श्रीअनन्तपद्मनाभमङ्गलस्तोत्रम्
श्रियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्री शेषशायिनेऽनन्तपद्मनाभाय मङ्गलम् ॥ १॥
स्यानन्दूरपुरीभाग्यभव्यरूपाय विष्णवे ।
आनन्दसिन्धवेऽनन्तपद्मनाभाय मङ्गलम् ॥ २॥
हेमकूटविमानान्तः भ्राजमानाय हारिणे ।
हरिलक्ष्मीसमेताय पद्मनाभाय मङ्गलम् ॥ ३॥
श्रीवैकुण्ठविरक्ताय शङ्खतीर्थाम्बुधेः तटे ।
रमया रममाणाय पद्मनाभाय मङ्गलम् ॥ ४॥
अशेष चिदचिद्वस्तुशेषिणे शेषशायिने ।
अशेषदायिनेऽनन्तपद्मनाभाय मङ्गलम् ॥ ५॥
यत्पदं परमं सेव्यं सदा पश्यन्ति सूरयः ।
सेनापतिमुखास्तस्मै पद्मनाभाय मङ्गलम् ॥ ६॥
चुतुर्मुखेश्वरमुखैः पुत्रपौत्रादिशालिने ।
समस्तपरिवाराय पद्मनाभाय मङ्गलम् ॥ ७॥
दिवाकरयतीशानयोगिहृत्पद्मभानवे ।
परस्मै ब्रह्मणेऽनन्तपद्मनाभाय मङ्गलम् ॥ ८॥
पराङ्कुशप्रबन्धोक्तिप्रथिताय परमात्मने ।
पूर्णाय महतेऽनन्तपद्मनाभाय मङ्गलम् ॥ ९॥
वञ्चिभूपशिरोरत्नरश्मिनीराजिताङ्घ्रये ।
वाञ्छिताखिलदायास्तु पद्मनाभाय मङ्गलम् ॥ १०॥
सर्वावयवसौन्दर्य सौवर्णसुषमा जुषे ।
सदा सम्मोहनायास्तु पद्मनाभाय मङ्गलम् ॥ ११॥
योगेश्वराय कृष्णाय नरसिंहाय योगिने ।
योगमुद्राभिरामाय पद्मनाभाय मङ्गलम् ॥ १२॥
अनन्तपुरनाथाय निरन्तरदयामुचे ।
अनन्तपद्मनाभाय नित्यश्रीः नित्यमङ्गलम् ॥ १३॥
इति श्रीअनन्तपद्मनाभमङ्गलस्तोत्रं सम्पूर्णम् ।