अक्षरधामाधिपतिलक्षणवर्णनम्
पूर्वं त्वसाधारणलक्षणं यच्छ्रीस्वामिनारायणदिव्यमूर्तेः ।
पूर्वावतारान् सकलान् स्वमूर्ती सन्दर्शयेदुक्तमिदं हि लक्ष्म ॥ १॥
वैकुण्ठलोकादिषु दिव्यमूर्ती दिव्येऽद्भुतैश्वर्यसुखे च तासु ।
स्वकीयरूपे शतशो मनुष्यान् सन्दर्शयेच्चिह्नमिदं द्वितीयम् ॥ २॥
साधारणानपि तं समाधिं यः कारयित्वा मनसः प्रवृत्तिम् ।
संरोधयेत् स्वात्मनि तत्तृतीयं लक्ष्मोदितं ब्रह्मपुराधिपस्य ॥ ३॥
अन्यावतारैः श्रितमानवानां श्रेयस्कृतं वृत्तिनिरोधनं वा ।
सन्दर्शयेत्तद्वयमेव भक्तद्वारा हि तुर्यं प्रभुलक्षणं तत् ॥ ४॥
धाक्षरे स्वे बहुप्रकाशे मुक्तव्रजैः स्नेहभरेण सेव्याम् ।
सिंहासनस्थां रुचिरां स्वमूर्तिं सन्दर्शयेद् यादृशतादृशान्नृन् ॥ ५॥
तत्पञ्चमं लक्षणमत्र धार्मेः
अथोच्यते चिह्नमिदं हि षष्ठम् ।
पूर्वागमे ज्ञानविरागभक्तिधर्मादिकं योगपथश्च साङ्ख्यम् ।
कुर्याद्ध तद्वर्णनमात्मयोगात् स्वैः कारयेत्तत्र चमत्कृतिश्च ।
पूर्वागमार्थादपि सौष्ठवार्थः प्रादुर्भवेच्छान्तिकरः सुधेव ॥ ६॥
स्वालोकमात्रेण सहस्रजीववृत्तेस्तु नैसर्गिकरोधनं स्यात् ।
स्वस्मिन् यथा चुम्बकमेति लोहं तत् सप्तमं चिह्नम् ॥ ७॥
अथाष्टमं च ।
कस्यापि नुः स्वाश्रयमात्रतोऽपि महाशिवं स्याद्धि तदन्तकाले ।
तमक्षरं नेतुमियात् स्वकीयैर्मुक्तैर्विमानैः सहितः स धार्मिः ॥ ८॥
निजे निदेशे शतशो मनुष्यान् ज्ञाने तथा त्यागयुते स्वधर्मे ।
संस्थापयेद् घोरकलौ युगेऽस्मिन् प्रोक्तं प्रभोस्तन्नवमं हि लक्ष्म ॥ ९॥
जनाः स्वसम्बन्धगवस्त्रपुष्पस्पर्शेक्षणाभ्यां समियुः समाधिम् ।
पश्येयुरैश्यं हरिमत्र धाम विनापि योगं दशमं च लक्ष्म ॥ १०॥
देशान्तरे कश्चन धार्मिमूर्तेर्वार्ता प्रकुर्यात् पुरतो नृणान्तम् ।
श्रुत्वा जनास्तेजसि लोकयेयुरेकादशं चिह्नमिदं हरेश्च ॥ ११॥
प्रधानजीवेश्वरकालमायामुक्ताक्षराणां पुरुषोत्तमस्य ।
पृथक् पृथग् लक्षणमेव कुर्यात् स्वयं स्वभक्तैरपि कारयेद्वा ॥ १२॥
सैश्वर्यरूपाणि पुनश्च तेषां प्रदर्शयेद्वा बहुशो जनांश्च ।
सर्वोत्तमस्वाक्षरधामभाजश्चिह्नं परं द्वादशमुक्तमेतत् ॥ १३॥
सन्दर्शयेत् पूर्वनिजावताराँल्लीनान् स्वमूर्ती शतशो मनुष्यान् ।
नो न तेषु स्वयमद्भुतं तत् त्रयोदशं धर्मसुतस्य लक्ष्म ॥ १४॥
इति श्रीअक्षरधामाधिपतिलक्षणवर्णनं सम्पूर्णम् ।