अक्रूरकृतं २ श्रीकृष्णस्तोत्रम्
अक्रूर उवाच ।
ततो विज्ञातसद्भावः स तु दानपतिस्तथा ।
तुष्टाव सर्वविज्ञानमयमच्युतमीश्वरम् ॥ ५-१८-४७॥
सन्मात्ररूपिणेऽचिन्त्यमहिम्ने परमात्मने ।
व्यापिने नैकरूपैकस्वरूपाय नमो नमः ॥ ५-१८-४८॥
सत्त्वरूपाय तेऽचिन्त्य! हविर्भूताय ते नमः ।
नमोऽविज्ञातपाराय पराय प्रकृतेः प्रभो ॥ ५-१८-४९॥
भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् ।
आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः ॥ ५-१८-५०॥
प्रसीद सर्वसर्वात्मन् क्षराक्षरमयेश्वर ।
ब्रह्म-विष्णु-शिवाख्याभिः कल्पनाभिरुदीरितः ॥ ५-१८-५१॥
अनाख्येयखरूपात्मन्! अनाख्येयप्रयोजन ।
अनाख्येयाभिधानं त्वां नतोऽस्मि परमेश्वर ॥ ५-१८-५२॥
न यत्र नाथ! विद्यन्ते नामजात्यादिकल्पनाः ।
तद्ब्रह्म परमं नित्यमविकारि भवानजः ॥ ५-१८-५३॥
न कल्पनामृतेऽर्थस्य सर्वस्याधिगमो यतः ।
ततः कृष्णाच्युतानन्तविष्णुसंज्ञाभिरीड्यसे ॥ ५-१८-५४॥
सर्वार्थस्त्वमज! विकल्पनाभिरेतैर्वाद्यैर्जगदखिलं त्वमेव विश्वम् ।
विश्वात्मंस्त्वमिति विकारभावहीनः सर्वस्मिन् न हि भवतोऽस्ति ॥ ५-१८-५५॥
किञ्चिदन्यत्त्वं ब्रह्मा पशुपतिरर्यमा विधाता
धाता त्वं त्रिदशपतिः समीरणोऽग्निः तोयेशो धनपति-
रन्तकस्त्वमेको भिन्नार्थैर्जगदपि पासि शक्तिभेदैः ॥ ५-१८-५६॥
विश्वं भवान् सृजति सूर्यगभस्तिरूपो
विश्वञ्च ते गुणमयोऽयमज! प्रपञ्चः ।
रूपं परं सदितिवाचकमक्षरं य-
ज्ज्ञानात्मने सदसते प्रणातोऽस्मि तस्मै ॥ ५-१८-५७॥
ओँनमो वासुदेवाय नमः सङ्कर्षणाय ते ।
प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ॥ ५-१८-५८॥
इति विष्णुपुराणे पञ्चमभागे अष्टादशाध्यायान्तर्गतं
अक्रूरकृतं श्रीकृष्णस्तोत्रं समाप्तम् ।
विष्णुपुराण । अध्याय ५/१८/४८-५८॥
viShNupurANa . adhyAya 5/18/48-58..
Proofread by PSA Easwaran