरमुनिवागनुकूल । कृतयमलार्जुनभङ्ग गुह्यकनुतिधृतरङ्ग निजभक्तीकृतयक्ष माधव मामपि रक्ष । विस्मितवल्लवदृष्ट सुस्मितमुखपुट हृष्ट नन्दविमोचितबन्ध जय जय मङ्गलकन्द ॥ ३॥ अनुकूलाख्यमिदं छन्दः । बृहद्विपिनमण्डने कलुषमण्डलीखण्डने व्रजप्रणयशंसने दनुजवृद्धिविध्वंसने । मुहुर्धरणिरोचने महितवल्लवीलोचने परिस्फुरतु कैशवे रतिरतीव नः शैशवे ॥ ९॥

अथ श्रीवृन्दावनगोवत्सचारणादिलीला कदा वृन्दारण्ये मिहिरदुहितुः सङ्गमहिते मुहुर्भ्रामं भ्रामं चरितलहरी गोकुलपतेः । लपन्न् उच्चैरुच्चैर्नयनपयसां वेणिभिरहं करिष्ये सोत्कण्ठो निविडमवसेकं विटपिनाम् ॥ १०॥ व्रजेन्दुरुपनन्दान्तरीणमतिनोदी मनोज्ञतरवृन्दावनान्तरनुमोदी । अन्तःस्थजनयित्र्या निजाङ्गमुपनीतः कुरङ्गनयनाभिः सहर्षमनुगीतः । प्रफुल्लपृथुवृन्दावनोपहृतरङ्गः कलिन्दगिरिपुत्रीतटान्तधृतसङ्गः । गिरीन्द्रकटकाङ्गीकृतोरुपरितोषः समस्तसखिराजीविलासमणिकोषः । समीपभुवि वत्सप्रचारधृततर्षः सुहृत्सु गुरुखेलाभरेण कृतहर्षः । तरङ्गदुरुगेण्डुप्रविष्टचलदृष्टिः प्रणीतवरवंशीनिनाद नवसृष्टिः । तरक्षुनखलक्ष्मीपरीतमृदुकण्ठः कटीरतटकूजद्विचित्रलघुघण्टः । समूढशिखिचूडाप्रणीतवरचूडः सुमञ्जुतरगुञ्जावलीभिरुपगूढः । सुहृद्भिरपि सार्धं प्रपन्नवृषवेषः कठोरतरवत्सासुरेभहरिरेषः । स्थविष्ठबकतुण्डप्रवेशकृतलील- तदङ्गगिरिकूटप्रभेदपरिशीलः । सुहृद्भिरतिहृष्टैर्भुजाभिरभिमृष्टः सुरैश्च सुमनोभिर्वराभिरभिवृष्टः । तनोतु मयि तुष्टिं स्ववत्सकुलपाली प्रफुल्लकुसुमालीधरोऽद्य वनमाली ॥ ४॥ प्रफुल्लकुसुमालीनामेदं छन्दः । अपि स्फारामोदे प्रतिपदसुधाकोटिमधुरे पुराणग्रामान्तर्वहति तव लीलारसझरे । मनोवत्सः पातुं विषयविषगर्ते विशति मे कृपायष्ट्या तूर्णं दमय तममुं तर्णकपते ॥ ११॥

अथ वत्सचारणादिचरितं आभासोऽपि श्रुतिपरिसरं तावकीनस्य नाम्नः सर्पन्नल्पं लघुतरमघस्तोममोक्षं करोति । नैतच्चित्रं सखिभिरखिलैरन्तरालं प्रविष्टो यद् गोविन्द स्वयमयमगहं मोक्षयस्येकमेव ॥ १२॥ काननान्तभुक्तिकममुच्चनादपूरधाम श‍ृङ्गबुद्धवत्सपालवल्गुबालचक्रवाल सङ्गलब्धतोषजालमग्रनुन्नवत्सपालं अद्भुतातिभूरिखेलमित्रसङ्गनीतवेलं अङ्गरुद्धकाननस्य शार्वराञ्चिताननस्य दावतुल्यलोचनस्य पूतिगन्धिमोचनस्य मेघभागतानवस्य सर्परूपदानवस्य वीक्षयातिविस्मितेन तस्य कुक्षिमाश्रितेन वत्सपालमण्डलेन नीतखेदमुच्चलेन तत्र मङ्क्षु संप्रविष्टमुद्धूतस्वभक्तरिष्ट मेधिताङ्गरुद्धवातमर्दिताहिजन्मजातं ईक्षयाभीजीवितेन डिम्भसञ्चयेन तेन सार्धमेत्य सत्तडागतीरमाप्तभुक्तिरागं एषु भोत्कुमुद्यतेषु भूरिराजिसन्ततेषु मध्यसीम्नि राजमानमर्पितेभडिम्भमानं अत्र सर्वसम्मुखास्यमुज्जिहानमन्दहास्यं अध्वरोपपन्नभक्षमर्भकोपभोगदक्षं इन्द्रमुख्यदेववर्गवीक्षमाणकेलिसर्गं एषु वत्सपालकेषु भक्षयत्सु बालकेषु दूरगामिवत्सपुञ्जसङ्गमाय लब्धकुञ्जं अम्बुजन्मयोनिना तदुत्सकेन वत्सजातं अर्भमण्डलं च नीतमभ्रमाभिसम्परीत धीतयाधिगत्य हासमुद्वमन्तमिन्दुभासं आशु तत्तदात्मरूपसन्निवेशितस्वरूपं एतदीयमातृतोषहेतुशीलरत्नकोषं उल्लसन्तमत्र वर्षमेधितानुरागतर्षं अब्जयोनिदृष्टतत्त्वमद्भुतातिशुद्धसत्त्व रूपवीक्षणातिमत्तगोकुलानुवृत्त्यत्त पद्मजस्तुतानुभावमाहृतात्मगोष्ठशावं अम्बुजाक्ष भो भवन्तमाश्रयामि कुन्ददन्त नन्दगोष्ठभूरिभाग चारुकुन्तलाग्रभाग शोकपुष्पमञ्जरीक गन्धलुब्धचञ्चरीक पीतकेलिपुण्डरीक वश्यवत्समण्डलीक बाहुराजदङ्गदाय मित्रसङ्घरङ्गदाय पादशोभिहंसकाय सुन्दरावतंसकाय गुप्तचारुतर्णकाय कॢप्तधातुवर्णकाय गोपगोत्रवल्लभाय योगिवर्गदुर्लभाय कर्णसङ्गिचम्पकाय दुर्गतानुकम्पकाय तुभ्यमिद्धकीर्तिगाथ सर्वदा नमोऽस्तु नाथ देहि देहि भक्तिलेशमप्यशेषपूरुशेष ॥ अशोकपुष्पमञ्जरीछन्दः यां निर्वक्तुमभूत् प्रभुर्नहि चतुर्वक्त्रोऽपि ते माधुरीं तामुद्घाटयताद्य यद्यपि सतां हासो मया स्वीकृतः । वैफल्याय तथापि देव भविता नायं ममोपाक्रमः सर्वानर्थहरस्त्वदीयभजनाभासोऽपि यद् विश्रुतः ॥ १३॥

