अग्निबिन्दुकृतं विष्णुस्तोत्रम्

अग्निबिन्दुकृतं विष्णुस्तोत्रम्

अग्निबिन्दुरुवाच । ॐ नमः पुण्डरीकाक्ष बाह्यान्तःशौचदायिने । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ २५॥ नमामि ते पदद्वन्द्वं सर्वद्वन्द्वनिवारकम् । निर्द्वन्द्वया धिया विष्णो जिष्ण्वादि सुरवन्दित ॥ २६॥ यं स्तोतुं नाधिगच्छन्ति वाचो वाचस्पतेरपि । तमीष्टे क इह स्तोतुं भक्तिरत्र बलीयसी ॥ २७॥ अपि यो भगवानीशो मनःप्राचामगोचरः । समादृशैरल्पधीभिः कथं स्तुत्यो वचः परः ॥ २८॥ यं वाचो न विशन्तीशं मनतीह मनो न यम् । मनो गिरामतीतं तं कः स्तोतुं शक्तिमान्भवेत् ॥ २९॥ यस्य निःश्वसितं वेदाः स षडङ्गपदक्रमाः । तस्य देवस्य महिमा महान्कैरवगम्यते ॥ २.६०.३०॥ अतन्द्रितमनोबुद्धीन्द्रिया यं सनकादयः । ध्यायन्तोऽपि हृदाकाशे न विन्दन्ति यथार्थतः ॥ ३१॥ नारदाद्यैर्मुनिवरैराबालब्रह्मचारिभिः । गीयमानचरित्रोऽपि न सम्यग्योऽधिगम्यते ॥ ३२॥ तं सूक्ष्मरूपमजमव्ययमेकमाद्यं बह्माद्यगोचरमजेयमनन्तशक्तिम् । नित्यं निरामयममूर्तमचिन्त्यमूर्तिं कस्त्वां चराचर चराचरभिन्न वेत्ति ॥ ३३॥ एकैकमेव तव नाम हरेन्मुरारे जन्मार्जिताघमघिनां च महापदाढ्यम् । दद्यात्फलं च महितं महतो मखस्य जप्तं मुकुन्द मधुसूदन माधवेति ॥ ३४॥ नारायणेति नरकार्णवतारणेति दामोदरेति मधुहेति चतुर्भुजेति । विश्वम्भरेति विरजेति जनार्दनेति क्वास्तीह जन्म जपतां क्व कृतान्तभीतिः ॥ ३५॥ ये त्वां त्रिविक्रम सदा हृदि शीलयन्ति कादम्बिनी रुचिर रोचिषमम्बुजाक्षम् । सौदामनीविलसितांशुकवीतमूर्ते तेऽपि स्पृशन्ति तव कान्तिमचिन्त्यरूपाम् ॥ ३६॥ श्रीवत्सलाञ्छन हरेऽच्युत कैटभारे गोविन्द तार्क्ष्यरथ केशव चक्रपाणे । लक्ष्मीपते दनुजसूदन शार्ङ्गपाणे त्वद्भक्तिभाजि न भयं क्वचिदस्ति पुंसि ॥ ३७॥ यैरर्चितोऽसि भगवंस्तुलसीप्रसूनै- र्दूरीकृतैणमदसौरभदिव्यगन्धैः । तानर्चयन्ति दिवि देवगणाःसमस्ता मन्दारदामभिरलं विमलस्वभावान् ॥ ३८॥ यद्वाचि नाम तव कामदमब्जनेत्र यच्छ्रोत्रयोस्तव कथा मधुराक्षराणि । यच्चित्तभित्तिलिखितं भवतोऽस्ति रूपं नीरूपभूपपदवी न हि तैर्दुरापा ॥ ३९॥ ये त्वां भजन्ति सततं भुवि शेषशायिं- स्ताञ्छ्रीपते पितृपतीन्द्रकुबेरमुख्याः । वृन्दारका दिवि सदैव सभाजयन्ति स्वर्गापवर्गसुखसन्ततिदानदक्ष ॥ २.६०.४०॥ ये त्वां स्तुवन्ति सततं दिवि तान्स्तुवन्ति सिद्धाप्सरोमरगणा लसदब्जपाणे । विश्राणयत्यखिलसिद्धिद को विना त्वां निर्वाणचारुकमलां कमलायताक्ष ॥ ४१॥ त्वं हंसि पासि सृजसि क्षणतः स्वलीला लीलावपुर्धर विरिञ्चिनताङ्घ्रियुग्म । विश्वं त्वमेव परविश्वपतिस्त्वमेव विश्वस्य बीजमसि तत्प्रणतोऽस्मि नित्यम् ॥ ४२॥ स्तोता त्वमेव दनुजेन्द्ररिपो स्तुतिस्त्वं स्तुत्यस्त्वमेव सकलं हि भवानिहैकः । त्वत्तो न किञ्चिदपि भिन्नमवैमि विष्णो तृष्णां सदा कृणुहि मे भवजाम्भवारे ॥ ४३॥ इति श्रीस्कादपुराणे काशीखण्डे पूर्वार्द्धे षष्टितमा- ध्यायान्तर्गतं अग्निबिन्दुकृतं विष्णुस्तोत्रं समाप्तम् । स्कन्दपुराण । काशीखण्ड । उत्तरखण्ड । अध्याय ६०/२५-४३॥ skandapurANa . kAshIkhaNDa . uttarakhaNDa . adhyAya 60/25-43.. Proofread by PSA Easwaran
% Text title            : Agnibindukritam Vishnu Stotram
% File name             : agnibindukRRitaMviShNustotram.itx
% itxtitle              : viShNustotram (agnibindukRitaM skandapurANAntargatam OM namaH puNDarIkAkSha bAhyAntaHshauchadAyine)
% engtitle              : agnibindukRRitaM viShNustotram
% Category              : vishhnu, vishnu, skandapurANa, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : skandapurANa | kAshIkhaNDa | uttarakhaNDa | adhyAya 60/25-43||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, 8, English)
% Latest update         : June 24, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org