बलये प्रह्लादप्रोक्तं वामनप्रादुर्भाववर्णनम्

बलये प्रह्लादप्रोक्तं वामनप्रादुर्भाववर्णनम्

प्रह्लादः प्राह दैत्येन्द्रं बलिं वैरोचनिं तदा वत्स ज्ञातं मया सर्वं यदर्थं भवतामियम् । तेजसो हानिरुत्पन्ना तच्छृणु त्वमशेषतः ॥ १७॥ देवदेवो जगद्योनिरयोनिर्जगदादिकृत् । अनादिरादिर्विश्वस्य वरेण्यो वरदो हरिः ॥ १८॥ परापराणां परमः परः परवतामपि । प्रभुः प्रमाणं मानानां सप्तलोकगुरोर्गुरुः ॥ १९॥ स्थितिं कर्तुं जगन्नाथः सोऽदित्या गर्भतां गतः प्रभुः प्रभूणां परमः पराणामनादिमध्यो भगवाननन्तः । त्रैलोक्यमंशेन सनाथमेष कर्तुं महात्मादितिजोऽवतीर्णः ॥ २०॥ न यस्य रुद्रो न च पद्मयोनिर्नेन्द्रो न सूर्येन्दुमरीचिमिश्राः । जानन्ति दैत्याधिप यत्स्वरूपं स वासुदेवः कलयावतीर्णः ॥ २१॥ योऽसौ कलांशेन नृसिंहरूपी जघान पूर्वं पितरमशेषः । यः सर्वयोगीशमनोनिवासः स वासुदेवः कलयावतीर्णः ॥ २२॥ यमक्षरं वेदविदो विदित्वा विशन्ति तं ज्ञानविधूतपापाः । यस्मिन्प्रविष्टा न पुनर्भवन्ति तं वासुदेवं प्रणमामि देवम् ॥ २३॥ भूतान्यशेषाणि यतो भवन्ति यथोर्मयस्तोयनिधेरजस्रम् । लयं च यस्मिन्प्रलये प्रयान्ति तं वासुदेवं प्रणमाम्यचिन्त्यम् ॥ २४॥ न यस्य रूपं न बलं प्रभावो न च स्वभावः परमस्य पुंसः । विज्ञायते सर्वपितामहाद्यैस्तं वासुदेवं प्रणमाम्यचिन्त्यम् ॥ २५॥ रूपस्य चक्षुर्ग्रहणे त्वगेषा स्पर्शग्रहीत्री रसना रसस्य । श्रोत्रं च शब्दग्रहणे नराणां घ्राणं च गन्धग्रहणे नियुक्तम् ॥ २६॥ न घ्राणचक्षुःश्रवणादिभिर्यः सर्वेश्वरो वेदितुमव्ययात्मा । शक्यस्तमीड्यं मनसैव देवं ग्राह्यं नतोऽहं हरिमीशितारम् ॥ २७॥ येनैकदंष्ट्राग्रसमुद्धृतेयं धराचला धारयतीह सर्वम् । ग्रस्त्वा स शेते सकलं जगद्यस्तमीड्यमीशं प्रणतोऽस्मि विष्णुम् ॥ २८॥ शां!वतीर्णेन च येन गर्भे हृतानि तेजांसि महासुराणाम् । नमामि तं देवमनन्तमीशमशेषसंसारतरोः कुठारम् ॥ २९॥ देवो जगद्योनिरयं महात्मा स षोडशांशेन महासुरेन्द्र । सुरेन्द्रमातुर्जठरं प्रविष्टो हृतानि वस्तेन बले वपूंषि ॥ ३०॥ इति विष्णुधर्मेषु षट्सप्ततितमोऽध्यायान्तर्गतं बलये प्रह्लादप्रोक्तं वामनप्रादुर्भाववर्णनं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Balaye Prahladaproktam Vamana Pradurbhava Varnanam
% File name             : balayeprahlAdaproktaMvAmanaprAdurbhAvavarNanam.itx
% itxtitle              : vAmanaprAdurbhAvavarNanaM balaye prahlAda proktaM (viShNudharmopapurANAntargatam)
% engtitle              : balaye prahlAda proktaM vAmanaprAdurbhAvavarNanam
% Category              : vishhnu, dashAvatAra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : from Vishnudharma Upapurana. Adhyaya 76
% Indexextra            : (Text)
% Latest update         : December 25, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org