अथ तालवनचरितम् । स पातु मां यस्तृणराजराजी फलैर्विराजन् व्रजराजपुत्रः । सुखानि चक्राङ्ककरः सखीनां चक्रीवतां चक्रमुदस्य चक्रे ॥ १४॥ जय धेनुलक्षशतगुप्तिदक्षवनमण्डलान्तमनुसृत्य कान्तं उपलब्धहर्ष कृतकेलिवर्ष बलदेवगीतघनशाखिशीत वनराजिरूप पशुपालभूप कृतपक्षिवारचरिक्तानुकार धृतमित्ररङ्ग रसवल्गदङ्ग पुरुमल्लयुद्ध पटुबाहुरुद्ध बलदुर्दुरूढनिजमित्रकूट यमुनोपकूलतरुराजिमूल पदभद्रसेनकृतदुग्धफेनपटलानुकल्पनवपुष्पतल्प वरमध्यसुप्त सुहृदालिगुप्त वृषभानुबद्धमृदुरागनद्ध कलगीतहृष्ट सुबलाभिमृष्ट कृतपद्मानन्दचरणारविन्द विटपावतानपरिवीज्यमान परिपक्वतालफललुब्धबाल कलवाक्यरूढहसितोपगूढमुखतारकेश धृतवीरवेश घनतुङ्गतालविपिनान्तरालमुपलब्धरामसहितात्मधाम धुतघूर्णदग्रतृणराट्समग्रफलवृन्दपातकृतहर्षजात फलशब्दरुष्टखररूपदुष्टहरकामपालकृतहर्षमाल तुरगारिकाल खरचक्रवालतृणवीतिहोत्र रमितात्मगोत्र हतधेनुकाद्य विबुधाभिवाद्य तृणराजभङ्गभरजातरङ्ग रिपुवर्गभीद मयि संप्रसीद ॥ ६॥ कलगीतनामेदं छन्दः । पीनापीनभरोद्गतैरनुदिनं याः क्षीरपूरैर्बलाद् अम्भोजाक्ष विडम्बयन्ति निविडं क्षीराम्बुधैर्वैभवम् । तासां राजतगण्डशैलपटलीपाण्डुत्विषां मण्डलं धेनूनां परिपालयन्तमटवीकुञ्जे भवन्तं भजे ॥ १५॥

अथ कालियदमनं कालियस्य फणरत्नकुट्टिमं कुट्टयन् पदसरोजघट्टनैः । मङ्गलानि वितनोतु ताण्डवे पण्डितस्तव शिखण्डशेखरः ॥ १६॥ जगद्विनाशि सङ्गमं गरुत्मता गजङ्गमं भुजङ्गमण्डलीपदं पतङ्गनन्दिनीह्रदं विषाग्निदग्धनीरजं निरीक्ष्य तस्य तीरजं मुदाधिरुह्य दर्पतः कदम्बमुग्रसर्पतः पयो विकीर्णवान् अलं परिज्वलद्विषानलं धनुःशते सतां गतिर्भुजोद्धताम्बुसंहतिः करालदृष्टिदारुणैः फणैर्मणिप्रभारुणै- युतेन लोकदाहिना विनद्य कालियाहिना रुषोद्भटेन वेष्टितः प्रपन्नबालचेस्टित- ततोऽद्भुतावलोकतः समेत्य तीवर्शोकत- तनुस्खलत्पटालिभिर्महार्तनादशालिभि- बलोपदेशसारतस्तदा ह्रदावतारतः शनिअर्निवृत्तलालसैर्मुहुर्व्यथाकुलालसैः सदारवृद्धबालकैः समस्तधेनुपालकै- विलोकितः स्मिताननः कृतोरगावमाननः प्रणुन्नभोगरोधनः सुहृद्गणाधिशोधनः श्रिताण्डजेन्द्रविभ्रमः स्फुरत्करालविक्रमः स्वमूर्धरत्नपिञ्जरं निरस्य नागकुञ्जरं प्लुतेन तस्य रङ्गतः फणाङ्गण्षु सङ्गतः प्रणीतदिव्यनर्तनः कृतोत्सवानुवर्तनः प्रसूनवृन्दवर्षिभिः खलार्दनेन हर्षिभिः सपद्मभूपिनाकिभिर्नभस्यनल्पनाकिभिः स्तुतो विचित्रबालकः सुलास्यतश्च लालकः सखि स्वबाल्यचञ्चलं परिभ्रमद्दृगञ्चलं सुशोभनाङ्गहारकं भुजङ्गदर्पदारकं प्रणीतनृत्यहस्तकं विलासकम्पिमस्तकं विकासिहास्यकोरकं वोलोलकण्ण्ठडोरकं रसादमुं समग्रतः स्फुटं नटन्तमग्रतः सुतं विलोकयाधुना त्वमीक्षणेन साधुना व्रजेश्वरीति योषितां गिरं प्रमोदघोषितां निशम्य लब्धमोदया विलोकितो यशोदया खलप्रमार्दने खरः श्रिया ह्यनङ्गशेखरः फणव्रजे मुहुः प्लुतः फणावतीगणैः स्तुत- तदातिदक्षिणाशयः फणीश्वरे कृताभयः क्षणादमूभिरर्चितः परार्धगन्धचर्चितः श्रुतिप्रसक्तकैरवः फणिव्रजेष्वभैरवः स्वबन्धुवृन्दनन्दनः कृतार्यपादवन्दनः प्रहर्षतोऽविलम्बया विचुम्बितस्त्वमम्बया जय प्रभो कृपानिधे विलासरत्नवारिधे नतार्तिपूरशातन प्रसीद मे सनातन ॥ ७॥ अनङ्गशेखरच्छन्दः । कामं दामोदर मम मनःपन्नगः पीनभोगो दुष्टाशीभिः कुटिलवलनैः क्षोभयत्येष लोकम् । तद्विक्रान्तस्त्वमुदितपदद्वन्द्वपङ्केरुहाङ्कं कुर्वन् दर्वीकरदमन हे ताण्डवैर्दण्डयामुम् ॥ १७॥

