भीष्मकृतं २ श्रीकृष्णस्तोत्रम्

भीष्मकृतं २ श्रीकृष्णस्तोत्रम्

कृताञ्जलिः शुचिर्भूत्वा वाग्विदां प्रवरः प्रभुम् । भीष्मः परमधर्मात्मा वासुदेवमथास्तुवत् ॥ ९॥ आरिराधयिषुः कृष्णं वाचं जिगमिषामि याम् । तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः ॥ १०॥ शुचिः शुचिषदं हंसं तत्परः परमेष्ठिनम् । युक्त्वा सर्वात्मनाऽऽत्मानं तं प्रपद्ये प्रजापतिम् ॥ ११॥ यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च । गुणभूतानि भूतेशे सूत्रे मणिगणा इव ॥ १२॥ यस्मिन्नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति । सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि ॥ १३॥ हरिं सहस्रशिरसं सहस्रचरणेक्षणम् । प्राहुर्नारायणं देवं यं विश्वस्य परायणम् ॥ १४॥ अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् । गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि ॥ १५॥ यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च । गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु ॥ १६॥ चतुर्भिश्चतुरात्मानं सत्त्वस्थं सात्वतां पतिम् । यं दिव्यैर्देवमर्चन्ति गुह्यैः परमनामभिः ॥ १७॥ यं देवं देवकी देवी वसुदेवादजीजनत् । भौमस्य ब्रह्मणो गुप्त्यै दीप्तमग्निमिवारणिः ॥ १८॥ यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम् । इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मन्यवस्थितम् ॥ १९॥ पुराणे पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो युगादिषु । क्षये सङ्कर्षणः प्रोक्तस्तमुपास्यमुपास्महे ॥ २०॥ अतिवाय्विन्द्रकर्माणमतिसूर्याग्नितेजसम् । अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम् ॥ २१॥ यं वै विश्वस्य कर्तारं जगतस्तस्थुषां पतिम् । वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम् ॥ २२॥ हिरण्यवर्णं यं गर्भमदितिर्दैत्यनाशनम् । एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः ॥ २३॥ शुक्ले देवान्पितॄन्कृष्णे तर्पयत्यमृतेन यः । यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः ॥ २४॥ महतस्तमसः पारे पुरुषं ज्वलनद्युतिम् । यं ज्ञात्वा मृत्युमत्येति तस्मै ज्ञेयात्मने नमः ॥ २५॥ यं बृहन्तं बृहत्युक्थे यमग्नौ यं महाध्वरे । यं विप्रसङ्घा गायन्ति तस्मै वेदात्मने नमः ॥ २६॥ ऋग्यजुःसामधामानं दशार्धहविराकृतिम् । यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः ॥ २७॥ यः सुपर्णो यजुर्नाम छन्दोगात्रस्त्रिवृच्छिराः । रथन्तरबृहत्यक्षस्तस्मै स्तोत्रात्मने नमः ॥ २८॥ यः सहस्रसवे सत्रे जज्ञे विश्वसृजामृषिः । हिरण्यवर्णः शकुनिस्तस्मै हंसात्मने नमः ॥ २९॥ पदाङ्गं सन्धिपर्वाणं स्वरव्यञ्जनलक्षणम् । यमाहुरक्षरं नित्यं तस्मै वागात्मने नमः ॥ ३०॥ यश्चिनोति सतां सेतुमृतेनामृतयोनिना । धर्मार्थव्यवहाराङ्गैस्तस्मै सत्यात्मने नमः ॥ ३१॥ यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः । पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः ॥ ३२॥ यं तं व्यक्तस्थमव्यक्तं विचिन्वन्ति महर्षयः । क्षेत्रे क्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने नमः ॥ ३३॥ यं दृगात्मानमात्मस्थं वृतं षोडशभिर्गुणैः । प्राहुः सप्तदशं साङ्ख्यास्तस्मै साङ्ख्यात्मने नमः ॥ ३४॥ यं विनिद्रा जितश्वासाः सत्त्वस्थाः संयतेन्द्रियाः । ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥ ३५॥ अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः । शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः ॥ ३६॥ योऽसौ युगसहस्रान्ते प्रदीप्तार्चिर्विभावसुः । सम्भक्षयति भूतानि तस्मै घोरात्मने नमः ॥ ३७॥ सम्भक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत् । बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः ॥ ३८॥ सहस्रशिरसे तस्मै पुरुषायामितात्मने । चतुःसमुद्रपर्याययोगनिद्रात्मने नमः ॥ ३९॥ अजस्य नाभावध्येकं यस्मिन्विश्वं प्रतिष्ठितम् । पुष्करं पुष्कराक्षस्य तस्मै पद्मात्मने नमः ॥ ४०॥ यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु । कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥ ४१॥ युगेष्वावर्तते योंऽशैर्दिनर्त्वयनहायनैः । सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः ॥ ४२॥ ब्रह्म वक्त्रं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः । पादौ यस्याश्रिताः शूद्रास्तस्मै वर्णात्मने नमः ॥ ४३॥ यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः । सूर्यश्चक्षुर्दिशः श्रोत्रे तस्मै लोकात्मने नमः ॥ ४४॥ विषये वर्तमानानां यं तं वैशेषिकैर्गुणैः । प्राहुर्विषयगोप्तारं तस्मै गोप्त्रात्मने नमः ॥ ४५॥ अन्नपानेन्धनमयो रसप्राणविवर्धनः । यो धारयति भूतानि तस्मै प्राणात्मने नमः ॥ ४६॥ परः कालात्परो यज्ञात्परः सदसतोश्च यः । अनादिरादिर्विश्वस्य तस्मै विश्वात्मने नमः ॥ ४७॥ यो मोहयति भूतानि स्नेहरागानुबन्धनैः । सर्गस्य रक्षणार्थाय तस्मै मोहात्मने नमः ॥ ४८॥ आत्मज्ञानमिदं ज्ञानं ज्ञात्वा पञ्चस्ववस्थितम् । यं ज्ञानिनोऽधिगच्छन्ति तस्मै ज्ञानात्मने नमः ॥ ४९॥ अप्रमेयशरीराय सर्वतोऽनन्तचक्षुषे । अपारपरिमेयाय तस्मै चिन्त्यात्मने नमः ॥ ५०॥ जटिने दण्डिने नित्यं लम्बोदरशरीरिणे । कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः ॥ ५१॥ शूलिने त्रिदशेशाय त्र्यम्बकाय महात्मने । भस्मदिग्धोर्ध्वलिङ्गाय तस्मै रुद्रात्मने नमः ॥ ५२॥ पञ्चभूतात्मभूताय भूतादिनिधनात्मने । अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः ॥ ५३॥ यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः । यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः ॥ ५४॥ विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसम्भव । अपवर्गोऽसि भूतानां पञ्चानां परतः स्थितः ॥ ५५॥ नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु । नमस्ते दिक्षु सर्वासु त्वं हि सर्वपरायणम् ॥ ५६॥ नमस्ते भगवन्विष्णो लोकानां प्रभवाप्यय । त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः ॥ ५७॥ तेन पश्यामि ते दिव्यान्भावान्हि त्रिषु वर्त्मसु । तच्च पश्यामि तत्त्वेन यत्ते रूपं सनातनम् ॥ ५८॥ दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुन्धरा । विक्रमेण त्रयो लोकाः पुरुषोऽसि सनातनः ॥ ५९॥ अतसीपुष्पसङ्काशं पीतवाससमच्युतम् । ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम् ॥ ६०॥ यथा विष्णुमयं सत्यं यथा विष्णुमयं हविः । यथा विष्णुमयं सर्वं पाप्मा मे नश्यतां तथा ॥ ६१॥ त्वां प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे । यच्छ्रेयः पुण्डरीकाक्ष तद्ध्यायस्व सुरोत्तम ॥ ६२॥ इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः । वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ॥ ६३॥ इति महाभारते शान्तिपर्वणि ४७ अध्यायान्तर्गतं भीष्मकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् । महाभारत । शान्तिपर्व । अध्याय ४७/१०-६३॥ mahAbhArata . shAntiparva . adhyAya 47/10-63.. Proofread by PSA Easwaran
% Text title            : Bhishmakritam 2 Shri Krishna Stotram
% File name             : bhIShmakRRitaM2shrIkRRiShNastotram.itx
% itxtitle              : shrIkRiShNastotram (bhIShmakRitaM 2 mahAbhAratAntargatam kRitAnjaliH shuchirbhUtvA vAgvidAM pravaraH prabhum)
% engtitle              : bhIShmakRRitaM 2 shrIkRRiShNastotram
% Category              : vishhnu, vishnu, krishna, mahAbhArata, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : mahAbhArata | shAntiparva | adhyAya 47/10-63||
% Indexextra            : (Scans 1, 2, 3, 4, 5, Gujarati, Bengali, Hindi)
% Latest update         : November 2, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org