अदितिकृतं २ विष्णुस्तोत्रम्
अदितिरुवाच ।
ततः प्रीता जगन्माता धातारं जगतां हरिम् ।
तुष्टावादितिरव्यग्रा कृत्वा तत्प्रवणं मनः ॥ ५-३०-५॥
नमस्ते पुण्डरीकाक्ष! भक्तानामभयङ्कर ।
सनातनात्मन् सर्वात्मन्! भूतात्मन्! भूतभावन ॥ ५-३०-६॥
प्रणेता मनसा बुद्धेरिन्द्रियाणां गुणात्मक!त्रिगुणातीत ।
निर्द्वन्द्व! शुद्धसत्त्व! हृदि स्थित ॥ ५-३०-७॥
सितदीर्घादिनिःशेषकल्पनापरिवर्जित ।
जन्मादिभिरसंस्पृष्ट! स्वप्नादिपरिवर्जित ॥ ५-३०-८॥
सन्ध्या रात्रिरहोभूमिर्गगनं वायुरम्बु च ।
हुताशनो मनो बुद्धिर्भूतादिस्त्वं तथाच्युत ॥ ५-३०-९॥
सृष्टिस्थितिविनाशानां कर्त्ता कर्तृपतिर्भवान् ।
ब्रह्मविष्णुशिवाख्याभिरात्ममूर्त्तिभिरीश्वर ॥ ५-३०-१०॥
देवा यक्षास्तथा दैत्या राक्षसाः सिद्धपन्नगाः ।
कुष्माण्डाश्व पिशाचाश्व गन्धर्वा मनुजास्तथा ॥ ५-३०-११॥
पशवो मृगमातङ्गास्तथैव च सरीसृपाः ।
वृक्षगुल्मलता बह्व्यः समस्तास्तृणजातयः ॥ ५-३०-१२॥
स्थूला मध्यास्तथा सूक्ष्माः स्थूलसूक्ष्मतराश्च ये ।
देहभेदा भवान् सर्वे ये केचित् पुद्गलाश्रयाः ॥ ५-३०-१३॥
माया तवेयमज्ञातपरमार्थातिमोहिनी ।
अनात्मन्यात्मविज्ञानं यया मूढ़ो निरुघ्यते ॥ ५-३०-१४॥
अस्वे स्वमिति भावोऽत्र यत्पुंसामुपजायते ।
अहं ममेति भावोऽत्र यत्प्रायेणाभिजायते ।
संसारमातुर्मायायास्तवैतन्नाथ! चेष्टितम् ॥ ५-३०-१५॥
यैः स्वधर्मपरैर्नाथ! नरैराराधितो भवान् ।
ते तरन्त्यखिलामेतां मायामात्मविमुक्तये ॥ ५-३०-१६॥
ब्रह्माद्याः सकला देवा मनुष्याः पशवस्तथा ।
विष्णुमायामहावर्त्तमोहान्धतमसाऽऽवृताः ॥ ५-३०-१७॥
आराध्य त्वामभीप्सन्ते कामानात्मभवक्षयम् ।
यदेते पुरुषा माया सैवेयं भगवंस्तव ॥ ५-३०-१८॥
मया त्वं पुत्रकामिन्या वैरिपक्षक्षयाय च ।
आराधितो न मोक्षाय मायाविलसितं हि तत् ॥ ५-३०-१९॥
कौपीनाच्छादनप्राया वाञ्छा कल्पद्रुमादपि ।
जायते यदपुण्यानां सोऽपराधः स्वदोषजः ॥ ५-३०-२०॥
तत्प्रसीदाखिलजगन्मायामोहकराव्यय!अज्ञानम् ।
ज्ञानसद्भावभूतं भूतेश! नाशय ॥ ५-३०-२१॥
नमस्ते चक्रहस्ताय शार्ङ्गहस्ताय ते नमः ।
गदाहस्ताय ते विष्णो! शङ्खहस्ताय ते नमः ॥ ५-३०-२२॥
एतत्पश्यामि ते रूपं स्थूलचिह्नोपलक्षितम् ।
न जानामि परं यत्ते प्रसीद परमेश्वर ॥ ५-३०-२३॥
इति विष्णुपुराणे पञ्चमभागे त्रिंशाध्यायान्तर्गतं
अदितिकृतं विष्णुस्तोत्रं समाप्तम् ।
विष्णुपुराण । अध्याय ५/३०/६-२३॥
viShNupurANa . adhyAya 5/30/6-23..
Proofread by PSA Easwaran