अथ भाण्डीरक्रीडनादि भाण्डीरस्य तटान्ते तरुषण्डाखण्डलस्य रणशौण्ड । सखिमण्डलानि बाढं विक्रीडय पुण्डरीकाक्ष ॥ १८॥ सुहृदावलिपरिवीतः श्रुतिहरमुरलीगीतः सुरभीवीथ्यनुसारी वरपीताम्बरधार पीनोज्ज्वलभुजदण्डः शिरसि स्फुरितशिखण्डः शशिखण्डाभललाटः पीवरहृदयकवाटः खरमिहिरातपवासे प्रसरत्यपि शुचिमासे धृतमधुलक्ष्मीभारं परिहृतदावविकारं धेनुमनोहरशादं पिककृतपञ्चमनादं षड्जोद्गारिमयूरं विसृमरसौरभपूरं विकसितचारुशिरीषं स्फुटमल्लीनिविरीषं वृन्दावनमतिहृष्टः सबलः स्वयमभिविष्टः कल्पितभुजसङ्ग्रामः क्वचिदीहितविश्रामः कुत्रचिदभिनवतुम्बैः क्वचिदतिकोमलकुम्भैः क्व च परिपाकिमगुञ्जैः क्व च बिल्वामलपुञ्जैः क्रीडन्नद्भुतचर्यः केलिषु पण्डितवर्यः पीवरकुतुकाधारे द्वन्द्वीभावविहारे कल्पितनिर्भररागः कृतसखिवर्गविभागः शीतलमरुदनुकूले भाण्डीरद्रुममूले कृत्वा वल्लववेशं प्रविशन्तं दनुजेशं जानन्न् एव विलासी स्वीकृतवान् खलशासी जैत्रीकृतबलपक्षः सुदुरूहक्रमदक्षः श्रीदामप्रियकामः सुररिपुवाहितरामः क्षपयन् प्रलम्बकायः हलिना निर्मितमायं दैवतपरिणुतलीलः सुहृदानन्दशीलः तत्र विदूरं याताः सुरभीर्लघुपदपाताः सममन्विष्यन् गोपैः शङ्कितनिजधनलोपै- मुञ्जावलिविकराले विपिने क्वचन विशाले लब्धाखिलधवलाकस्तुङ्गितसुखपरिपाकः पीतभयङ्करदावः प्रकटोल्लसदनुभावः प्रणतजनोत्सवकारी त्वं भाण्डीरविहारी गोकुलजनरससिन्धो जय जय दुर्विधबन्धो ॥ ८॥ द्विपदिका च्छन्दः । कलितश्रीदामानं श्रीदामानन्दिकेलितुन्दिलितम् । वन्दे रामावरजं रामावरजङ्गमद्युतरुम् ॥ १९॥

अथ वर्षाशरद्विहारचरितं प्रेमोल्लासनशीला वल्लवमल्लस्य विजयते लीला । यन् माधुरीं विपञ्ची विरिञ्चिसूनोः प्रपञ्चयति ॥ २०॥ मेघसमयपूर्तिरमितवृष्टिषु तरुकन्दरचित नीपककुभपुष्पवलित सान्द्रविपिनलब्धललित भक्तपरिषदिष्टवरद हारिविभवधारिशरद् अलङ्कृतबहुपक्षिभरितकाननकृतदिव्यरचित वेशतुलितनर्तकवर चन्द्रकचितचारुकवर गोपयुवतिधैर्यमथनरूप तदभिनीतकथन लोचनफल वेनुवलनवल्गदधरवक्त्रकलन सर्वसुकृतवैभवधरवेणुरसितरज्यदधर वेणुमधुनादनटितकेकिनिवह मेघघटित सेव जनितमुक्तयवसधेनुनिचयचित्तरभस रूपविलसदङ्गवलनमोहितसुरवृन्दललन भिल्लयुवतितोषिमसृणशम्पमिलितपादघुसृण हारिहरिणयोषिदमलनेत्रसुखदवक्त्रकमल दास्यनिरतशैलरचितसेवन पशुपाशखचित पाहि वरुण मद्विधजनमीश्वर दुरवापभजन ॥ ९॥ हारिहरिणच्छन्दः घनप्रणयघट्टनोद्घुरितघोषसीमन्तिनी प्रपञ्चितजगत्त्रयीश्रुतिविटङ्कविक्रीडिते । शरद्विहसिताटवीकुहरभूविहारप्रिये रतिस्त्वयि तरस्विनी मम सलीलमुन्मीलतु ॥ २१॥

