अर्जुनकृतं २ श्रीकृष्णस्तोत्रम्
अर्जुन उवाच ।
दश वर्षसहस्राणि यत्र सायं गृहो मुनिः
व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने ॥ १०॥
दश वर्षसहस्राणि दश वर्षशतानि च ।
पुष्करेष्ववसः कृष्ण त्वमपो भक्षयन्पुरा ॥ ११॥
ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन ।
अतिष्ठ एकपादेन वायुभक्षः शतं समाः ॥ १२॥
अपकृष्टोत्तरासङ्गः कृशो धमनिसन्ततः ।
आसीः कृष्ण सरस्वत्यां सत्रे द्वादशवार्षिके ॥ १३॥
प्रभासं चाप्यथासाद्य तीर्थं पुण्यजनोचितं
तथा कृष्ण महातेजा दिव्यं वर्षसहस्रकं
आतिष्ठस्तप एकेन पादेन नियमे स्थितः ॥ १४॥
क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशव ।
निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः ॥ १५॥
निहत्य नरकं भौममाहृत्य मणिकुण्डले ।
प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः ॥ १६॥
कृत्वा तत्कर्म लोकानामृषभः सर्वलोकजित् ।
अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान् ॥ १७॥
ततः सर्वेश्वरत्वं च सम्प्रदाय शचीपतेः ।
मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव ॥ १८॥
स त्वं नारायणो भूत्वा हरिरासीः परन्तप ।
ब्रह्मा सोमश्च सूर्यश्च धर्मो धाता यमोऽनलः ॥ १९॥
वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः ।
अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम ॥ २०॥
तुरायणादिभिर्देव क्रतुभिर्भूरिदक्षिणैः ।
अयजो भूरितेजा वै कृष्ण चैत्ररथे वने ॥ २१॥
शतं शतसहस्राणि सुवर्णस्य जनार्दन ।
एकैकस्मिंस्तदा यज्ञे परिपूर्णानि भागशः ॥ २२॥
अदितेरपि पुत्रत्वमेत्य यादवनन्दन ।
त्वं विष्णुरिति विख्यात इन्द्रादवरजो भुवि ॥ २३॥
शिशुर्भूत्वा दिवं खं च पृथिवीं च परन्तप ।
त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा ॥ २४॥
सम्प्राप्य दिवमाकाशमादित्यसदने स्थितः ।
अत्यरोचश्च भूतात्मन्भास्करं स्वेन तेजसा ॥ २५॥
सादिता मौरवाः पाशा निसुन्दनरकौ हतौ ।
कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ॥ २६॥
जारूथ्यामाहुतिः क्राथः शिशुपालो जनैः सह ।
भीमसेनश्च शैब्यश्च शतधन्वा च निर्जितः ॥ २७॥
तथा पर्जन्यघोषेण रथेनादित्यवर्चसा ।
अवाक्षीर्महिषीं भोज्यां रणे निर्जित्य रुक्मिणम् ॥ २८॥
इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान् ।
हतः सौभपतिः शाल्वस्त्वया सौभं च पातितम् ॥ २९॥
इरावत्यां तथा भोजः कार्तवीर्यसमो युधि ।
गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ ॥ ३०॥
तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन ।
द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यसि ॥ ३१॥
न क्रोधो न च मात्सर्यं नानृतं मधुसूदन ।
त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु ॥ ३२॥
आसीनं चित्तमध्ये त्वां दीप्यमानं स्वतेजसा ।
आगम्य ऋषयः सर्वेऽयाचन्ताभयमच्युत ॥ ३३॥
युगान्ते सर्वभूतानि सङ्क्षिप्य मधुसूदन ।
आत्मन्येवात्मसात्कृत्वा जगदास्से परन्तप ॥ ३४॥
नैवं पूर्वे नापरे वा करिष्यन्ति कृतानि ते ।
कर्माणि यानि देव त्वं बाल एव महाद्युते ॥ ३५॥
कृतवान्पुण्डरीकाक्ष बलदेवसहायवान् ।
वैराजभवने चापि ब्रह्मणा न्यवसः सह ॥ ३६॥
इति महाभारते आरण्यपर्वणि १३ अध्यायान्तर्गतं
अर्जुनकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ।
महाभारत । आरण्यकपर्व । अध्याय १३/१०-३६॥
mahAbhArata . AraNyakaparva . adhyAya 13/10-36..
Proofread by PSA Easwaran