श्रीबद्रीनाथाष्टकम्
भू-वैकुण्ठकृतावासं देवदेवं जगत्पतिम् ।
चतुर्वर्गप्रदातारं श्रीबद्रीशं नमाम्यहम् ॥ १॥
तापत्रयहरं साक्षाच्छान्तिपुष्टिबलप्रदम् ।
परमानन्ददातारं श्रीबद्रीशं नमाम्यहम् ॥ २॥
सद्यः पापक्षयकरं सद्यः कैवल्यदायकम् ।
लोकत्रयविधातारं श्रीबद्रीशं नमाम्यहम् ॥ ३॥
भक्तवाञ्छाकल्पतरुं करुणारसविग्रहम् ।
भवाब्धिपारकर्तारं श्रीबद्रीशं नमाम्यहम् ॥ ४॥
सर्वदेवनुतं शश्वत् सर्वतीर्थपदं विभुम् ।
लीलयोपात्तवपुषं श्रीबद्रीशं नमाम्यहम् ॥ ५॥
अनादिनिधनं कालकालं भीमयमच्युतम् ।
सर्वाश्चर्यमयं देवं श्रीबद्रीशं नमाम्यहम् ॥ ६॥
गन्धमादनकूटस्थं नरनारायणात्मकम् ।
बदरीखण्डमध्यस्थं श्रीबद्रीशं नमाम्यहम् ॥ ७॥
शत्रूदासीनमित्राणां सर्वज्ञं समदर्शिनम् ।
ब्रह्मानन्दचिदाभासं श्रीबद्रीशं नमाम्यहम् ॥ ८॥
श्रीबद्रीशाष्टकमिदं यः पठेत्प्रयतः शुचिः ।
सर्वपापविनिमुक्तः स शान्तिं लभते पराम् ॥ ९॥
इति श्रीबद्रीनाथाष्टकं सम्पूर्णम् ॥
Proofread by PSA Easwaran