१०

अथ वस्त्रहरणं स्मेराभिः सलिले कलिन्ददुहितुर्मग्नाभिराकन्धरं स्कन्धन्यस्तसमस्तपट्टवसनो नर्मोक्तिभङ्गीपटुः । निर्व्याजं व्रजकन्यकाभिरसकृद् भव्याभिरभ्यर्थितः पायात् तुङ्गकदम्बशाखिशिखरारूढस्त्रिलोकीं हरिः ॥ २२॥ निजगुणोदयोल्लासलोभिता गिरिसुताव्रतारम्भशोभिताः पशुपकन्यकाः सूरजावने रचितमज्जनाः प्रेक्ष्य पावने त्वरितमागतो लुञ्चिताम्बरः प्रियकमाश्रितो रङ्गिणां वरः सपदि लोकयन् गोष्ठबालिका भ्रूकुटिवल्लरीभङ्गुरालकाः स्मितपरिस्फुरद्वक्त्रमण्डलः स्फुटितमालतीकॢप्तकुण्डलः सरभसं ततः शीतवेपितैः प्रणयकोपिभिः सुष्ठुह्रेपितै- वदनविस्फुरत्काकुजल्पनैर्विहितसामभिर्भेदकल्पनैः सिचयसञ्चयं सम्भ्रमाकुलैर्झटितियाचितः कन्यकाकुलैः पृथुतरांसयोरर्पितांशुकः सितरदोल्लसन्मञ्जुलांशुकः प्रकटिताग्रहैर्भूपहेलिभिः सखिकुलादृतैर्जल्पकेलिभि- तरुपुरस्तटे तास्तदा बलादचिरमानयन् गोकुलाबलाः मुदितमुग्धधीः केलिनर्मदः सकलवल्लवीवृन्दशर्मदः प्रकटमम्बरीभूतहस्तकाः सविधमागता नम्रमस्तकाः स पटुरात्मनो वाक्यकारिकाधृतमहोत्सवः प्रेक्ष्य दारिकाः सलिलमज्जने व्यज्य नग्नतां व्रतविधेर्वदन् सुष्ठु भग्नतां शिरसि कारयन्नस्य पूर्तये प्रसभमात्मने क्षेममूर्तये मधुरमञ्जलिं मञ्जुलोचनः प्रणयिनीमनस्तापमोचनः किमपि कन्यकालीभिरानतः प्रणयसङ्कुलादाशु मानतः सुखभरादमूरत्र तर्पयन् वसनसञ्चयं तूर्णमर्पयन् कृतकुमारिकाचित्तदोहदः सकलसुन्दरीप्रेममोहदः प्रणतमण्डलाभीष्टकामधुक् कमनवल्लवीमल्लिकामधुः त्वमखिलेश मामिन्दिरालय व्रजमहेन्द्र हे देव पालय ॥ १०॥ इन्दिरा च्छन्दः । विदधानयापि धवलं तव जगदेवाद्य कीर्तिचन्द्रिकया । केशव पशुपालीनां चित्रं द्विगुणीकृतो रागः ॥ २३॥

११

अथ यज्ञपत्नीप्रसादः परितोषयितुं न यायजूकै- स्त्वमनूचानजनैश्च नासि शक्यः । रतिहार्य रतिं ददस्व वन्दे तव गोविन्द सदा पदारविन्दम् ॥ २४॥ रङ्गतस्तोषितज्ञातिना सङ्गतो धेनुकारातिना कर्णपालीमिलत्पल्लवैर्वेष्टितः सर्वतो वल्लवै- गोपसीमन्तिनीकामुकः काननोत्सङ्गसङ्गामुकः कॢप्तवृन्दाटवीमाननः प्रेक्षितस्मेरगोपाननः संस्तुवन् भूरुहां सम्पदः श्लाघयन् व्याजतः शम्प्रदः स्वान् सखीन् कुषुद्भरोत्तापितान् प्रेमभिः प्रार्थनामापितान् प्रेषयन्नध्वरेऽदूरतः ख्यापितब्राह्मणक्रूरतः कल्पितब्राह्मणावज्ञया प्रेष्ठसङ्क्रामितप्रज्ञया लङ्घितक्षेम्बभाक्सत्रया पूरिकापूरितामत्रया स्थाकिकान्यस्यसद्भक्तया स्नेहसम्पत्तितोऽभ्यक्तया रत्नपात्रीधृतक्षीरया काननोपक्रमाधीरया भाजनन्यस्तसंयावया कौतुकोत्तुङ्गसंरावया गौरवान्निर्भरोत्तालया प्रेक्षितो ब्राह्मणीमालया स्पर्धमानं रुचा हाटकं धारयन्न् उज्ज्वलं शाटकं सखुरंसे करं दक्षिणं न्यस्य लोकोत्रयीरक्षिणं विस्फुरन्नर्तकालङ्कृतिः सञ्चरत्किङ्किणीझङ्कृतिः कान्तिभिर्निन्दितेन्दीवरः सुन्दरोरस्तटे पीवरः सञ्चरन्मञ्जरीकुण्डलः श्लाघितब्राह्मणीमण्डलः कृष्ण हे सुन्दरकुण्ठया प्रेइर्तास्तूर्णमुत्कण्ठया रक्ष नः सङ्गता दूरतः स्वान्तिके त्वं यतः सूरतः क्ष्मासुरीकाकुमित्यग्रतः शीलयन् व्यञ्जितव्यग्रतः सर्वथा दत्ततद्वाञ्छितः कीर्तिविञ्छोलिकालाञ्छितः प्रोषितब्राह्मणीकोऽमलः पल्लवादप्यलं कोमलः सद्गुणैरिन्दिर्यामोदनं भुक्तवान् भोजयन्नोदनं मत्तमातङ्गलीलाकरः किङ्करानन्दिशीलाकरः सर्वदा विभ्रमारम्भवान् खेलताद् गोकुलेऽलं भवान् सन्ततं दारुणापद्धतं पाहि गोविन्द मामुद्धतम् ॥ ११॥ मत्तमातङ्गलीलाकरच्छन्दः । दुःखोच्छित्तिः परममधुरानन्दपूरानुभूतिः सेयं दामोदर तदुचिता साधनानुष्ठितिर्वा । सत्तां धत्ते न कमलभुवोऽप्यन्तरेणार्तबन्धो कारुण्यं ते मुहुरहमतः प्रार्थये तस्य बिन्दुम् ॥ २५॥

