अवतारत्रयस्तोत्रम्
मध्वहृत्कमलस्थितं वरदायकं करुणाकरं
लक्ष्मणाग्रजमक्षयं दुरितक्षयं कमलेक्षणम् ।
रावणान्तकमव्ययं वरजानकीरमणं विभुं
अञ्जनासुतपाणिकञ्जनिषेवितं प्रणमाम्यहम् ॥ १॥
पालयस्व निपालयस्व निपालयस्व रमापते ।
वादिराजमुनीन्द्रवन्दित वाजिवक्त्र नमोऽस्तु ते ॥
देवकीतनयं निजार्जुनसारथिं गरुडध्वजं
पूतनाशकटासुरादिखलान्तकं पुरुषोत्तमम् ।
दुष्टकंसनिमर्दनं वररुग्मिणीपतिमच्युतं
भीमसेनकराम्बुजेन सुसेवितं प्रणमाम्यहम् ॥ २॥
पालयस्व निपालयस्व निपालयस्व रमापते ।
वादिराजमुनीन्द्रवन्दित वाजिवक्त्र नमोऽस्तु ते ॥
ज्ञानमुक्तिसुभक्तिदं वरबादरायणमव्ययं
कोटिभास्करभासमानकिरीटकुण्डलमण्डितम् ।
वाक्सुदर्शनतः कलेः शिरघातकं रमया युतं
मध्वसत्करकञ्जपूजितमक्षयं प्रणमाम्यहम् ॥ ३॥
पालयस्व निपालयस्व निपालयस्व रमापते ।
वादिराजमुनीन्द्रवन्दित वाजिवक्त्र नमोऽस्तु ते ॥
इति श्रीमद्वादिराजपूज्यचरणविरचितं
अवतारत्रयस्तोत्रं सम्पूर्णम् ।
भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ।
Proofread by Malathi Shekar, Revathy R.