अक्रूरकृतं श्रीकृष्णस्तोत्रम्
प्रत्युवाच स तं कृष्णमाश्चर्यं भवता विना ।
किं भविष्यति लोकेषु चरेषु स्थावरेषु च ॥ १॥
तत्राश्चर्यं मया दृष्टं यत्कृष्ण भुवि दुर्लभम् ।
तदिहापि यथा तत्र पश्यामि च रमामि च ॥ २॥
संगतश्चास्मि लोकानामश्चर्येणेह रूपिणा ।
अतः परतरं कृष्ण नाश्चर्यं द्रष्टुमुत्सहे ॥ ३॥
को वायं त्रिषु लोकेषु विस्मयं भवता विना ।
नमः सर्वात्मने तुभ्यं विस्मयाय जगत्पते ॥ ४॥
नमोऽस्तु देवदेवेश तुभ्यं सर्वात्मने नमः ।
नमोऽस्तु विष्णवे तुभ्यममेयाय जगत्पते ॥ ५॥
किं वानेन जगन्नाथ कृतकृत्योऽस्मि सांप्रतम् ।
कृत्यशेषं सदा विष्णो किमुत्सृजसि सांप्रतम् ॥ ६॥
तदागच्छ गमिष्यामः कंसराजपुरीं प्रभो ।
यावन्नस्तं व्रजत्येष दिवसान्ते दिवाकरः ॥ ७॥
इति हरिवंशान्तर्गतं अक्रूरकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ।
हरिवंश । अनुबन्ध - परिशिष्ट । अध्याय ७०.३६-३९॥
harivaMsha . anubandha - parishiShTa . adhyAya 70.36-39..
Proofread by PSA Easwaran