१२

अथ गोवर्धनोद्धरणं अमन्दमदमण्डलिरलमखण्डमाखण्डलं न्यरुद्ध रभसेन यः पृथुमुदस्य गोवर्धनम् । अचण्डकरमाधुरीपटलदण्डितुण्डश्रियं तमात्तवरमण्डनं मकरकुण्डल त्वां भजे ॥ २६॥ हेतुवादजजल्पितव्रजवासवाध्वरमर्दने भूसुरोत्करगोमहीधरपूजनोत्सववर्धने कल्पितातुलयूपसङ्कुलशङ्कुलादधिमोदके पर्वतार्चनसम्पदर्जनहेतुतापरिबोधके पुष्पवन्दनधातुचनदन्मण्डिताखिलगोधने गोपमण्डलकल्पिताचलसानुकन्दरशोधने उद्भटारवभूधरोत्सवसञ्जिताखिलबन्धुते तत्परिक्रमपूजनक्रमभूरिसम्भ्रमसन्धुते क्ष्माधरोपमविग्रहोत्तमभुक्तसिस्फुरदोदने मङ्गलाकरविस्फुरद्वरवृन्दवल्लवमोदने रुष्टवासववृष्टिसम्प्लवखिन्नगोकुलवेष्टिते त्राससङ्कुलबन्धुमण्डलशर्मदाद्भुतचेस्टिते दक्षिणेतरपाणिपुष्करशीलतातुलपर्वते विभ्रमाङ्कुरनिर्धूतोद्धुरजम्भमर्दनगर्विते गोत्रगह्वरवासिताब्भरविह्वलात्मसुहृज्जने कारितोद्भवदद्भूतार्णवबान्धवव्रजमज्जने नन्दिताशयमित्रसञ्चयवीक्षितस्फुरदानने मेदुरस्मितकौमुदीकृतरक्तयौवतमानने भीतनन्दितविस्मयाञ्चित मातृपाण्युपलालिते चारुचञ्चललोचनाञ्चलराधयापि निभालिते मारुतोन्मदचण्डनीरदमण्डलाशनिवारणे सम्पदन्धितशक्रसञ्चितगर्वचर्वणकारणे सप्तवासरहस्तसंस्तरशायितातुलपर्वते निर्मदीकृतशक्रसंवृतनीरदेक्षणनिर्वृते मञ्जुभाषितमुद्रया कृतबान्धवावलिनिष्क्रमे कौतुकोच्चलमित्रमण्डलगीतमङ्गल्विक्रमे पादपोज्ज्वलतन्निजस्थलयोजितप्रवराचले सर्वदा व्रजबान्धवव्रजरक्षणव्रतनिश्चले फुल्लवल्लवनाथयोर्नवहर्षवीक्षणसक्षणे कुङ्कुमाक्षतपल्लवाक्षतवल्लवीकृतरक्षणे छन्नभानुनि शैलसानुनि पीठितप्रवरांशुके भीतलज्जितशक्रवन्दितपादपङ्कजपांशुके स्मेरसम्मुखविस्फुरन्मुखलुप्तवासवभीभ्रमे तन्मनोहरवर्णनिर्भरभारतीभरविभ्रमे गोशिवप्रदमिन्द्रतापदमेत्य निर्भरनन्दिते गायदम्बरलम्बितुम्बुरुरागडम्बरवन्दिते मुग्धसौरभदिग्धसौरभदुग्धपूरकृतोक्षणे कल्पिताखिलपिष्टपातुलतापमण्डलमोक्षणे मत्तकोकिलविभ्रमे किल माधव त्वयि सम्मुखी वर्ततां मम पुरुषोत्तम लोलबुद्धिशिलीमुखी ॥ १२॥ मुग्धसौरभच्छन्दः श्यामोत्तुङ्गभुजार्गले विनिहितः कृष्णेन वृष्टिच्छटा धैतैर्धातुभिरेष तालकुनटीमुख्यैर्गिरिर्गौरितः । शुद्धाष्टापदकल्पितस्य विपुलच्छत्रस्य लक्ष्मीभरं बिभ्रद्गारुडरत्ननिर्मितमहादण्डस्य विभ्राजते ॥ २७॥

१३

अथ नन्दापहरणं नन्दापहारचकितस्य किरीटश‍ृङ्ग भृङ्गावलीपरिचितं सलिलेश्वरस्य । हृद्यं सनन्दनदुरापपरागगन्धं वन्दे मुकुन्द तव देव पदारविन्दम् ॥ २८॥ नीराधिपभृत्याहृतगोपेश्वरमार्गाश्रित लब्धाम्बुधिनाथालय पाशीडितलीलाचय शुद्धोज्ज्वलवाणीसुध दासायितपाशायुध मन्तुक्लमसम्मार्जन तन्निर्मितहर्षार्जन भक्त्यर्पितनन्देक्षण लब्धातुलचित्तक्षण पित्रा सह गेहं गतमातृक्लमहारिव्रत सर्वाद्भुतसन्दर्शनचित्तान्वितनन्दानन सङ्कर्णितलोकोत्तरतत्तन्निजचर्याभर सम्भावितसर्वेश्वरभावोत्सुकगोपोत्कर हृद्येङ्गितसंवेदनसङ्कल्पिततत्साधन दिव्यह्रदमध्यार्पितगोधुग्गणसन्दर्शित सच्चिन्मयलोकोत्तम निष्कासितगोपभ्रम सन्धुक्षितबन्धुव्रज सञ्चारितकीर्तिध्वज गोपीगणशर्माकर मां पालय दामोदर ॥ १३॥ सम्फुल्लच्छन्दः । लोको रम्यः कोऽपि वृन्दाटवीतो नास्ति क्वापीत्यञ्जसा बन्धुवर्गम् । वैकुण्ठं यः सुष्ठु सन्दर्श्य भूयो गोष्ठं निन्ये पातु स त्वां मुकुन्दः ॥ २९॥

