श्रीबदरीनाथ सुप्रभातम्

श्रीबदरीनाथ सुप्रभातम्

लक्ष्मीविलास नरसिंह गुणाकरेश वैकुण्ठ केशव जनार्दन चक्रपाणे । भक्तार्तिनाशन हरे मधुकैटभारे भूयात् बदर्यधिपते तव सुप्रभातम् ॥ १॥ लक्ष्मीः प्रसन्नवदना जगदाद्यशक्तिः कृत्वाङ्गरागललितं सुमनोज्ञवेषा । संस्तौति शब्दमधुरैर्मुरमर्दनं त्वां भूयात् बदर्यधिपते तव सुप्रभातम् ॥ २॥ ब्रह्मामहेशगुरुकाव्यसरस्वती च सम्प्राप्य तुङ्गहिमश‍ृङ्गमयी प्रदेशे । संसेवयन्ति हि पदाम्बुजयुग्मकं ते भूयात् बदर्यधिपते तव सुप्रभातम् ॥ ३॥ इन्द्रादयस्सुरगणाश्च विमान दिव्यैः प्राप्ताः कराञ्जलिपुटा भवदन्तिके हि । उद्घोषयन्ति सततं जगदेकनाथं भूयात् बदर्यधिपते तव सुप्रभातम् ॥ ४॥ सूर्यादयो ग्रहगणा नभसस्स्थले च दस्रादितारकगणैस्सहितास्सुनम्राः । मन्दारचम्पककरा बहुपुष्पयुक्ताः द्रष्टुं बदर्यधिपते तव सुप्रभातम् ॥ ५॥ देवर्षिनारद सनन्दन योगिवर्याः सप्तर्षयो भृगुमरीचि वसिष्ठ मुख्याः । द्वारे पठन्ति शुभवेदसुरम्यगाथां भूयात् बदर्यधिपते तव सुप्रभातम् ॥ ६॥ रम्भादयोऽप्सरगणाः सहनृत्तगीतैः गन्धर्वतुम्बुरुमुखाः सहवाद्यघोषैः । गायन्ति गीतसरसैरिह कीर्तिपुञ्जं भूयात् बदर्यधिपते तव सुप्रभातम् ॥ ७॥ श्री शङ्करार्यमुनि मध्वमहायतीन्द्राः रामानुजार्य प्रभुवल्लभ देशिकेन्द्राः । गाथा विरच्य निगमागम तत्त्वसाराः नित्यं जगुस्तव यशो विमलं प्रभातम् ॥ ८॥ भास्वानुदेति विगता हिमशीतबाधा स्नात्वा च वह्निसलिले खलु यात्रिणो हि । नीत्वोपचारनिचयाः प्रभुदर्शनार्थं तिष्ठन्ति चत्वरमुखे तव सुप्रभातम् ॥ ९॥ हैमेषु राजतमयेषु घटेषु नीत्वा शीतोष्णतोयदधिदुग्धघृतादिकं च । स्नानोन्मुखा द्विजवरास्सहवेदपाठैः भूयात् बदर्यधिपते तव सुप्रभातम् ॥ १०॥ पञ्चामृतेन सलिलेन सुगन्धद्रव्यैः अभ्यङ्गनादि सुमनोहर सम्भृतैश्च । सिञ्चन्ति चार्चकवराः स्तुतिभिमनोज्ञैः भूयात् बदर्यधिपते तव सुप्रभातम् ॥ ११॥ श्रीखण्डचन्दन सुगन्धयुजा विलिप्य कौशेयरत्नखचितैश्च सुकान्तिमद्भिः । वस्त्रैर्वराभरणपुष्पचयैर्भवन्तं आभूषयन्ति सततं तव सुप्रभातम् ॥ १२॥ भोज्यानि षड्रसमयानि विधाय सूदाः दध्योदनादि घृतपायसमिश्रितानि । नित्यं प्रफुल्लमनसा विनिवेदयन्ति तुभ्यं बदर्यधिपते तव सुप्रभातम् ॥ १३॥ जाम्बूनदीय बहुमूल्यमयं सुपात्रं आपूर्य मिश्रितघृतेन वर्तिकाभिः । नीराजनेन सहवाद्यमृदङ्गघोषैः सन्तर्पयन्ति विबुधास्तव सुप्रभातम् ॥ १४॥ दैत्यं सहस्रकवचं वरदानमत्तं उन्मूलितं सुरगणा बहुधाऽर्थयन्तः । नारायणो नरसखोऽवततार भूमौ संहत्य दानवपतिं विदधे प्रभातम् ॥ १५॥ संसारसागरसमुत्तरणैकहेतोः अष्टाक्षरं सकलसिद्धिकरं सुमन्त्रम् । आविश्चकार जगदभ्युदयस्य सिद्‍ध्यै क्षेमाय मानवगुणस्य हि सुप्रभातम् ॥ १६॥ यो वै हरिः कृतयुगे बदरीवनेऽस्मिन् तेपे तपो बहुजनस्य हिताय कृच्छ्रम् । श्रीश्रीनिवास जगदेक दयैकसिन्धुः कुर्याज्जनस्य सकलस्य स सुप्रभातम् ॥ १७॥ इत्थं नरहरिं करुणाब्धिसेतुं लक्ष्मीपतिं सुरगुरुं प्रणिपत्य मूर्ध्ना । याचे मुदा द्विजवरो मुरलीधराख्यो भद्रं करोतु सततं बदरीविशालः ॥ १८॥ इति मुरलीधरशास्त्रिणा रचितं श्रीबदरीनाथ सुप्रभातं सम्पूर्णम् Encoded and proofread by Nidhish Aryan nidhish.184 at gmail.com
% Text title            : badarInAthasuprabhAtam
% File name             : badarInAthasuprabhAtam.itx
% itxtitle              : badarInAthasuprabhAtam (muralIdharashAstrivirachitam)
% engtitle              : badarInAthasuprabhAtam
% Category              : vishhnu, suprabhAta
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Nidhish Aaryan nidhish.184 at gmail.com
% Proofread by          : Nidhish Aaryan nidhish.184 at gmail.com
% Latest update         : August 28, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org