अभीतिस्तवः

अभीतिस्तवः

श्रीगणेशाय नमः । अभीतिरिह यज्जुषां यदवधीरितानां भयं भयाभयविधायिनो जगति यन्निदेशे स्थिताः । तदेतदतिलङ्घितद्रुहिणशम्भुशक्रादिकं रमासखमधीमहे किमपि रङ्गधुर्यं महः ॥ १॥ दयाशिशिरिताशया मनसि मे सदा जागृयुः श्रियाध्युषितवक्षसः श्रितमरुद्वृधा सैकताः । जगद्दुरितघस्मरा जलधिडिम्भडम्भस्पृहः सकृत्प्रणतरक्षणप्रथितसंविदः संविदः ॥ २॥ यदद्य मितबुद्धिना बहुलमोहभाजा मया गुणग्रथितकायवाङ्मनसि वृत्तिवैचित्र्यतः । अतर्कितहिताहितक्रमविशेषमारभ्यते तदप्युचितमर्चनं परिगृहाण रङ्गेश्वर ॥ ३॥ मरुत्तरणिपावकत्रिदशनाथकालादयः स्वकृत्यमधिकुर्वते त्वदपराधतो बिभ्यतः । महत्किमपि वज्रमुद्यतमिवेति यच्छ्रूयते तरत्यनघ यद्भयं य इह तावकस्तावकः ॥ ४॥ भवन्तमिह यः सुधीर्नियतचेतनाचेतनं (स्वधीनियत) पनायति नमस्यति स्मरति वक्ति पर्येति वा । गुणं कमपि वेत्ति वा तव गुणेश गोपायितुः कदाचन कुतश्चन क्वचन तस्य न स्याद्भयम् ॥ ५॥ स्थिते मनसि विग्रहे गुणिनि धातुसाम्ये सति स्मरेदखिलदेहिनं य इह जातुचित्त्वामजम् । तयैव खलु सन्धया तमथ दीर्घनिद्रावशं स्वयं विहितसंस्मृतिर्नयसि धाम नैःश्रेयसम् ॥ ६॥ रमादयित रङ्गभूरमण कृष्ण विष्णो हरे त्रिविक्रम जनार्दन त्रियुगनाथ नारायण । इतीव शुभदानि यः पठति नामधेयानि ते न तस्य यमवश्यता नरकपातभीतिः कुतः ॥ ७॥ कदाचिदपि रङ्गभूरसिक यत्र देशे वशी त्वदेकनियताशयस्त्रिदशवन्दितो वर्तते । तदक्षततपोवनं तव च राजधानी स्थिरा सुखस्य सुखमास्पदं सुचरितस्य दुर्गं महत् ॥ ८॥ त्रिवर्गपथवर्तिनां त्रिगुणलङ्घनोद्योगिनां द्विषत्प्रमथनार्थिनामपि च रङ्गदृश्योदयाः । स्खलत्समयकातरीहरणजागरूकाः प्रभो करग्रहणदीक्षिताः क इह तेन दिव्या गुणाः ॥ ९॥ (क इव) बिभेति भवभृत्प्रभो त्वदुपदेशतीव्रौषधात्- कदध्वरसदुर्विषे बडिशभक्ष्यवत्प्रीयते । (बलिश) अपथ्यपरिहारधीविमुखमित्थमाकस्मिकी तमप्यवसरे क्रमादवति वत्सला त्वद्दया ॥ १०॥ अपार्थ इति निश्चितः प्रहरणादियोगस्तव स्वयं वदसि निर्भयस्तदपि रङ्ग पृथ्वीपते । (वहसि) स्वरक्षणमिवाभवत्प्रणतरक्षणं तावकं यदात्थ परमार्थविन्नियतमन्तरात्मेति ते ॥ ११॥ लघिष्ठसुखसङ्गतैः स्वकृतकर्मनिर्वर्तितैः (सङ्गदैः) कलत्रसुतसोदरानुचरबन्धुसम्बन्धिभिः । धनप्रभृतिकैरपि प्रचुरभीतिभेदोत्तरै- र्न बिभ्रति धृतिं बिभो त्वदनुभूतिभोगार्थिनः ॥ १२॥ (प्रभो) न वक्तुमपि शक्यते नरकगर्भवासादिकं वपुश्च बहुधातुकं निपुणचिन्तने तादृशम् । त्रिविष्टपमुखं तथा तव पदस्य देदीप्यतः (तथा दिवि) किमत्र न भयास्पदं भवति रङ्गपृथ्वीपते ॥ १३॥ भवन्ति मुखभेदतो भयनिदानमेव प्रभो शुभाशुभविकल्पिता जगति देशकालादयः । इति प्रचुरसाध्वसे मयि दयिष्यसे त्वं न चे- त्क इत्थमनुकम्पिता त्वदनुकम्पनीयश्च कः ॥ १४॥ सकृत्प्रपदनस्पृशामभयदाननित्यव्रती न च द्विरभिभाषसे त्वमिति विश्रुतः स्वोक्तितः । यथोक्तकरणं विदुस्तव तु यातुधानादयः कथं वितथमस्तु तत्कृपणसार्वभौमे मयि ॥ १५॥ अनुक्षणसमुत्थिते दुरितवारिधौ दुस्तरे यदि क्वचन निष्कृतिर्भवति सापि दोषाविला । तदित्थमगतौ मयि प्रतिविधानमाधीयतां स्वबुद्धिपरिकल्पितं किमपि रङ्गधुर्य त्वया ॥ १६॥ विषादबहुलादहं विषयवर्गतो दुर्जया- द्बिभेमि वृजिनोत्तरस्त्वदनुभूतिविच्छेदतः । मया नियतनाथवानयमिति त्वमर्थापयन् दयाधन जगत्पते दयित रङ्ग संरक्ष माम् ॥ १७॥ निसर्गनिरनिष्टता तव निरंहसः श्रूयते ततस्त्रियुगसृष्टिवद्भवति संहृतिः क्रीडितम् । तथापि शरणागतप्रणयभङ्गभीतो भवान् मदिष्टमिह यद्भवेत्किमपि मा स्म तज्जीहपत् ॥ १८॥ कयाधुसुतवायसद्विरदपुङ्गवद्रौपदी- विभीषणभुजङ्गमव्रजगणाम्बरीषादयः । भवत्पदसमाश्रिता भयविमुक्तिमापुर्यथा लभेमहि तथा वयं सपदि रङ्गधुर्य त्वया ॥ १९॥ (रङ्गनाथ त्वया) भयं शमय रङ्गधाम्न्यनितराभिलाषस्पृशां श्रियं बहुलय प्रभो श्रितविपक्षमुन्मूलय । स्वयं समुदितं वपुस्तव निशामयन्तः सदा वयं त्रिदशनिर्वृतिं भुवि मुकुन्द विन्देमहि ॥ २०॥ श्रियः परिवृढे त्वयि श्रितजनस्य संरक्षके सदद्भुतगुणोदधाविति समर्पितोऽयं भरः । प्रतिक्षणमतः परं प्रथय रङ्गधामादिषु प्रभुत्वमनुपाधिकं प्रथितहेतिभिर्हेतिभिः ॥ २१॥ कलिप्रणिधिलक्षणैः कलितशाक्यलोकायतै- स्तुरुष्कयवनादिभिर्जगति जृम्भमाणं भयम् । प्रकृष्टनिजशक्तिभिः प्रसभमायुधैः पञ्चभिः क्षितित्रिदशरक्षकैः क्षपय रङ्गनाथ क्षणात् ॥ २२॥ दितिप्रभवदेहभिद्दहनसोमसूर्यात्मकं तमःप्रमथनं प्रभो समुदितास्त्रवृन्दं स्वतः । स्ववृत्तिवशवर्ति तत्त्रिदशवृत्ति चक्रं पुनः- प्रवर्तयतु धाम्नि ते महति धर्मचक्रस्थितिम् ॥ २३॥ मनुप्रभृतिमानिते महति रङ्गधामादिके दनुप्रभवदारुणैर्दरमुदीर्यमाणं परैः । प्रकृष्टगुणकः श्रिया वसुधया च सन्धुक्षितः प्रयुक्तकरुणोदधिः प्रशमय स्वशक्त्या स्वयम् ॥ २४॥ भुजङ्गमविहङ्गमप्रवरसैन्यनाथाः प्रभो तथैव कुमुदादयो नगरगोपुरद्वारपाः । अचिन्त्यबलविक्रमास्त्वमिव रङ्ग संरक्षका जितं त इति वादिनो जगदनुग्रहे जाग्रतु ॥ २५॥ विधिस्त्रिपुरमर्दनस्त्रिदशपुङ्गवः पावको यमप्रभृतयोऽपि यद्विमतरक्षणे न क्षमाः । रिरक्षिषति यत्र च प्रतिभयं न किञ्चित्क्वचित्- स नः प्रतिभटान्प्रभो शमय रङ्गधामादिषु ॥ २६॥ स कैटभतमोरविर्मधुपरागझञ्झामरु- द्धिरण्यगिरिदारणत्रुटितकालनेमिद्रुमः । किमत्र बहुना भजद्भवपयोधिमुष्टिन्धय- स्त्रिविक्रम भवत्क्रमः क्षिपतु मङ्क्षु रङ्गद्विषः ॥ २७॥ यतिप्रवरभारतीरसभरेण नीतं वयः प्रफुल्लपलितं शिरः परमिह क्षमं प्रार्थये । निरस्तरिपुसम्भवे क्वचन रङ्गमुख्ये विभो परस्परहितैषिणां परिसरेषु मां वर्तय ॥ २८॥ प्रबुद्धगुरुवीक्षणप्रथितवेङ्कटेशोद्भवा- मिमामभयसिद्धये पठत रङ्गभर्तुः स्तुतिम् । भयं त्यजत भद्रमित्यभिदधत्स वः केशवः स्वयं घनघृणानिधिर्गुणगणेन गोपायति ॥ २९॥ इति श्रीवेदान्तदेशिकप्रणीतः श्रीमद्वेङ्कटनाथप्रणीतोऽभीतिस्तवः सम्पूर्णः । (श्रीरङ्गक्षेत्रे) Abheeti Sthava (935 to 963) This Stotram has a historical background. The great centre of shrIvaiShNavism--shrIrangam had fallen into the hands of the Muslim invaders led by Malik Kaffer in the 14th Century A. D. Before that the shrine of Lord ra~NganAtha had been closed after secretly sealing the sanctum sanctorum; and the utsava-mUrti removed to places of safety by the pious people of the place. Several great AchAryas lost their lives, and several others, vedAnta deshika among them, ran away from the place in fear and panic. deshika stayed at satyama~Ngalam near Kollegal now in Mysore State. It is from there he sang this stotra in praise of Lord ra~NganAtha, praying to Him to banish their fear and return to His abode. shloka 954 voices the prayer to banish fear in shrIrangam and restore it to its former glory, and shloka 956 prays to the Lord to wield His weapons and remove their fear caused by the Muslims and the yavanas (other foreigners). The Stotra refers to the Lord’s five weapons (pa~nchAyudhas), which He always holds in His hands for our protection, in four places 945, 955, 956 and 957. Fear and/or freedom from fear figure in nearly half the total number of shlokas of this stotram. shloka 953 refers by name to eight staunch devotees of the Lord who obtained complete freedom from fear by taking refuge at the Lord's feet and prays for a similar benefit and blessing for all of us. A pArAyaNam of this atotram has been prescribed by elders for securing freedom from fear of any sort. Proofread by PSA Easwaran
% Text title            : abhItistavaH
% File name             : abhItistavaH.itx
% itxtitle              : abhItistavaH (vedAntadeshikapraNItaH)
% engtitle              : abhItistavaH
% Category              : vishhnu, vedAnta-deshika, vishnu, stava
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : vedAntadeshika
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran, Malathi Ravi Kuduvaa
% Description-comments  : Brihatstotraratnakara 1, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 211, Vishnustutimanjari 3, page 263
% Indexextra            : (Scans 1, 2)
% Latest update         : January 5, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org