१४

अथ रासक्रीडा परिस्फुरतु सुन्दरं चरितमत्र लक्ष्मीपते- स्तथा भुवननन्दिनस्तदवतारवृन्दस्य च । हरेरपि चमत्कृतिप्रकरवर्धनः किन्तु मे बिभर्ति हृदि विस्मयं कमपि रासलीलारसः ॥ ३०॥ शारदविधुवीक्षणमधुवर्धितमदपूर इष्टभजनवल्लभजनचित्तकमलसूर गोपयुवतिमण्डलमतिमोहनकलगीत मुक्तसकलकृत्यविकलयौवतपरिवीत योषिदमलनेत्रकमललोभिदशनमाल कौतुकभरनिर्मितखरनर्मवचनजाल तन्निशमनसाश्रुनयनभीरुभिरनुनीत वल्लभजनखेदशमनविभ्रमभरवीत श्यामविमलकान्तिपटलधूतमदनलक्ष रक्तिमधरयोषिदधरचुम्बरचनदक्ष विग्रहपदयौवतमदवीक्षणपरिलीन चण्डिमधरभक्तनिकरमानभुजगवीन लोलगतिभिरार्तमतिभिराभिरनभिदृष्ट पुष्पगुरुषु वल्लितरुषु भूरिषु परिपृष्ट लब्धनलिनगन्धपुलिनगोप्यनुकृतलील शश्वदमितरङ्गरमितराधिक वरशील फुल्लसुषमवन्यकुसुममण्डितदयिताङ्ग केलितलिनवक्त्रनलिनभृङ्गिततदपाङ्ग निर्भररतिवर्धनमतिनिह्नतनिजदेह प्रेमशरणवल्लभगणमानसकुशलेह दृष्टविकलराधनिखिलयौवतपरिहूत भूरिरुदिततत्तदुदितवीथिभिरभिभूत विक्लवतनुगोपसुतनुलोचनपदवीत चारुहसन पीतवसन कुङ्कुमभरपीत नन्दितमतियोषयुवतिवाससि विनिविष्ट तुष्टिरचनचारुवचनधूतहृदयरिष्ट सम्मदचयफुल्लहृदययौवतततरास कुन्दरदनचारुवदनशोभितमृदुहास द्विद्वियुवतिमध्यवसतिवर्धितरुचिकाम्य लब्धललितभृङ्गवलितचम्पकततिसाम्य स्वस्वसविधबोधिविविधवेशयुवतिहृद्य शङ्करमुखदैवतसुखवर्धिनटनविद्य मोहितशशिमण्डल वशिखेचरमुनियोष किङ्किणियुतनूपुररुतलम्भितपरितोष सौरभपुरमिष्टखपुररञ्जितमधुरास्य सुष्ठुमहितगीतसहितयौवतततलास्य विश्वकरणधैर्यहरणकारणकलगान रक्तिभिरुपरुद्धपशुपभीरुकलितम कूजिवलयताण्डवलयघूर्णितसुरराजि कोमलरणषट्पदगणगुञ्जितभरभाजि तत्र रहसि रासमहसि सम्भृतवरशोभ मौक्तिकशुचिसुस्मितरुचिसृष्टयुवतिलोभ मार्जितरतिखिन्नयुवतिमण्डलमृदुगण्ड प्रेमललहकामकलहपण्डितभुजदण्ड विभ्रमपरवल्गुनखरचिह्नितनववाम सौष्ठवयुतकान्तिभिरुत काममनसिकाम शीतसलिलकेलिकलिलचित्तयुवतिसिक्त दीव्यदचिरजातरुचिरदीप्तिभिरतिरिक्त देवविचितपुष् पुषरचितवृष्टिभिरभिवृष्ट प्रेमसरलकेलितरलगोपसुतनुदृष्ट विस्फुरदिभनायकनिभ मञ्जुलजलखेल चञ्चलकरपुष्करवरकृष्टयुवतिचेल रत्नभवनसन्निभवनकुञ्जविहितरङ्ग रागनिरतयौवतरतिचिह्नविलसदङ्ग सन्धृतनय नन्दतनय सुन्दर जय वीर यामुनतटमण्डलनट रासरचनधीर पापानि मयि दुर्गतिजयिपादभजनलेश धेहि करुण दृष्टिमरुणलोचन निखिलेश ॥ १४॥ ललितभृङ्गच्छन्दः । रम्भोरूनिकुरम्बनिर्भरपरीरम्भेण लब्धद्युते- र्बिभ्राणस्य तडित्कदम्बविलसत्कादम्बिनीविभ्रमम् । क्रीडाडम्बरधूतजृम्भमथनस्तम्बेरमोरुश्रियो रासारम्भरसार्थिनस्तव विभो वन्दे पदाम्भोरुहम् ॥ ३१॥ उल्ललवल्लवललना धरपल्लवचुम्बनोल्लसितम् । नौमि समल्लीमाल्यं हरिमिह हल्लीसकोत्फुल्लम् ॥ ३२॥

