बदरीवासिभिः मुनिभिः कृतं श्रीकृष्णस्तोत्रम्

बदरीवासिभिः मुनिभिः कृतं श्रीकृष्णस्तोत्रम्

चिन्ताविष्टे जगन्नाथे रक्षामात्मनि चिन्तिते । तुष्टवुः पुण्डरीकाक्षं ऋषयो वीतमत्सराः । अर्थ्याभिर्वाग्भिरिष्टाभिरीश्वरं प्रणतास्तदा ॥ १॥ नमः प्रपन्नार्तिहरादिदेव जगत्पते कारण कारणात्मन् । स्वभावशुद्धान्तपुरोधसे नमः प्रसन्नगोविन्दगुनानुरूपिणे ॥ २॥ नमो नमो देव सनातनात्मने नमो नमो देव जनार्दनोऽसि । नमो नमो माधव भक्तवत्सल नमो नमो वामन वामनाकृते ॥ ३॥ नमः स्वभावप्रभव प्रभो हरे जयाच्युतानन्त जगन्निवास । जय प्रपन्नार्तिहरामरेश जयामरेशेश सनातनोऽसि ॥ ४॥ त्वयि प्रबुद्धे जगदादिदेव प्रबुद्धमासीत्सकलं सदैवम् । सुप्तोत्थिते देव जगन्निवास प्रबोधमयाति कथं नु लोकः ॥ ५॥ अनन्यतुल्या तव शक्तिरेषा दुर्बोधरूपा सकलैः सुरैरपि । अद्यापि तां वेत्तुमनन्यचेता ब्रह्मा समीष्टे नियतं जनार्दन ॥ ६॥ कथं वयं वेत्तुमलं जगत्पते मग्ना हि संसारमहार्णवे हरे । निरूपयन्तः सततं भवन्तं ज्ञातुं वयं देव यतामहे गुरो ॥ ७॥ तथापि सूक्ष्मं सकलेश्वरस्य जगत्पते ते सततं नियामक । स्थूलं तु नित्यं जगतां निवास तमर्चयामो वयमदिदेव ॥ ८॥ तमेव नित्यं जनकादायस्ते भजन्ति सन्तो भगवन् यतीन्द्राः । तमर्चयामः सततं पुरातन प्रभो प्रपन्नार्तिहरादिदेव ॥ ९॥ नताः स्म नित्यं जगतां निवास भवत्पदं यत्परमं सनातनम् । नताः स्म गोविन्द गुणानुरूप जगत्पते कारण कारणात्मन् ॥ १०॥ नमस्तुभ्यं नमस्तुभ्यं देव देव हरे हरे । नमो गोविन्द दुर्ज्ञेय योगिध्येयाङ्घ्रिपङ्कज ॥ ११॥ यत्पदं परमं नित्यं तव विष्णो हरे परम् । तं नमाम जगन्नाथ यत्तु पश्यन्ति योगिनः ॥ १२॥ नमो नमो हरे विष्णो नमो माधव केशव । यत्तु पश्यन्ति सततं योगिनो यतचेतसः ॥ १३॥ यत्प्राप्य न निवर्तन्ते तन्नमाम पदं तव । या माया तव गोविन्द दुर्ज्ञेया योगचिन्तकैः ॥ १४॥ तां नताः स्म जगन्नाथ यामश्रित्य स्थितिं स्थिताः । या रक्षति जगद्विष्णो तां नमाम हरे सदा ॥ १५॥ ऋग्यजुश्च तथा साम यं स्तौति सततं हरे । ऋग्यजुःसामभिर्मन्त्रैः स्तुतस्त्वं जगतीपते ॥ १६॥ द्वाभ्यां द्वाभ्यां त्रिभिश्चैव पञ्चभिश्च जनार्दन । पुनश्चैव जगन्नाथ द्वाभ्यां स्तौति जगद्पते ॥ १७॥ तं त्वां नताः स्म देवेश ऋग्यजुःसामरूपिणम् । अकारोऽसि जगन्नाथ तथैवोकारसंज्ञितः ॥ १८॥ मकारोऽसि तथा विष्णो नमस्ते प्रणवात्मक । उद्गीथाय नमो नित्यं नमो होत्रे जनार्दन ॥ १९॥ अध्वर्यवे नमस्तुभ्यं यष्टृरूपाय ते नमः । चातुर्होत्र नमस्तुभ्यं चातुर्वर्ण्यविभावन ॥ २०॥ जगत्सर्वं त्वमेवासि जगच्च त्वयि तिष्ठति । संहर्ता चासि जगतां तथा पाता जगत्पते ॥ २१॥ स्रष्टासि च तथा देव स्थितौ स्थितिमतां वर । वासुदेवेश भो विष्णो त्वयि सृष्टिं जगत्पते ॥ २२॥ नमः सर्वात्मने तुभ्यं सर्वभूतहृदि स्थित । सर्वात्मन् सर्वकर्तासि सर्वभावनभावन । नमः सर्वात्मने तुभ्यं भूयो भूयो नमो नमः ॥ २३॥ इति हरिवंशान्तर्गतं बदरीवासिभिः मुनिभिः कृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् । हरिवंश । अनुबन्ध - परिशिष्ट । अध्याय अ२७.४९॥ harivaMsha . anubandha - parishiShTa . adhyAya a27.49.. Proofread by PSA Easwaran
% Text title            : Badarivasibhih Munibhih Kritam Shri Krishna Stotram
% File name             : badarIvAsibhiHmunibhiHkRRitaMshrIkRRiShNastotram.itx
% itxtitle              : shrIkRiShNastotram (badarIvAsibhiH munibhiH kRitaM harivaMshAntargatam chintAviShTe jagannAthe rakShAmAtmani chintite)
% engtitle              : badarIvAsibhiH munibhiH kRRitaM shrIkRRiShNastotram
% Category              : vishhnu, vishnu, krishna, harivaMsha
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : harivaMsha | anubandha - parishiShTa | adhyAya a27.49||
% Indexextra            : (Scan
% Latest update         : September 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org