१५

अथ सुदर्शनादिमोचनं शङ्खचूडनिधनं च बिभ्रतं श्रवणसीम्नि शारदं पद्ममुज्ज्वलकलाविशारदम् । वल्लवीहृदयहारनायकं हन्त चित्त भज गोष्ठनायकम् ॥ ३३॥ भूरुहोल्लसदम्बिकावनमण्डलान्तरभूमिपावनं अब्जसम्भवकन्यकोदकनिर्मिताप्लवमक्षिमोदक वारिदोज्ज्वलकान्तिडम्बरमाप्तकाञ्चनभास्वरदम्बरं आत्तवल्लवराड्भुजङ्गममूर्तिकल्पितपादसङ्गमं उग्रसङ्कटभाक्सुदर्शनशापमोचनमिष्टदर्शनं आत्मवल्लभनन्दमोचनमुद्धृताखिलगोपशोचनं आश्रयामि भवन्तमुज्ज्वलकान्तिकन्दलधुतकज्ज्वलं आनितोज्ज्वलशर्वरीमुखमाप्तपूर्वजसङ्गसङ्गमुन्मुख वल्लवाखिलवल्लभातुलनेत्रखञ्जनविभ्रमाकुलं अद्भुतामलगीतिमोहितवल्लवीकुलमात्तलोहित चन्दनं खलयक्षनायकभीतियौवतशान्तिदायकं उग्रविग्रहयक्षमर्दनमङ्गनागणरङ्गवर्धनं आप्तगुह्यकरत्ननन्दितपूर्वजं भुवनेन्द्रवन्दित पादपद्म भवन्तमाहितगोकुलोत्सवमङ्गनाहित नौमि माधव मां कृपालय दुर्गतं जगदीश पालय ॥ १५॥ कान्तिडम्बरच्छन्दः । जयति महोत्सवविद्या विद्याधरशापमर्दिनी मूर्तिः । परिभूतशङ्खचूडचूडामन्णिरखिललोकस्य ॥ ३४॥

१६

अथ गोपिकागीतं निर्यासः श्यामलिम्नां परिणतिरमलप्रेमलक्ष्मीभराणां साक्षात्कारः कृपाणामखिलमधुरतासम्पदां संप्रदायः । गाम्भीर्यं बिभ्रमाणामुपचितिरमितश्चातुरीणां चिरं वो भूयादाभीरनारीकुचकलसतटालङ्कृतिर्मङ्गलाय ॥ ३५॥ दिवसविरहार्तयुवतिकृतवार्त पृथुलतरवामभुजशिखरधाम विलसदवतंस वदनधृतवंश सुरनगरयोषिदखिलमतिमोषि मधुरतरगीत पशुनिवहवीत सरिदुदकपूरविरतिविधिशूर कमलभवभर्गमुखविबुधवर्ग मतिदुरनुमानरसदकलगान मदयदवलोक मुषितनतशोक हृतहरणजात कलितसुखवात गिरिशमुखदेव कृतचरणसेव मदजनितघूर्णनयन रसपूर्ण गतिविजितनाग धृतघुसृणराग युवतिदिनतापहरमधुरलाप चटुल नटवेश कृपय मथुरेश ॥ १६॥ मुखदेवच्छन्दः ॥ जगदुद्धुरमाधुरीधूरीणां अधुना मन्दिरमिन्दिरादुरापा । मम तर्षभरान् मुरान्तक त्वन् मुरलीनादसुधाधुनी धुनीताम् ॥ ३६॥

१७

अथारिष्टवधादिकं तुरगदनुसुताङ्गग्रावभेदे दधानः कुलिशघटिततटङ्कोद्दण्डविस्फूर्जितानि । तदुरुविकटदंष्ट्रोन्मृष्टकेयूरमुद्रः प्रथयतु कुशलं वः कैशवो वामबाहुः ॥ ३७॥ वृषदनुजजनितरुजपशुपकुलतोषणं स्वकरतलनिनदखलवृषभपरिरोषणं दयितवरभुजशिखरनिहितभुजदण्डकं जगदसुखविकटमुखदनुजमदखण्डकं निविडबलचटुलमिलदनडुदपनोदनं गगनतलमिलदखिलसुरनिकरमोदनं भुजविभवमहिमलवदलितवृषश‍ृङ्गकं तदभिहतिदलितदितितनुजतनुभृङ्गकं निजनिकटगतिविकटहयदनुजलोचितं प्रणयभरमृदुलतरयुवतिगणशोचितं अवगणितगुरुरणिततुरगखुरघट्टनं निजललितगतिकलिततदुरुमदकुट्टनं धनुरयुतपरिगमितहयदनुजविग्रहं पृथुवदनभुजघटनकृततदतिनिग्रहं भुजभुजगयुतितुरगरदहरणकारणं तदुपचयविहितहयदनुजतनुदारणं निजललितलवदलितजगदवशकेशिनं प्रमदकुलरसचटुलपशपसभवेशिनं दरहसितरुचिरमितनुतिचतुरनारदं गिरिशवरनिखिलसुरनिकरसुखभारदं उरणदतिचपलमतिसुहृदवनखेलनं तदपहृतिमिलदमतिदनुजकृतमेलनं स्वशचरनिकरहरदनुजकृतिवेदिनं जगदभयवलदनयमयतनयभेदिनं सकृदमलपदकमलविनतभयमोचनं भज सदयमयि हृदय सरसिरुहलोचनम् ॥ १७॥ गुच्छकमिदं छन्दः । येनारिष्टः प्रापितोऽभूदरिष्टं चक्रे केशी लीलयैवावकेशी । व्योमोऽलम्भि व्योमसाम्यं स कष्टाद् गोष्ठाधीशः सुष्ठु गोपायतान्नः ॥ ३८॥ अपवर्गसुखस्पृहोरुवल्ली स्थलकुलङ्कषवीचिरम्बुजाक्ष । तव केलिसुधानदी मदीयं शिशिराङ्गीगलजाङ्गलं गतास्तु ॥ ३९॥ पुरुषोत्तमस्य परितो गोकुलचरितामृतेन कृतसेकः । प्रेममरन्दस्यन्दं तनोतु मम चित्तमाकन्दः ॥ ४०॥

१८

अथ रङ्गस्थलक्रीडा क्रियाद् वः कल्याणं भुजसमरशौटीर्यकणिका विकासेनोद्भूय प्रकटबलमल्लप्रतिभटान् । भजन् स्वरी रङ्गे मदकलमृगेन्द्रस्य ललितं कचाकृष्टिक्रीडामथितमथुरारिर्मधुरिपुः ॥ ४१॥ यः पौरलोकारविन्दावलीहेलिरङ्गीकृतोत्तुङ्गरङ्गस्थलीकेलि- आपीतकौशेयशोभोल्लसन्मूर्तिरावर्तिताशेषलोकोत्सवस्फूर्ति- अक्षीणकण्ठीरवाकुण्ठविक्रान्तिरुग्रं ममर्दोरुदन्तीन्द्रमश्रान्ति यं निर्मितोत्तुङ्गमातङ्गनिर्वाणमुर्वीमहानन्दवृन्दानि कुर्वाणं उद्भासिदानास्रबिन्दूर्मिवर्माणमानम्रसन्तोषनिर्माणकर्माणं उन्मीलितास्तोकविस्तारतारुण्यमन्तस्तमस्तोमविध्वंसिकारुण्यं आलोकयामास भिन्नारिमर्माणमग्रे जनश्रेणिरुद्दामशर्माणं उद्दण्डदोर्दण्डदर्पानुविद्धेन विस्मापितामन्दगन्धर्वसिद्धेन पीनांसपिण्डोल्लसद्दन्तदण्डेन विद्येतिघर्माम्बुसंवीतगण्डेन दीप्तेन्द्रनीलावलीराजदङ्गेन लब्धप्रलम्बारिगोपालसङ्गेन मल्लावली येन रङ्गप्रवेशेन विक्षोभिता मङ्क्षु वीरेन्द्रवेशेन मन्दस्मितारब्धकुन्दालिनिन्दाय वृन्दारकानन्दिपादारविन्दाय चञ्चन्नखश्रेणिभाचक्रबालाय वक्षस्तटीलक्ष्यनक्षत्रमालाय फुल्लीभवच्चिल्लिचापप्रसर्पाय निर्वाहितापूर्वकन्दर्पदर्पाय नार्यो मुहुर्दृष्टमाधुर्यचर्याय यस्मै स्पृहां चक्रुराभीरवर्याय यस्माद् विलासेन रङ्गस्थले रन्तुरानम्रलोकातिशोकापदाहन्तु- इन्द्रादिवृन्दारकानन्दनिर्मातुरक्ष्णोर्विनोदेन वृष्ण्यन्धकान् पातु- आर्याङ्गनातीव्रसाध्वीव्रतच्छेत्तुरव्यग्रमल्लाङ्गनातुष्टिर्निर्बेत्तु- आवल्गतः क्षौणिभर्तापि स त्रासमासाद्य विभ्रान्ताग्रबालस्य पद्मावतीपुत्रहृन्मर्मकीलस्य सर्वात्मनाभीष्टदोर्युद्धलीलस्य युद्धं परिस्फारशौटीर्यघोरस्य चानूरमल्लेन वृत्तं किशोरस्य यस्मिन् मुनिश्रेणिवक्रस्फुरन्नाम्नि विस्तीर्णवक्षःस्थलीविभ्रमद्दाम्नि नव्योल्लसद्वारिवाहावलीधाम्नि निःशेसवीरोत्करोल्लङ्घनस्थाम्नि प्रोद्यत्पदद्योतनिर्धूतपञ्चेषु सौन्दर्यदर्पोद्गमे रम्यमञ्चेषु तुङ्गेष्ववस्थाय चक्रुर्विलक्षाणि भक्तिं प्रभौ भोजदशार्हलक्षाणि चाणूरमूर्धन्यमल्लेभपारीन्द्र स श्रीभवान् पातु मां गोपनारीन्द्र सव्यभ्रमन्मुष्टिकोत्ताडितालाङ्क नेपथ्यभारस्फुरद्धेनुपालाङ्क विद्रावितोद्दामदुर्मल्लपालीक निःशङ्कलास्योल्लसत्पादनालीक रम्याङ्गहारश्रियाकृष्टसाध्वीक ताभिर्निपीताङ्गसौरभ्यमाध्वीक गोपाङ्गनानेत्रपानैकभृङ्गार पुष्पावलीलब्धसर्वाङ्गश‍ृङ्गार भो देवकीशौरिबन्धार्तिलुण्ठाक दिक्चक्रवालक्वणत्कीर्तिघण्टाक भक्तोग्रसेनार्पितस्फीतसप्ताङ्ग मां रक्ष कुब्जाङ्गरागेण लिप्ताङ्ग ॥ १८॥ भृङ्गारच्छन्दः मल्लानामुल्लङ्घ्य रङ्गे करविचलदसिर्येन मञ्चप्रपञ्चे केशेष्वाकृष्य कंसो विघटितमुकुटं विघ्नहेतुर्निजघ्ने । स त्वं सत्त्वाधिराज स्फुरदुरुकरुणाडम्बरालम्बिचेताः पाताद् दुःखाब्धिपाताद् यदुकुलकमलोद्दण्डचण्डद्युतिर्माम् ॥ ४२॥ मनसिजफणिजुष्टे लब्धपातोऽस्मि दुष्टे तिमिरगहनरूपे हन्त संसारकूपे । अजित निखिलरक्षाहेतुमुद्धारदक्षां उपनय मम हस्ते भक्तिरज्जुं नमस्ते ॥ ४३॥ समस्तपुरुषार्थतः पृथुतयाद्य भक्तिं विदन् वदन्नपि न यद् भजेत् त्वदकृपात्र हेतुर्विभो । प्रसीद यमुनातटे लुठितमूर्तिरभ्यर्थये कृपां कृपणनाथ हे कुरु मुकुन्द मन्दे मयि ॥ ४४॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां छन्दोऽष्टादशकं समाप्तम् ।
% Text title            : Chando.aShTAdashakam
% File name             : Chando.aShTAdashakam.itx
% itxtitle              : Chando.aShTAdashakam (rUpagosvAmivirachitam)
% engtitle              : Chando.aShTAdashakam
% Category              : vishhnu, krishna, rUpagosvAmin, stavamAlA, aShTAdasha
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Rupagoswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From stavamAlA (rUpagosvAmivirachitA) Garland of Devotional Prayers stavamAlA
% Indexextra            : (Scan, Bengali, Meaning 1, 2, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : February 22, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org